सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ६४

विकिस्रोतः तः

।। ईश्वर उवाच ।। ।।
शृणु त्वं पशुपत्याख्यं चतुःषष्टिकमीश्वरम्।।
यस्य दर्शनमात्रेण पशुयोनिर्न लभ्यते ।। १ ।।
पशुपालो महादेवि बभूव भुवि विश्रुतः ।।
राजा परम धर्मिष्ठः पशूनां पालने रतः ।।२।।
दिदृक्षुः स कदाचिच्च गतस्तोयनिधिं प्रति ।।
ददर्श तत्र पुरुषान्पंच प्राधान्यतः स्थितान् ।।
एका स्त्री मुक्तकेशा सा भ्रमन्ती च पुनःपुनः ।। ३ ।।
अथ राजा भयाविष्टो विसंज्ञः समपद्यत ।।
संवेष्टितो दस्युभिस्तैस्तया नार्या विशेषतः ।। ४ ।।
ततोन्ये समपातं च आगत्य नृपसत्तमम् ।।
संवेष्ट्य संस्थितैः सर्वैस्ततो रुद्धो महीपतिः ।। ५ ।।
रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः ।।
घातिताः पशुपालेन न मृताः पुनरुत्थिताः ।। ६ ।।
तस्य तां धृष्टतां ज्ञात्वा स्थैर्यं च नृपतेर्मृधे।।
तस्यैव नृपतेर्देहे लीनास्ते दश दस्यवः ।। ७ ।।
अमूर्ता इव ते सर्वे एकीभूतास्ततोऽभवन् ।।
तान्दृष्ट्वा दुःखितो राजा पशुपालोऽभवत्क्षणात् ।। ८ ।।
अथापश्यत्तदाऽऽयांतं नारदं मुनिपुंगवम् ।।
ब्रह्मपुत्रं तपोयुक्तं पप्रच्छ स नृपस्तदा ।। ९ ।।
।। पशु पाल उवाच ।। ।।
भगवन्ब्रह्मपुत्राद्य मया दृष्टं तु कौतुकम् ।।
अकस्मात्पुरुषाः पंच समायाता भयावहाः ।। 5.2.64.१० ।।
तैरहं वेष्टितो दुष्टैर्व्याकुलश्च कृतस्तदा ।।
मुष्टिभिर्हन्यमानोऽहं स्वस्थो जातो द्विज क्षणात् ।। ११ ।।
ततोऽन्ये पुरुषाः पञ्च समायाता नियुध्य माम् ।।
हन्यतां हन्यतामेष मुक्तिकामो नृपाधमः ।। १२ ।।
एवं तैः पीडितोऽत्यर्थं पुनर्मोहमुपागतः ।।
एतस्मिन्नन्तरे सा स्त्री मामुवाच पुनःपुनः ।। १३ ।।
दृढो भव महाराज मा विषादं कुरु प्रभो ।।
हीनवीर्या ह्यमी चोराः समर्थस्त्वं स्थिरो भव ।। १४ ।।
तस्या वाक्येन विप्रेंद्र मया धैर्येण संयुगे ।।
दश प्रधान पुरुषा जितास्ते न मृताः प्रभो ।। १५ ।।
प्रलीना मच्छरीरे तु केप्यते कापि साऽबला ।।
पशुपालवचः श्रुत्वा नारदो वाक्यमब्रवीत् ।। १६ ।।
ये त्वया पुरुषा दृष्टास्त्वयि लीना जिता मृधे ।।
बुद्धीन्द्रियाणि ते पञ्च पंच कर्मेन्द्रियाणि च ।।
भ्रमन्ती या च नारी सा त्वया दृष्टा नृपोत्तम ।। ।। १७ ।।
मनोरूपेण सा बुद्धिर्भ्रमत्येव हि न स्थिरा ।।
जितानि तानि पूर्वेण ब्रह्मणा लोककर्तृणा ।। १८ ।।
सोऽपि क्रोधवशं नीत इन्द्रियैर्विषयैः प्रियैः ।।
पितामहेन स्वे यज्ञे शम्भोर्भागो न कल्पितः ।। १९ ।।
महादेवो जगन्नाथः सृष्टिसंहारकारकः ।।
इंद्रियैर्मोहितो राजन्क्रोधं चक्रे सुरा न्प्रति ।। 5.2.64.२० ।।
सुरा विभूतयो यस्य क्रीडार्थं भुवनत्रयम् ।।
तेन भागनिमित्तार्थं चक्रे सज्यं धनुस्तदा ।। २१ ।।
पूष्णश्च दंताः संभग्ना मोहितश्च दिवाकरः ।।
नेत्रे भग्ने भगस्यापि विद्धो यज्ञो मृगाकृतिः ।। २२ ।।
पशवश्च कृता देवा मुनयो वेदवर्जिताः ।।
