सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २२७

विकिस्रोतः तः

॥ युधिष्ठिर उवाच ॥ ॥
नरकाणां स्वरूपं च श्रुत्वा मे भयमागतम् ॥
कथं मुक्तिर्भवेत्तेषां पापानामपि पार्थिव ॥
व्रतैर्वा नियमैर्वापि होमैर्वा तीर्थसंश्रयैः ॥ १ ॥
॥ भीष्म उवाच ॥ ॥
गंगायामस्थिपातोऽत्र येषां संजायते नृणाम् ॥
न तेषां नारको वह्निः प्रभवेन्मध्यवर्तिनाम् ॥ २ ॥
गंगायां क्रियते श्राद्धं येषां नाम्ना स्वकैः सुतैः ॥
ते विमानं समाश्रित्य प्रयांति नरकोपरि ॥ ॥ ३ ॥
पापं कृत्वा प्रकुर्वंति प्रायश्चित्तं यथोदितम् ॥
हेम यच्छंति वा भूप न तेषां नरको भवेत् ॥ ४ ॥
शेषाः स्वकर्मणः प्राप्त्या सेवंते च यथोचितम् ॥
स्वर्ग वा नरकं वापि सेवन्ते ते नराधिप ॥ ५ ॥
धारातीर्थे म्रियंते ये स्वामिनः पुरतः स्थिताः ॥
ते गच्छंति परं स्थानं नरकाणां सुदूरतः ॥ ६ ॥
वाराणस्यां कुरुक्षेत्रे नैमिषे नागरे पुरे ॥
प्रयागे वा प्रभासे वा यस्त्यजेत्तनुमा त्मनः ॥
महापातकयुक्तोऽपि नरकं न स पश्यति ॥ ७ ॥
नीलो वा वृषभो यस्य विवाहे संनियुज्यते ॥
स्वपुत्रेण न संपश्येन्नरकं ब्रह्महाऽपि सः ॥ ८ ॥
प्रायोपवेशनं कृत्वा हृदयस्थे जनार्दने ॥
यस्त्यजेत्पुरुषः प्राणान्नरकं न स पश्यति ॥ ९ ॥
प्रायोपवेशनं यो च चित्रेश्वरनिवेशने ॥
कुर्वन्ति नरकं नैव ते गच्छंति कदाचन ॥ ६.२२७.१० ॥
दीनांधकृपणानां च पथिश्रममुपेयुषाम् ॥
तीर्थयात्रापराणां च यो यच्छति सदाऽशनम् ॥
काले वा यदि वाऽकाले नरकं न स पश्यति ॥ ११ ॥
जलधेनुं च यो दद्याद्धृषसंस्थे दिवाकरे ॥
तिलधेनुं मृगस्थे च नरकं न स पश्यति ॥ १२ ॥
सोमे सोमग्रहे चैव सोमनाथस्य दर्शनात् ॥
समुद्रे च सरस्वत्यां स्नात्वा न नरकं व्रजेत् ॥ १३ ॥
सन्निहित्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ॥
सूर्यवारेण यः याति नरकं न स पश्यति ॥ १४ ॥
कार्तिक्यां कृत्तिकायोगे यः करोति प्रदक्षिणाम् ॥
त्रिपुष्करस्य मौनेन नरकं न स पश्यति ॥ १५ ॥
मृगसंक्रमणे ये तु सूर्यवारेण संस्थिते ॥
चण्डीशं वीक्षयंति स्म न ते नरकगामिनः ॥ १६ ॥
गां पंकाद्ब्राह्मणीं दास्यात्साधून्स्तेनाद्द्विजं वधात् ॥
मोचयन्ति च ये राजन्न ते नरकगामिनः ॥ १७ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥
यथा न नरकं याति पुरुषस्तु स्वकर्मणा ॥
यथा च नरकं याति स्वल्पपापोऽपि मानवः ॥ १८ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे भीष्मयुधिष्ठिरसंवादे नरकयातनानिरसनोपायवर्णनंनाम सप्तविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२७ ॥