स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २३१
अध्याय २३१
श्रीसूत उवाच -
तथैव तीर्थस्तबकान् वक्ष्येऽहमृषिसत्तमाः ।
यैस्तु तीर्थावलीगुम्फः पूर्वोक्तैरेकतः कृतः ॥ २३१.१ ॥
विभक्तो भक्तलोकानामानन्दप्रथनः शुभः ।
मृकण्डतनयः पूर्वं प्राह पार्थाय पृच्छते ॥ २३१.२ ॥
यथा तथाहं वक्ष्यामि तीर्थानां स्तबकानिह ।
शिवाम्बुपानजा पुण्या रेवा कल्पलता किल ॥ २३१.३ ॥
तीरद्वयोद्भूततीर्थप्रसूनैः पुष्पिता शुभा ।
यत्पुण्यगन्धलक्ष्म्या वै त्रैलोक्यं सुरभीकृतम् ॥ २३१.४ ॥
तत्पुष्पमकरन्दस्य रसास्वादविदुत्तमः ।
भ्रमरः खलु मार्कण्डो मुनिर्मतिमतां वरः ॥ २३१.५ ॥
तत्पुष्पमालां हृदये तीर्थस्तबकचित्रिताम् ।
दधाति सततं पुण्यां मुनिर्भृगुकुलोद्वहः ।
तस्याः स्तबकसंस्थानं वक्ष्येऽहमृषिसत्तमाः ॥ २३१.६ ॥
ओङ्कारतीर्थमारभ्य यावत्पश्चिमसागरम् ।
संगमाः पञ्चत्रिंशद्वै नदीनां पापनाशनाः ॥ २३१.७ ॥
दशैकमुत्तरे तीरे सत्रिविंशति दक्षिणे ।
पञ्चत्रिंशत्तमः श्रेष्ठो रेवासागरसङ्गमः ॥ २३१.८ ॥
सङ्गमः सहितान्येवं रेवातीरद्वयेऽपि च ।
चतुःशतानि तीर्थानि प्रसिद्धानि द्विजोत्तमाः ॥ २३१.९ ॥
त्रिशतं शिवतीर्थानि त्रयीस्त्रिंशत्समन्वितम् ।
तत्रापि व्यक्तितो वक्ष्ये शृणुध्वं तानि सत्तमाः ॥ २३१.१० ॥
मार्कण्डेश्वरतीर्थानि दश तेषु मुनीश्वराः ।
दशादित्यभवान्यत्र नवैव कपिलेश्वराः ॥ २३१.११ ॥
सोमसंस्थापितान्यष्टौ तावन्तो नर्मदेश्वराः ।
कोटितीर्थान्यथाष्टौ च सप्त सिद्धेश्वरास्तथा ॥ २३१.१२ ॥
नागेश्वराश्च सप्तैव रेवातीरद्वयेऽपि तु ।
सप्तैव वह्निविहितान्यथाप्यावर्तसप्तकम् ॥ २३१.१३ ॥
केदारेश्वरतीर्थानि पञ्च पञ्चेन्द्रजानि च ।
वरुणेशाश्च पञ्चैव पञ्चैव धनदेश्वराः ॥ २३१.१४ ॥
देवतीर्थानि पञ्चैव चत्वारो वै यमेश्वराः ।
वैद्यनाथाश्च चत्वारश्चत्वारो वानरेश्वराः ॥ २३१.१५ ॥
अङ्गारेश्वरतीर्थानि तावन्त्येव मुनीश्वराः ।
सारस्वतानि चत्वारि चत्वारो दारुकेश्वराः ॥ २३१.१६ ॥
गौतमेश्वरतीर्थानि त्रीणि रामेश्वरास्त्रयः ।
कपालेश्वरतीर्थानि त्रीणि हंसकृतानि च ॥ २३१.१७ ॥
त्रीण्येव मोक्षतीर्थानि त्रयो वै विमलेश्वराः ।
सहस्रयज्ञतीर्थानि त्रीण्येव मुनिरब्रवीत् ॥ २३१.१८ ॥
भीमेश्वरास्त्रयः ख्याताः स्वर्णतीर्थानि त्रीणि च ।
