स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १८२
अध्याय १८२
श्रीमार्कण्डेय उवाच -
ततो भृगुः श्रिया चैव समेतः कच्छपं गतः ।
अभिनन्द्य यथान्यायमुवाच वचनं शुभम् ॥ १८२.१ ॥
त्वया धृता धरा सर्वा तथा लोकाश्चराचराः ।
तथैव पुण्यभावत्वात्स्थितस्तत्र महामते ॥ १८२.२ ॥
चातुर्विद्यस्य संस्थानं करोमि रमया सह ।
यदि त्वं मन्यसे देव तदादेशय मां विभो ॥ १८२.३ ॥
कूर्म उवाच -
एवमेव द्विजश्रेष्ठ मम नामाङ्कितं पुरम् ।
भविष्यति महत्कालं ममोपरि सुसंस्थितम् ॥ १८२.४ ॥
अचलं सुस्थिरं तात न भीः कार्या सुलोचने ।
एतच्छ्रुत्वा शुभं वाक्यं कच्छपस्य मुखाच्च्युतम् ॥ १८२.५ ॥
हृष्टस्तुष्टः श्रिया सार्द्धं पद्मयोनिसुतो भृगुः ।
अभीचि उदये प्राप्ते कृतकौतुकमङ्गलः ॥ १८२.६ ॥
नन्दने वत्सरे माघे पञ्चम्यां भरतर्षभ ।
शस्ते तु ह्युत्तरायोगे कुम्भस्थे शशिमण्डले ॥ १८२.७ ॥
रेवाया उत्तरे तीरे गम्भीरे चाभिवारुणि ।
प्रागुदक्प्रवणे देशे कोटितीर्थसमन्वितम् ॥ १८२.८ ॥
क्रोशप्रमाणं तत्क्षेत्रं प्रासादशतसंकुलम् ।
अचिरेणैव कालेन तपोबलसमन्वितः ।
विचिन्त्य विश्वकर्माणं चकार भृगुसत्तमः ॥ १८२.९ ॥
ब्राह्मणा वेदविद्वांसः क्षत्रिया राज्यपालकाः ।
वैश्या वृत्तिरतास्तत्र शूद्राः शुश्रूषकास्त्रिषु ॥ १८२.१० ॥
एवं श्रिया वृतं क्षेत्रं परमानन्दनन्दितम् ।
निर्मितं भृगुणा तात सर्वपातकनाशनम् ।
इति भृगुकच्छोत्पत्तिः ॥ १८२.११ ॥
मार्कण्डेय उवाच -
ततः कालेन महता कस्मिंश्चित्कारणान्तरे ।
देवलोकं जगामाशु लक्ष्मीरृषिसमागमे ॥ १८२.१२ ॥
समर्प्य कुञ्चिकाट्टालं भृगवे ब्रह्मवादिने ।
पालयस्व यथार्थं वै स्थानकं मम सुव्रत ॥ १८२.१३ ॥
देवकार्याण्यशेषाणि कृत्वा श्रीः पुनरागता ।
आजगाम रमा देवी भृगुकच्छं त्वरान्विता ॥ १८२.१४ ॥
प्रार्थितं कुञ्चिकाट्टालं स्वगृहं सपरिग्रहम् ।
भृगुर्यदा तदा पार्थ मिथ्या नास्ति तदा वदत ॥ १८२.१५ ॥
एव विवादः सुमहान्संजातश्च नरेश्वर ।
ममेति मम चैवेति परस्परसमागमे ॥ १८२.१६ ॥
ततः कालेन महता भृगुणा परमर्षिणा ।
चातुर्विद्यप्रमाणार्थं चकार महतीं स्थितिम् ॥ १८२.१७ ॥
अस्मदीयं यथा सर्वं नगरं मृगलोचने ।
चातुर्विद्या द्विजाः सर्वे तथा जानन्ति सुन्दरि ॥ १८२.१८ ॥
श्रीरुवाच -
प्रमाणं मम विप्रेन्द्र चातुर्वण्या न संशयः ।
मदीयं वा त्वदीयं वा कथयन्तु द्विजोत्तमाः ॥ १८२.१९ ॥
ततः समस्तैर्विबुधैः सम्प्रधार्य परस्परम् ।
द्विधा तैर्वाक्स्थलं दृष्ट्वा ब्राह्मणा नृपसंहितम् ॥ १८२.२० ॥
अष्टादशसहस्राणि नोचुर्वै किंचिदुत्तरम् ।
अष्टादशसहस्रेषु भृगुकोपभयान्नृप ।
उक्तं च तालकं हस्ते यस्य तस्येदमुत्तरम् ॥ १८२.२१ ॥
एतच्छ्रुत्वा तु सा देवी निगमं नैगमैः कृतम् ।
क्रोधेन महताविष्टा शशाप द्विजपुंगवान् ॥ १८२.२२ ॥
