रोमा[१]ञ्चिते तस्य शरीरमञ्चे क्षणं विनिन्ये नलिनेक्षणोऽपि ।
कुरङ्गदष्टाग्रकुशप्ररोहे करीव तीरे कमलाकरस्य ॥ ४४ ॥
श्रीश त्वदुक्तिश्रवणेन नीते चक्षुःसहस्रे मम चारितार्थ्यम् ।
तथापि पश्येयमवश्यमैशं नृत्तं प्रसीदेति स तं ययाचे ॥ ४५ ॥
स याचमानाय सरोरुहाक्षस्तस्मै पुनर्विस्मयमादधानः ।
कथामथो माक्षिकमाक्षिपन्त्या भुजङ्गराजाय गिरा जगाद ॥ ४६ ॥
पणीति कश्चिन्मुनिरस्ति पूर्वं स पाणिनं नाम कुमारमाप ।
स्वतुल्यनाम्ना तनयेन सोऽपि दाक्षीमुदूढां दृढमभ्यनन्दत् ॥ ४७ ॥
स पाणिनो दक्षभुवा पुरन्ध्र्या रिपुः पुराणामुमयेव रेमे ।
काले मुनिः स्कन्द इव प्रसूतो हर्षं तयोः पाणिनिरप्यकार्षीत्॥ ४८ ॥
तपोभिराराधयतः कठोरैस्तस्य प्रसन्नस्तरुणेन्दुचूडः ।
अघोषयद्दण्डविघट्टनेन चण्डं करस्थं डमरुं पुरस्तात् ॥ ४९ ॥
शब्दावलेर्व्याकरणं चिकीर्षोस्तदा मुनेः पाणिनिसंभवस्य ।
मृडस्य चण्डा डमरुप्रणादाः शास्त्रादिसूत्राणि चतुर्दशासन् ॥ ५० ॥
इतीश्वरानुग्रहतो निबध्नन्सूत्राणि स व्याकृत शब्दजालम् ।
सुष्ठु प्रयोगं कथयन्ति यस्य स्वर्लोकसोपानपरंपरेति ॥ ५१ ॥
कात्यायनः कर्कशया प्रसाद्य तपस्यया चन्द्रकलावतंसम् ।
तस्याथ सूत्रेषु पदार्थबोधप्रवर्तकं वार्तिकमाबबन्ध ॥ ५२ ॥
- ↑ सर्पाणां रोमाभावेऽपि कविभी रोमाञ्चो वर्ण्यते. तथा च--
‘मन्दोद्धूतै: शिरोभिर्मणिभिरगुरुभिः प्रौढरोमाञ्चदण्ड-
स्फायन्निर्मोकसंघिप्रसरदुरुगलत्सन्मदस्वेद्पूराः ।
जिह्वायुग्माभिपूर्णाननविषमसंमुद्गीर्णवर्णाभिरामं
वेलाशैलान्तभाजो भुजगयुवतयस्त्वद्गुणानुद्गिरन्ति ॥
इति मुरारिः.