सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ००३

विकिस्रोतः तः


अध्याय ३

युधिष्ठिर उवाच -
सप्तकल्पक्षया घोरास्त्वया दृष्टा महामुने ।
न चापीहास्ति भगवन्दीर्घायुरिह कश्चन ॥ ३.१ ॥
त्वया ह्येकार्णवे सुप्तः पद्मनाभः सुरारिहा ।
दृष्टः सहस्रचरणः सहस्रनयनोदरः ॥ ३.२ ॥
त्वं किलानुग्रहात्तस्य दह्यमाने चराचरे ।
न क्षयं समनुप्राप्तो वरदानान्महात्मनः ॥ ३.३ ॥
किं त्वयाश्चर्यभूतं हि दृष्टं च भ्रमतानघ ।
एतदाचक्ष्व भगवन्परं कौतूहलं हि मे ॥ ३.४ ॥
सम्प्राप्ते च महाघोरे युगस्यान्ते महाक्षये ।
अनावृष्टिहते लोके पुरा वर्षशताधिके ॥ ३.५ ॥
औषधीनां क्षये घोरे देवदानववर्जिते ।
निर्वीर्ये निर्वषट्कारे कलिना दूषिते भृशम् ॥ ३.६ ॥
सरित्सरस्तडागेषु पल्वलोपवनेषु च ।
संशुष्केषु तदा ब्रह्मन्निराकारे युगक्षये ॥ ३.७ ॥
जनं प्राप्ते महर्लोके ब्रह्मक्षत्रविशादयः ।
ऋषयश्च महात्मानो दिव्यतेजःसमन्विताः ॥ ३.८ ॥
स्थितानि कानि भूतानि गतान्येव महामुने ।
एतत्सर्वं महाभाग कथयस्व पृथक्पृथक् ॥ ३.९ ॥
भूतानि कानि विप्रेन्द्र कथं सिद्धिमवाप्नुयात् ।
ब्रह्मविष्ण्विन्द्ररुद्राणां काले प्राप्ते सुदारुणे ॥ ३.१० ॥
एवमुक्तस्ततः सोऽथ धर्मराजेन धीमता ।
मार्कण्डः प्रत्युवाचेदमृषिसंघैः समावृतः ॥ ३.११ ॥