श्रीदेव्युवाच -
यस्मात्सत्यं समुत्सृज्य लोभोपहतमानसैः ।
मदीयं लोपितं स्थानं तस्माच्छृण्वन्तु मे गिरम् ॥ १८२.२३ ॥
त्रिपौरुषा भवेद्विद्या त्रिपुरुषं न भवेद्धनम् ।
न द्वितीयस्तु वो वेदः पठितो भवति द्विजाः ॥ १८२.२४ ॥
गृहाणि न द्विभौमानि न च भूतिः स्थिरा द्विजाः ।
पक्षपातेन वो धर्मो न च निःश्रेयभावतः ॥ १८२.२५ ॥
इष्टो गोत्रजनः कश्चिल्लोभेनावृतमानसः ।
न च द्वैधं परित्यज्य ह्येकं सत्यं भविष्यति ॥ १८२.२६ ॥
अद्यप्रभृति सर्वेषामहङ्कारो द्विजन्मनाम् ।
न पिता पुत्रवाक्येन न पुत्रः पितृकर्मणि ॥ १८२.२७ ॥
अहङ्कारकृताः सर्वे भविष्यन्ति न संशयः ।
इति शप्त्वा रमादेवी तदैव च दिवं ययौ ॥ १८२.२८ ॥
ततो गतायां वै लक्ष्म्यां देवा ब्रह्मर्षयोऽमलाः ।
क्रोधलोभमिदं स्थानं तेऽपि चोक्त्वा दिवं ययुः ॥ १८२.२९ ॥
गतां दृष्ट्वा ततो देवीमृषींश्चैव तपोधनान् ।
भृगुश्च परमेष्ठी स विषादमगमत्परम् ।
प्रसादयामास पुनः शङ्करं त्रिपुरान्तकम् ॥ १८२.३० ॥
तपसा महता पार्थ ततस्तुष्टो महेश्वरः ।
उवाच वचनं काले हर्षयन् भृगुसत्तमम् ॥ १८२.३१ ॥
किं विषण्णोऽसि विप्रेन्द्र किं वा सन्तापकारणम् ।
मयि प्रसन्नेऽपि तव ह्येतत्कथय मेऽनघ ॥ १८२.३२ ॥
भृगुरुवाच -
शापयित्वा द्विजान्सर्वान्पुरा लक्ष्मीर्विनिर्गता ।
अपवित्रमिदं चोक्त्वा ततो देवा विनिर्गताः ॥ १८२.३३ ॥
ईश्वर उवाच -
पुरा मया यथा प्रोक्तं तत्तथा न तदन्यथा ।
क्रोधस्थानमसंदेहं तथान्यदपि तच्छृणु ॥ १८२.३४ ॥
तत्र स्थानसमुद्भूता महद्भयविवर्जिताः ।
ब्राह्मणा मत्प्रसादेन भविष्यन्ति न संशयः ॥ १८२.३५ ॥
वेदविद्याव्रतस्नाताः सर्वशास्त्रविशारदाः ।
येऽपि ते शतसाहस्रास्त्वरिता ह्यागतास्त्विह ॥ १८२.३६ ॥
अपठस्यापि मूर्खस्य सर्वावस्थां गतस्य च ।
उत्तरादुत्तरं शक्रो दातुं न तु भृगूत्तम ॥ १८२.३७ ॥
कोटितीर्थमिदं स्थानं सर्वपापप्रणाशनम् ।
अद्यप्रभृति विप्रेन्द्र भविष्यति न संशयः ॥ १८२.३८ ॥
मत्प्रसादाद्देवगणैः सेवितं च भविष्यति ।
भृगुक्षेत्रे मृता ये तु कृमिकीटपतंगकाः ॥ १८२.३९ ॥
वासस्तेषां शिवे लोके मत्प्रसादाद्भविष्यति ।
वृषखाते नरः स्नात्वा पूजयित्वा महेश्वरम् ॥ १८२.४० ॥
सर्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ।
भृगुतीर्थे नरः स्नात्वा तर्पयेत्पितृदेवताः ॥ १८२.४१ ॥
तस्य ते द्वादशाब्दानि शान्तिं गच्छन्ति तर्पिताः ।
दधिक्षीरेण तोयेन घृतेन मधुना सह ॥ १८२.४२ ॥
ये स्नपन्ति विरूपाक्षं तेषां वासस्त्रिविष्टपे ।
मत्प्रसादाद्द्विजश्रेष्ठ सर्वदेवानुसेवितम् ॥ १८२.४३ ॥
भविष्यति भृगुक्षेत्रं कुरुक्षेत्रादिभिः समम् ।
मार्तण्डग्रहणे प्राप्ते यवं कृत्वा हिरण्मयम् ॥ १८२.४४ ॥
दत्त्वा शिरसि यः स्नाति भृगुक्षेत्रे द्विजोत्तम ।
