स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ५१
।। सूत उवाच ।। ।।
अथातः संप्रवक्ष्यामि सेतुयात्राक्रमं द्विजाः ।।
यं श्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ।। १ ।।
स्नात्वाचम्य विशुद्धात्मा कृतनित्यविधिः सुधीः ।।
रामनाथस्य तुष्ट्यर्थं प्रीत्यर्थं राघवस्य च ।। २ ।।
भोजयित्वा यथाशक्ति ब्राह्मणान्वेदपारगान् ।।
भस्मोद्धूलितसर्वांगस्त्रिपुंड्रांकितमस्तकः ।। ३ ।।
गोपीचन्दनलिप्तो वा स्वभालेऽप्यूर्ध्वपुंड्रकः ।।
रुद्राक्ष मालाभरणः सपवित्रकरः शुचिः ।। ४ ।।
सेतुयात्रां करिष्येऽहमिति संकल्प्य भक्तितः ।।
स्वगृहात्प्रव्रजेन्मौनी जपन्नष्टाक्षरं मनुम् ।। ५ ।।
पंचाक्षरं नाममंत्रं जपेन्नियतमानसः ।।
एकवारं हविष्याशी जितक्रोधो जितेंद्रियः ।। ६ ।।
पादुकाछत्ररहितस्तांबूलपरिवर्जितः ।।
तैलाभ्यंगविहीनश्च स्त्रीसंगादिविवर्जितः ।।७।।
शौचाद्याचारसंयुक्तः सन्ध्योपास्तिपरायणः ।।
गायत्र्युपास्ति कुर्वाणस्त्रिसंध्यं रामचिंतकः ।। ८ ।।
मध्येमार्गं पठन्नित्यं सेतुमाहात्म्यमादरात् ।।
पठन्रामायणं वापि पुराणांतरमेव वा ।। ९ ।।
व्यर्थवाक्यानि संत्यज्य सेतुं गच्छेद्विशुद्धये ।।
प्रतिग्रहं न गृह्णीयान्नाचारांश्च परित्यजेत् ।। 3.1.51.१० ।।
कुर्यान्मार्गे यथाशक्ति शिवविष्ण्वादिपूजनम् ।।
वैश्वदेवादिकर्माणि यथाशक्ति समाचरेत् ।। ११ ।।
ब्रह्मयज्ञमुखान्धर्मा न्प्रकुर्याच्चाग्निपूजनम् ।।
अतिथिभ्योऽन्नपानादि संप्रदद्याद्यथाबलम् ।। १२ ।।
दद्याद्भिक्षां यतिभ्योऽपि वित्तशाठ्यं परित्यजन् ।।
शिवविष्ण्वादि नामानि स्तोत्राणि च पठेत्पथि ।। १३ ।।
धर्ममेव सदा कुर्यान्निषिद्धानि परित्यजेत् ।।
इत्यादिनियमोपेतः सेतुमूलं ततो व्रजेत् ।। १४ ।।
पाषाणं प्रथमं दद्यात्तत्र गत्वा समाहितः ।।
तत्रावाह्य समुद्रं च प्रणमेत्तदनंतरम् ।। १५ ।।
अर्घ्यं दद्यात्समुद्राय प्रार्थयेत्तदनंतरम्।।
अनुज्ञां च ततः कुर्यात्ततः स्नायान्महोदधौ ।। १६ ।।
मुनीनामथ देवानां कपीनां पितृणां तथा ।।
प्रकुर्यात्तर्पणं विप्रा मनसा संस्मरन्हरिम् ।। १७ ।। ।।
।। पाषाणसंख्या ।। ।।
पाषाणसप्तकं दद्यादेकं वा विप्रपुंगवाः ।।
पाषाणदानात्सफलं स्नानं भवति नान्यथा ।। १८ ।।
।। पाषाणदानमंत्रः ।। ।।
पिप्पलादसमुत्पन्ने कृत्ये लोकभयंकरे ।।
पाषाणं ते मया दत्तमाहारार्थं प्रकल्प्यताम् ।। १९ ।।
।। सान्निध्यप्रार्थनामन्त्रः ।। ।।
विश्वार्चि त्वं घृताचि त्वं विश्वयाने विशांपते ।।
सान्निध्यं कुरु मे देव सागरे लवणांभसि ।। 3.1.51.२० ।।