धौतपापद्वयं प्रोक्तं करञ्जेशद्वयं तथा ॥ २३१.१९ ॥
ऋणमोचनतीर्थे द्वे तथा स्कन्देश्वरद्वयम् ।
दशाश्वमेधतीर्थे द्वे नन्दीतीर्थद्वयं द्विजाः ॥ २३१.२० ॥
मन्मथेशद्वयं चैव भृगुतीर्थद्वयं तथा ।
पराशरेश्वरौ द्वौ च अयोनीसंभवद्वयम् ॥ २३१.२१ ॥
व्यासेश्वरद्वयं प्रोक्तं पितृतीर्थद्वयं तथा ।
नन्दिकेश्वरतीर्थे द्वे द्वौ च गोपेश्वरौ स्मृतौ ॥ २३१.२२ ॥
मारुतेशद्वयं तद्वद्द्वौ च ज्वालेश्वरौ स्मृतौ ।
शुक्लतीर्थद्वयं पुण्यमप्सरेशद्वयं तथा ॥ २३१.२३ ॥
पिप्पलेश्वरतीर्थे द्वे माण्डव्येश्वरसंज्ञिते ।
द्वीपेश्वरद्वयं चैव प्राह तद्वद्भृगूद्वहः ।
उत्तरेश्वरतीर्थे द्वे अशोकेशद्वयी तथा ॥ २३१.२४ ॥
द्वे योधनपुरे चैव रोहिणीतीर्थकद्वयम् ।
लुङ्केश्वरद्वयं ख्यातमाख्यानं मुनिना तथा ॥ २३१.२५ ॥
सैकोनविंशतिशतं तीर्थान्येकैकशो द्विजाः ।
स्तबकेषु कृतं तीर्थं द्विशतं सचतुर्दशम् ॥ २३१.२६ ॥
शैवान्येतानि तीर्थानि वैष्णवानि च सत्तमाः ।
शृणुध्वं प्रोच्यमानानि ब्राह्मशाक्तानि च क्रमात् ॥ २३१.२७ ॥
अष्टविंशतितीर्थानि वैष्णवान्यब्रवीन्मुनिः ।
तेषु वाराहतीर्थानि षडेव मुनिसत्तमाः ॥ २३१.२८ ॥
चत्वारि चक्रतीर्थानि शेषाण्यष्टादशैव हि ।
विष्णुनाधिष्ठितान्येव प्राह पूर्वं मृकण्डजः ॥ २३१.२९ ॥
तथैव ब्रह्मणा सिद्ध्यै सप्ततीर्थान्यवीवदत् ।
त्रिषु च ब्रह्मणः पूजा ब्रह्मेशाश्चतुरोऽपरे ।
अष्टाविंशन्मया ख्याता यथासङ्ख्यं यथाक्रमम् ॥ २३१.३० ॥
एतत्पवित्रमतुलं ह्येतत्पापहरं परम् ।
नर्मदाचरितं पुण्यं माहात्म्यं मुनिभाषितम् ॥ २३१.३१ ॥
सूत उवाच -
एवमुद्देशतः प्रोक्तो रेवातीर्थक्रमो मया ।
यथा पार्थाय संक्षेपान्मार्कण्डो मुनिरब्रवीत् ॥ २३१.३२ ॥
अवान्तराणि तीर्थानि तेषु गुप्तान्यनेकशः ।
यत्र यावत्प्रमाणानि तान्याकर्णयतानघाः ॥ २३१.३३ ॥
ओङ्कारतीर्थपरितः पर्वतादमरकण्टात् ।
क्रोशद्वये सर्वदिक्षु सार्धकोटीत्रयी मता ॥ २३१.३४ ॥
तीर्थानां संख्यया गुप्तप्रकटानां द्विजोत्तमाः ।
कोटिरेका तु तीर्थानां कपिलासङ्गमे पृथक् ॥ २३१.३५ ॥
अशोकवनिकायाश्च तीर्थं लक्षं प्रतिष्ठितम् ।
शतमं गारगर्तायाः सङ्गमे मुनिसत्तमाः ॥ २३१.३६ ॥
तीर्थानामयुतं तद्वत्कुब्जायाः सङ्गमे स्थितम् ।
शतं हिरण्यगर्भायाः सङ्गमे समवस्थितम् ॥ २३१.३७ ॥
