स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०७१
॥ सूत उवाच ॥ ॥
तास्तथेति प्रतिज्ञाय चक्रुस्तच्छक्रशासनम् ॥
सूतिकागृहधर्मे यत्तच्चक्रुस्तस्य सर्वशः ॥ १ ॥
अथान्यदिवसे बालो द्वादशार्कसमद्युतिः ॥
संजज्ञे तेन वीर्येण द्विभुजैक मुखः शुभः ॥ २ ॥
यथासौ जातमात्रस्तु प्ररुरोद सुदुःखितः ॥
तच्छ्रुत्वा रुदितं सर्वाः कृत्तिकास्तमुपागताः ॥ ३ ॥
महासेनोऽपि संवीक्ष्य मातॄस्ताः समुपागताः॥
सोत्कण्ठः षण्मुखो जातो द्वादशाक्षभुजस्तथा ॥ ४ ॥
एकैकस्याः पृथक्तेन प्रपपौ प्रयतः स्तनम् ॥
द्वाभ्यामालिंगयामास भुजाभ्यां स्नेहपूर्वकम्॥ ५ ॥
एतस्मिन्नंतरे प्राप्ता ब्रह्मविष्णुशिवादयः ॥
सर्वे देवाः सहेन्द्रेण गन्धर्वाप्सरसस्तथा ॥ ६ ॥
महोत्सवोऽथ संजज्ञे तस्मिन्स्थाने निरर्गलः ॥
गीतवाद्यप्रणादेन येनविश्वं प्रपूरितम् ॥ ७ ॥
रंभाद्या ननृतुस्तस्य विलासिन्यो दिवौकसाम् ॥
जगुश्च मुख्यगन्धर्वा श्चित्रांगदमुखाश्च ये ॥ ८ ॥
ततस्तु देवताः सर्वास्तस्य नाम प्रचक्रिरे ॥
स्कन्दनाद्रेतसो भूमौ स्कन्द इत्येव सादरम् ॥ ९ ॥
अथ तस्य कुमा रस्य तदा तत्राभिषेचनम् ॥
सेनापत्यं कृतं साक्षाद्देवानां शंभुना स्वयम् ॥ ६.७१.१० ॥
तस्य शक्तिः स्वयं दत्ता विधिनाऽद्भुतदर्शना ॥
अमोघा विजयार्थाय दैत्यपक्षक्षयाय च ॥ ११ ॥
मयूरो वाहनार्थाय त्र्यंबकेण सुशीघ्रतः ॥
दिव्यास्त्राणि महेन्द्रेण विष्णुनाथ महात्मना ॥ १२ ॥
ततोऽभीष्टानि शस्त्राणि देवैः सर्वैः पृथक्पृथक् ॥
तस्य दत्तानि संतुष्टैस्तथा मातृगणैरपि ॥ १३ ॥
ततस्तमग्रतः कृत्वा सेनानाथं सुरेश्वराः ॥
जग्मुः ससैनिकास्तत्र तारको यत्र संस्थितः ॥ १४ ॥
तारकोऽपि समालोक्य देवान्स्वयमुपागतान् ॥
युद्धार्थं हर्षसंयुक्तः सम्मुखः सत्वरं ययौ ॥ १५ ॥
ततोऽभूत्सुमहद्युद्धं देवानां दानवैः सह ॥
कोपसंरक्तनेत्राणां मृत्युं कृत्वा निवर्तनम् ॥ १६ ॥
अथ स्कन्देन संवीक्ष्य दूरस्थं तारकं रणे ॥
समाहूय ततो मुक्ता सा शक्तिस्तस्य मृत्यवे ॥ १७ ॥
अथासौ हृदयं भित्त्वा तस्य दैत्यस्य दारुणा ॥
चमत्कारपुरोपांते पतिता रुधिरोक्षिता ॥ १८ ॥
तारकस्तु गतो नाशं मुक्तः प्राणैश्च तत्क्षणात् ॥
ततो देवगणाः सर्वे संहृष्टास्तं महाबलम् ॥ १९ ॥
स्तोत्रैर्बहुविधैः स्तुत्वा प्रोचुस्तस्मिन्हते सति ॥
गताश्च त्रिदिवं तूर्णं सह शक्रेण निर्भयाः ।१ ६.७१.२० ॥
स्कन्दोऽपि तां समादाय शक्तिं तत्र पुरोत्तमे ॥
स्थापयामास येनैव रक्तशृंगोऽभवद्दृढः ॥ ॥ २१ ॥
ऋषय ऊचुः ॥ ॥
रक्तशृंगः कथं तेन निश्चलोऽपि दृढीकृतः ॥
कस्य वाक्येन नो ब्रूहि विस्तरेण महामते ॥ २२ ॥
॥ सूत उवाच ॥ ॥
यदा वै भूमिकम्पस्तु संप्रजातः सुदारुणः ॥
रक्तशृङ्गः प्रचलितः स्वस्थानादतिवेगतः ॥ २३ ॥
तस्य दैत्यस्य पातेन यथान्ये पर्व तोत्तमाः ॥
