स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १०६
अध्याय १०६
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थं परमशोभनम् ।
सौभाग्यकरणं दिव्यं नरनारीमनोरमम् ॥ १०६.१ ॥
तत्र या दुर्भगा नारी नरो वा नृपसत्तम ।
स्नात्वार्चयेदुमारुद्रौ सौभाग्यं तस्य जायते ॥ १०६.२ ॥
तृतीयायामहोरात्रं सोपवासो जितेन्द्रियः ।
निमन्त्रयेद्द्विजं भक्त्या सपत्नीकं सुरूपिणम् ॥ १०६.३ ॥
गन्धमाल्यैरलंकृत्य वस्त्रधूपादिवासितम् ।
भोजयेत्पायसान्नेन कृसरेणाथ भक्तितः ॥ १०६.४ ॥
भोजयित्वा यथान्यायं प्रदक्षिणमुदाहरेत् ।
प्रीयतां मे महादेवः सपत्नीको वृषध्वजः ॥ १०६.५ ॥
यथा ते देवदेवेश न वियोगः कदाचन ।
ममापि करुणां कृत्वा तथास्त्विति विचिन्तयेत् ॥ १०६.६ ॥
एवं कृते ततस्तस्य यत्पुण्यं समुदाहृतम् ।
तत्ते सर्वं प्रवक्ष्यामि यथा देवेन भाषितम् ॥ १०६.७ ॥
दौर्भाग्यं दुर्गतिश्चैव दारिद्र्यं शोकबन्धनम् ।
वन्ध्यत्वं सप्तजन्मानि जायते न युधिष्ठिर ॥ १०६.८ ॥
ज्येष्ठमासे सिते पक्षे तृतीयायां विशेषतः ।
तत्र गत्वा तु यो भक्त्या पञ्चाग्निं साधयेत्ततः ॥ १०६.९ ॥
सोऽपि पापैरशेषैस्तु मुच्यते नात्र संशयः ।
गुग्गुलं दहते यस्तु द्विधा चित्तविवर्जितः ॥ १०६.१० ॥
शरीरं भेदयेद्यस्तु गौर्याश्चैव समीपतः ।
तस्मिन्कर्मप्रविष्टस्य उत्क्रान्तिर्जायते यदि ॥ १०६.११ ॥
देहपाते व्रजेत्स्वर्गमित्येवं शङ्करोऽब्रवीत् ।
सितरक्तैस्तथा पीतैर्वस्त्रैश्च विविधैः शुभैः ॥ १०६.१२ ॥
ब्राह्मणीं ब्राह्मणं चैव पूजयित्वा यथाविधि ।
पुष्पैर्नानाविधैश्चैव गन्धधूपैः सुशोभनैः ॥ १०६.१३ ॥
कण्ठसूत्रकसिन्दूरैः कुङ्कुमेन विलेपयेत् ।
कल्पयेत स्त्रियं गौरीं ब्राह्मणं शिवरूपिणम् ॥ १०६.१४ ॥
तेषां तद्रूपकं कृत्वा दानमुत्सृज्यते ततः ।
कङ्कणं कर्णवेष्टं च कण्ठिकां मुद्रिकां तथा ॥ १०६.१५ ॥
सप्तधान्यं तथा चैव भोजनं नृपसत्तम ।
अन्यान्यपि च दानानि तस्मिंस्तीर्थे ददाति यः ॥ १०६.१६ ॥
सर्वदानैश्च यत्पुण्यं प्राप्नुयान्नात्र संशयः ।
सहस्रगुणितं सर्वं नात्र कार्या विचारणा ॥ १०६.१७ ॥
शङ्करेण समं तस्माद्भोगं भुङ्क्ते ह्यनुत्तमम् ।
सौभाग्यं तस्य विपुलं जायते नात्र संशयः ॥ १०६.१८ ॥
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।
राजेन्द्र कामदं तीर्थं नर्मदायां व्यवस्थितम् ॥ १०६.१९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कामदतीर्थमाहात्म्यवर्णनं नाम षडुत्तरशततमोऽध्यायः॥