स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २७७

विकिस्रोतः तः

॥ ऋषय ऊचुः ॥ ॥
कि नामानो द्विजास्ते च वाराणस्याः समागताः॥
एकादशप्रकारोऽसौ येषां रुद्रः प्रभक्तितः ॥
तत्संज्ञाश्च समाचक्ष्व विस्तरेण महामुने ॥ १ ॥
॥ सूत उवाच ॥ ॥
एकस्तेषां मृगव्याधो विख्यातो भुवनत्रये ॥
द्वितीयः सर्वसंज्ञश्च निंदितश्च तृतीयकः॥ २ ॥
महायशाश्चतुर्थस्तु कथ्यते मुनिसत्तमाः ॥
अजैकपाद इत्युक्तः पंचमो मुनि सत्तमाः ॥ ३ ॥
अहिर्बुध्न्यस्तथा षष्ठः पिनाकी सप्तमस्तथा ॥
परं तपस्तथान्यस्तु दहनो नवमस्तथा ॥ ४ ॥
ईश्वरो दशमः प्रोक्तः कपाली चांति मस्तथा ॥
तेषामेतानि नामानि स्थितान्येव हि यानि च ॥
रुद्राणामपि तान्येव विहितानि हरेण तु ॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
कानि दानानि शस्यानि तदर्थं वद नो द्रुतम् ॥
जपश्चैव पुरा प्रोक्तस्त्वया कार्यो यथैव च ॥ ६ ॥
॥ सूत उवाच ॥ ॥
तदुद्दिश्य प्रदातव्यमेकैकस्य पृथक्पृथक् ॥
प्रत्यक्षाश्च महाभाग दातव्या धेनवः क्रमात् ॥ ७ ॥
मृगव्याधाय प्रत्यक्षा गौर्देया च गुडोद्भवा ॥
कपालिने प्रदातव्या नवनीतसमुद्भवा ॥ ८ ॥
अजपादाय चाज्योत्था अहिर्बुध्न्याय हेमजा ॥
पिनाकिने प्रदातव्या धेनुर्लवणसम्भवा ॥ ९ ॥
परंतपाय विप्रेन्द्रास्तथैव रसस म्भवा ॥
अन्नजा दहनायोक्ता ईश्वराय जलोद्भवा ॥ ६.२७७.१० ॥
एता ददाति यो विप्रा एतेषां च महात्मनाम् ॥
चक्रवर्ती भवेन्नूनमेतदाह पितामहः ॥॥ ॥ ११ ॥
अन्यत्रापि प्रदत्ताश्च किं पुनर्भवसंनिधौ ॥
तस्मात्सर्वप्रयत्नेन एता देयाः प्रयत्नतः ॥ १२ ॥
धेनवो यो न शक्तः स्यादेका देया प्रयत्नतः ॥
सर्वेषामेव रुद्राणां भर्तृयज्ञवचो यथा ॥ १३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये एकादशरुद्रसमीपे दानमाहात्म्यवर्णनं नाम सप्तसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७७ ॥