स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १५०
अध्याय १५०
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज कुसुमेश्वरमुत्तमम् ।
दक्षिणे नर्मदाकूले उपपातकनाशनम् ॥ १५०.१ ॥
कामेन स्थापितो देवः कुसुमेश्वरसंज्ञितः ।
ख्यातः सर्वेषु लोकेषु देवदेवः सनातनः ॥ १५०.२ ॥
कामो मनोभवो विश्वः कुसुमायुधचापभृत् ।
स कामान् ददाति सर्वान् पूजितो मीनकेतनः ॥ १५०.३ ॥
तेन निर्दग्धकायेन चाराध्य परमेश्वरम् ।
अनङ्गेन तथा प्राप्तमङ्गित्वं नर्मदातटे ॥ १५०.४ ॥
युधिष्ठिर उवाच -
अङ्गिभृतस्य नाशत्वमनङ्गस्य तु मे वद ।
न श्रुतं न च मे दृष्टं भूतपूर्वं कदाचन ॥ १५०.५ ॥
एतत्सर्वं यथा वृत्तमाचक्ष्व द्विजसत्तम ।
श्रोतुमिच्छामि विप्रेन्द्र भीमार्जुनयमैः सह ॥ १५०.६ ॥
श्रीमार्कण्डेय उवाच -
आदौ कृतयुगे तात देवदेवो महेश्वरः ।
तपश्चचार विपुलं गङ्गासागरसंस्थितः ॥ १५०.७ ॥
तेन सम्पादिता लोकास्तपसा ससुरासुराः ।
जग्मुस्ते शरणं सर्वे देवदेवं शचीपतिम् ॥ १५०.८ ॥
व्यापकः सर्वभूतानां देवदेवो महेश्वरः ।
संतापयति लोकांस्त्रींस्तन्निवारय गोपते ॥ १५०.९ ॥
श्रुत्वा तद्वचनं तेषां देवानां बलवृत्रहा ।
चिन्तयामास मनसा तपोविघ्नायचादिशत् ॥ १५०.१० ॥
अप्सरां मेनकां रम्भां घृताचीं च तिलोत्तमाम् ।
वसन्तं कोकिलं कामं दक्षिणानिलमुत्तमम् ॥ १५०.११ ॥
गत्वा तत्र महादेवं तपश्चरणतत्परम् ।
क्षोभयध्वं यथान्यायं गङ्गासागरवासिनम् ॥ १५०.१२ ॥
एवमुक्तास्तु ते सर्वे देवराजेन भारत ।
देवाप्सरःसमोपेता जग्मुस्ते हरसन्निधौ ॥ १५०.१३ ॥
वसन्तमासे कुसुमाकराकुले मयूरदात्यूहसुकोकिलाकुले ।
प्रनृत्य देवाप्सरगीतसंकुले प्रवाति वाते यमनैरृताकुले ॥ १५०.१४ ॥
तेन संमूर्छिताः सर्वे संसर्गाच्च खगोत्तमाः ।
मधुमाधवगन्धेन सकिन्नरमहोरगाः ॥ १५०.१५ ॥
यावदालोकते तावत्तद्वनं व्याकुलीकृतम् ।
वीक्षते मदनाविष्टं दशावस्थागतं जनम् ॥ १५०.१६ ॥
देवदेवोऽपि देवानामवस्थात्रितयं गतः ।
सात्त्विकीं राजसीं राजंस्तामसीं तां शृणुष्व मे ॥ १५०.१७ ॥
एकं योगसमाधिना मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या जघनस्थलस्तनतटे शृङ्गारभारालसम् ।
अन्यद्दूरनिरस्तचापमदनक्रोधानलोद्दीपितं शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ १५०.१८ ॥
एवं दृष्टः स देवेन सशरः सशरासनः ।
भस्मीभूतो गतः कामो विनाशः सर्वदेहिनाम् ॥ १५०.१९ ॥
कामं दृष्ट्वा क्षयं यातं तत्र देवाप्सरोगणाः ।
भीता यथागतं सर्वे जग्मुश्चैव दिशो दश ॥ १५०.२० ॥
कामेन रहिता लोकाः ससुरासुरमानवाः ।
ब्रह्माणं शरणं जग्मुर्देवा इन्द्रपुरोगमाः ॥ १५०.२१ ॥
सीदमानं जगद्दृष्ट्वा तमूचुः परमेष्ठिनम् ।
जानासि त्वं जगच्छेषं प्रभो मैथुनसम्भवात् ॥ १५०.२२ ॥
प्रजाः सर्वा विशुष्यन्ति कामेन रहिता विभो ॥ १५०.२३ ॥
एतच्छ्रुत्वा वचस्तेषां देवानां प्रपितामहः ।
जगाम सहितस्तत्र यत्र देवो महेश्वरः ॥ १५०.२४ ॥
अतोषयज्जगन्नाथं सर्वभूतमहेश्वरम् ।
स्तुतिभिस्तण्डकैः स्तोत्रैर्वेदवेदाङ्गसम्भवैः ॥ १५०.२५ ॥
ततस्तुष्टो महादेवो देवानां परमेश्वरः ।
