स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १६२

विकिस्रोतः तः


अध्याय १६२

श्रीमार्कण्डेय उवाच -
गोपेश्वरं ततो गच्छेत्सर्पक्षेत्रादनन्तरम् ।
यत्र स्नानेन चैकेन मुच्यन्ते पातकैर्नराः ॥ १६२.१ ॥
तत्र तीर्थे तु यः स्नात्वा कुरुते प्राणसंक्षयम् ।
स गच्छेद्यदि युक्तोऽपि पापेन शिवमन्दिरम् ॥ १६२.२ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेद्देवमीश्वरम् ।
मुच्यते सर्वपापैश्च रुद्रलोकं स गच्छति ॥ १६२.३ ॥
क्रीडित्वा च यथाकामं रुद्रलोके महातपाः ।
इह मानुष्यतां प्राप्य राजा भवति धार्मिकः ॥ १६२.४ ॥
हस्त्यश्वरथसम्पन्नो दासीदाससमन्वितः ।
पूज्यमानो नरेन्द्रैश्च जीवेद्वर्षशतं सुखी ॥ १६२.५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोपेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विषष्ट्युत्तरशततमोऽध्यायः ॥