स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २१६

विकिस्रोतः तः

श्रीमार्कण्डेय उवाच -
अषाढीतीर्थमागच्छेत्ततो भूपालनन्दन ।
कामिकं रूपमास्थाय स्थितो यत्र महेश्वरः ॥ २१६.१ ॥
चातुर्युगमिदं तीर्थं सर्वतीर्थेष्वनुत्तमम् ।
तत्र स्नात्वा नरो राजन् रुद्रस्यानुचरो भवेत् ॥ २१६.२ ॥
तत्र तीर्थे तु यः कश्चित्कुरुते प्राणमोक्षणम् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ २१६.३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अषाढीतीर्थमाहात्म्यवर्णनं नाम षोडशोत्तरद्विशततमोऽध्यायः ॥