स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ११३

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
ततस्ते ब्राह्मणाः सर्वे गतकोपा दधुर्मतिम् ॥
यज्ञकर्मसु गार्हस्थ्ये पुत्रपौत्रसमुद्भवे ॥ १ ॥
एतस्मिन्नंतरे राजा स तान्प्राप्तान्द्विजोत्तमान्॥
श्रुत्वा भक्ति समायुक्तः प्रणामार्थमुपागतः ॥ २ ॥
श्रुत्वा कोपगतां वार्तामुपशामकृतां तथा ॥
गार्हस्थ्याप्रतिपन्नानां वाक्यैर्भार्यासमुद्भवैः ॥ ३ ॥
ततः प्रणम्य तान्सर्वान्साष्टांगं स महीपतिः ॥
ततः कृतांजलिपुटः प्रोवाच विनतः स्थितः ॥ ४ ॥
युष्मदीयप्रसादेन संप्राप्तं जन्मनः फलम् ॥
मया रोगविनाशेन तस्माद्ब्रूत करोमि किम् ॥ ५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
भार्यया तव राजेंद्र वयं सर्वत्र वासिनः ॥
नीताः कृतार्थतां दत्त्वा रत्नानि विविधानि च॥ ६ ॥
तस्मात्पुरवरं कृत्वा क्षेत्रेऽत्रैव सुशोभने ॥
अस्माकं देहि गार्हस्थ्यं येन सम्यक्प्रजायते ॥ ७ ॥
यजामो विविधैर्यज्ञैः सदा संपूर्णदक्षिणैः ।
इमं लोकं परं चैव साधयामः सदास्थिताः ॥ ८ ॥
तच्छ्रुत्वा पार्थिवो हृष्टस्तथेत्युक्त्वा ततः परम् ॥
अनुकूलदिने प्राप्ते शिल्पानाहूय भूरिशः ॥ ९ ॥
पुरं प्रकल्पयामास बहुप्राकारसंकुलम्॥
प्राकारपरिखायुक्तं गोपुरैः समलंकृतम् ॥ 6.113.१० ॥
अथाष्टषष्टिविप्राणां तत्र मध्ये नृपोत्तमः ॥
अष्टषष्टिगृहाण्येव चकार सुबृहंति च ॥ ११ ॥
मत्तवारणजुष्टानि दीर्घिकासहितानि च ॥
गृहोद्यानैः समेतानि यथा राजगृहाणि च ॥ १२ ॥
तथा कृत्वाऽथ रत्नौघैः पूरयित्वा तथा परैः।
ददौ तेभ्यो अष्टषष्टिं च ग्रामाणां तदनंतरम्॥१३॥
ततः सर्वान्समाहूय पुत्रपौत्रांस्तदग्रतः॥
प्रोवाच तारनादेन श्रूयतां जल्पतो मम ॥ १४ ॥
एतत्पुरं मया दत्तमेभिर्ग्रामैः समन्वितम् ॥
एतेभ्यो ब्राह्मणेंद्रेभ्यः श्रद्धापूतेन चेतसा ॥ १५ ॥
तस्माद्रक्षा प्रकर्तव्या यथा न स्यात्क्षतिः क्वचित् ॥
कष्टं वा ब्राह्मणेंद्राणां तथा चैव पराभवम्॥ १६ ॥
अस्मद्वंशसमुद्भूतो यस्त्वेतांस्तोषयिष्यति ॥
अन्यो वा भूपतिर्वृद्धिमग्र्यां नूनं स यास्यति ॥ १७ ॥
यश्चापराधसंयुक्तानेतान्खेदं नयिष्यति ॥
योजयिष्यति वा क्लेशैर्विविधैर्वा पराभवैः ॥
स शत्रुभिः पराभूतो वेष्टितो विविधैर्गदैः ॥ १८ ॥
इह लोके वियोगादीन्प्राप्य क्लेशान्सुदारुणान्॥
रौरवादिषु रौद्रेषु नरकेषु प्रयास्यति। १९ ॥
एवमुक्त्वा ततः सर्वं तेषां कृत्यं महीपतिः ॥
