स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः १२
वेदव्यासः
अध्यायः १३ →


सनत्कुमार उवाच।।
उत्तरे तु प्रवक्ष्यामि मर्कटेश्वरमुत्तमम्।।
तत्र तीर्थं च विख्यातं सर्वकामप्रदायकम् ।। १ ।।
तस्मिंस्तीर्थे नरः स्नात्वा गोशतस्य फलं लभेत्।।
विस्फोटानां प्रशांत्यर्थं बालानां चैव कारणे ।।२ ।।
मापेन मापितान्कृत्वा मसूरांस्तत्र कुट्टयेत् ।।
शीतलायाः प्रभावेन बालाः संतु निरामयाः ।। ३ ।।
ये पश्यंति नरा भक्त्या शीतलां दुरितापहाम् ।।
न तेषां दुष्कृतं किंचिन्न दारिद्र्यं द्विजोत्तम ।। ४ ।।
न च रोगभयं तेषां ग्रहपीडा तथैव च ।।५।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये शीतला माहात्म्यवर्णनंनाम द्वादशोऽध्यायः ।। १२ ।। ।। छ ।।