व्रज सुखमवनौ कुरु प्रचारं भु[१]जगकृतेरिति तं स शेषशिष्यः ।
दिवमगमदुदीर्य सोऽपि बद्ध्वा वटदलसंचयमंशुके प्रतस्थे ॥ ३५ ॥
नखलिखितपतञ्जलिप्रबन्धं वटदलजालकमुत्तरीयबद्धम् ।
शिरसि दधदभीष्टलाभहृष्टः स निववृते वनवर्त्मना मनीषी ॥ ३६ ॥
पथिकपरिगृहीतवृक्षमूलस्थलमचलत्खगमप्रवृत्तवातम् ।
दिशि दिशि विसृतातपोष्म भेजे पथि चलता किल तेन मध्यमाह: ३७
तदनु पथि चलन्स चन्द्रगुप्तः सरितमवैक्षत कामपि प्रसन्नाम् ।
विकचकमलगर्भरेणुगन्धी श्रममपहन्ति नृणां यदूर्मिवातः ॥ ३८ ॥
बभुरनवरतं यदम्बुलोलेष्वलिकलभाः कमलेषु संचरन्तः ।
वसतिषु शयितं श्रियो जनन्याः प्रभुमिव पञ्चशरं गवेषयन्तः ॥ ३९ ॥
अदधुरिव वनानि स[२]ल्लकानां परिमललोलदलिव्रजच्छलेन ।
निगलमतरलेतरं यदूर्मौ झटिति नियन्त्रयितुं दृशो जनानाम् ॥ ४० ॥
कुमुदमुकुलजालकं यदीये पयसि बभौ करिदन्तकान्तकान्ति ।
पथिकतरुणदुर्दशानिमित्तं पतितमिवोडुकदम्बमम्बरान्तात् ॥ ४१ ॥
अविरलमसितं यदम्बुपूरे कुवलयकुड्मलमण्डलं चकाशे ।
प[३]थिकयुवविहन्तुरङ्गजस्य स्थितमिव जालमकीर्तिकन्दलानाम् ॥ ४२ ॥
पयसि विहरतोऽनिशं यदीये कलनिनदः कलहंसमण्डलस्य ।
श्रुतिषु परिणनाम पान्थयूनां कुपितमनोभवयोधसिंहनादः ॥ ४३ ॥
प्रसृमरमवकर्ण्य चक्रवाकप्रणदितमध्वनि तीरभाजि यस्याः ।
विनमितमुदितस्मितं तरुण्या वदनमलुम्पत वल्लभस्य धैर्यम् ॥ ४४ ॥
परिणतिविगलत्कदम्बपुष्पस्तबकपरागकरम्बितां यदूर्मिम् ।
न पुनरुपससार दावबुध्द्या वनकलभस्तृषितोऽपि वारि पातुम् ॥ ४५ ॥