स्वयमेवाकरोन्नित्यं दिवारात्रमतंद्रितः ॥ 6.113.२० ॥
अथ ता ब्राह्मणेंद्राणां भार्याः सर्वाः द्विजोत्तमाः ॥
दमयंत्याः समासाद्य प्रासादं स्नेहवत्सलाः ॥ २१ ॥
कुंकुमागरुकर्पूरैः पुष्पैर्गंधैः पृथग्विधैः ॥
तदर्च्चा पूजयामासुः स च राजा दिनेदिने ॥ २२॥
अथ ताः प्रोचुरन्योन्यं तापस्यस्तत्पुरः स्थिताः ॥
तस्यभूपस्य संतोषं जनयंत्यो द्विजोत्तमाः ॥ २३ ॥
यदास्माकं गृहे वृद्धिः कदाचित्संभविष्यति ॥
तदग्रतश्च पश्चाच्च दमयंत्याः प्रपूजनम्॥
करिष्यामो न संदेहः सर्वकृत्येषु सर्वदा ॥ २४ ॥
एनां दृष्ट्वा कुमारी या वेदिमध्यं गमिष्यति॥
सा भविष्यत्यसंदेहः पत्युः प्राणसमा सदा ॥ २५ ॥
तस्मात्सर्वप्रयत्नेन कन्यायज्ञ उपस्थिते ॥
दमयंती प्रद्रष्टव्या पूजनीया प्रयत्नतः ॥२६॥
॥ सूत उवाच ॥
एवं तत्र पुरे तेन भूभुजा सुमहात्मना ।
अष्टषष्टिं च संस्थाप्य गोत्राणां निर्वृतिः कृता ॥ २७ ॥
तेषामपि च चत्वारि गोत्राण्युर गजाद्भयात्॥
गतानि तत्र यत्र स्युस्तानि पूर्वोद्भवानि च ।
चतुःषष्टिः स्थिता तत्र पुरे शेषा द्विजन्मनाम् ॥ २८ ॥
॥ ऋषय ऊचुः ॥ ॥
कीदृङनागभयं तेषां येन ते विगता विभो ।
परित्यज्य निजं स्थानमेतन्नो विस्तराद्वद ॥ २९ ॥
॥ सूत उवाच ॥ ॥
आनर्त्ताधिपतिः पूर्वमासीन्नाम्ना प्रभंजनः ॥
धर्मज्ञः सुप्रतापी च परपक्षक्षयावहः ॥ 6.113.३० ॥
ततस्तस्य सुतो जज्ञे प्राप्ते वयसि पश्चिमे ॥
अनिष्टस्थानसंस्थेषु ग्रहेषु द्विज सत्तमाः॥३॥।
ततस्तेन समाहूय दैवज्ञाञ्छास्त्रपंडितान्।
तेषां निवेदितं सर्वं कालं तस्य समुद्भवम्॥३२ ॥
दैवज्ञा ऊचुः॥
एष ते पृथिवीपाल जातः पुत्रः सुगर्हित।
काले ऽनिष्टप्रदे रौद्रे गंडांत त्रितयोद्भवे.३३॥
कथंचिदपि यद्येष जीवयिष्यति पार्थिव।
पितृमातृपुरार्थे च देशानुत्सादयिष्यति ॥ ३४ ॥
॥ राजोवाच ॥ ॥
अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा ॥
येन संजायते क्षेमं पुत्रस्य विषयस्य च ॥ ३५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यथा समुत्थितं यंत्रं यंत्रेण प्रतिहन्यते॥
यथा बाणप्रहाराणां कवचं वारणं भवेत ॥
तथा ग्रहविकाराणां शांतिर्भवति वारणम्॥ ३६॥
तस्मान्नित्यमनुद्विग्नः शांतिकं कुरु भूपते ॥
येन सर्वे ग्रहाः सौम्या जायंते च शुभावहाः ॥ ३७ ॥
अनिष्टस्थानसंस्थेषु ग्रहेषु विषमेषु च॥
ततः स सत्वं गत्वा चमत्कारपुरं नृपः॥३८॥
तत्र विप्रान्समावेश्य सर्वान्प्रोवाच सादरम्।
वयं युष्मत्प्रसादेन राज्यं कुर्मः सदैव हि॥३९॥
