स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ३९

विकिस्रोतः तः


।। व्यास उवाच ।। ।।
भगवन्क्षेत्रमाहात्म्यं कथितं च यथातथम् ।।
तीर्थानामुत्तमं तीर्थं पुण्यानां पुण्यवर्धनम् ।। १ ।।
कति संत्यत्र तीर्थानि लिंगानि च तथा कति ।।
कथयस्व प्रसादेन पृच्छतो मम सांप्रतम् ।। २ ।।
।। सनत्कुमार उवाच ।। ।।
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ।।
महाकालवने व्यास लिंगसंख्या न विद्यते ।। ३ ।।
अकामो वा सकामो वा जायते योऽत्र मानवः ।।
महाकालवने रम्ये शिवलोके महीयते ।। ४ ।।
कृतकामानि तीर्थानि प्रासादायतनानि च ।।
तेषु स्नात्वा शुचिर्भूत्वा शिवलोके महीयते ।। ५ ।।
पुण्यानि सर्वतीर्थानि सिद्धिक्षेत्राणि सर्वतः ।।
तेषां मुख्यतमं विद्धि क्षेत्रं तीर्थं तथोत्तमम् ।। ।। ६ ।।
यः शृणोति महाभक्त्या स याति परमां गतिम् ।। ७ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्य खण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।। ।। छ ।।