स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १३२
अध्याय १३२
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र उत्तरे नर्मदातटे ।
सर्वपापहरं तीर्थं वाराहं नाम नामतः ॥ १३२.१ ॥
तत्र देवो जगद्धाता वाराहं रूपमास्थितः ।
स्थितो लोकहितार्थाय संसारार्णवतारकः ॥ १३२.२ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेद्धरणीधरम् ।
गन्धमाल्यविशेषैश्च जयशब्दादिमङ्गलैः ॥ १३२.३ ॥
उपवासपरो भूत्वा द्वादश्यां नृपसत्तम ।
वृषलाः पापकर्माणस्तथैवान्धपिशाचिनः ॥ १३२.४ ॥
आलापाद्गात्रसंपर्कान्निःश्वासात्सहभोजनात् ।
पापं संक्रमते यस्मात्तस्मात्तान् परिवर्जयेत् ॥ १३२.५ ॥
ब्राह्मणान् पूजयेद्भक्त्या यथाशक्त्या यथाविधि ।
रात्रौ जागरणं कार्यं कथायां तत्र भारत ॥ १३२.६ ॥
प्रभाते विमले स्नात्वा तत्र तीर्थे जगद्गुरुम् ।
ये पश्यन्ति जितक्रोधास्ते मुक्ताः सर्वपातकैः ॥ १३२.७ ॥
यथा तु दृष्ट्वा भुजगाः सुपर्णं नश्यन्ति मुक्त्वा विषमुग्रतेजः ।
नश्यन्ति पापानि तथैव शीघ्रं दृष्ट्वा मुखं शूकररूपिणस्तु ॥ १३२.८ ॥
नभोगतं नश्यति चान्धकारं दृष्ट्वा रविं देववरं तथैव ।
नश्यन्ति पापानि सुदुस्तराणि दृष्ट्वा मुखं पार्थ धराधरस्य ॥ १३२.९ ॥
किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ १३२.१० ॥
एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ १३२.११ ॥
ध्यायमाना महात्मानो रूपं नारायणं हरेः ।
ये त्यजन्ति स्वकं देहं तत्र तीर्थे जितेन्द्रियाः ॥ १३२.१२ ॥
ते गच्छन्त्यमलं स्थानं यत्सुरैरपि दुर्लभम् ।
क्षराक्षरविनिर्मुक्तं तद्विष्णोः परमं पदम् ॥ १३२.१३ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदिवाराहतीर्थमाहात्म्यवर्णनं नाम द्वात्रिंशदधिकशततमोऽध्यायः ॥