स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ०१
अथ ब्राह्मखण्डे प्रथमं सेतुमाहात्म्यम् ।। ( ३-१) ।।
1
।।श्रीगणेशाय नमः ।।
श्रीवेदव्यासायनमः ।।
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये।।१ ।।
नैमिषारण्यनिलया ऋषयः शौनकादयः ।।
अष्टांगयोगनिरता ब्रह्मज्ञानैकतत्पराः ।। १ ।।
मुमुक्षवो महात्मानो निर्ममा ब्रह्मवादिनः ।।
धर्मज्ञा अनसूयाश्च सत्यवतपरायणाः ।। २ ।।
जितेंद्रिया जितक्रोधाः सर्वभूतदयालवः ।।
भक्त्या परमया विष्णुमर्चयंतः सनातनम् ।।३ ।।
तपस्तेपुर्महापुण्ये नैमिषे मुक्तिदायिनि ।।
एकदा ते महात्मानः समाजं चक्रुरुत्तमम्।। ४ ।।
कथयंतो महापुण्याः कथाः पापप्रणाशिनी ।।
भुक्तिमुक्त्योरुपायं च जिज्ञासंतः परस्परम् ।। ५ ।।
षड्विंशतिसहस्राणामृषीणां भावितात्मनाम् ।।
तेषां शिष्यप्रशिष्याणां संख्या कर्तुं न शक्यते।। ६ ।।
अत्रांतरे महाविद्वान्व्यासशिष्यो महामुनिः ।।
आगमन्नैमिषारण्यं सूतः पौराणिकोत्तमः ।। ७ ।।
तमागतं मुनिं दृष्ट्वा ज्वलंतमिव पावकम् ।।
अर्घ्याद्यैः पूजयामासुर्मुनयः। शौनकादयः ।। ८ ।।
सुखोपविष्टं तं सूतमासने परमे शुभे ।।
पप्रच्छुः परमं गुह्यं लोकानुग्रहकांक्षया ।। ९ ।।
सूत धर्मार्थतत्त्वज्ञ स्वागतं मुनिपुंगव ।।
श्रुतवांस्त्वं पुराणानि व्यासात्सत्यवतीसुतात् ।। 3.1.1.१० ।।
अतः सर्वपुराणानामर्थज्ञोऽसि महामुने ।।
कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले ।। ११ ।।
कथं वा लप्स्यते मुक्तिर्जीवानां भवसागरात् ।।
कथं हरे हरौ वापि नृणां भक्तिः प्रजायते ।। १२ ।।
केन सिध्येत च फलं कर्मणास्त्रिविधा त्मनः ।।
एतच्चान्यच्च तत्सर्वं कृपया वद सूतज ।। १३ ।।
ब्रूयुः स्निग्धाय शिष्याय गुरवो गुह्यमप्युत ।।
इति पृष्टस्तदा सूतो नैमिषारण्यवासिभिः ।। ।। १४ ।।
वक्तुं प्रचक्रमे नत्वा व्यासं स्वगुरुमादितः ।।
श्रीसूत उवाच ।। ।।
सम्यक्पृष्टमिदं विप्रा युष्माभिर्जगतो हितम् ।। १५ ।।
रहस्यमे तद्युष्माकं वक्ष्यामि शृणुतादरात् ।।
मया नोक्तमिदं पूर्वं कस्यापि मुनिपुंगवाः ।। १६ ।।
मनो नियम्य विप्रेंद्राः शृणुध्वं भक्तिपूर्वकम् ।।
अस्ति रामेश्वरं नाम रामसेतौ पवित्रितम् ।। १७ ।।
क्षेत्राणामपि सर्वेषां तीर्थानामपि चोत्तमम् ।।
दृष्टमात्रे रामसेतौ मुक्तिः संसारसागरात् ।। १८ ।।
हरे हरौ च भक्तिः स्यात्तथा पुण्यसमृद्धिता ।।
कर्मणस्त्रिविधस्यापि सिद्धिः स्यान्नात्र संशयः ।। १९ ।।
यो नरो जन्ममध्ये तु सेतुं भक्त्यावलोकयेत् ।।
तस्य पुण्यफलं वक्ष्ये शृणुध्वं मुनिपुंगवाः ।।3.1.1.२० ।।