।। नमस्कारमन्त्रः ।। ।।
नमस्ते विश्वगुप्ताय नमो विष्णो ह्यपांपते ।।
नमो हिरण्यशृंगाय नदीनां पतये नमः ।।
समुद्राय वयूनाय प्रोच्चार्य प्रणमेत्तथा ।। २१ ।।
।। अर्घ्यमन्त्रः ।। ।।
सर्वरत्नमय श्रीमन्सर्वरत्नाकराकर ।।
सर्वरत्नप्रधानस्त्वं गृहाणार्घ्यं महोदधे ।। २२ ।।
।। अनुज्ञापनमंत्रः ।। ।।
अशेषजगदाधार शंखचक्रगदा धर ।।
देहि देव ममानुज्ञां युष्मत्तीर्थनिषेवणे ।। २३ ।।
।। प्रार्थनामंत्रः ।। ।।
प्राच्यां दिशि च सुग्रीवं दक्षिणस्यां नलं स्मरेत् ।। २४ ।।
प्रतीच्यां मैंदनामानमुदीच्यां द्विविदं तथा ।।
रामं च लक्ष्मणं चैव सीतामपि यशस्विनीम् ।। २५ ।।
अंगदं वायुतनयं स्मरेन्मध्ये विभीषणम् ।।
पृथिव्यां यानि तीर्थानि प्राविशंस्त्वा महोदधे ।। २६ ।।
स्नानस्य मे फलं देहि सर्वस्मात्त्राहि मांहसः ।।
हिरण्यशृंगमित्याभ्यां नाभ्यां नारायणं स्मरेत् ।। २७ ।।
ध्यायन्नारायणं देवं स्नानादिषु च कर्मसु ।।
ब्रह्मलोकमवाप्नोति जायते नेह वै पुनः ।। २८ ।।
सर्वेषामपि पापानां प्रायश्चित्तं भवेत्ततः ।।
प्रह्लादं नारदं व्यासमंबरीषं शुकं तथा ।।
अन्यांश्च भगवद्भक्तांश्चिंतयेदेकमानसः ।। २९ ।।
।। स्नानमन्त्रः ।। ।।
वेदादिर्यो वेदवसिष्ठयोनिः सरित्पतिः सागररत्नयोनिः ।।
अग्निश्च तेजश्च इलां च तेजो रेतोधा विष्णुरमृतस्य नाभिः ।। 3.1.51.३० ।।
इदं ते अन्याभिरसमानमद्भिर्याः काश्च सिंधुं प्रविशंत्यापः ।।
सर्पो जीर्णामिव त्वचं जहामि पापं शरीरात्सशिरस्कोऽभ्युपेत्य ।।३१।।
समुद्राय वयूनाय नमस्कुर्यात्पुनर्द्विजाः ।।
सर्वतीर्थमयं शुद्धं नदीनां पतिमंबुधिम् ।। ३२।।
द्वौ समुद्राविति पुनः प्रोच्चार्य स्नानमाचरेत् ।।
ब्रह्मांडोदरतीर्थानि करस्पृष्टानि ते रवे ।। ३३ ।।
तेन सत्येन मे सेतौ तीर्थं देहि दिवाकर ।।
प्राच्यां दिशि च सुग्रीवमित्यादिक्रमयोगतः ।।३४।।
स्मृत्वा भूयो द्विजाः सेतौ तृतीयं स्नानमाचरेत् ।।
देवीपत्तनमारभ्य प्रव्रजेद्यदि मानवः ।। ३५ ।।
तदा तु नवपाषाणमध्ये सेतौ विमुक्तिदे ।।
स्नानमंबुनिधौ कुर्यात्स्वपापौघापनुत्तये ।। ३६ ।।
दर्भशय्यापदव्या चेद्गच्छे त्सेतुं विमुक्तिदम् ।।
तदा तत्रोदधावेव स्नानं कुर्याद्विमुक्तये ।। ३७ ।।
।। तर्पणविधिः ।। ।।
पिप्पलादं कविं कण्वं कृतांतं जीवितेश्वरम् ।।
मन्युं च कालरात्रिं च विद्यां चाहर्गणेश्वरम् ।। ३८ ।।
वसिष्ठं वामदेवं च पराशरमुमापतिम् ।।
वाल्मिकिं नारदं चैव वालखिल्यान्मुनींस्तथा ।। ३९ ।।
नलं नीलं गवाक्षं च गवयं गन्धमादनम् ।।
