स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः २०
।। ईश्वर उवाच ।। ।।
प्रतीहारेश्वरं देवि विद्धि विंशतिमं प्रिये ।।
यस्य दर्शनमात्रेण धनवानिह जायते ।। १ ।।
दक्षकोपात्त्वं च देवि पुरा प्राणैर्विसर्जितैः ।।
हिमाचले तथा जाता मया प्राप्ता पुनः प्रिये ।। २ ।।
प्रारब्धा च मया देवि त्वया सार्द्धं रतिस्तदा ।।
दिव्यं वर्षशतं जातं साग्रं देवि प्रमोदतः ।।
अनुरागवशाच्चैव मन्मथेन प्रपीडिता ।। ३ ।।
महारतिं समीक्ष्याथ देवाः संक्षुब्धमानसाः ।।
चक्रुर्मंत्रं यथाकालं वासवाद्या यथोचितम् ।। ४ ।।
दिव्यं वर्षशतं रुद्रो गौर्या सह सदा रतिम् ।।
कुर्वंस्तिष्ठति देवोऽसौ मंदरे चारुकंदरे ।। ५ ।।
अनयोर्बीजसंपत्योः पुत्रो यो हि भवेत्तदा ।।
विनश्येत्तेन त्रैलोक्यमखिलं च न संशयः ।। ६ ।।
तस्य तेजोपि नो वोढुं समर्था निश्चितं वयम् ।।
तस्मात्तत्क्रियतां कर्म रतिर्येनो पशाम्यति ।। ७ ।।
उपायं दृष्टवांस्तत्र देवानां गुरुरग्रणीः ।।
बृहस्पतिर्महातेजा वेदशास्त्रार्थपारगः ।। ८ ।।
गच्छंतु त्रिदशाः सर्वे शिवस्य तु समीपतः।।
स्वयं विज्ञाप्यतां देवस्तत्कर्म न करिष्यति।।९।।
इति निश्चित्य ते देवि जग्मुः शीघ्रं सुरास्तदा।।
मंदराद्रेः शुभे द्वारि स्थितास्ते विस्मयान्विताः।।5.2.20.१०।।
गणानामधिपो नंदी द्वारि तिष्ठति यत्नतः।।
त्वया सार्द्धमहं देवि कुर्वंस्तिष्ठामि तां रतिम्।।११।।
अथ प्रवेशो देवानां दुष्करो मम पार्श्वतः ।।
तदा चिंतयमानाश्च तत्र तिष्ठंति ते सुराः ।। १२ ।।
अग्निना तद्धितं वाक्यमुक्तं तेषां पुरः शुभम् ।।
हंसरूपं समास्थाय यास्यामि शिवसन्निधौ।।१३।।
वंचयित्वा प्रतीहारं कृतं तेन तथैव च।।
हंसरूपेण कथितं कर्णे मम शुचिस्मिते।।१४।।
इन्द्राद्या अमरा देवा द्वारि तिष्ठंति संयताः।।
श्रुत्वा तस्य च तद्वाक्यं ततोहं द्वारमागतः।।१५।।
ततश्च तै- कुतो मह्यं प्रणामश्च यथाक्रमम्।।
मया दृष्टाश्च ते देवा युष्माकं किं करोम्यहम्।।१६।।
तैरुक्तं त्यज्यतां चैव संभोगस्तु सुदारुणः।।
तथा मया कृतं देवि गतास्ते त्रिदिवं पुनः।।१७।।
ततः शप्तो मया नंदी भूलोकं गच्छ सत्वरम्।।
ततः शापपरिभ्रष्टः पृथिव्यां पतितस्तदा।।१८।।
सोच्छ्वासहृदयो दीनो दुःखव्याकुललोचनः।।
विलपंश्च तथा नंदी विलुठञ्छोकतो भुवि ।।१९।।
वंचितश्चाग्निना बाढं वासवेन विशेषतः।।
किं मया दुष्कृतं कर्म कृतं किं चित्पुरातनम् ।। 5.2.20.२० ।।
स दृष्टो लोकपालैस्तु तामवस्थां गतो गणः ।।
पृष्टश्च तैः कुतो नदिन्विलापं कुरुषे महत् ।। २१ ।।
सर्वं निवेदितं तेन तेषामग्रे च नंदिना ।।
उपायः कथितस्तैश्च महाकालवनं ततः ।। २२ ।।
ततश्च वचनं श्रुत्वा नंदी रोमांचकंचुकः ।।
महाकालवने देवि जगाम स तदा गणः ।।
पूजयामास विधिवद्धृत्वा कपालिकीं तनुम् ।। २३ ।।
अशरीरसमुत्पन्ना वाणी लिंगात्तदा प्रिये ।।
संजाता शापमोक्षस्ते प्रतीहार सुभक्तितः ।।
पूजितोऽसौ महाभक्त्या प्रतीहारेण नंदिना ।। २४ ।।
तदाप्रभृति लोकेस्मिन्प्रतीहारेश्वरेश्वरः ।।
मया ते कथितो देवि प्रतीहारेश्वरस्य च ।।
प्रभावः सर्वलोकानामत्यभीष्टफलप्रदः ।। २५ ।।
पूजयिष्यंति ये भक्त्या प्रतीहारेश्वरं शिवम् ।।
स्थानभ्रंशो वियोगश्च तेषां स्वप्नेऽपि नो भवेत् ।। २६ ।।
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।।
तत्सर्वं नाशमायाति प्रतीहारेश्वरार्चनात् ।। २७ ।।
मनसा ये स्मरिष्यति प्रतीहारेश्वरं शिवम्।।
एवं तस्य कुलं सर्वं याति स्वर्गं न संशयः।।२८।।
इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये प्रतीहारेश्वरमाहात्म्यवर्णनंनाम विंशोध्यायः।।२०।।