ये ऽतीता ये भविष्यंति वंशे ऽस्माकं नृपोत्तमाः॥
भवंतो ऽत्र गतिस्तेषां सस्यानां नीरदो यथा॥6.113.४०॥
यदत्र मत्सुतो जातो दुष्टस्थानस्थितैर्ग्रहैः ॥
दैवज्ञैः शांतिकं प्रोक्तं तस्यानिष्टस्य शांतिदम् ॥ ४१ ॥
तस्मात्कुरुत विप्रेंद्रा यथोक्तं शांतिकं मम ॥
न पुत्रश्च राष्ट्रं च विभवश्च विवर्धते ॥ ४२ ॥
ततस्ते ब्राह्मणाः प्रोचुः संमंत्र्याऽथ परस्परम् ॥
क्षेमाय तव भूनाथ करिष्यामोऽत्र शांतिकम् ॥' ॥ ४३ ॥
सदेव नियताः संतः शांताः षोडश ते द्विजाः ॥
उपहाराः सदा प्रेष्यास्त्वया भक्त्या महीपते ॥
मासांते चाभिषेकश्च ग्राह्यो रुद्रघटोद्भवः ॥ ४४ ॥
एवं प्रकुर्वतस्तुभ्यं पुत्रो वृद्धिं प्रयास्यति ।
तथा राष्ट्रं च कोशश्च यच्चान्यदपि किंचन॥४५॥
ततः प्रणम्य तान्हृष्टो गत्वा निजनिवेशनम्॥
उत्सवं पुत्रजन्मोत्थं चक्रे तैः प्रेरितः सदा ॥ ४६ ॥
संभारान्प्रेषयामास चमत्कारपुरे ततः ॥
मासांते चाभिषेकश्च ग्राह्यो वै विधिपूर्वकम् ॥ ४७ ॥
तेऽपि ब्राह्मणशार्दूलाश्चातुश्चरणसंभवाः ॥
क्रमेण शांतिकं चक्रुर्ब्रह्मचर्यपरायणाः॥४८॥
मासं मासं प्रति सदा शांता दांता जितेंद्रियाः ॥
ततो मासा वसानेऽन्ये चक्रुस्तच्छांतिकं द्विजाः॥ ४९ ॥
सोऽपि राजाऽथ मासांते समागत्य सुभक्तितः ॥
अभिषेकं समादाय पूजयित्वा द्विजोत्तमान् ॥ 6.113.५० ॥
वासोभिर्मुकुटैश्चैव गोभूदानेन केवलम् ॥
संतर्प्यान्यांस्तथा विप्रान्स्वस्थानं याति भूमिपः ॥ ५१ ॥
एवं प्रवर्तमाने च शांतिके तत्र भूपतेः ॥
जगाम सुमहान्कालः क्षेमारोग्यधनागमैः ॥ ५२ ॥
कस्यचित्त्वथ कालस्य मासादावपि भूपतेः ॥
प्रारब्धे शांतिके तस्मिन्महाव्याधिरजायत ॥ ॥ ५३ ॥
तत्पुत्रस्य विशेषेण तथैवांतःपुरस्य च ॥
राष्ट्रस्य च समग्रस्य वाहनानां तथा क्षयः ॥ ५४ ॥
स ततः प्रेषयामास शांत्यर्थं तत्र सत्पुरे ॥
सुसंभारान्विशेषेण दक्षिणाश्च विशेषतः ॥ ५५ ॥
यथायथा द्विजास्तत्र होमं कुर्वंति पावके ॥
तथा सर्वे विशेषेण रोगा वर्धंति सर्वशः ॥ ५६ ॥
म्रियन्ते वाजिनस्तस्य बृहन्तो वारणास्तथा ॥
शत्रवः सर्वकाष्ठासु विग्रहार्थमुपस्थिताः ॥ ५७ ॥
ततः स व्याकुलीभूतो रोगग्रस्तो महीपतिः ॥
चमत्कारपुरं प्राप्य सर्वान्विप्रानुवाच ह ॥ ५८ ॥
युष्माभिः स्वामिभिः संस्थैरापदोऽभिभवंति माम्॥
तत्किमेतन्महाभागाः क्षीयन्ते मम संपदः ॥
रोगाश्चैव विवर्धंते शत्रुसंघैः समन्विताः ॥ ५९ ॥
तस्माद्विशेषतो होमः कार्यो रोगप्रशांतये ॥.