मातृतः पितृतश्चैव द्विकोटिकुलसंयुतः ।।
निर्विश्य शंभुना कल्पं ततो मोक्षं समश्नुते।। २१ ।।
गण्यंते पांसवो भूमेर्गण्यंते दिवि तारकाः ।।
सेतुदर्शनजं पुण्यं शेषेणापि न गण्यते ।। २२ ।।
समस्तदेवतारूपः सेतुवंधः प्रकीर्तितः ।।
तद्दर्शनवतः पुंसः कः पुण्यं गणितुं क्षमः ।। २३ ।।
सेतुं दृष्ट्वा नरो विप्राः सर्वयागकरः स्मृतः ।।
स्नातश्च सर्वतीर्थेषु तपोऽतप्यत चाखिलम् ।।२४।। Esoteric aspect of setu
सेतुं गच्छेति यो ब्रूयाद्यं कं वापि नरं द्विजाः ।।
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषणः ।। २५ ।।
सेतुस्नानकरो मर्त्यः सप्तकोटिकुलान्वितः ।।
संप्राप्य विष्णुभवनं तत्रैव परिमुच्यते ।। २६ ।।
सेतुं रामेश्वरं लिंगं गंधमादनपर्वतम् ।।
चिंतयन्मनुजः सत्यं सर्वपापैः प्रमुच्यते ।। २७ ।।
मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः ।।
संप्राप्य विष्णुभवनं तत्रैव परिमुच्यते ।।
कल्पत्रयं शंभुपदे स्थित्वा तत्रैव मुच्यते ।। २८ ।।
मूषावस्थां वसाकूपं तथा वैतरणी नदीम् ।।
श्वभक्षं मूत्रपानं च सेतुस्नायी न पश्यति ।। २९ ।।
तप्तशूलं तप्तशिलां पुरी षह्रदमेव च ।।
तथा शोणितकूपं च सेतुस्नायी न पश्यति ।। 3.1.1.३० ।।
शाल्मल्यारोहणं रक्तभोजनं कृमिभोजनम् ।।
स्वमांसभोजनं चैव वह्निज्वालाप्रवेशनम् ।। ३१ ।।
शिलावृष्टिं वह्निवृष्टिं नरकं कालसूत्रकम् ।।
क्षारोदकं चोष्णतोयं नेयात्सेत्ववलोककः ।। ३२ ।।
सेतुस्नायी नरो विप्राः पंचपातकवानपि ।।
मातृतः पितृतश्चैव शतकोटिकुलान्वितः ।। ३३ ।।
कल्पत्रयं विष्णुपदे स्थित्वा तत्रैव मुच्यते ।।
अधःशिरःशोषणं च नरकं क्षारसेवनम् ।। ३४ ।।
पाषाणयन्त्रपीडां च मरुत्प्रपतनं तथा ।।
पुरीषलेपनं चैव तथा क्रकचदारणम् ।। ३५ ।।
पुरीषभोजनं रेतःपानं संधिषु दाहनम् ।।
अंगारशय्याभ्रमणं तथा मुसलमर्द्दनम् ।। ३६ ।।
एतानि नरकाण्यद्धा सेतुस्नायी न पश्यति ।।
सेतु स्नानं करिष्येऽहमिति बुद्ध्या विचिंतयन् ।। ३७ ।।
गच्छेच्छतपदं यस्तु स महापातकोऽपि सन् ।।
बहूनां काष्ठयंत्राणां कर्षणं शस्त्रभेदनम्।। ३८ ।।
पतनोत्पतनं चैव गदादण्डनिपीडनम् ।।
गजदन्तैश्च हननं नानाभुजगदंशनम् ।। ३९ ।।
धूमपानं पाशबन्धं नानाशूलनिपीडनम् ।।
मुखे च नासिकायां च क्षारोदकनिषेचनम् ।। 3.1.1.४० ।।
क्षारांबुपानं नरकं तप्तायः सूचिभक्षणम् ।।
एतानि नरकान्यद्धा न याति गतपातकः ।। ४१ ।।
क्षारांबुपूर्णरंध्राणां प्रवेशं मलभोजनम् ।।
स्नायुच्छेदं स्नायुदाहमस्थिभेदनमेव च ।। ४२ ।।
