स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ११२

विकिस्रोतः तः


 अध्याय ११२

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थमाङ्गिरसस्य तु ।
उत्तरे नर्मदाकूले सर्वपापविनाशनम् ॥ ११२.१ ॥
पुरासीदङ्गिरानाम ब्राह्मणो वेदपारगः ।
पुत्रहेतोर्युगस्यादौ चचार विपुलं तपः ॥ ११२.२ ॥
नित्यं त्रिषवणस्नायी जपन्देवं सनातनम् ।
पूजयंश्च महादेवं कृच्छ्रचान्द्रायणादिभिः ॥ ११२.३ ॥
द्वादशाब्दे ततः पूर्णे तुतोष परमेश्वरः ।
वरेण छन्दयामास द्विजमाङ्गिरसं वरम् ॥ ११२.४ ॥
वव्रे स तु महादेवं पुत्रं पुत्रवतां वरम् ।
वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम् ॥ ११२.५ ॥
देवानां मन्त्रिणं राजन् सर्वलोकेषु पूजितम् ।
ब्रह्मलक्ष्म्याः सदावासमक्षयं चाव्ययं सुतम् ॥ ११२.६ ॥
तथाभिलषितः पुत्रः सर्वविद्याविशारदः ।
भविष्यति न सन्देहश्चैवमुक्त्वा ययौ हरः ॥ ११२.७ ॥
वरैरङ्गिरसश्चापि बृहस्पतिरजायत ।
यथाभिलषितः पुत्रो वेदवेदाङ्गपारगः ॥ ११२.८ ॥
जाते पुत्रेऽङ्गिरास्तत्र स्थापयामास शङ्करम् ।
हृष्टतुष्टमना भूत्वा जगामोत्तरपर्वतम् ॥ ११२.९ ॥
तत्र चाङ्गिरसे तीर्थे यः स्नात्वा पूजयेच्छिवम् ।
सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति ॥ ११२.१० ॥
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।
इच्छते यश्च यं कामं स तं लभति मानवः ॥ ११२.११ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽग्निरसतीर्थमाहात्म्यवर्णनं नाम द्वादशाधिकशततमोऽध्यायः ॥