स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १५३
अध्याय १५३
मार्कण्डेय उवाच -
तस्यैवानन्तरं चान्यद्रवितीर्थमनुत्तमम् ।
यस्य संदर्शनादेव मुच्यन्ते पातकैर्नराः ॥ १५३.१ ॥
रवितीर्थे तु यः स्नात्वा नरः पश्यति भास्करम् ।
तस्य यत्फलमुद्दिष्टं स्वयं देवेन तच्छृणु ॥ १५३.२ ॥
नान्धो न मूको बधिरः कुले भवति कश्चन ।
कुरूपः कुनखी वापि तस्य जन्मानि षोडश ॥ १५३.३ ॥
दद्रुचित्रककुष्ठानि मण्डलानि विचर्चिका ।
नश्यन्ति देवभक्तस्य षण्मासान्नात्र संशयः ॥ १५३.४ ॥
चरितं तस्य देवस्य पुराणे यच्छ्रुतं मया ।
न तत्कथयितुं शक्यं संक्षेपेण नृपोत्तम ॥ १५३.५ ॥
तत्र तीर्थे तु यद्दानं रविमुद्दिश्य दीयते ।
विधिना पात्रविप्राय तस्यान्तो नास्ति कर्हिचित् ॥ १५३.६ ॥
अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा ।
रवितीर्थे प्रदत्तानां दानानां फलमुत्तमम् ॥ १५३.७ ॥
संक्रान्तौ यानि दानानि हव्यकव्यानि भारत ।
अपामिव समुद्रस्य तेषामन्तो न लभ्यते ॥ १५३.८ ॥
येन येन यदा दत्तं येन येन यदा हुतम् ।
तस्य तस्य तदा काले सविता प्रतिदायकः ॥ १५३.९ ॥
सप्त जन्मानि तान्येव ददात्यर्कः पुनः पुनः ।
शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये ॥ १५३.१० ॥
संक्रान्तौ शतसाहस्रं व्यतीपाते त्वनन्तकम् ॥ १५३.११ ॥
युधिष्ठिर उवाच -
रवितीर्थं कथं तात पुण्यात्पुण्यतरं स्मृतम् ।
विस्तरेण ममाख्याहि श्रवणौ मम लम्पटौ ॥ १५३.१२ ॥
श्रीमार्कण्डेय उवाच -
शृणुष्वावहितो भूत्वा ह्यादित्येश्वरमुत्तमम् ।
उत्तरे नर्मदाकूले सर्वव्याधिविनाशनम् ॥ १५३.१३ ॥
पुरा कृतयुगस्यादौ जाबालिर्ब्राह्मणोऽभवत् ।
वसिष्ठान्वयसम्भूतो वेदशास्त्रार्थपारगः ॥ १५३.१४ ॥
पतिव्रता साधुशीला तस्य भार्या मनस्विनी ।
ऋतुकाले तु सा गत्वा भर्तारमिदमब्रवीत् ॥ १५३.१५ ॥
वर्तते ऋतुकालो मे भर्तारं त्वामुपस्थिता ।
भज मां प्रीतिसंयुक्तः पुत्रकामां तु कामिनीम् ॥ १५३.१६ ॥
एवमुक्तो द्विजः प्राह प्रियेऽद्याहं व्रतान्वितः ।
गच्छेदानीं वरारोहे दास्य ऋत्वन्तरे पुनः ॥ १५३.१७ ॥
पुनर्द्वितीये सम्प्राप्ते ऋतुकालेऽप्युपस्थिता ।
पुनः सा छन्दिता तेन व्रतस्थोऽद्येति भारत ॥ १५३.१८ ॥
इत्थं वा बहुशस्तेन छन्दिता च पुनः पुनः ।
निराशा चाभवत्तत्र भर्तारं प्रति भामिनी ॥ १५३.१९ ॥
दुःखेन महताविष्टा विधायानशनं मृता ।
तेन भ्रूणहतेनैव पापेन सहसा द्विजः ॥ १५३.२० ॥
शीर्णघ्राणाङ्घ्रिरभवत्तपः सर्वं ननाश च ।
दृष्ट्वात्मानं स कुष्ठेन व्याप्तं ब्राह्मणसत्तमः ॥ १५३.२१ ॥
