गायत्र्यष्टकम् (शङ्कराचार्यकृतम्)

विकिस्रोतः तः

<poem>

विश्वामित्रपःफलां प्रियतरां विप्रालिसंसेवितां नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् . ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. १ ..

जातीपङ्कजकेतकीकुवलयैः संपूजिताङ्घ्रिद्वयां तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम् . प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. २ ..

मञ्जीरध्वनिभिः समस्तजगतां मञ्जुत्वसंवर्धनीं विप्रप्रेङ्खितवारिवारितमहारक्षोगणां मृण्मयीम् . जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ३ ..

काञ्चीचेलविभूषितां शिवमयीं मालार्धमालादिकान् बिभ्राणां परमेश्वरीं शरणदां मोहान्धबुद्धिच्छिदाम् . भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ४ ..

ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां सायंकालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम् . मातुर्दास्यविलोचनैकमतिमत्खेटीन्द्रसंराजितां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ५ ..

संध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां ताराहीरसुमालिकां सुविलसद्रत्नेन्दुकुम्भान्तराम् . राकाचन्द्रमुखीं रमापतिनुतां शङ्खादिभास्वत्करां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ६ ..

वेणीभूशितमालकध्वनिकरैर्भृङ्गैः सदा शोभितां तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम् . नासालंकृतमौक्तिकेन्दुकिरणैः सायंतमश्छेदिनीं गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ७ ..

पादाब्जान्तररेणुकुङ्कुमलसत्फालद्युरामावृतां रम्भानाट्यविलोकनैकरसिकां वेदान्तबुद्धिप्रदाम् . वीणावेणुमृदङ्गकाहलरवान् देवैः कृताञ्छृण्वतीं गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् .. ८ ..

हत्यापानसुवर्णतस्करमहागुर्वङ्गनासंगमान् दोषाञ्छैलसमान् पुरंदरसमाः संच्छिद्य सूर्योपमाः . गायत्रीं श्रुतिमातुरेकमनसा संध्यासु ये भूसुरा जप्त्वा यान्ति परां गतिं मनुमिमं देव्याः परं वैदिकाः .. ९ ..

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्यविरचितं गायत्र्यष्टकं संपूर्णम्

<poem>