श्लेष्मादनं पित्तपानं महातिक्तनिषेवणम् ।।
अत्युष्ण तैलपानं च पानं क्षारोदकस्य च ।। ४३ ।।
कषायोदकपानं च तप्तपाषाणभोजनम् ।।
अत्युष्णसिकतास्नानं तथा दशनमर्दनम् ।। ४४ ।।
तप्तायःशयनं चैव संतप्तांबुनिषेचनम् ।।
सूचिप्रक्षेपणं चैव नेत्रयोर्मुखसंधिषु ।। ४५ ।।
शिश्ने सवृषणे चैव ह्ययोभारस्य बन्धनम् ।।
वृक्षाग्रात्पतनं चैव दुर्गंधपरिपूरिते ।। ४६ ।।
तीक्ष्णधारास्त्रशय्यां च रेतःपानादिकं तथा ।।
इत्यादि नरकान्घोरासेतुस्नायी न पश्यति ।। ४७ ।।
सेतुसैकतमध्ये यः शेते तत्पांसुकुंठितः ।।
यावन्तः पांसवो लग्नास्तस्यांगे विप्रसत्तमाः ।। ४८ ।।
तावतां ब्रह्महत्यानां नाशः स्यान्नात्र संशयः ।।
सेतुमध्यस्थ वातेन यस्यांगं स्पृश्यतेऽखिलम् ।। ४९ ।।
सुरापानायुतं तस्य तत्क्षणादेव नश्यति ।।
वर्तंते यस्य केशास्तु वपनात्सेतुमध्यतः ।। 3.1.1.५० ।।
गुरुतल्पा युतं तस्य तत्क्षणादेव नश्यति ।।
यस्यास्थि सेतुमध्ये तु स्थापितं पुत्रपौत्रकैः ।।
स्वर्णस्तेयायुतं तस्य तत्क्षणादेव नश्यति ।। ५१ ।।
स्मृत्वा यं सेतुमध्ये तु स्नानं कुर्याद्द्विजोत्तमाः ।।
महापातकिसंसर्गदोषस्तस्य लयं व्रजेत् ।। ५२ ।।
मार्गभेदी स्वार्थपाकी यतिब्राह्मणदूषकः ।।
अत्याशी वेदविक्रेता पंचैते ब्रह्मघातकाः ।। ५३ ।।
ब्राह्मणान्यः समाहूय दास्यामीति धनादिकम् ।।
पश्चान्नास्तीति यो ब्रूते ब्रह्महा सोपि कीर्तितः ।। ५४ ।।
परिज्ञाय यतो धर्मांस्तस्मै यो द्वेषमाचरेत् ।।
अवजानाति वा विप्रान्ब्रह्महा सोपि कीर्तितः ।। ५५ ।।
जलपानार्थमायातं गोवृन्दं तु जलाशये ।।
निवारयति यो विप्रा ब्रह्महा सोपि कीर्तितः ।। ५६ ।।
सेतुमेत्य तु ते सर्वे मुच्यंते दोषसंचयैः ।।
ब्रह्मघातकतुल्या ये संति चान्ये द्विजोत्तमाः ।। ।। ५७ ।।
ते सर्वे सेतुमागत्य मुच्यंते नात्र संशयः ।।
औपासनपरित्यागी देवतान्नस्य भोजकः ।।५८।।
सुरापयोषित्संसर्गी गणिकान्नाशनस्तथा ।।
गणान्नभोजकश्चैव पतितान्नरतश्च यः ।। ५९ ।।
एते सुरापिनः प्रोक्ताः सर्वकर्मबहिष्कृताः ।।
सेतुस्नानेन मुच्यंते ते सर्वे हतकिल्बिषाः ।। 3.1.1.६० ।।
सुरापतुल्या ये चान्ये मुच्यंते सेतुमज्जनात् ।।
कन्दमूलफलानां च कस्तूरीपट्टवाससाम् ।। ६१ ।।
पयश्चंदनकर्पूरक्रमुकाणां तथैव च ।।
मध्वाज्यता म्रकांस्यानां रुद्राक्षाणां तथैव च ।। ६२ ।।
चोरकास्तु परिज्ञेया सुवर्णस्तेयिनः समाः ।।
ते सेतुक्षेत्रमागत्य मुच्यन्ते नात्र संशयः ।। ६९ ।।
अन्ये च स्तेयिनः सर्वे सेतुस्नानेन वै द्विजाः ।।
मुच्यंते सर्वपापेभ्यो नात्र कार्या विचारणा ।। ६४ ।।
