स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २००
अध्याय २००
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं पार्थ सावित्रीतीर्थमुत्तमम् ।
यत्र सिद्धा महाभागा सावित्री वेदमातृका ॥ २००.१ ॥
युधिष्ठिर उवाच -
सावित्री का द्विजश्रेष्ठ कथं वाराध्यते बुधैः ।
प्रसन्ना वा वरं कं च ददाति कथयस्व मे ॥ २००.२ ॥
श्रीमार्कण्डेय उवाच -
पद्मा पद्मासनस्थेनाधिष्ठिता पद्मयोगिनी ।
सावित्रतेजःसदृशी सावित्री तेन चोच्यते ॥ २००.३ ॥
पद्मानना पद्मवर्णा पद्मपत्रनिभेक्षणा ।
ध्यातव्या ब्राह्मणैर्नित्यं क्षत्रवैश्यैर्यथाविधि ॥ २००.४ ॥
ब्रह्महत्याभयात्सा हि न तु शूद्रैः कदाचन ।
उच्चारणाद्धारणाद्वा नरके पतति ध्रुवम् ॥ २००.५ ॥
वेदोच्चारणमात्रेण क्षत्रियैर्धर्मपालकैः ।
जिह्वाछेदोऽस्य कर्तव्यः शूद्रस्येति विनिश्चयः ॥ २००.६ ॥
बाला बालेन्दुसदृशी रक्तवस्त्रानुलेपना ।
उषःकाले तु ध्यातव्या सन्ध्या सन्धान उत्तमे ॥ २००.७ ॥
उत्तुङ्गपीवरकुचा सुमुखी शुभदर्शना ।
सर्वाभरणसम्पन्ना श्वेतमाल्यानुलेपना ॥ २००.८ ॥
श्वेतवस्त्रपरिच्छन्ना श्वेतयज्ञोपवीतिनी ।
मध्याह्नसन्ध्या ध्यातव्या तरुणा भुक्तिमुक्तिदा ॥ २००.९ ॥
प्रदोषे तु पुनः पार्थ श्वेता पाण्डुरमूर्धजा ।
सुमृता तु दुर्गकान्तारे मातृवत्परिरक्षति ॥ २००.१० ॥
विशेषेण तु राजेन्द्र सावित्रीतीर्थमुत्तमम् ।
स्नात्वाचम्य विधानेन मनोवाक्कायकर्मभिः ॥ २००.११ ॥
प्राणायामैर्दहेद्दोषान् सप्तजन्मार्जितान्बहून् ।
आपोहिष्ठेति मन्त्रेण प्रोक्षयेदात्मनस्तनुम् ॥ २००.१२ ॥
नवषट्च तथा तिस्रस्तत्र तीर्थे नृपोत्तम ।
आपोहिष्ठेति त्रिरावृत्य प्रतिग्राहैर्न लिप्यते ॥ २००.१३ ॥
अघमर्षणं त्र्यृचं तोयं यथावेदमथापि वा ।
उपपापैर्न लिप्येत पद्मपत्रमिवाम्भसा ॥ २००.१४ ॥
त्र्यापं हि कुरुते विप्र उल्लेखत्रयमाचरेत् ।
चतुर्थं कारयेद्यस्तु ब्रह्महत्यां व्यपोहति ॥ २००.१५ ॥
द्रुपदाख्यश्च यो मन्त्रो वेदे वाजसनेयके ।
अन्तर्जले सकृज्जप्तः सर्वपापक्षयंकरः ॥ २००.१६ ॥
उदुत्यमिति मन्त्रेण पूजयित्वा दिवाकरम् ।
गायत्रीं च जपेद्देवीं पवित्रां वेदमातरम् ॥ २००.१७ ॥
गायत्रीं तु जपेद्देवीं यः सन्ध्यानन्तरं द्विजः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ २००.१८ ॥
दशभिर्जन्मभिर्लब्धं शतेन तु पुराकृतम् ।
त्रियुगं तु सहस्रेण गायत्री हन्ति किल्बिषम् ॥ २००.१९ ॥
गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥ २००.२० ॥
सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत्कुरुते किंचिन्न तस्य फलभाग्भवेत् ॥ २००.२१ ॥
सन्ध्यां नोपासते यस्तु ब्राह्मणो मन्दबुद्धिमान् ।
स जीवन्नेव शूद्रः स्यान्मृतः श्वा सम्प्रजायते ॥ २००.२२ ॥
सावित्रीतीर्थमासाद्य सावित्रीं यो जपेद्द्विजः ।
त्रैविद्यं तु फलं तस्य जायते नात्र संशयः ॥ २००.२३ ॥
पित्ःनुद्दिश्य यः स्नात्वा पिण्डनिर्वपणं नृप ।
कुरुते द्वादशाब्दानि तृप्यन्ति तत्पितामहाः ॥ २००.२४ ॥
सावित्रीतीर्थमासाद्य यः कुर्यात्प्राणसंक्षयम् ।
ब्रह्मलोकं वसेत्तावद्यावदाभूतसम्प्लवम् ॥ २००.२५ ॥
पूर्णे चैव ततः काल इह मानुष्यतां गतः ।
चतुर्वेदो द्विजो राजञ्जायते विमले कुले ॥ २००.२६ ॥
धनधान्यचयोपेतः पुत्रपौत्रसमन्वितः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ २००.२७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सावित्रीतीर्थमाहात्म्यवर्णनं नाम द्विशततमोऽध्यायः ॥