अविचारेण तं विद्धि संस्नातं कुरुजाङ्गले ॥ १८२.४५ ॥
अहं चैव वसिष्यामि अम्बिका च मम प्रिया ।
सर्वदुःखापहा देवी नाम्ना सौभाग्यसुन्दरी ॥ १८२.४६ ॥
वसिष्यामि तया देव्या सहितो भृगुकच्छके ।
एवमुक्त्वा स्थितो देवो भृगुकच्छेऽम्बिका तथा ॥ १८२.४७ ॥
भृगुस्तु स्वपुरं प्रायाद्ब्रह्मघोषनिनादितम् ।
ऋग्यजुःसामघोषेण ह्यथर्वणनिनादितम् ॥ १८२.४८ ॥
तत्र तीर्थे तु यः स्नात्वा वृषमुत्सृजते नरः ।
स याति शिवसायुज्यमित्येवं शङ्करोऽब्रवीत् ॥ १८२.४९ ॥
तत्र तीर्थे तु यः स्नात्वा चैत्रे मासि समाचरेत् ।
दद्याच्च लवणं विप्रे पूज्य सौभाग्यसुन्दरीम् ॥ १८२.५० ॥
गोभूहिरण्यं विप्रेभ्यः प्रीयेतां ललिताशिवौ ।
न दुःखं दुर्भगत्वं च वियोगं पतिना सह ॥ १८२.५१ ॥
प्राप्नोति नारी राजेन्द्र भृगुतीर्थाप्लवेन च ।
यस्तु नित्यं भृगुं देवं पश्येद्वै पाण्डुनन्दन ॥ १८२.५२ ॥
आ ब्रह्मसदनं यावत्तत्रस्थैर्दैवतैः सह ।
यत्फलं समवाप्नोति तच्छृणुष्व नृपोत्तम ॥ १८२.५३ ॥
सुवर्णशृङ्गीं कपिलां पयस्विनीं साध्वीं सुशीलां तरुणीं सवत्साम् ।
दत्त्वा द्विजे सर्वव्रतोपपन्ने फलं च यत्स्यात्तदिहैव नूनम् ॥ १८२.५४ ॥
समाः सहस्राणि तु सप्त वै जले म्रियेल्लभेद्द्वादशवह्निमध्ये ।
त्यजंस्तनुं शूरवृत्त्या नरेन्द्र शक्रातिथ्यं याति वै मर्त्यधर्मा ॥ १८२.५५ ॥
आख्यानमेतच्च सदा यशस्यं स्वर्ग्यं धन्यं पुत्र्यमायुष्यकारि ।
शृण्वंल्लभेत्सर्वमेतद्धि भक्त्या पर्वणि पर्वण्याजमीढस्सदैव ॥ १८२.५६ ॥
संन्यासं कुरुते यस्तु भृगुतीर्थे विधानतः ।
स मृतः परमं स्थानं गच्छेद्वै यच्च दुर्लभम् ॥ १८२.५७ ॥
एतच्छ्रुत्वा भृगुश्रेष्ठो देवदेवेन भाषितम् ।
प्रहृष्टवदनो भूत्वा तत्रैव संस्थितो द्विजः ॥ १८२.५८ ॥
तिरोभावं गते देवे भृगुः श्रेष्ठो द्विजोत्तमः ।
स्वमूर्ति तत्र मुक्त्वा तु ब्रह्मलोकं जगाम ह ॥ १८२.५९ ॥
भृगुकच्छस्य चोत्पत्तिः कथिता तव पाण्डव ।
संक्षेपेण महाराज सर्वपामप्रणाशनी ॥ १८२.६० ॥
एतत्पुण्यं पापहरं क्षेत्रं देवेन कीर्तितम् ।
चतुर्युगसहस्रेण पितामहदिनं स्मृतम् ॥ १८२.६१ ॥
प्राप्ते ब्रह्मदिने विप्रा जायते युगसम्भवः ।
न पश्यामि त्विदं क्षेत्रमिति रुद्रः स्वयं जगौ ॥ १८२.६२ ॥
यः शृणोति त्विदं भक्त्या नारी वा पुरुषोऽपि वा ।
स याति परमं लोकमिति रुद्रः स्वयं जगौ ॥ १८२.६३ ॥
देवखाते नरः स्नात्वा पिण्डदानादिसत्क्रियाम् ।
यां करोति नृपश्रेष्ठ तामक्षयफलां विदुः ॥ १८२.६४ ॥
य इमं शृणुयाद्भक्त्या भृगुकच्छस्य विस्तरम् ।
कोटितीर्थफलं तस्य भवेद्वै नात्र संशयः ॥ १८२.६५ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छतीर्थमाहात्म्यवर्णनं नाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