स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ०३

विकिस्रोतः तः


।। श्रीरुद्र उवाच ।। ।।
ढुंढेश्वरं तृतीयं तु सुखस्वर्गफलप्रदम् ।।
सर्वपापहरं लिगं नृणां दुष्कृतनाशनम् ।। १ ।।
ढुंढश्चासीत्पुरा देवि कैलासे गणनायकः ।।
स च कामी दुराचारो व्यसनोपहतेन्द्रियः ।। २ ।।
गतोऽसौ शक्रलोकं तु कौतुकार्थं यदृच्छया ।।
यत्र नृत्यति सा रंभा शक्रस्याग्रे विवृण्वती ।। ।। ३ ।।
भावान्बहुविधान्रम्यान्दृष्टिहस्तादिकाञ्छुभान्।
सूचीविद्धादिकरणान्पताकादिकहस्तकान्।।
नृत्यं हस्तादिसंयुक्तं लयतालानुगं तथा ।।४।।
शक्रोऽपि त्रिदशैः सार्द्धं तन्मुखासक्तलोचनः ।।
बभूव हृष्टचेता वै हृषितांगरुहाननः ।। ५ ।।
एतस्मिन्नंतरे देवि ढुंढस्तल्ललितेन तु ।।
कामरागवशेनैव भाव्यर्थेन च मोहितः ।। ६ ।।
तेन रंगरता रंभा पुष्पगुच्छेन ताडिता ।।
स शप्तो वासवेनैव दृष्ट्वाऽन्यायं गणस्य तु ।। ७ ।।
पत त्वं मानुषं लोकं रंगभंगस्त्वया कृतः ।।
इति शप्तो गणो देवि शक्रेणामिततेजसा ।। ८ ।।
पतितो मानुषे लोके विसंज्ञो विह्वलेन्द्रियः ।।
कादिग्भूतो हतो त्साहो विललाप पुनःपुनः ।। ९ ।।
अहोऽन्यायफलं प्राप्तं मया मोहादनुष्ठितम् ।।
तस्मान्नीतिर्विधातव्या पुरुषेण विजानता ।। 5.2.3.१० ।।
न्यायमार्गं समाश्रित्य येन सिद्धिर्भवेन्मम ।। ११ ।।
इत्युक्त्वा स तपस्तेपे महेंद्रे पर्वतोत्तमे ।।
श्रीशैले मलये विंध्ये पारियात्रे यमालये ।। १२ ।।
नो सिद्धोऽसौ यदा देवि तदा गंगामहत्तटम् ।।
यमुनां चंद्रभागां च वितस्तां नर्मदां नदीम् ।। १३ ।।
गोदावरीं भीमरथीं कौशिकीं शारदां शिवाम् ।।
चर्मण्वतीं समासाद्य स्नात्वा त्यक्तक्रियोऽभवत् ।। १४ ।।
तीर्थं व्यर्थं तपो व्यर्थं तीर्थयात्राफलं यतः ।।
न प्राप्तं च मयाभीष्टमटता कर्मभूमिषु ।। १५ ।।
एतस्मिन्नंतरे देवि वागुवाचाशरीरिणी ।।
आश्वासयंती गणपं महाकालायने व्रज ।। १६ ।।
प्रयागाद्यानि तीर्थानि पृथिव्यां यानि संति वै ।।
सदा सिद्धिकरं तेषां महाकालं विशिष्यते ।। १७ ।।
तत्रास्ते सुमहापुण्यं लिंगं सर्वार्थसाधकम् ।।
पिशाचेश्वरसांनिध्ये तमाराधय सत्वरम् ।। १८ ।।
प्रसादात्तस्य लिंगस्य पुनर्यास्यसि शांकरम् ।।
लोकं तेजस्विनां गम्यं दुर्लभं पापिनां सदा ।। १९ ।।
इति श्रुत्वा ततो वाणीमाकाशस्थां गणस्तदा ।।
आजगाम मुदा युक्तो महाकालवनोत्तमे ।। 5.2.3.२० ।।
ददर्श तत्र तल्लिंगं सर्वसंपत्करं शुभम्।।
पूजयामास देवेशं भक्त्या परमया युतः ।। २१ ।।
लिंगमध्यात्ततो वाणी निःसृता पर्व तात्मजे ।।
अहो तुष्टोस्मि ते वत्स किं कामं प्रददाम्यहम् ।। २२ ।।
।। ढुंढ उवाच ।। ।।
यदि तुष्टोऽसि देवेश शरणागतवत्सल ।।
त्वत्पादपंकजे भूयाद्भक्तिर्मेऽविचला सदा ।। २३ ।।
वरमेनं प्रयच्छाशु यदि तुष्टो महेश्वरः ।। २४ ।।
ये च त्वां मानवा देव पश्यंति परमेश्वर ।।
पापात्सद्यो विनिर्मुक्तास्ते भवंतु महीतले ।। २५ ।।
ढुंढस्य भाषितं श्रुत्वा लिंगेनोक्तं यशस्विनि ।।
ये च मां पूजयिष्यंति श्रद्धया परया पुनः।।
ते भविष्यंति सततं सदा पातकवर्जिताः ।। २६ ।।
लप्स्यंति ते परान्कामान्भविष्यंति गणोत्तमाः।।
पूज्याः सर्वेषु लोकेषु सर्वालंकारभूषिताः ।।२७।।
एवं लब्धवरो ढुंढः प्रांजलिः पुनरब्रवीत् ।।
मन्नाम्ना प्रथितं लिंगं संभूयाद्भुवने सदा ।। २८ ।।
एवमस्त्विति लिंगेन प्रोक्तं तुष्टेन पार्वति ।।
तदाप्रभृति विख्यातो देवो ढुंढे श्वरः परः ।। २९ ।।
यस्य दर्शनमात्रेण सदा सिद्धिर्भवेन्नृणाम्।। 5.2.3.३० ।।
भक्त्या ये पूजयिष्यंति देवं ढुंढेश्वरं परम् ।।
आजन्मप्रभवं पापं तेषां यास्य ति तत्क्षणात् ।।३१।।
स एव सुकृती लोके स एव मम वल्लभः।।
यः पश्यति नरो भक्त्या लिंगं ढुंढेश्वरं परम् ।। ३२ ।।
राजसूयशतेनैव यत्पुण्यं च भविष्यति ।।
ततो भविष्यत्यधिकं ढुंढेश्वरनिरीक्षणात्।।३३।।
मानसं वाचिकं वापि कायिकं गुह्यसंभवम् ।।
प्रकाशं वाऽप्रकाशं च प्रसंगादपि यत्कृ तम् ।।
तत्सर्वं यास्यति क्षिप्रं ढुंढेश्वरस्य दर्शनात्।।३४।।
इत्युक्तस्तु मया देवि स ढुंढो गणनायकः ।।
कृतो लिंगस्य माहात्म्याद्गतो लोके मदीयके ।।
रेजे च गणपैः सार्द्धं ममाभीष्टतरोऽभवत्।।३५।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
श्रवणात्कीर्त्तनाद्वापि मम लोके महीयते ।।३६।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये ढुंढेश्वरमाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ।।३।। ।।