ऋषीणां धर्मशास्त्राणि हृतानि विभुना तथा ।। २३ ।।
दुर्जयानीन्द्रियाण्याहुर्मुनयो वेदपारगाः ।।
मनोरूपेण या बुद्धिः सा चातीव सुदुर्जया ।। २४ ।।
तस्माद्राजन्महाबाहो मा विषादं वृथा कृथाः ।।
तस्य तद्वचनं श्रुत्वा नारदस्य महात्मनः ।।
पशुपालो महादेवि वक्तुं समुपचक्रमे ।। २५ ।।
।। पशुपाल उवाच ।। ।।
कथं ते भगवन्मुक्ता देवाः शक्रपुरोगमाः ।।
पशुभावाच्च ब्रह्मापि श्रोतुमिच्छामि कथ्यताम् ।।२६।।
तस्य तद्वचनं श्रुत्वा नारदः पुनरब्रवीत् ।।
पशु त्वेऽपि गता देवा ऋषिभिर्मुनिभिः सह ।। २७ ।।
ब्रह्माणमग्रतः कृत्वा गताः शरणमीश्वरम् ।।
स्तुतिभिस्तोषितो देवो भक्तानुग्रहकारकः ।। २८ ।।
उवाच वचनं राजन्यत्कर्तव्यं तदुच्यताम्।।२९।।
देवा ऊचुः।।
वेदशास्त्राणि विज्ञानं देहि नो भव मा चिरम्।।
देवस्त्वं पूर्ववद्देव यदि तुष्टो महेश्वरः ।।5.2.64.३०।।
।।ईश्वर उवाच ।। ।।
भवंतः पशवः सर्वे मया सार्द्धं च गम्यताम् ।।
महाकालवने क्षेत्रे पशुभावविमोक्षके।।३१।।
अहं पतिर्वो भविता ततो मोक्षमवाप्स्यथ ।।
भवतामनुकंपार्थं लोकानुग्रहकारणम् ।।
लिंगरूपी भविष्यामि नाम्ना पशुपतीश्वरः ।। ३२ ।।
अथ ते त्रिदशाः सर्वे दृष्ट्वा देवं तमीश्वरम् ।।
पशुभावविनिर्मुक्ता गता हृष्टास्त्रिविष्टपम् ।।
ब्रह्मा पशुपतिं प्राह प्रसन्नेनांतरात्मना ।। ३३ ।।
ये त्वां पश्यन्ति देवेश भक्त्या परमया युताः ।।
तेषां कुले पशुत्वं च ये गताः पितरः प्रभो ।।
स्वकैः कर्मविपाकैश्च तेषां मोक्षो भविष्यति ।।३४।।
अज्ञानाज्ज्ञानतो वापि यत्पापं क्रियते नरैः ।।
तत्पापं विलयं यातु तस्य देवस्य पूजनात् ।। ३५ ।।
ते नराः पशवो लोके किं तेषां जीविते फलम् ।।
यैर्न दृष्टः पशुपतिः पशुयोनिविमोचकः ।। ३६ ।।
कौमारे यौवने बाल्ये वार्द्धके यदुपार्जितम् ।।
तत्पापं विलयं याति दृष्ट्वा पशुपतिं शिवम्।। ३७ ।।
पौषमासे तु संप्राप्ते ये त्वां पश्यंति मानवाः ।।
तेषां त्वं वरदो देव सदाभीष्टकरो भवेत् ।। ३८ ।।
सूर्यग्रहे यथा दत्तं कुरुक्षेत्रे विशेषतः ।।
पात्रे दानं सुवर्णस्य प्रोक्तमक्षय्यमव्ययम् ।। ३९ ।।
पौषमासे दिनैकेन नराणामधिकं तथा ।।
तद्दर्शनेन देवेश भविष्यति न संशयः ।। 5.2.64.४० ।।
इत्युक्त्वा भगवान्ब्रह्मा ब्रह्मलोकं गतो नृप ।।
कृतकृत्यः प्रहृष्टात्मा मुनिभिः कविभिः सह ।। ४१ ।।
तस्मात्त्वमपि राजेंद्र यदीच्छसि परां गतिम् ।।
समाराधय तल्लिंगं पशुयोनिविमोचनम् ।।
महाकालवनं गत्वा इन्द्रेश्वरस्य दक्षिणे ।।४२।।
तस्य तद्वचनं श्रुत्वा नारदस्य महात्मनः ।।
जगाम पशुपालोऽपि महाकालवनं प्रिये ।।
दर्शनात्तस्य लिंगस्य गतोऽसौ परमां गतिम् ।। ४३ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
पशुपत्याख्यदेवस्य शृणु ब्रह्मेश्वरं शिवम् ।। ४४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये पशुपती श्वरमाहात्म्यवर्णनंनाम चतुष्षष्टितमोऽध्यायः ।। ६४ ।।