स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ५९
।। सनत्कुमार उवाच ।। ।।
ततः सुरगणाः सर्वे धूतपापा समाहिताः ।।
पुनर्योगबलं प्राप्य स्वाधिकारं ययुः पुरा ।। १ ।।
एवं व्यास गयातीर्थं कुमुद्वत्यां सुनिश्चित म् ।।
गयायां यानि तीर्थानि पुण्यान्यायतनानि च ।। २ ।।
तत्तीर्थेषु नरः स्नात्वा तत्तत्तीर्थफलं भवेत् ।।
तथैव च गयाक्षेत्रं गयाश्राद्ध फलप्रदम् ।। ३ ।।
फल्गुश्च सरितां श्रेष्ठा तथैव फलदायिनी ।।
आदिगया बुद्धगया तथा विष्णुपदी स्मृता ।। ४ ।।
गयाकोष्ठस्तथा प्रोक्तो गदाधरपदानि च ।।
वेदिका षोडशी प्रोक्ता तथैव चाक्षयो वटः ।। ५ ।।
प्रेतमुक्तिकरी नित्यं शिला चोक्ता तथैव च ।।
अच्छोदा निम्नगा प्रोक्ता पितॄणां चाश्रमोत्तमः ।। ६ ।।
देवानां दानवानां च यक्षकिन्नररक्षसाम् ।।
पन्नगानां च सर्वेषां तथैवाश्रम उत्तमः ।।७।।
एतत्स्थानेषु सर्वेषु स्नानदानादिकाः क्रियाः ।।
श्राद्धं च विधिवद्देयं तत्तत्तीर्थफलं लभेत् ।।८।।
गयायां पितृरूपेण स्वयमेव जनार्दनः ।।
तं ध्यात्वा पुंडरीकाक्षं मुच्यते च ऋणत्रयात् ।। ।। ९ ।।
एवं व्यास गयातीर्थं पुरावन्त्यां प्रतिष्ठितम् ।।
पश्चात्तु कैकटे जातं यत्र संनिहितोऽसुरः ।। 5.1.59.१० ।।
तदारभ्य द्विजश्रेष्ठ गया तत्र प्रतिष्ठिता।।
गदाधरपदाघातैर्महासुरो निपातितः ।। ११ ।।
तत्पदे च महिमानं जनार्दनसमर्पितम् ।। १२ ।।
पंचक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ।।
यत्र तत्र करिष्यामि पितॄणां दत्तमक्षयम्।।
सर्वदा सर्वकालेषु गयाश्राद्धं विधीयते ।। १३ ।।
संवत्सरे परं व्यास दिनमेकं प्रतिष्ठितम् ।।
कन्यास्थे च दिवा नाथे हस्तनक्षत्रसंयुते ।।
महालयेति तत्प्रोक्तं पितॄणां दत्तमक्षयम् ।।१४।।
सर्वदा सर्वकालेषु गयाश्राद्धं विधीयते ।।१५।।
संवत्सरे परं व्यास दिनमेकं प्रतिष्ठितम् ।।
अन्वष्टकायां कुर्वंति मातॄणां श्राद्धमुत्तमम् ।। १६ ।।
अक्षय्या जायते तृप्तिः पितॄणां कल्पसंख्यया ।।
एवं व्यास पुरी रम्या स्नानदा नादिकर्मसु ।। १७ ।।
भूयस्तु संप्रवक्ष्यामि माहात्म्यं परमाद्भुतम् ।।
तच्छृणुष्व मया ख्यातं पवित्रं पापनाशनम् ।। १८ ।।
सप्तर्षीणां च या भार्या ऋषिपत्न्यः पतिव्रताः ।।
स्वाहादोषपरिभ्रष्टा दूषिताः पावकेन च ।। १९ ।।
ऋषिभिश्च परित्यक्ता बभ्रमुश्च वनाद्वनम् ।।
एवं बहुतिथे काले नारदो देवदर्शनः।।5.1.59.२०।।
तासां च प्रियमन्विच्छन्समायातो वनांतरे ।।