दानानि च विशिष्टानि प्रदास्यामि द्विजन्मनाम् ॥ ॥ 6.113.६० ॥
ततस्ते ब्राह्मणाः सर्वे प्रत्यक्षं तस्य भूपतेः ॥
चक्रुः समाहिता भूत्वा शांतिकं तद्धिताय च ॥ ६१ ॥
यथायथा प्रयुञ्जीरन्होमांते सुसमा हिताः ॥
तथातथास्य भूपस्य वृद्धिं रोगः प्रगच्छति ॥ ६२ ॥
एतस्मिन्नंतरे क्रुद्धास्ते सर्वे द्विजसत्तमाः ॥
ग्रहानुद्दिश्य सूर्यादीञ्छापाय कृतनिश्चयाः ॥ ६३ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
पूजिता अपि सद्भक्त्या विधानेन तथा ग्रहाः ॥
पीडयंति पुरं राज्ञः सपुत्रपशुबांधवम् ॥ ६९ ॥
एवं ते निश्चयं कृत्वा शुचीभूय समाहिताः ॥
यावद्यच्छंति तच्छापं ग्रहेभ्यः क्रोधमूर्छिताः ॥ ६५ ॥
तावद्वह्निरुवाचेदं मूर्तो भूत्वा द्विजोत्तमान् ॥
मा प्रयच्छत विप्रेंद्राः शापं कोपात्कथंचन ॥ ६६ ॥
ग्रहेभ्यो दोषमुक्तेभ्यः श्रूयतां वचनं मम ॥
मासिमासि प्रकुर्वंति होमं ते षोडश द्विजाः ॥ ॥ ६७ ॥
तेषां मध्यस्थितश्चैकस्त्रिजातो ब्राह्मणाधमः ॥
तेन तद्दूषितं द्रव्यं समग्रं होमसंभवम् ॥ ६८-॥
मया दत्तं न गृह्णंति ते ग्रहा भास्करादयः ॥
तेन कुर्वंति भूपस्य पीडामप्यधिकामिमाम् ॥ ६९ ॥
तस्मादेनं परित्यज्य होमं कुरुत मा चिरम् ॥
येन प्रीतिं परां यांति ग्रहाः सर्वेऽर्कपूर्वकाः ॥ ॥ 6.113.७० ॥
आरोग्यश्च भवेद्राजा गतशत्रुः सुतान्वितः ॥
सततं सुखमभ्येति मच्छांतिकप्रभावतः ॥ ७१ ॥
एवमुक्त्वा स भगवान्वह्निश्चादर्शनं गतः ॥
तेऽपि विप्रा विषण्णास्या लज्जया परया वृताः ॥ ७२ ॥
ततस्तं पावकं भूयः स्तुवंतस्तत्र च स्थिताः ॥
प्रोचुर्वैश्वानरं ब्रूहि त्रिजातो योऽत्र च द्विजः ॥ ७३ ॥
येन तं संपरित्यज्य कुर्मः कर्म प्रशांतये ॥
निःशेषमेव दोषाणां भूपस्यास्य महात्मनः ॥ ७४ ॥
॥ वह्निरुवाच ॥ ॥
नाहं दोषं द्विजेद्राणां जानन्नपि कथंचन ॥
ब्रवीमि ब्राह्मणा वन्द्या मम सर्वे धरातले ॥ ७५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यदि तं ब्राह्मणं वह्ने नास्माकं कीर्तयिष्यसि ॥
