स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १९९
अध्याय १९९
श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं राजन्नाश्विनं तीर्थमुत्तमम् ।
कामिकं सर्वतीर्थानां प्राणिनां सिद्धिदायकम् ॥ १९९.१ ॥
तत्र तीर्थेऽश्विनौ देवौ सुरूपौ भिषजां वरौ ।
तपः कृत्वा सुविपुलं संजातौ यज्ञभागिनौ ॥ १९९.२ ॥
संमतौ सर्वदेवानामादित्यतनयावुभौ ।
नासत्यौ सत्त्वसंपन्नौ सर्वदुःखघ्नसत्तमौ ॥ १९९.३ ॥
युधिष्ठिर उवाच -
आदित्यस्य सुतौ तात नासत्यौ येन हेतुना ।
संजातौ श्रोतुमिच्छामि निर्णयं परमं द्विज ॥ १९९.४ ॥
मार्कण्डेय उवाच -
पुराणे भास्करे तात एतद्विस्तरतो मया ।
संश्रुतं देवदेवस्य मार्तण्डस्य महात्मनः ॥ १९९.५ ॥
तत्ते संक्षेपतः सर्वं भक्तियुक्तस्य भारत ।
कथयामि न सन्देहो वृद्धभावेन कर्शितः ॥ १९९.६ ॥
अतितेजोरवेर्दृष्ट्वा राज्ञी देवी नरोत्तम ।
चचार मेरुकान्तारे वडवा तप उल्बणम् ॥ १९९.७ ॥
ततः कतिपयाहस्य कालस्य भगवान्रविः ।
दृष्ट्वा तु रूपमुत्सृज्य परमं तेज उज्ज्वलम् ॥ १९९.८ ॥
मनोभववशीभूतो हयो भूत्वा लघुक्रमः ।
विस्फुरन्ती यथाप्राणं धावमाना इतस्ततः ॥ १९९.९ ॥
हेषमाणः स्वरेणासौ मैथुनायोपचक्रमे ।
सम्मुखी तु ततो देवी निवृत्ता लघुविक्रमा ॥ १९९.१० ॥
यथा तथा नासिकायां प्रविष्टं बीजमुत्तमम् ।
ततो नासागते बीजे संजातो गर्भ उत्तमः ॥ १९९.११ ॥
जातौ यतः सुतौ पार्थ नासत्यौ विश्रुतौ ततः ।
सुसमौ सुविभक्ताङ्गौ बिम्बाद्बिम्बमिवोद्यतौ ॥ १९९.१२ ॥
अधिकौ सर्वदेवानां रूपैश्चर्यसमन्वितौ ।
नर्मदातटमाश्रित्य भृगुकच्छे गतावुभौ ।
परां सिद्धिमनुप्राप्तौ तपः कृत्वा सुदुश्चरम् ॥ १९९.१३ ॥
तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
सुरूपः सुभगः पार्थ जायते यत्र तत्र च ॥ १९९.१४ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आश्विनतीर्थमाहात्म्यवर्णनं नामैकोनद्विशततमोऽध्यायः ॥