ताभिश्च सत्कृतो नित्यं समासीनो धृतव्रतः ।। २१ ।।
उवाच श्लक्ष्णया वाचा देशकालोचितं वचः ।।
किमिदं विकृतं जातं भवतीनां पराभवः ।। २२ ।।
कस्माच्च ऋषिभिस्त्यक्ता लोकमातरः पतिव्रताः ।। २३ ।। ।।
।। ऋषिपत्न्य ऊचुः ।। ।।
न जानीमो वयं तात येन दोषेण तापसैः ।।
विमुक्ताः साग्निकैः क्षिप्रं कार्तिकेयप्रसंगतः ।। २४ ।।
लोकापवादजं किंचिज्जातं दिष्टवशादधम् ।।
किं कुर्मो वा क्व गच्छामः किं तपः का च देवता ।। २५ ।।
यस्याराधनपुण्येन पतिसांनिध्यमाप्नुयुः ।।
एतन्निश्चित्य भो ब्रह्मन्ब्रूहि त्वं वेदतत्त्वतः ।।२६।।
इति पृष्टस्तदा ताभिर्ऋषिपत्नीभिर्नारदः ।।
उवाच सुचिरं ध्यात्वा तासां स शर्महेतवे ।।२७।।
।। नारद उवाच ।। ।।
श्रूयतां भोस्तपःश्रेष्ठा भवतीनां च कारणम्।।
महाकालवने रम्ये गयातीर्थमनुत्तमम् ।।२८ ।।
तत्रैव चाक्षयो नाम न्यग्रोधः शाखिनां वरः ।।
तत्रागमनमात्रेण धूतदोषा भविष्यथ ।। २९ ।।
सर्वदोषहरं तीर्थं सर्वकामवरप्रदम् ।।
सर्वसौख्यकरं पुण्यं तत्र गच्छत मा चिरम् ।। 5.1.59.३० ।।
नारदस्य वचः श्रुत्वा ऋषिपन्त्यः सुचोदिताः ।।
महाकालवने व्यास इच्छंत्यः प्रियमात्मनः ।। ३१ ।।
आजग्मुस्तद्वनं तत्र यत्र तीर्थं गयाभिधम् ।।
तत्र गत्वा शुचीभूय स्नानदानादिकाः क्रियाः ।। ३२ ।।
कृतास्ताभिश्च पुण्याभिर्नभस्यस्यासितेतरे ।।
पञ्चम्यामृषिसंज्ञायां ताभिः सुचरितं व्रतम्।। ३३ ।।
उपोष्य चैकरात्रं तु जागरं चैव योगतः ।।
कृतमात्रे व्रते व्यास धूतपापा बभुः क्षणात् ।। ।। ३४।।
भर्तृकोपपरिभ्रष्टाः सद्यः प्राप्ता गृहाश्रमम्।।
ऋषिभिः साग्निकं दत्तं पूर्ववदृषिसत्तम।।३५।।
तदाप्रभृति लोकेस्मिन्पंचमी ऋषिसंज्ञिता ।।
ये नराश्चाथ नार्यो यास्तां कुर्वन्ति तु भक्तिः।।३६।।
नीवाराहारकं कृत्वा शुचीभूय समाहिताः।।
न तेषां जायते किंचिदापद्दुःखं कदाचन।।
दुर्भगत्वं च नारीणां न वियोगश्च मातृभिः।३८।।
पुत्रतो धनतो वापि कदाचित्संभविष्यति।।
एवं व्यास समाख्यातं यत्त्वया परिपृच्छितम् ।। ३९ ।।
अवंत्यामीदृशं तीर्थं वर्तते भुवि सत्तम ।।
तादृशं पुण्यदं किंचिन्नास्ति ब्रह्मांडगोलके ।। 5.1.59.४० ।।
अस्मिंस्तीर्थे नरः कश्चिन्महा दानानि चेच्चरेत् ।।
अक्षयाणि भवंत्यस्य विष्णुलोके महीयते ।। ४१ ।।
यो वै नियमवान्भूत्वा कथामेतां शृणोति वा ।।
पठेच्च सततं व्यास हय मेधफलं लभेत् ।। ४२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयातीर्थमाहात्म्य वर्णनंनामैकोनषष्टितमोऽध्यायः।।५९।।