तत्ते शापं प्रदास्यामस्तस्माच्छीघ्रं वदस्व नः ॥ ७६ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा वह्निर्भयसमन्वितः ॥
चिरं विचिंतयामास कुर्वेऽतः किं शुभावहम् ॥ ७७ ॥
ब्राह्मणं दूषयिष्यामि यदि तावच्च पातकम् ॥
भविष्यति न संदेहः शापश्चापि तदुद्भवः ॥ ॥ ७८ ॥
कीर्तयिष्यामि वा नैव विद्यमानं द्विजोत्तमम् ॥
शपिष्यति न संदेहः क्रुद्धा आशीविषोपमाः ॥ ७९ ॥
एवं चिंतयतस्तस्य गात्रे स्वेदोऽभवन्महान्॥
येन तत्पूरितं कुण्डं होमार्थं यत्प्रकल्पितम् ॥6.113.८०॥।
ततः प्रोवाच तान्विप्रान्कृतांजलिपुटः स्थितः।
वेपमानो भयत्रस्तःकुण्डान्निष्क्रम्य पावकः ॥ ८१ ॥
नाहं स्वजिह्वया दोषं ब्राह्मणस्य समुद्भवम् ॥
कथञ्चित्कीर्तयिष्यामि तस्माच्छृण्वन्तु भो द्विजाः ॥ ९२ ॥
अत्र स्वेद जले विप्रा ये स्थिताः षोडश द्विजाः ॥
ते स्नानमद्य कुर्वंतु प्रविशुद्ध्यर्थमात्मनः ॥ ८३ ॥
एतेषां मध्यगो यश्च त्रिजातः स भविष्यति ॥
तस्य विस्फोटकैर्युक्तं स्नातस्यांगं भविष्यति ॥ ८४ ॥
ततस्ते ब्राह्मणाः सर्वे क्रमात्तत्र निमज्जनम् ॥
चक्रुः शुद्धिं गताश्चापि मुक्त्वैकं ब्राह्मणं तदा ॥ ॥ ८५॥
हाहाकारस्ततो जज्ञे महांस्तत्र जनोद्भवः ॥
दृष्ट्वा विस्फोटकैर्युक्तमकस्मात्तं द्विजोत्तमम् ॥ ८६ ॥
सोऽपि लज्जान्वितो विप्रः कृत्वाऽधो वदनं ततः ॥
निष्क्रांतोऽथ सभामध्यात्स्थानाद्विप्रसमुद्भवात् ॥ ८७ ॥
॥ वह्निरुवाच ॥ ॥
एतद्वः साधितं कृत्यं मया पूर्वं द्विजोत्तमाः।
तस्माद्यास्ये निजं स्थानं भवद्भिः पारमापितः ॥ ८८ ॥
न वृथा दर्शनं मे स्यादपि स्वप्रे द्विजोत्तमाः ॥
तस्मात्सम्प्रार्थ्यतां किंचिदभीष्टं हृदि संस्थितम् ॥ ८९ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
एतत्तव जलं वह्ने स्वेदजं सर्वदैव तु ॥
स्थिरं भवतु चात्रैव विशुद्ध्यर्थं द्विजन्मनाम् ॥ 6.113.९०।।
अन्यजातो नरो योऽत्र प्रकरोति निमज्जनम् ॥
तस्य चिह्नं त्वया कार्यं विस्फोटकसमुद्भवम् ॥ ९१ ॥
बाढमित्येव स प्रोच्या गतोंऽतर्धानमेव हि॥ ॥