भगिनीं पुत्रभार्यां च तथैव च रजस्वलाम् ।।
भ्रातृभार्यां मित्रभार्यां मद्यपां च परस्त्रियम् ।।६५।।
हीनस्त्रियं च विश्वस्तां योऽभिगच्छति रागतः ।।
गुरुतल्पी स विज्ञेयः सर्वकर्मबहिष्कृतः ।।६६।।
एते चान्ये च ये संति गुरुतल्पगतुल्यकाः ।।
ते सर्वे प्रविमुच्यंते सेतुस्नानेन वै द्विजाः ।। ६७ ।।
एतैः संसर्गिणो विप्रा ये चान्ये संति पापिनः ।।
सेतुस्नानेन महता तेऽपि मोक्षमवाप्नुयुः।।६९।।
यागं विना देवलोके घृताचीमेनकादिभिः।।
संभोगकामिनो विप्राः स्नातुं संतावघापहे ।। ६९ ।।
अनिषेव्य रविं वह्निमनुपास्य परान्सुरान् ।।
शुभकामी जनः सेतौकुर्यात्स्नानं सभक्तिकम् ।।3.1.1.७।।।
तिलान्भूमिं सुवर्णं च धान्यं तंदुलमेव च ।।
अदत्त्वेच्छंति ते स्वर्गं स्नातुं सेतौ तु ते द्विजाः ।।७१।।
उपवासैर्व्रतैः कृत्स्नैरसंताप्य निजां तनुम् ।।
स्वर्गाभिलाषिणः पुंसः स्नांतु सेतौ विमुक्तिदे।।७२।।
सेतुस्नानं मोक्षदं हि मनःशुद्धिप्रदं तथा ।।
जपाद्धोमात्तथा दानाद्यागाच्च तपसोऽपि च ।। ७३ ।।
सेतुस्नानं विशिष्टं हि पुराणे परिपठ्यते ।।
अकामनाकृतं स्नानं सेतौ पापविनाशने ।। ७४ ।।
अपुनर्भवदं प्रोक्तं सत्यमुक्तं द्विजोत्तमाः ।।
यः संपदं समुद्दिश्य स्नाति सेतौ नरो मुदा ।। ७५ ।।
स संपदमवाप्नोति विपुलां द्विजपुंगवाः ।।
शुद्ध्यर्थं स्नाति चेत्सेतौ तदा शुद्धिमवाप्नुयात् ।। ७६ ।।
रत्यर्थं यदि च स्नायादप्सरोभिर्नरो दिवि ।।
तदा रतिमवाप्नोति स्वर्गलोकेऽमरीजनैः ।। ७७ ।।
मुक्त्यर्थं यदि च स्नायात्सेतौ मुक्तिप्रदायिनि ।।
तदा मुक्तिमवाप्नोति पुनरावृत्तिवर्जिताम् ।।७८।।
सेतुस्नानेन धर्मः स्यात्सेतुस्नानादघक्षयः ।।
सेतुस्नानं द्विजश्रेष्ठाः सर्वकामफलप्रदम् ।। ७९ ।।
सर्वव्रताधिकं पुण्यं सर्वयज्ञोत्तरं स्मृतम् ।।
सर्वयोगाधिकं प्रोक्तं सर्व तीर्थाधिकं स्मृतम् ।। 3.1.1.८० ।।
इंद्रादिलोकभोगेषु रागो येषां प्रवर्तते ।।
स्नातव्यं तैर्द्विजश्रेष्ठाः सेतौ रामकृते सकृत् ।। ८१ ।।
ब्रह्मलोके च वैकुण्ठे कैलासेऽपि शिवालये ।।
रंतुमिच्छा भवेद्येषां ते सेतौ स्नांतु सादरम् ।। ८२ ।।
आयुरारोग्यसंपत्तिमतिरूपगुणाढ्यताम् ।।
चतुर्णामपि वेदानां सांगानां पारगामिनाम् ।। ८३ ।।
सर्वशास्त्राधिगंतृत्वं सर्वमंत्रेष्वभिज्ञताम् ।।
समुद्दिश्य तु यः स्नायात्सेतौ सर्वार्थसिद्धिदे ।। ८४ ।।
तत्तत्सिद्धिम वाप्नोति सत्यं स्यान्नात्र संशयः ।।
दारिद्र्यान्नरकाद्ये च मनुजा भुवि बिभ्यति ।। ८५ ।।
स्नानं कुर्वंतु ते सर्वे रामसेतौ विमुक्तिदे ।।
श्रद्धया सहितो मर्त्यः श्रद्धया रहितोऽपि वा ।। ८६ ।।
