स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २२१
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र रेवाया दक्षिणे तटे ।
क्रोशद्वयान्तरे तीर्थं मतृतीर्थादनुत्तमम् ॥ २२१.१ ॥
नाम्ना हंसेश्वरं पुण्यं वैमनस्यविनाशनम् ।
कश्यपस्य कुले जातो हंसो दाक्षायणीसुतः ॥ २२१.२ ॥
ब्रह्मणो वाहनं जातः पुरा तप्त्वा तपो महत् ।
सैकदा विधिनिर्देशं विना वैयग्र्यमास्थितः ॥ २२१.३ ॥
अभिभूतः शिवगणैः प्रणनाश युधिष्ठिर ।
दक्षयज्ञप्रमथने कांदिशीको विधिं विना ॥ २२१.४ ॥
ब्रह्मणा संसृतोऽप्याशु नायाति स यदा खगः ।
तदा तं शप्तवान्ब्रह्मा पातयामास वै पदात् ॥ २२१.५ ॥
ततः स शप्तमात्मानं मत्वा हंसस्त्वरान्वितः ।
पितामहमुपागम्य प्रणिपत्येदमब्रवीत् ॥ २२१.६ ॥
हंस उवाच -
तिर्यग्योनिसमुत्पन्नं भवाञ्छप्तुं न चार्हति ।
स्वभाव एव तिर्यक्षु विवेकविकलं मनः ॥ २२१.७ ॥
तथापि देव पापोऽस्मि यदहं स्वामिनं त्यजे ।
किं तु धावद्भिरत्युग्रैर्गणैः शार्वैः पितामह ।
सहसाहं भयाक्रान्तस्त्रस्तस्त्यक्त्वा पलायितः ॥ २२१.८ ॥
अद्यापि भयमेवाहं पश्यन्नस्मि विभो पुरः ।
तेन स्मृतोऽपि भवता नाव्रजं भवदन्तिके ॥ २२१.९ ॥
श्रीमार्कण्डेय उवाच -
इति ब्रुवन्नेव हि धातुरग्रे हंसः श्वसत्यक्षिपूज्यः सुदीनः ।
तिर्यञ्चं मां पापिनं मूढबुद्धिं प्रभो पुरः पतितं पाहि पाहि ॥ २२१.१० ॥
एको देवस्त्वं हि सर्गस्य कर्ता नानाविधं सृष्टमेतत्त्वयैव ।
अहं सृष्टस्त्वीदृशो यत्त्वया वै सोऽयं दोषो धातरद्धा तवैव ॥ २२१.११ ॥
शापस्य वानुग्रहस्यापि शक्तस्त्वत्तो नान्यः शरणं कं व्रजामि ।
सेवाधर्माद्विच्युतं दासभूतं चपेटैर्हन्तव्यं वै तात मां त्राहि भक्तम् ॥ २२१.१२ ॥
विद्याविद्ये त्वत्त एवाविरास्तां धर्माधर्मौ सदसद्द्युर्निशे च ।
नानाभावाञ्जगतस्त्वं विधत्सेस्तं त्वामेकं शरणं वै प्रपद्ये ॥ २२१.१३ ॥
एकोऽसि बहुरूपोऽसि नानाचित्रैककर्मतः ।
निष्कर्माखिलकर्मासि त्वामतः शरणं व्रजे ॥ २२१.१४ ॥
नमोनमो वरेण्याय वरदाय नमोनमः ।
नमो धात्रे विधात्रे च शरण्याय नमोनमः ॥ २२१.१५ ॥
शिक्षाक्षरवियुक्तेयं वाणी मे स्तौति किं विभो ।
का शक्तिः किं परिज्ञानमिदमुक्तं क्षमस्व मे ॥ २२१.१६ ॥
श्रीमार्कण्डेय उवाच -
एवं वदति हंसे वै ब्रह्मा प्राह प्रसन्नधीः ।
शिक्षा दत्ता तवैवेयं मा विषादं कृथाः खग ॥ २२१.१७ ॥
तपसा शोधयात्मानं यथा शापान्तमाप्नुयाः ।
रेवासेवां कुरु स्नात्वा स्थापयित्वा महेश्वरम् ।
अचिरेणैव कालेन ततः संस्थानमाप्स्यसि ॥ २२१.१८ ॥
यच्चेष्ट्वा बहुभिर्यज्ञैः समाप्तवरदक्षिणैः ।
गोस्वर्णकोटिदानैश्च तत्फलं स्थापिते शिवे ॥ २२१.१९ ॥
ब्रह्मघ्नो वा सुरापो वा स्वर्णहृद्गुरुतल्पगः ।
रेवातीरे शिवं स्थाप्य मुच्यते सर्वपातकैः ॥ २२१.२० ॥
तस्माद्भर्गसरित्तीरे स्थापयित्वा त्रियम्बकम् ।
वियुक्तः सर्वदोषैस्त्वं यास्यसे पदमुत्तमम् ॥ २२१.२१ ॥
एवमुक्तः स विधिना हृष्टतुष्टः खगोत्तमः ।
तथेत्युक्त्वा जगामाशु नर्मदातीरमुत्तमम् ॥ २२१.२२ ॥
तपस्तप्त्वा कियत्कालं स्थापयामास शङ्करम् ॥ २२१.२३ ॥
स्वनाम्ना भरतश्रेष्ठ हंसेश्वरमनुत्तमम् ।
पूजयित्वा परं स्थानं प्राप्तवान्खगसत्तमः ॥ २२१.२४ ॥
तत्र हंसेश्वरे तीर्थे गत्वा स्नात्वा युधिष्ठिर ।
पूजयेत्परमेशानं स पापैः परिमुच्यते ॥ २२१.२५ ॥
स्तुवन्नेकमना देवं न दैन्यं प्राप्नुयात्क्वचित् ।
श्राद्धं दीपप्रदानं च ब्राह्मणानां च भोजनम् ।
दत्त्वा शक्त्या नृपश्रेष्ठ स्वर्गलोके महीयते ॥ २२१.२६ ॥
त्रिकालमेककालं वा यो भक्त्या पूजयेच्छिवम् ।
नवप्रसूतां धेनुं च दत्त्वा पार्थ द्विजोत्तमे ।
षष्टिवर्षसहस्राणि शिवलोके महीयते ॥ २२१.२७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसेश्वरतीर्थमाहात्म्यवर्णनं नामैकविंशदधिकद्विशततमोऽध्यायः ॥