स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १७०
अध्याय १७०
श्रीमार्कण्डेय उवाच -
कामप्रमोदिनीसख्यो नीयमानां च तेन तु ।
दृष्ट्वा ताश्चुक्रुशुः सर्वा निःसृत्य जलमध्यतः ॥ १७०.१ ॥
गता राजगृहे सर्वाः कथयन्ति सुदुःखिताः ।
कामप्रमोदिनी राजन्हृता श्येनेन पक्षिणा ॥ १७०.२ ॥
क्रीडन्ती च जलस्थाने तडागे देवसन्निधौ ।
अन्वेष्या च त्वया राजंस्तस्य मार्गं विजानता ॥ १७०.३ ॥
तासां तद्वचनं श्रुत्वा देवपन्नः सुदुःखितः ।
हाहेत्युक्त्वा समुत्थाय रुदमानो वरासनात् ॥ १७०.४ ॥
मन्त्रिभिः सहितस्तस्मिंस्तडागे जलसन्निधौ ।
न चिह्नं न च पन्थानं दृष्ट्वा दुःखान्मुमोह च ॥ १७०.५ ॥
तस्य राज्ञस्तु दुःखेन दुःखितो नागरो जनः ।
क्षणेनाश्वासितो राजा मन्त्रिभिः सपुरोहितैः ॥ १७०.६ ॥
किं कुर्म इत्युवाचेदमस्मिन्काले विधीयताम् ।
सर्वैस्तत्संविदं कृत्वा वाहिनीं चतुरङ्गिणीम् ॥ १७०.७ ॥
प्रेषयामि दिशः सर्वा हस्त्यश्वरथसंकुला ।
वादित्राणि च वाद्यन्ते व्याकुलीभूतसंकुले ॥ १७०.८ ॥
नाराचैस्तोमरैर्भल्लैः खड्गैः परश्वधादिभिः ।
राजा संनाहबद्धोऽभूद्गनं ग्रसते किल ॥ १७०.९ ॥
न देवो न च गन्धर्वो न दैत्यो न च राक्षसः ।
किं करिष्यति राजाद्य न जाने रोषनिष्कृतिम् ॥ १७०.१० ॥
नागरोऽपि जनस्तत्र दृष्ट्वा चकितमानसः ।
चतुर्दशसहस्राणि दन्तिनां सृणिधारिणाम् ॥ १७०.११ ॥
अश्वारोहसहस्राणि ह्यशीतिः शस्त्रपाणिनाम् ।
रथानां त्रिसहस्राणि विंशतिर्भरतर्षभ ॥ १७०.१२ ॥
सङ्ग्रामभेरीनिनदैः खुररेणुर्नभोगता ।
एतस्मिन्नन्तरे तात रक्षको नगरस्य हि ॥ १७०.१३ ॥
गृहीत्वाभरणं तस्यास्त्वङ्गप्रत्यङ्गिकं तथा ।
कुण्डलाङ्गदकेयूरहारनूपुरझल्लरीः ॥ १७०.१४ ॥
निवेद्याकथयद्राज्ञे मया दृष्टं त्ववेक्षणात् ।
तापसानामाश्रमे तु माण्डव्यो यत्र तिष्ठति ॥ १७०.१५ ॥
तापसैर्वेष्टितो यत्र ददृशे तत्र सन्निधौ ।
दण्डवासिवचः श्रुत्वा प्रत्यक्षाङ्गविभूषणम् ॥ १७०.१६ ॥
स क्रोधरक्तनयनो मन्त्रिणो वीक्ष्य नैगमान् ।
ईदृग्भूतसमाचारो ब्राह्मणो नगरे मम ॥ १७०.१७ ॥
चौरचर्यां व्रतच्छन्नः परद्रव्यापहरकः ।
तेन कन्या हृता मेऽद्य तपस्विपापकर्मिणा ॥ १७०.१८ ॥
शाकुन्तं रूपमास्थाय जलस्थो गगनं ययौ ।
पाखण्डिनो विकर्मस्थान् बिडालव्रतिकाञ्छठान् ॥ १७०.१९ ॥
चाटुतस्करदुर्वृत्तान् हन्यान्नस्त्यस्य पातकम् ।
न द्रष्टव्यो मया पापः स्तेयी कन्यापहारकः ॥ १७०.२० ॥
शूलमारोप्यतां क्षिप्रं न विचारस्तु तस्य वै ।
स च वध्यो मया दुष्टो रक्षोरूपी तपोधनः ॥ १७०.२१ ॥
एवं ब्रुवंश्चलन्क्रोधादादिश्य दण्डवासिनम् ।
कार्याकार्यं न विज्ञाय शूलमारोपयद्द्विजम् ॥ १७०.२२ ॥
पौरा जानपदाः सर्वे अश्रुपूर्णमुखास्तदा ।
हाहेत्युक्त्वा रुदन्त्यन्ये वदन्ति च पृथक्पृथक् ॥ १७०.२३ ॥
कुत्सितं च कृतं कर्म राज्ञा चण्डालचारिणा ।
ब्राह्मणो नैव वध्यो हि विशेषेण तपोवृतः ॥ १७०.२४ ॥
यदि रोषसमाचारो निर्वास्यो नगराद्बहिः ।
न जातु ब्राह्मणं हन्यात्सर्वपापेऽप्यवस्थितम् ॥ १७०.२५ ॥
राष्ट्रादेनं बहिष्कुर्यात्समग्रधनमक्षतम् ।
नाश्नाति च गृहे राजन्नाग्निर्नगरवासिनाम् ।
सर्वेऽप्युद्विग्नमनसो गृहव्याप्तिविवर्जिताः ॥ १७०.२६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे माण्डव्यशूलारोपणवर्णनं नाम सप्तत्यधिकशततमोऽध्यायः ॥