मैंदं च द्विविदं चैव शरभं चर्षभं तथा ।। 3.1.51.४० ।।
सुग्रीवं च हनूमंतं वेगदर्शनमेव च ।।
रामं च लक्ष्मणं सीतां महाभागां यशस्विनीम् ।। ४१ ।।
त्रिः कृत्वा तर्पयेदेतान्मंत्रानुक्त्वा यथाक्रमम् ।।
विभोश्च तत्तन्नामानि चतुर्थ्यंतानि वै द्विजाः ।।४२।।
देवा नृषीन्पितॄंश्चैव विधिवच्च तिलोदकैः।।
द्वितीयांतानि नामानि चोक्त्वा तर्पयेद्द्विजाः ।। ४३।।
तर्पयेत्सपवित्रस्तु जले स्थित्वा प्रसन्नधीः ।।
तर्पणात्सर्वतीर्थेषु स्नानस्य फलमाप्नुयात् ।। ४४ ।।
एवमेतांस्तर्पयित्वा नमस्कृत्योत्तरेज्जलात् ।।
आर्द्रवस्त्रं परित्यज्य शुष्कवासःसमावृतः ।। ४५ ।।
आचम्य सपवित्रश्च विधिवच्छ्राद्धमाचरेत् ।।
पिंडान्पितृभ्यो दद्याच्च तिलतण्डुलकैस्तथा ।। ४६ ।।
एतच्छ्राद्धमशक्तस्य मया प्रोक्तं द्विजोत्तमाः ।।
धनाढ्योऽन्नेन वै श्राद्धं षड्रसेन समाचरेत् ।। ४७ ।।
गोभूतिलहिरण्यादिदानं कुर्यात्समृद्धिमान् ।।
रामचन्द्रधनुष्कोटावेवमेव समाचरेत् ।। ४८ ।।
पाषाणदानपूर्वाणि तर्पणांतानि वै द्विजाः ।।
सेतुमूले यथैतानि विधिवद्व्यतनोद्द्विजाः ।। ४९ ।।
चक्रतीर्थं ततो गत्वा तत्रापि स्नानमाचरेत् ।।
पश्येच्च सेत्वधिपतिं देवं नारायणं हरिम् ।। 3.1.51.५० ।।
गच्छन्पश्चिममार्गेण तत्रत्ये चक्रतीर्थके ।।
स्नात्वा दर्भशयं देवं प्रपश्येद्भक्तिपूर्वकम् ।। ५१ ।।
कपितीर्थं ततः प्राप्य तत्रापि स्नानमाचरेत् ।।
सीताकुंडं ततः प्राप्य तत्रापि स्नानमाचरेत् ।। ५२ ।।
ऋणमोचनतीर्थं तु ततः प्राप्य महाफलम् ।।
स्नात्वा प्रणम्य रामं च जानकीरमणं प्रभुम् ।। ५३ ।।
गच्छेल्लक्ष्मणतीर्थं तु कण्ठादुपरि वापनम् ।।
कृत्वा स्नायाच्च तत्रापि दुष्कृतान्यपि चिन्तयन् ।। ५४ ।।
ततः स्नात्वा रामतीर्थे ततो देवालयं व्रजेत् ।।
स्नात्वा पापविनाशने च गंगायमुनयोस्तथा ।। ५५ ।।
सावित्र्यां च सरस्वत्यां गायत्र्यां च द्विजोत्तमाः ।।
स्नात्वा च हनुमत्कुण्डे ततः स्नायान्महाफले ।।
ब्रह्मकुण्डं ततः प्राप्य स्नायाद्विधिपुरःसरम् ।। ५६ ।।
नागकुण्डं ततः प्राप्य सर्वपापविनाशनम् ।।
स्नानं कुर्यान्नरो विप्रा नरकक्लेशनाशनम् ।।
गंगाद्याः सरितः सर्वास्तीर्थानि सकलान्यपि ।। ५७ ।।
सर्वदा नागकुंडे तु वसंति स्वाघशांतये ।।
अनंतादिमहानागैरष्टाभिरिदमुत्तमम् ।। ५८ ।।
कल्पितं मुक्तिदं तीर्थं रामसेतौ शिवंकरम् ।।
अगस्त्यकुण्डं संप्राप्य ततः स्नायादनुत्तमम् ।। ५९ ।।
अथाग्नितीर्थमासाद्य सर्वदुष्कर्मनाशनम् ।।
स्नात्वा संतर्प्य विधिवच्छ्राद्धं कुर्यात्पितॄन्स्मरन् ।। 3.1.51.६० ।।