श्रीमार्कण्डेय उवाच -
शृण्वन्तु ऋषयः सर्वे त्वया सह नरेश्वर ।
महत्पुराणं पूर्वोक्तं शंभुना वायुदैवते ॥ ३.१२ ॥
वायोः सकाशात्स्कन्देन श्रुतमेतत्पुरातनम् ।
वसिष्ठः श्रुतवांस्तस्मात्पराशरस्ततः परम् ॥ ३.१३ ॥
तस्माच्च जातूकर्ण्येन तस्माच्चैव महर्षिभिः ।
एवं परम्पराप्रोक्तं शतसंख्यैर्द्विजोत्तमैः ॥ ३.१४ ॥
संहिता शतसाहस्री पुरोक्ता शंभुना किल ।
आलोड्य सर्वशास्त्राणि वदार्थं तत्त्वतः पुरा ॥ ३.१५ ॥
युगरूपेण सा पश्चाच्चतुर्धा विनियोजिता ।
मदप्रज्ञानुसारेण नराणां तु महर्षिभिः ॥ ३.१६ ॥
आराध्य पशुभर्तारं मया पूर्वं महेश्वरम् ।
पुराणं श्रुतमेतद्धि तत्ते वक्ष्याम्यशेषतः ॥ ३.१७ ॥
यच्छ्रुत्वा मुच्यते जन्तुः सर्वपापैर्नरेश्वर ।
मानसैः कर्मजैश्चैव सप्तजन्मसु संचितैः ॥ ३.१८ ॥
सप्तकल्पक्षया घोरा मया दृष्टाः पुनःपुनः ।
प्रसादाद्देवदेवस्य विष्णोश्च परमेष्ठिनः ॥ ३.१९ ॥
द्वादशादित्यनिर्दग्धे जगत्येकार्णवीकृते ।
श्रान्तोऽहं विभ्रमंस्तत्र तरन्बाहुभिरर्णवम् ॥ ३.२० ॥
अथाहं सलिले राजन्नादित्यसमरूपिणम् ।
पुरा पुरुषमद्राक्षमनादिनिधनं प्रभुम् ॥ ३.२१ ॥
शृङ्गं चैवाद्रिराजस्य भासयन्तं दिशो दश ।
द्वितीयोऽन्यो मनुर्दृष्टः पुत्रपौत्रसमन्वितः ॥ ३.२२ ॥
अगाधे भ्रमते सोऽपि तमोभूते महार्णवे ।
अविश्रमन्मुहूर्तं तु चक्रारूढ इव भ्रमन् ॥ ३.२३ ॥
अथाहं भयादुद्विग्नस्तरन्बाहुभिरर्णवम् ।
तत्रस्थोऽहं महामत्स्यमपश्यं मदसंयुतम् ॥ ३.२४ ॥
ततोऽब्रवीत्स मां दृष्ट्वा एह्येहीति च भारत ।
परं प्रधानः सर्वेषां मत्स्यरूपो महेश्वरः ॥ ३.२५ ॥
ततोऽहं त्वरया गत्वा तन्मुखे मनुजेश्वर ।
सुश्रान्तो विगतज्ञानः परं निर्वेदमागतः ॥ ३.२६ ॥
ततोऽद्राक्षं समुद्रान्ते महदावर्तसंकुलाम् ।
उद्यत्तरंगसलिलां फेनपुञ्जाट्टहासिनीम् ॥ ३.२७ ॥
नदीं कामगमां पुण्यां झषमीनसमाकुलाम् ।
नद्यास्तस्यास्तु मध्यस्था प्रमदा कामरूपिणी ॥ ३.२८ ॥
नीलोत्पलदलश्यामा महत्प्रक्षोभवाहिनी ।
दिव्यहाटकचित्राङ्गी कनकोज्ज्वलशोभिता ॥ ३.२९ ॥
द्वाभ्यां संगृह्य जानुभ्यां महत्पोतं व्यवस्थिता ।
तां मनुः प्रत्युवाचेदं का त्वं दिव्यवराङ्गने ॥ ३.३० ॥
तिष्ठसे केन कार्येण त्वमत्र सुरसुन्दरि ।
सुरासुरगणे नष्टे भ्रमसे लीलयार्णवे ॥ ३.३१ ॥
सरितः सागराः शैलाः क्षयं प्राप्ता ह्यनेकशः ।
त्वमेका तु कथं साध्वि तिष्ठसे कारणं महत् ।
श्रोतुमिच्छाम्यहं देवि कथयस्व ह्यशेषतः ॥ ३.३२ ॥

अबलोवाच -
ईश्वराङ्गसमुद्भूता ह्यमृतानाम विश्रुता ।
सरित्पापहरा पुण्या मामाश्रित्य भयं कुतः ॥ ३.३३ ॥
साहं पोतमिमं तुभ्यं गृहीत्वा ह्यागता द्विज ।
न ह्यस्य पोतस्य क्षयो यत्र तिष्ठति शंकरः ॥ ३.३४ ॥
तस्यास्तद्वचनं श्रुत्वा विस्मयोत्फुल्ललोचनः ।
मनुना सह राजेन्द्र पोतारूढो ह्यहं तदा ॥ ३.३५ ॥
कृताञ्जलिपुटो भूत्वा प्रणम्य शिरसा विभुम् ।
व्यापिनं परमेशानमस्तौषमभयप्रदम् ॥ ३.३६ ॥
सद्योजाताय देवाय वामदेवाय वै नमः ।
भवे भवे नमस्तुभ्यं भक्तिगम्याय ते नमः ॥ ३.३७ ॥
भूर्भुवाय नमस्तुभ्यं रामज्येष्ठाय वै नमः ।
नमस्ते भद्रकालाय कलिरूपाय वै नमः ॥ ३.३८ ॥
अचिन्त्याव्यक्तरूपाय महादेवाय धामने ।
विद्महे देवदेवाय तन्नो रुद्र नमोनमः ॥ ३.३९ ॥
जगत्सृष्टिविनाशानां कारणाय नमोनमः ।
एवं स्तुतो महादेवः पूर्वं सृष्टया मयानघ ॥ ३.४० ॥
प्रसन्नो मावदत्पश्चाद्वरं वरय सुव्रत ॥ ३.४१ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मार्कण्डेयधर्मराजसंवादे कल्पक्षये मार्कण्डेयकृतपोतार्धारोहणवृत्तान्तवर्णनंनाम तृतीयोऽध्यायः ॥