इहलोके परत्रापि सेतुस्नायी न दुःखभाक् ।।
सेतुस्नानेन सर्वेषां नश्यते पापसंचयः ।। ८७ ।।
वर्द्धते धर्मराशिश्च शुक्लपक्षे यथा शशी ।।
यथा रत्नानि वर्द्धंते समुद्रे विविधान्यपि ।। ८८ ।।
तथा पुण्यानि वर्द्धंते सेतुस्नानेन वै द्विजाः ।।
काम धेनुर्यथा लोके सर्वाकामान्प्रयच्छति ।। ८९ ।।
चिंतामणिर्यथा दद्यात्पुरुषाणां मनोरथान् ।।
यथाऽमरतरुर्दद्यात्पुरुषाणामभीप्सितम् ।। 3.1.1.९० ।।
सेतुस्नानं तथा नृणां सर्वाभीष्टान्प्रदास्यति ।।
अशक्तः सेतुयात्रायां दारिद्र्येण च मानवः ।। ९१ ।।
याचित्वा स धनं शिष्टात्सेतौ स्नानं समाच रेत् ।।
सेतुस्नानसमं पुण्यं तत्र दाता समश्नुते ।। ९२ ।।
तथा प्रतिगृहीतापि प्राप्नोत्यविकलं फलम् ।।
सेतुयात्रां समुद्दिश्य गृह्णीयाद्ब्राह्मणाद्ध नम् ।। ९३ ।।
क्षत्रियादपि गृह्णीयान्न दद्युर्ब्राह्मणा यदि ।।
वैश्याद्वा प्रतिगृह्णीयान्न प्रयच्छंति चेन्नृपाः ।। ९४ ।।
शूद्रान्न प्रतिगृह्णीयात्कथंचिदपि मानवः ।।
यः सेतुं गच्छतः पुंसो धनं वा धान्यमेव वा ।। ९५ ।।
दत्त्वा वस्त्रादिकं वापि प्रवर्तयति मानवः ।।
सोऽश्वमेधादियज्ञानां फलमाप्तो त्यनुत्तमम् ।। ९६ ।।
चतुर्णामपि वेदानां पारायणफलं लभेत् ।।
तुलापुरुषमुख्यानां दानानां फलमश्नुते ।। ९७ ।।
ब्रह्महत्यादिपापानां नाशः स्या न्नात्र संशयः ।।
बहुना किं प्रलापेन सर्वान्कामान्समश्नुते ।। ९८ ।।
एवं प्रतिगृहीतापि तत्तुल्यफलमश्नुते ।।
याचतः सेतुयात्रार्थं न प्रतिग्रहकल्मषम् ।। ९९ ।।
सेतुं गच्छ धनं तेऽहं दास्यामीति प्रलोभ्य यः ।।
पश्चान्नास्तीति च ब्रूयात्तमाहुर्ब्रह्मघातकम् ।। 3.1.1.१०० ।।
लोभेन सेतुयात्रार्थं संपन्नोऽपि दरिद्रवत् ।।
मानवो यदि याचेत तमाहुस्तेयिनं बुधाः ।। १०१ ।।
गमिष्ये सेतुमिति वै यो गृहीत्वा धनं नरः ।।
न याति सेतुं लोभेन तमाहुर्ब्रह्मघा तकम् ।। १०२ ।।
येन केनाप्युपायेन सेतुं गच्छेन्नरो मुदा ।।
अशक्तो दक्षिणां दत्त्वा गमयेद्वा द्विजोत्तमम् ।।१०३।।
याचित्वा यज्ञकरणे यथा दोषो न विद्यते ।।
याचित्वा सेतुयात्रायां तथा दोषो न विद्यते ।। १०४ ।।
याचित्वाप्यन्यतो द्रव्यं सेतुस्नाने प्रवर्तयेत् ।।
सोऽपि तत्फलमाप्नोति सेतु स्नायी नरो यथा ।। १०५ ।।
ज्ञानेन मोक्षमभियांति कृते युगे तु त्रेतायुगे यजनमेव विमुक्तिदायि ।।
श्रेष्ठं तथान्ययुगयोरपि दानमाहुः सर्वत्र सेत्व भिषवो हि वरो नराणाम् ।।१०६।।
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सेतुगमनफलादिवर्णनं नाम प्रथमोऽध्यायः।।१।।