स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २०४
॥ आनर्त उवाच ॥ ॥
प्रोक्ताऽस्माकं त्वया विप्र शुद्धिर्नागरसंभवा ॥
वंशजा विस्तरेणैव यथा पृष्टोऽसि सुव्रत ॥ १ ॥
सांप्रतं शीलजां ब्रूहि नष्टवंशश्च यो भवेत् ॥
पितामहं न जानाति न च मातामहीं निजाम् ॥
तस्य शुद्धिः कथं कार्या नागरोऽस्मीति यो वदेत् ॥ २ ॥
॥ विश्वामित्र उवाच ॥ ॥
एतदर्थं पुरा पृष्टो भर्तृयज्ञश्च नागरैः ॥
नष्टवंशकृते राजन्यथा पृष्टोऽस्मि वै त्व या ॥ ३ ॥
॥ भर्तृयज्ञ उवाच ॥ ॥
नष्टवंशस्तु यो ब्रूयान्नागरोऽस्मीति संसदि ॥
तस्य शीलं प्रविज्ञेयं ततः शुद्धिं समादिशेत् ॥ ४ ॥
नागराणां तु ये धर्मा व्यवहाराश्च केवलाः ॥
तेषु चेद्वर्तते नित्यं संभाव्यो नागरो हि सः ॥ ५ ॥
तस्य शुद्धिकृते देयं धटं ब्राह्मणसत्तमाः ॥
धटे तु शुद्धिमापन्ने ततोऽसौ शुद्धतां व्रजेत् ॥ ६ ॥
श्राद्धार्हः कन्यकार्हश्च सोमार्हश्च विशेषतः ॥
सामान्यपदयोग्यश्च समस्ते स्थानकर्मणि ॥ ७ ॥
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नरोत्तम ॥
द्वितीया जायते शुद्धिर्यथा नष्टान्वये द्विजे ॥
तस्माद्वद महाराज यद्भूयः श्रोतुमर्हसि ॥ ८ ॥
॥ आनर्त उवाच ॥ ॥
तस्मात्ते नागरा भूत्वा विप्राश्चाष्टकुलोद्भवाः ॥
सर्वेषामुत्तमा जाताः प्राधान्येन व्यवस्थिताः ॥ ९ ॥
तपसः किं प्रभावः स तेषां वा यजनोद्भवः ॥
विद्योद्भवोऽथवा विप्र किं वा दानसमुद्भवः ॥ ६.२०४.१० ॥
॥ विश्वामित्र उवाच ॥ ॥
ते सर्वे गुणसंपन्ना यथान्ये नागरास्तथा ॥
विशेषश्चापरस्तेषां ते शक्रेण प्रतिष्ठिताः ॥ ११ ।।
तेन ते गौरवं प्राप्ताः सर्वेषां तु द्विजन्मनाम् ॥ १२ ॥
॥ आनर्त उवाच ॥ ॥
कस्मिन्काले तु ते विप्राः शक्रे णात्र प्रतिष्ठिताः ॥
किमर्थं च वदास्माकं विस्तरेण महामते ॥ १३ ॥
।। विश्वामित्र उवाच ॥ ॥
हिरण्याक्ष इति ख्यातः पुराऽऽसीद्दानवो त्तमः ॥
अभवत्तस्य संग्रामः शक्रेण सह दारुणः ॥ १४ ॥
तत्र देवासुरे युद्धे मृता भूरिदिवौकसः ॥
दानवाश्च महाराज परस्परजिगीषवः ॥ १५ ॥
अथ ते दानवाः संख्ये शक्रेण विनिपातिताः ॥
विद्याबलेन ताञ्छुक्रः सजीवान्कुरुते पुनः ॥ १६ ॥
देवाश्च निधनं प्राप्ता न जीवंति कथंचन ॥
कस्यचित्त्वथ कालस्य विष्णुं प्रोवाच वृत्रहा ॥ १७ ॥
धारातीर्थमृतानां च प्रहारैः सन्मुखैः प्रभो ॥
या गतिश्च समादिष्टा तां मे वद जनार्दन ॥ ॥ १८ ॥
पराङ्मुखा मृता ये च पलायनपरायणाः ॥
तेषामपि गतिं ब्रूहि यादृग्जायेतवाच्युत ॥ १९ ॥
॥ विष्णुरुवाच ॥ ॥
धारातीर्थमृतानां च सन्मुखानां महाहवे ॥