गोभूहिरण्य धान्यादि ब्राह्मणेभ्यः स्वशक्तितः ।।
दत्त्वाग्नितीर्थतीरे तु सर्वपापैः प्रमुच्यते ।। ६१ ।।
अथवा यानि तीर्थानि चक्रतीर्थमुखानि वै ।।
अनुक्रांतानि विप्रेंद्राः सर्वपापहराणि तु ।। ६२ ।।
स्नायात्तदनुपूर्वेण स्नायाद्वापि यथारुचि ।।
स्नात्वैवं सर्वतीर्थेषु श्राद्धादीनि समाचरेत् ।। ६३ ।।
पश्चाद्रामेश्वरं प्राप्य निषेव्य परमेश्वरम् ।।
सेतुमाधवमागत्य तथा रामं च लक्ष्मणम् ।। ६४ ।।
सीतां प्रभंजनसुतं तथान्यान्कपिसत्तमान् ।।
तत्रत्य सर्वतीर्थेषु स्नात्वा नियमपूर्वकम् ।। ६५ ।।
प्रणम्य रामनाथं च रामचंद्रं तथापरान् ।।
नमस्कृत्य धनुष्कोटिं ततः स्नातुं व्रजेन्नरः ।। ६६ ।।
तत्र पाषाण दानादिपूर्वोक्तनियमं चरेत् ।।
धनुष्कोटौ च दानानि दद्याद्वित्तानुसारतः ।। ६७ ।।
क्षत्रं गाश्च तथान्यानि वस्त्राण्यन्यानि चादरात् ।।
ब्राह्मणेभ्यो वेदविद्भ्यो दद्याद्वित्तानुसारतः ।। ६८ ।।
कोटितीर्थं ततः प्राप्य स्नायान्नियमपूर्वकम् ।।
ततो रामेश्वरं देवं प्रणमेद्वृषभध्वजम् ।। ६९ ।।
विभवे सति विप्रेभ्यो दद्यात्सौवर्णदक्षिणाम्।।
तिलान्धान्यं च गां क्षेत्रं वस्त्राण्यन्यानि तंडुलान् ।। 3.1.51.७० ।।
दद्याद्वित्तानुसारेण वित्तलोभविवर्जितः ।।
धूपं दीपं च नैवेद्यं पूजोपकरणानिच ।। ७१ ।।
रामेश्वराय देवाय दद्याद्वित्तानुसारतः ।।
स्तुत्वा रामेश्वरं देवं प्रणम्य च सभक्तिकम् ।। ७२ ।।
अनुज्ञाप्य ततो गच्छत्सेतुमाधवसंनिधिम् ।।
तस्मै दत्त्वा च धूपादीननुज्ञाप्य च माधवम् ।। ७३ ।।
पूर्वोक्तनियमोपेतः पुनरायात्स्वकं गृहम् ।।
ब्राह्मणान्भोजयेदन्नैः षड्रसैः परिपूरितैः ।। ७४ ।।
तेनैव रामनाथोऽस्मै प्रीतोऽभीष्टं प्रयच्छति ।।
नारकं चास्य नास्त्येव दारिद्र्यं च विनश्यति ।। ।। ७५ ।।
संततिर्वर्धते तस्य पुरुषस्य द्विजोत्तमाः ।।
संसारमवधूयाशु सायुज्यमपि यास्यति ।। ७६ ।।
अत्रागन्तुमशक्तश्चेच्छ्रुतिस्मृत्यागमेषु यत् ।।
ग्रंथजातं महापुण्यं सेतुमाहात्म्यसूचकम् ।। ७७ ।।
तं ग्रंथं पाठयेद्विप्रा महापातकनाशनम् ।।
इदं वा सेतुमाहात्म्यं पठेद्भक्तिपुरःसरम् ।। ७८ ।।
सेतुस्नानफलं पुण्यं तेनाप्नोति न संशयः ।।
अंधपंग्वादिविषयमेतत्प्रोक्तं मनीषिभिः ।। ७९ ।।
।। श्रीसूत उवाच ।। ।।
एवं वः कथितो विप्राः सेतुयात्राक्रमो द्विजाः ।।
एतत्पठन्वा शृण्वन्वा सर्वदुःखाद्विमुच्यते ।। 3.1.51.८० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये यात्राक्रमवर्णनंनामैकपंचाशत्तमोऽध्यायः ।। ५१ ।।