विषादं परमं गत्वा नर्मदातटमाश्रितः ।
अपृच्छद्भास्करं तीर्थं द्विजेभ्यो द्विजसत्तमः ॥ १५३.२२ ॥
आरोग्यं भास्करादिच्छेदिति संचिन्त्य चेतसि ।
कुतस्तद्भास्करं तीर्थं भो द्विजाः कथ्यतां मम ॥ १५३.२३ ॥
तपस्तप्याम्यहं गत्वा तस्मिंस्तीर्थे सुभावितः ॥ १५३.२४ ॥
द्विजा ऊचुः ।
रेवाया उत्तरे कूले आदित्येश्वरनामतः ।
विद्यते भास्करं तीर्थं सर्वव्याधिविनाशनम् ॥ १५३.२५ ॥
तत्र याह्यविचारेण गन्तुं चेच्छक्यते त्वया ।
एवमुक्तो द्विजैर्विप्रो गन्तुं तत्र प्रचक्रमे ॥ १५३.२६ ॥
व्याधिना परिभूतस्तु घोरेण प्राणहारिणा ।
यदा गन्तुं न शक्नोति तदा तेन विचिन्तितम् ॥ १५३.२७ ॥
सामर्थ्यं ब्राह्मणानां हि विद्यते भुवनत्रये ।
लिङ्गपातः कृतो विप्रैर्देवदेवस्य शूलिनः ॥ १५३.२८ ॥
समुद्रः शोषितो विप्रैर्विन्ध्यश्चापि निवारितः ।
अहमप्यत्र संस्थस्तु ह्यानयिष्यामि भास्करम् ॥ १५३.२९ ॥
तपोबलेन महता ह्यादित्येश्वरसंज्ञितम् ।
इति निश्चित्य मनसा ह्युग्रे तपसि संस्थितः ॥ १५३.३० ॥
वायुभक्षो निराहारो ग्रीष्मे पञ्चाग्निमध्यगः ।
शिशिरे तोयमध्यस्थो वर्षास्वप्रावृताकृतिः ॥ १५३.३१ ॥
साग्रे वर्षशते पूर्णे रविस्तुष्टोऽब्रवीदिदम् ॥ १५३.३२ ॥
सूर्य उवाच -
वरं वरय भद्रं ते किं ते मनसि वाञ्छितम् ।
अदेयमपि दास्यामि ब्रूहि मां त्वं चिरं कृथाः ॥ १५३.३३ ॥
किमसाध्यं हि ते विप्र इदानीं तपसि स्थितः ॥ १५३.३४ ॥
जाबालिरुवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
मम प्रतिज्ञा देवेश ह्यादित्येश्वरदर्शने ॥ १५३.३५ ॥
कृता तां पारितुं देव न शक्तो व्याधिना वृतः ।
शुक्लतीर्थेऽत्र तिष्ठ त्वमादित्येश्वरमूर्तिधृक् ॥ १५३.३६ ॥
एवमुक्ते तु देवेशो बहुरूपो दिवाकरः ।
उत्तरे नर्मदाकूले क्षणादेव व्यदृश्यत ॥ १५३.३७ ॥
तदाप्रभृति भूपाल तद्धि तीर्थं प्रचक्षते ।
सर्वपापहरं प्रोक्तं सर्वदुःखविनाशनम् ॥ १५३.३८ ॥
यस्तु संवत्सरं पूर्णं नित्यमादित्यवासरे ।
स्नात्वा प्रदक्षिणाः सप्त दत्त्वा पश्यति भास्करम् ॥ १५३.३९ ॥
यत्फलं लभते तेन तच्छृणुष्व मयोदितम् ।
प्रसुप्तं मण्डलानीह दद्रुकुष्ठविचर्चिकाः ॥ १५३.४० ॥
नश्यन्ति सत्वरं राजंस्तूलराशिरिवानले ।
धनपुत्रकलत्राणां पूरयेद्वत्सरत्रयात् ॥ १५३.४१ ॥
यस्तु श्राद्धप्रदस्तत्र पित्ःनुद्दिश्य संक्रमे ।
तृप्यन्ति पितरस्तस्य पितृदेवो हि भास्करः ॥ १५३.४२ ॥
इति ते कथितं सर्वमादित्येश्वरमुत्तमम् ।
सर्वपापहरं दिव्यं सर्वरोगविनाशनम् ॥ १५३.४३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः ॥