उमासहस्रनामस्तोत्रम्/दशमशतकम्/अष्टत्रिंशस्तबकः

विकिस्रोतः तः

दशमहाविद्याः (पादाकुलकवृत्तम्)

दूरीकुरुताद् दुःखं निखिलं दुर्गायास्तद्दरहसितं नः ।
रचितास्याम्भोमृद्भ्यां यदभुल्लेपनममलं ब्रह्माण्डस्य ॥ ३८.१॥

जन्तौ जन्तौ भुवि खेलन्ति भूते भूते नभसि लसन्ती ।
देवे देवे दिवि दीप्यन्ती पृथगिव पूर्णा संविज्जयति ॥ ३८.२॥

दहरसरोजाद् द्विदलसरोजं द्विदलसरोजाद्दशशतपत्रम्
दशशतपत्राद्देहं देहात् सकलं विषयं संविद् व्रजति ॥ ३८.३॥

वह्निज्वाला समिधमिवैषा सकलं देहं संवित्प्राप्ता ।
पृथगिव भूता व्यपगतवीर्या भवति सधूमा संसाराय ॥ ३८.४॥

अत्रानुभवस्सुखदुःखानामत्राहङ्कृतिरनृता भवति ।
अत्रैवेदं सकलं भिन्नं प्रतिभासेत प्रज्ञास्खलने ॥ ३८.५॥

दशशतपत्राद् द्विदलसरोजं द्विदलसरोजाद्दहरसरोजम् ।
अवतरतीशा येषामेषा तेषामन्तर्नित्या निष्ठा ॥ ३८.६॥

अथवा देहादावृत्तस्सन्नन्यतमस्यामासु स्थल्याम् ।
आधारस्थे कुलकुन्डे वा स्थितधीर्नित्यां निष्ठां लभते ॥ ३८.७॥

दशशतपत्रे शक्तिर्ललिता वज्रवती सा द्विदलसरोजे ।
दहाराम्बुरुहे भद्रा काली मूलाधारे भैरव्याख्या ॥ ३८.८॥

खेलति ललिता द्रवति स्थाने छिन्नग्रन्थिनि राजत्यैन्द्री ।
बद्धकवाटे भद्रा काली तपसा ज्वलिते भैरव्याख्या ॥ ३८.९॥

यद्यपि कालीवज्रेश्वर्यौ स्यातां भिन्ने इव पिण्डेषु ।
ओजस्तत्त्वस्यैक्यादण्डे न द्वौ शक्तेर्भेदौ भवतः ॥ ३८.१०॥

एवमभेदो यद्यपि कर्मद्वैधात् द्वैधं तत्रापि स्यात् ।
सैव पचन्ती भुवनं काली सैव दहन्ती शत्रूनैन्द्री ॥ ३८.११॥

पिण्डे चाण्डे जङ्गमसारः शुद्धा प्रज्ञा सुन्दर्युक्ता ।
विषयदशायां देशीभूता सेयं भुवनेश्वर्याख्याता ॥ ३८.१२॥

शून्यप्रख्या या चिल्लीना प्रलये ब्रह्मणि जन्मिषु सुप्तौ
कबलितसकलब्रह्माण्डां तां कवयः श्रेष्ठां ज्येष्ठामाहुः ॥ ३८.१३॥

निद्राविस्मृतिमोहालस्यप्रविभेदैस्सा भवमग्नेषु ।
एषैव स्याद्युञ्जानेषु ध्वस्तविकल्पः कोऽपि समाधिः ॥ ३८.१४॥

ऐन्द्री शक्तिर्व्यक्तबला चेद् भिन्ने स्यातां शीर्षकपाले ।
तस्मादेतां चतुरवचस्काः परिभाषन्ते छिन्नशिरस्काम् ॥ ३८.१५॥

भवति परा वाग्भैरव्याख्या पश्यन्ती सा कथिता तारा ।
रसनिधिमाप्ता जिह्वारङ्गं मातङ्गीति प्रथिता सेयम् ॥ ३८.१६॥

पिण्डे चाण्डे स्तम्भनशक्तिर्बगला मात्रस्तव महिमैकः ।
सर्वे व्यक्ताः किरणाः कमला बाह्यो महिमा भुवनाम्ब तव ॥ ३८.१७॥

बोधे बोधे बोद्धुश्शक्तिं सङ्कल्पानां पश्चाद्भान्तीम् ।
अविमुञ्चन्यो मनुते धीरो यत्किञ्चिद्वा ललिताऽवति तम् ॥ ३८.१८॥

दृष्टौ दृष्टौ द्रष्टुश्शक्तिं लोचनमण्डलमध्ये भान्तीम् ।
अविमुञ्चन्यः पश्यति धीरो यत्किञ्चिद्वा तमवत्यैन्द्री ॥ ३८.१९॥

प्राणसमीरं विदधानमिमं नित्यां यात्रामत्र शरीरे ।
चरणे चरणे परिशीलयति स्थिरदृष्टिर्यस्तमवति काली ॥ ३८.२०॥

स्थूलविकारान् परिमुञ्चन्त्या निर्मलनभसि स्थितया दृष्ट्या ।
मज्जन्त्या वा दहराकाशे लोकेश्वर्याः करुणां लभते ॥ ३८.२१॥

सर्वविकल्पान् परिभूयान्तर्विमलं मौनं महदवलम्ब्य ।
केवलमेकस्तिष्ठति योऽन्तस्तं सा ज्येष्ठा कुरुते मुक्तम् ॥ ३८.२२॥

मूले स्थित्या भैरव्याख्यां तारां देवीमुद्गीथेन ।
सेवेतार्यो विदितरहस्यो मातङ्गीं तां गुणगानेन ॥ ३८.२३॥

आसनबन्धादचलो भूत्वा रुद्धप्राणो बगलां भजते ।
अभितो व्याप्तं व्यक्तं तेजः कलयन् कमलाकरुणां लभते ॥ ३८.२४॥

एकविधादौ बहुभेदाऽथो शक्तिरनन्ता परमेशस्य ।
सभजनमार्गं गणपतिमुनिना पादाकुलकैरेवं विवृता ॥ ३८.२५॥