उवाच मधुरां वाणीं देवान्ब्रह्मपुरोगमान् ॥ १५०.२६ ॥
किं कार्यं कश्च सन्तापः किं वागमनकारणम् ।
देवतानामृषीणां च कथ्यतां मम माचिरम् ॥ १५०.२७ ॥
देवा ऊचुः ।
कामनाशाज्जगन्नाशो भवितायं चराचरे ।
त्रैलोक्यं त्वं पुनः शम्भो उत्पादयितुमर्हसि ॥ १५०.२८ ॥
एतच्छ्रुत्वा वचस्तेषां विमृश्य परमेश्वरः ।
चिन्तयामास कामस्य विग्रहं भुवि दुर्लभम् ॥ १५०.२९ ॥
आजगाम ततः शीघ्रमनङ्गो ह्यङ्गतां गतः ।
प्राणदः सर्वभूतानां पश्यतां नृपसत्तम ॥ १५०.३० ॥
ततः शङ्खनिनादेन भेरीणां निःस्वनेन च ।
अभ्यनन्दंस्ततो देवं सुरासुरमहोरगाः ॥ १५०.३१ ॥
नमस्ते देवदेवेश कृतार्थाः सुरसत्तमाः ।
विसर्जिताः पुनर्जग्मुर्यथागतमरिन्दम ॥ १५०.३२ ॥
गतेषु सर्वदेवेषु कामदेवोऽपि भारत ।
तपश्चचार विपुलं नर्मदातटमाश्रितः ॥ १५०.३३ ॥
तपोजपकृशीभूतो दिव्यं वर्षशतं किल ।
महाभूतैर्विघ्नकरैः पीड्यमानः समन्ततः ॥ १५०.३४ ॥
आत्मविघ्नविनाशार्थं संस्मृतः कुण्डलेश्वरः ।
चकार रक्षां सर्वत्र शरपाते नृपोत्तम ॥ १५०.३५ ॥
ततस्तुष्टो महादेवो दृढभक्त्या वरप्रदः ।
वरेण छन्दयामास कामं कामविनाशनः ॥ १५०.३६ ॥
ज्ञात्वा तुष्टं महादेवमुवाच झषकेतनः ।
प्रणतः प्राञ्जलिर्भूत्वा देवदेवं त्रिलोचनम् ॥ १५०.३७ ॥
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
अत्र तीर्थे जगन्नाथ सदा संनिहितो भव ॥ १५०.३८ ॥
तथेति चोक्त्वा वचनं देवदेवो महेश्वरः ।
जगामाकाशमाविश्य स्तूयमानोऽप्सरोगणैः ॥ १५०.३९ ॥
गते चादर्शनं देवे कामदेवो जगद्गुरुम् ।
स्थापयामास राजेन्द्र कुसुमेश्वरसंज्ञितम् ॥ १५०.४० ॥
तत्र तीर्थे तु यः स्नात्वा ह्युपवासपरायणः ।
चैत्रमासे चतुर्दश्यां मदनस्य दिनेऽथवा ॥ १५०.४१ ॥
प्रभाते विमले प्राप्ते स्नात्वा पूज्य दिवाकरम् ।
तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः ॥ १५०.४२ ॥
कृत्वा स्नानं विधानेन पूजयित्वा च तं नृप ।
पिण्डनिर्वपणं कुर्यात्तस्य पुण्यफलं शृणु ॥ १५०.४३ ॥
सत्त्रयाजिफलं यच्च लभते द्वादशाब्दिकम् ।
पिण्डदानात्फलं तच्च लभते नात्र संशयः ॥ १५०.४४ ॥
अङ्कुल्लमूले यः पिण्डं पित्ःनुद्दिश्य दापयेत् ।
तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः ॥ १५०.४५ ॥
कृमिकीटपतङ्गा ये तत्र तीर्थे युधिष्ठिर ।
प्राप्नुवन्ति मृताः स्वर्गं किं पुनर्ये नरा मृताः ॥ १५०.४६ ॥
संन्यासं कुरुते योऽत्र जितक्रोधो जितेन्द्रियः ।
कुसुमेशे नरो भक्त्या स गच्छेच्छिवमन्दिरम् ॥ १५०.४७ ॥
तत्र दिव्याप्सरोभिश्च देवगन्धर्वगायनैः ।
क्रीडते सेव्यमानस्तु कल्पकोटिशतं नृप ॥ १५०.४८ ॥
पूर्णे चैव ततः काल इह मानुष्यतां गतः ।
जायते राजराजेन्द्रैः पूज्यमानो नृपो महान् ॥ १५०.४९ ॥
सुरूपः सुभगो वाग्मी विक्रान्तो मतिमाञ्छुचिः ।
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ १५०.५० ॥
एतत्पुण्यं पापहरं तीर्थकोटिशताधिकम् ।
कुसुमेशेति विख्यातं सर्वदेवनमस्कृतम् ॥ १५०.५१ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुसुमेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चाशदधिकशततमोऽध्यायः ॥