यथा चोच्छिन्नबीजानां पुनर्जन्म न विद्यते ॥ ६.२०४.२० ॥
ये पुनः पृष्ठदेशे तु हन्यते भयविक्लवाः ॥
भुज्यमानाः परैस्ते च प्रेताः स्युस्त्रिदशाधिप ॥ २१ ॥
॥ इन्द्र उवाच ॥ ॥
केचिद्देवा मृता युद्धे युध्यमानाश्च सन्मुखाः ॥
तथैवान्ये मया दृष्टा हन्यमानाः पराङ्मुखाः ॥
प्रेतत्वं दानवानां च सर्वेषां स्यान्न वा प्रभो ॥ २२ ॥
॥ विष्णुरुवाच ॥ ॥
असंशयं सहस्राक्ष हता युद्धे पराङ्मुखाः ॥
प्रेतत्वे यांति ते सर्वे देवा वा मानुषा यदि ॥ २३ ॥
विषादग्नेः कुलघ्नानां तया चैवात्मघातिनाम् ॥
दंष्ट्रिभिर्हतदेहानां शृंगिभिश्च सुरेश्वर ॥
प्रेतत्वं जायते नूनं सत्यमेतदसंशयम् ॥२४॥
॥ इन्द्र उवाच ॥ ॥
कथं तेषां भवेन्मुक्तिः प्रेतत्वाद्दारुणाद्विभो ॥
एतन्मे सर्वमाचक्ष्व येन यत्नं करोम्यहम् ॥२५॥
॥ श्रीभगवानुवाच ॥ ॥
तेषां संयुज्यते श्राद्धं कन्यासंस्थे दिवाकरे ॥
कृष्णपक्षे चतुर्दश्यां नभस्यस्य सुरेश्वर ॥ २६ ॥
गयायां भक्तिपूर्वं तु पितामहवचो यथा ॥
ततः प्रयांति ते मोक्षं सत्यमेतदसंशयम् ॥ २७ ॥
॥ इन्द्र उवाच ॥ ॥
कस्मात्तत्र दिने श्राद्धं क्रियते मधुसूदन ॥
शस्त्रैर्विनिहतानां च सर्वं मे विस्तराद्वद ।। २८ ॥
॥ श्रीभगवानुवाच ॥ ॥
भूतप्रेतपिशाचैश्च कूष्मांडै राक्षसैरपि ॥
पुरा संप्रार्थितः शंभुर्दिने तत्र समागते ॥
अद्यैकं दिवसं देव कन्यासंस्थे दिवाकरे ॥ २९ ॥
अस्माकं देहि येन स्यात्तृप्तिर्वर्षसमुद्भवा ॥
प्रदत्ते वंशजैः श्राद्धे दीनानां त्वं दयां कुरु ॥ ६.२०४.३० ॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
यः करिष्यति वै श्राद्धमस्मिन्नहनि संस्थिते ॥
कृष्णपक्षे चतुर्दश्यां नभस्यस्य च वंशजः ॥
भविष्यति परा प्रीतिर्यावत्संवत्सरः स्थितः ॥ ३१ ॥
यः पुनस्तु गयां गत्वा युष्मद्वंशसमुद्भवः ॥
करिष्यति तथा श्राद्धं तेन मुक्तिमवाप्स्यथ ॥ ३२ ॥
शस्त्रेण निहतानां च स्वर्गस्थानामपि ध्रुवम् ॥
न करिष्यति यः श्राद्धं तस्मिन्नहनि संस्थिते ॥ ३३ ॥
क्षुत्पिपासार्तदेहाश्च पितरस्तस्य दुःखिताः ॥
स्थास्यंति वत्सरं यावदेतदाह पितामहः ॥ ३४ ॥
तस्मात्सर्वप्रयत्नेन तस्मिन्नहनि कारयेत् ॥
अन्यमुद्दिश्य तत्सर्वं प्रेतानामिह जायते ॥ ३५ ॥
ततो भगवता दत्ता तेषां चैव तु सा तिथिः ॥ श्रा
द्धकर्मणि संजाते विना शस्त्रहतं जनम् ॥ ३६ ॥
संमुखस्यापि संग्रामे युध्यमानस्य देहिनः ॥
कदाचिच्चलते चित्तं तीक्ष्णशस्त्रहतस्य च ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्र माहात्म्ये शक्रविष्णुसंवादे प्रेतश्राद्धकथनंनाम चतुरधिकद्विशततमोऽध्यायः ॥ २०४ ॥