तीर्थानामष्टषष्टिश्च विशोकासङ्गमे स्थिता ।
तथा सहस्रं तीर्थानां संस्थितं वागुसङ्गमे ॥ २३१.३८ ॥
शतं सरस्वतीसङ्गे शुक्लतीर्थे शतद्वयम् ।
सहस्रं विष्णुतीर्थेषु महिष्मत्यामथायुतम् ॥ २३१.३९ ॥
शूलभेदे च तीर्थानां साग्रं लक्षं स्थितं द्विजाः ।
देवग्रामे सहस्रं च तीर्थानां मुनिरब्रवीत् ॥ २३१.४० ॥
लुङ्केश्वरे च तीर्थानां साग्रा सप्तशती स्थिता ।
तीर्थान्यष्टोत्तरशतं मणिनद्याश्च सङ्गमे ।
वैद्यनाथे च तीर्थानां शतमष्टाधिकं विदुः ॥ २३१.४१ ॥
एवं तावत्प्रमाणानि तीर्थे कुम्भेश्वरे द्विजाः ।
साग्रं लक्षं च तीर्थानां स्थितं रेवोरसङ्गमे ॥ २३१.४२ ॥
ततश्चाप्यधिकानि स्युरिति मार्कण्डभाषितम् ।
अष्टाशीतिसहस्राणि व्यासद्वीपाश्रितानि च ॥ २३१.४३ ॥
सङ्गमे च करञ्जायाः स्थितमष्टोत्तरायुतम् ।
एरण्डीसङ्गमे तद्वत्तीर्थान्यष्टाधिकं शतम् ॥ २३१.४४ ॥
धूतपापे च तीर्थानां षष्टिरष्टाधिका स्थिता ।
स्कन्दतीर्थे शतं पुण्यं तीर्थानां मुनिरुक्तवान् ॥ २३१.४५ ॥
कोहनेश च तीर्थानां षष्टिरष्टाधिका स्थिता ।
सार्धकोटी च तीर्थानां स्थिता वै कोरिलापुरे ॥ २३१.४६ ॥
रामकेशवतीर्थे च सहस्रं साग्रमुक्तवान् ।
अस्माहके सहस्रं च तीर्थानि निवसन्ति हि ॥ २३१.४७ ॥
लक्षाष्टकं सहस्रे द्वे शुक्लतीर्थे द्विजोत्तमाः ।
तीर्थानि कथयामास पुरा पार्थाय भार्गवः ॥ २३१.४८ ॥
शतमष्टाधिकं प्राह प्रत्येकं सङ्गमेषु च ।
नदीनामवशिष्टानां कावेरीसङ्गमं विना ॥ २३१.४९ ॥
कावेर्याः सङ्गमे विप्राः स्थिता पञ्चशती तथा ।
तीर्थानां पर्वसु तथा विशेषो मुनिनोदितः ॥ २३१.५० ॥
मोक्षतीर्थं हि सत्प्राहुः पुराणपुरुषाश्रितम् ।
भृगोः क्षेत्रे च तीर्थानां कोटिरेका समाश्रिता ॥ २३१.५१ ॥
साधिकानामृषिश्रेष्ठा वक्तुं शक्तो हि को भवेत् ।
सर्वामराश्रयं प्रोक्तं सर्वतीर्थाश्रयं तथा ॥ २३१.५२ ॥
त्रिषु लोकेषु विख्यातं पूजितं सिद्धिसाधनम् ।
भारभूत्यां च तीर्थानां स्थितमष्टोत्तरं शतम् ॥ २३१.५३ ॥
अक्रूरेश्वरतीर्थे च सार्धं तीर्थशतं स्थितम् ।
विमलेश्वरतीर्थे तु रेवासागरसङ्गमे ।
दशायुतानि तीर्थानां साधिकान्यब्रवीन्मुनिः ॥ २३१.५४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थसंख्यापरिगणनवर्णनं नामैकत्रिंशदधिकद्विशततमोऽध्यायः ॥