स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १३३
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल परं तीर्थचतुष्टयम् ।
येषां दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥ १ ॥
कौबेरं वारुणं याम्यं वायव्यं तु ततः परम् ।
यत्र सिद्धा महाप्राज्ञा लोकपाला महाबलाः ॥ २ ॥
युधिष्ठिर उवाच -
किमर्थं लोकपालैश्च तपश्चीर्णं पुरानघ ।
नर्मदातटमाश्रित्य ह्येतन्मे वक्तुमर्हसि ॥ ३ ॥
श्रीमार्कण्डेय उवाच -
अधिष्ठानं समिच्छन्ति ह्यचलं निर्बले सति ।
संसारे सर्वभूतानां तृणबिन्दुवदस्थिरे ॥ ४ ॥
कदलीसारनिःसारे मृगतृष्णेव चञ्चले ।
स्थावरे जङ्गमे सर्वे भूतग्रामे चतुर्विधे ॥ ५ ॥
धर्मो माता पिता धर्मो धर्मो बन्धुः सुहृत्तथा ।
आधारः सर्वभूतानां त्रैलोक्ये सचराचरे ॥ ६ ॥
एवं ज्ञात्वा तु ते सर्वे लोकपालाः कृतक्षणाः ।
तपस्ते चक्रुरतुलं मारुताहारतत्पराः ॥ ७ ॥
ततस्तुष्टो महादेवः कृतस्यार्द्धे गते तदा ।
अनुरूपेण राजेन्द्र युगस्य परमेश्वरः ॥ ८ ॥
वरेण छन्दयामास लोकपालान्महाबलान् ।
यो यमिच्छति कामं वै तं तं तस्य ददाम्यहम् ॥ ९ ॥
एतच्छ्रुत्वा वचस्तस्य लोकपाला जगद्धिताः ।
वरदं प्रार्थयामासुर्देवं वरमनुत्तमम् ॥ १० ॥
कुबेर उवाच -
यदि तुष्टो महादेव यदि देयो वरो मम ।
यक्षाणामीश्वरश्चाहं भवामि धनदस्त्विति ॥ ११ ॥
ततः प्रोवाच देवेशं यमः संयमने रतः ।
तत्र प्रधानो भगवान् भवेयं सर्वजन्तुषु ॥ १२ ॥
वरुणोऽनन्तरं प्राह प्रणम्य तु महेश्वरम् ।
क्रीडेयं वारुणे लोके यादोगणसमन्वितः ॥ १३ ॥
जगादाशु ततो वायुः प्रणम्य तु महेश्वरम् ।
व्यापकत्वं त्रिलोकेषु प्रार्थयामास भारत ॥ १४ ॥
तेषां यदीप्सितं काममुमया सह शङ्करः ।
सर्वेषां लोकपालानः दत्त्वा चादर्शनं गतः ॥ १५ ॥
गते महेश्वरे देवे यथास्थानं तु ते स्थिताः ।
स्थापना च कृता सर्वैः स्वनाम्नैव पृथक्पृथक् ॥ १६ ॥
कुबेरश्च कुबेरेशं यमश्चैव यमेश्वरम् ।
वरुणो वरुणेशं तु वातो वातेश्वरं नृप ॥ १७ ॥
तर्पणं विदधुः सर्वे मन्त्रैश्च विविधैः शुभैः ।
सर्वे सर्वेश्वरं देव पूजयित्वा यथाविधि ॥ १८ ॥
आह्वयामासुस्तान् विप्रान्सर्वे सर्वेश्वरा इव ।
क्षान्तदान्तजितक्रोधान्सर्वभूताभयप्रदान् ॥ १९ ॥
वेदविद्याव्रतस्नातान् सर्वशास्त्रविशारदान् ।
ऋग्यजुःसामसंयुक्तांस्तथाथर्वविभूषितान् ॥ २० ॥
चातुर्विध्यं तु सर्वेषां दानं दास्याम गृह्णत ।
एवमुक्त्वा तु सर्वेषां विप्राणां दानमुत्तमम् ॥ २१ ॥
तत्र स्थाने ददुस्तेषां भूमिदानमनुत्तमम् ।
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ २२ ॥
तावद्दानं तु युष्माकं परिपन्थी न कश्चन ।
राजा वा राजतुल्यो वा लोकपालैरनुत्तमम् ॥ २३ ॥
दत्तं लोपयते मूढः श्रूयतां तस्य यो विधिः ।
शोषयेद्धनदो वित्तं तस्य पापस्य भारत ॥ २४ ॥
शरीरं वरुणो देवः संततीं श्वसनस्तथा ।
आयुर्नयति तस्याशु यमः संयमनो महान् ॥ २५ ॥
निःशेषं भस्मसात्कृत्वा हुतभुग्याति भारत ।