अथ हर्म्याणि सर्वाणि चमत्कारपुरे तदा ॥ २४ ॥
शीर्णानि चलिते तस्मिन्पर्वते व्यथिता द्विजाः ॥
प्रायशो निधनं प्राप्तास्तथाऽन्ये मूर्छयार्दिताः ॥ २५ ॥
हतशेषास्ततो विप्रा गत्वा स्कन्दं क्रुधान्विताः ॥
प्रोचुश्च किमिदं पाप त्वया कृतमबुद्धिना ॥ २६ ॥
नाशं नीता वयं सर्वे सपुत्रपशुबाधवाः ॥
तस्माच्छापं प्रदास्यामो वयं दुःखेन दुःखिताः ॥ २७ ॥
॥ स्कन्द उवाच ॥ ॥
हिताय सर्वलोकानां मयैतत्समनुष्ठितम् ॥
यद्धतो दानवो रौद्रो नान्यथा द्विजसत्तमाः ॥ २८ ॥
प्रसादः क्रियतां तस्मान्मान्या मे ब्राह्मणाः सदा ॥
मृतानपि द्विजान्सर्वानहं तानमृताश्रयात्॥ २९ ॥
पुनर्जीवितसंयुक्तान्करिष्यामि न संशयः ॥
तथा सुनिश्चलं शैलं करिष्यामि स्वशक्तितः ॥ ६.७१.३० ॥
एवमुक्त्वा समादाय तां शक्तिं रुधिरोक्षिताम् ॥
चक्रे स्थापनमस्यास्तु रक्तशृङ्गस्य मूर्धनि ॥ ३१ ॥
ततः प्रोवाच संहृष्टो देवतानां चतुष्टयम् ॥
आंबवृद्धां तथैवाम्रां माहित्थां च चमत्करीम् ॥ ३२ ॥
युष्माभिर्निश्चलः कार्यो भूयोऽयं नगसत्तमः ।।
प्रलयेऽपि यथा स्थानाद्रक्तशृङ्गश्चलेन्नहि ॥ ३३ ॥
सदैव ख्यातिमायातु मन्नाम्ना पुरमुत्तमम्॥३२॥
युष्माकं ब्राह्मणाः सर्वे पूजां दास्यंति सर्वदा॥३४॥
बाढमित्येव ताः प्रोच्य चतुर्दिक्षु ततश्च तम्॥
शूलाग्रैः सुदृढं चक्रुः स्कन्दवाक्येन हर्षिताः॥
ततश्चामृतमादाय मृतानपि द्विजोत्तमान्॥
स्कन्दो जीवापयामास द्विजभक्तिपरायणः॥३६॥
ततस्ते ब्राह्मणास्तत्र संहृष्टा वरमुत्तमम् ॥
ददुस्तस्य स च प्राह मन्नामैतत्पुरोत्तमम् ॥
सदैव ख्यातिमायातु एतन्मे हृदि वांछितम् ॥ ३७ ॥
॥ ऋषय ऊचुः ॥ ॥
एतत्स्कन्दपुरंनाम तव नाम्ना भविष्यति ॥
चमत्कारपुरं तद्वत्सांप्रतं सुरसत्तम ॥ ३८ ॥
पूजां तव करिष्यामः कृत्वा प्रासादमुत्त मम् ॥
तथैव देवताः सर्वाश्चतस्रोऽपि त्वया धृताः ॥ ३९ ॥
सर्वाः संपूजयिष्यामः सर्वकृत्येषु सादरम्॥
एतां चं तावकीं शक्तिं सदा सुरवरोत्तम ॥
विशेषात्पूजयिष्यामः षष्ठ्यां श्रद्धासमन्विताः ॥ ६.७१.४० ॥
॥ सूत उवाच ॥ ॥
एवं स ब्राह्मणैः प्रोक्तो महासेनो महाबलः ॥
स्थितस्तत्रैव तद्वा क्याज्ज्ञात्वा तत्क्षेत्रमुत्तमम् ॥ ४१ ॥
यस्तं पूजयते भक्त्या चैत्रषष्ठ्यां सुभावतः ॥
शुक्लायां तस्य संतुष्टिं कुरुते बर्हिवाहनः ॥ ४२ ॥
तस्यां शक्तौ नरो यश्च कुर्यात्पृष्ठिनिघर्षणम्॥
पूजयित्वा तु पुष्पाद्यैः सम्यक्छ्रद्धासमन्वितः ॥
स न स्याद्रोगसंयुक्तो यावत्संवत्सरं द्विजाः ॥ ४३ ॥
एवं तत्र धृता शक्तिस्तेन स्कन्देन धीमता ॥
रक्तशृंगस्य रक्षार्थं तत्पुरस्य विशेषतः ॥ ४४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये स्कन्दस्थापितशक्तिमाहात्म्यवर्णनंनामैकसप्ततितमोऽध्यायः ॥ ७१ ॥ ॥ ध ॥