स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २२८
युधिष्ठिर उवाच -
परार्थं तीर्थयात्रायां गच्छतः कस्य किं फलम् ।
कियन्मात्रं मुनिश्रेष्ठ तन्मे ब्रूहि कृपानिधे ॥ २२८.१ ॥
मार्कण्डेय उवाच -
परार्थं गच्छतस्तन्मे वदतः शृणु पार्थिव ।
यथा यावत्फलं तस्य यात्रादिविहितं भवेत् ॥ २२८.२ ॥
उत्तमेनेह वर्णेन द्रव्यलोभादिना नृप ।
नाधमस्य क्वचित्कार्यं तीर्थयात्रादिसेवनम् ॥ २२८.३ ॥
धर्मकर्म महाराज स्वयं विद्वान्समाचरेत् ।
शरीरस्याथवा शक्त्या अन्यद्वा कार्ययोगतः ॥ २२८.४ ॥
धर्मकर्म सदा प्रायः सवर्णेनैव कारयेत् ।
पुत्रपौत्रादिकैर्वापि ज्ञातिभिर्गोत्रसम्भवैः ॥ २२८.५ ॥
श्रेष्ठं हि विहितं प्राहुर्धर्मकर्म युधिष्ठिर ।
तैरेव कारयेत्तस्मान्नोत्तमैर्नाधमैरपि ॥ २२८.६ ॥
अधमेन कृतं सम्यङ्न भवेदिति मे मतिः ।
उत्तमश्चाधमार्थे वै कुर्वन्दुर्गतिमाप्नुयात् ॥ २२८.७ ॥
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।
न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ २२८.८ ॥
जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् ।
देवताराधनं दीक्षा स्त्रीशूद्रपतनानि षट् ॥ २२८.९ ॥
पतिवत्नी पतत्येव विधवा सर्वमाचरेत् ।
सभर्तृकाशके पत्यौ सर्वं कुर्यादनुज्ञया ॥ २२८.१० ॥
गत्वा परार्थं तीर्थादौ षोडशांशफलं लभेत् ।
गच्छतश्च प्रसङ्गेन तीर्थमर्द्धफलं स्मृतम् ॥ २२८.११ ॥
अनुसङ्गेन तीर्थस्य स्नाने स्नानफलं विदुः ।
नैव यात्राफलं तज्ज्ञाः शास्त्रोक्तं कल्मषापहम् ॥ २२८.१२ ॥
पित्रर्थं च पितृव्यस्य मातुर्मातामहस्य च ।
मातुलस्य तथा भ्रातुः श्वशुरस्य सुतस्य च ॥ २२८.१३ ॥
पोषकार्थादयोश्चापि मातामह्या गुरोस्तथा ।
स्वसुर्मातृष्वसुः पैत्र्या आचार्याध्यापकस्य च ॥ २२८.१४ ॥
इत्याद्यर्थे नरः स्नात्वा स्वयमष्टांशमाप्नुयात् ।
साक्षात्पित्रोः प्रकुर्वाणश्चतुर्थांशमवाप्नुयात् ॥ २२८.१५ ॥
पतिपत्न्योर्मिथश्चार्द्धं फलं प्राहुर्मनीषिणः ।
भागिनेयस्य शिष्यस्य भ्रातृव्यस्य सुतस्य च ।
षट्त्रिपञ्चचतुर्भागान्फलमाप्नोति वै नरः ॥ २२८.१६ ॥
इति ते कथितं पार्थ पारम्पर्यक्रमागतम् ।
कर्तव्यं ज्ञातिवर्गस्य परार्थे धर्मसाधनम् ॥ २२८.१७ ॥
वर्षाऋतुसमायोगे सर्वा नद्यो रजस्वलाः ।
मुक्त्वा सरस्वतीं गङ्गां नर्मदां यमुनानदीम् ॥ २२८.१८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे परार्थतीर्थयात्राफलकथनं नामाष्टविंशत्यधिकद्विशततमोऽध्यायः ॥