तस्मात्सर्वप्रयत्नेन ब्राह्मणेभ्यो युधिष्ठिर ।
भक्तिः कार्या नृपैः सर्वैरिच्छद्भिः श्रेय आत्मनः ॥ २६ ॥
राजा वृक्षो ब्राह्मणास्तस्य मूलं भृत्याः पर्णा मन्त्रिणस्तस्य शाखाः ।
तस्मान्मूलं यत्नतो रक्षणीयं मूले गुप्ते नास्ति वृक्षस्य नाशः ॥ २७ ॥
षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ।
आच्छेत्ता चावमन्ता च तान्येव नरके वसेत् ॥ २८ ॥
स्वदत्ता परदत्ता वा पालनीया वसुंधरा ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ २९ ॥
देवताज्ञामनुस्मृत्य राजानो येऽपि तां नृप ।
पालयिष्यन्ति सततं तेषां वासस्त्रिविष्टपे ॥ ३० ॥
स्वदत्ता परदत्ता वा यत्नाद्रक्ष्या युधिष्ठिर ।
मही महीक्षिता नित्यं दानाच्छ्रेयोऽनुपालनम् ॥ ३१ ॥
आयुर्यशो बलं वित्तं संततिश्चाक्षया नृप ।
तेषां भविष्यते नूनं ये प्रजापालने रताः ॥ ३२ ॥
एवमुक्त्वा तु तान् सर्वांल्लोकपालान् द्विजोत्तमान् ।
पूजयित्वा विधानेन प्रणिपत्य व्यसर्जयन् ॥ ३३ ॥
गतेषु विप्रमुख्येषु स्नात्वा हुतहुताशनाः ।
लोकपालाः क्षुधाविष्टाः पर्यटन्भैक्षमात्मनः ॥ ३४ ॥
अस्थिचर्मावशेषाङ्गाः कपालोद्धृतपाणयः ।
अलब्धग्रासमर्द्धार्धं निर्ययुर्नगराद्बहिः ॥ ३५ ॥
शापं दत्त्वा तदा क्रोधाद्ब्राह्मणाय युधिष्ठिर ।
दरिद्राः सततं मूर्खा भवेयुश्च ययुर्गृहान् ॥ ३६ ॥
तदाप्रभृति ते सर्वे ब्राह्मणा धनवर्जिताः ।
शापदोषेण कौबेर्यां संजाता दुःखभाजनाः ॥ ३७ ॥
न धनं पैतृकं पुत्रैर्न पिता पुत्रपौत्रिकम् ।
भुञ्जते सकलं कालमित्येवं शङ्करोऽब्रवीत् ॥ ३८ ॥
कुबेरेशे नरः स्नात्वा यस्तु पूजयते शिवम् ।
गन्धधूपनमस्कारैः सोऽश्वमेधफलं लभेत् ॥ ३९ ॥
यमतीर्थे तु यः स्नात्वा सम्पश्यति यमेश्वरम् ।
सर्वपापैः प्रमुच्येत सप्तजन्मान्तरार्जितैः ॥ ४० ॥
पूर्णमास्याममावास्यां स्नात्वा तु पितृतर्पणम् ।
यः करोति तिलैः स्नानं तस्य पुण्यफलं शृणु ॥ ४१ ॥
सुतृप्तास्तेन तोयेन पितरश्च पितामहाः ।
स्वर्गस्था द्वादशाब्दानि क्रीडन्ति प्रपितामहाः ॥ ४२ ॥
वरुणेशे नरः स्नात्वा ह्यर्चयित्वा महेश्वरम् ।
वाजपेयस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ॥ ४३ ॥
मृतां कालेन महता लोके यत्र जलेश्वरः ।
स गच्छेत्तत्र यानेन गीयमानोऽप्सरोगणैः ॥ ४४ ॥
वातेश्वरे नरः स्नात्वा सम्पूज्य च महेश्वरम् ।
जायते कृतकृत्योऽसौ लोकपालानवेक्षयन् ॥ ४५ ॥
किं तस्य बहुभिर्यज्ञैर्दानैर्वा बहुदक्षिणैः ।
स्नात्वा चतुष्टये लोके अवाप्तं जन्मनः फलम् ॥ ४६ ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
नित्यं वसन्ति कौरिल्यां लोकपालान्निमन्त्र्य ये ॥ ४७ ॥
एतत्पुण्यं पापहरं धन्यमायुर्विवर्धनम् ।
पठतां शृण्वतां चैव सर्वपापक्षयो भवेत् ॥ ४८ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुबेरादितीर्थचतुष्टयमाहात्म्यवर्णनं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