पावकस्ते द्विजाः सर्वे मंत्रं चक्रुः परस्परम् ॥९२॥
अद्यप्रभृति सर्वेषां ब्राह्मणानां समुद्भवम् ॥
शुद्धिरत्र प्रकर्तव्या पितृमातृसमुद्द्भवा ॥९३॥'
चमत्कारपुरोत्थो यः कश्चिद्विप्रः प्रकीर्तितः ॥
सोऽत्र स्नातो विशुद्धश्च विज्ञेयः कुलपुत्रकः ॥ ९४ ॥
तस्मै कन्या प्रदातव्या स श्राद्धार्हो भविष्यति। ॥
धर्मकृत्येषु सर्वेषु योजनीयः स एव हि ॥ ९५ ॥
अष्टषष्टिषु गोत्रेषु मिलितेषु यथाक्रमम् ॥
तत्प्रत्यक्षं विशुद्धो यः स शुद्धः पंक्तिपावनः ॥ ९६ ॥
अपवादाश्च ये केचिद्ब्रह्महत्यादिकाः स्थिताः ॥
अन्येऽपि दुर्जनैः प्रोक्ता धर्मसन्देहकारकाः ॥ ९७ ॥
ते सर्वेऽत्र विशुद्धाः स्युर्विज्ञेयाः कुलपुत्रकाः ॥
अपवादास्तथा चान्ये नाशं यास्यंति चाखिलाः ॥ ९८ ॥
यावन्नात्र कृतं स्नानं प्रत्यक्षं च द्विजन्मनाम्॥
सर्वेषां तावदेवाऽत्र न स विप्रो भवेत्स्फुटम् ॥ ९९ ॥
॥ सूत उवाच ॥ ॥
एवं ते समयं कृत्वा चमत्कारपुरोद्भवाः ॥
ब्राह्मणाः शांतिकं चक्रुर्हितार्थं तस्य भूपतेः ॥॥6.113.१००॥।
तस्मिन्कुण्डे ततः स्नानं कृतं सर्वैर्महात्मभिः ॥
भयत्रस्तैर्विशुद्ध्यर्थं शेषैरपि महात्मभिः ॥ १०१ ॥
ततो नीरोगतां प्राप्तः स भूपस्तत्क्षणाद्विजाः ॥
यस्तत्र कुरुते स्नानमद्यापि द्विजसत्तमाः ॥ १०२ ॥
कार्तिक्यां परदारोत्थैः स विमुच्येत पातकैः ॥
एषां युगत्रये शुद्धिरासीत्तत्र द्विजन्मनाम् ॥ ॥ १०३ ॥
कुलशीलविहीनानामन्येषामपि पाप्मनाम् ॥
मत्वा कलियुगं घोरं परदारसुरंजितम् ॥
तत्र शुद्धिस्ततः सर्वैः कृता विप्रैश्च वाचिका ॥ ॥ १०४॥
पुरतो देवदेवस्य ब्रह्मणो द्विजसत्तमाः ॥
पितृमातृजवंशस्य विशुद्ध्यर्थमतंद्रितैः ॥॥५॥
अद्यापि कुरुते तत्र यः स्नानं द्विजसत्तमाः ॥
त्रिजातो दह्यते तत्र वह्निना स न संशयः ॥ १०६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेवरक्षेत्रमाहात्म्ये दमयन्त्युपाख्याने त्रिजातकविशुद्धयेऽग्निकुंडमाहात्म्यवर्णनंनाम त्रयोदशोत्तरशततमोऽध्यायः ॥ ११३ ॥