उमासहस्रनामस्तोत्रम्/षष्ठमशतकम्/एकविंशस्तबकः

विकिस्रोतः तः

अर्धनारीश्वरः (अनुष्टुब्वृत्तम्)

इतः पीत्वा कुचं स्कन्दे प्रसारितकरे ततः ।
जयति स्मितमुद्भूतं शिवयोरेकदेहयोः ॥ २१.१॥

एकतो मणिमञ्जीरक्वाणाहूतसितच्छदम् ।
अन्यतो नूपुराहीन्द्रफूत्कारकृततद्भयम् ॥ २१.२॥

गीर्वाणपृतनापालं बालं लालयदेकतः ।
उत्सङ्गे गणसम्राजमर्भकं बिभ्रदन्यतः ॥ २१.३॥

विडम्बितब्रह्मचारिकोकैकस्तनमेकतः ।
कवाटार्धनिभं बिभ्रद्वक्षः केवलमन्यतः ॥ २१.४॥

सेनान्याऽऽस्वादितस्तन्यमनुफूत्कुर्वतैकतः ।
फूत्कारमुखरं नागमुग्रं जाग्रतमन्यतः ॥ २१.५॥

एकतो दोर्लतां बिभ्रन् मृणालश्रीविडम्बिनीम् ।
शुक्रशुण्डालशुण्डाभं चण्डं दोर्दण्डमन्यतः ॥ २१.६॥

कुत्राप्यविद्यमानेऽपि वन्दनीये तदा तदा ।
परस्परकरस्पर्शलोभतो विहिताञ्जलि ॥ २१.७॥

शक्रनीलसवर्णत्वाद् भागयोरुभयोरपि ।
ऊर्ध्वाधराङ्गसापेक्षसन्धिज्ञानगलस्थलम् ॥ २१.८॥

एकतः कैरवश्रेणीनिद्रामोचनलोचनम् ।
अन्यतः कमलावासक्षणाधायकवीक्षणम् ॥ २१.९॥

एकतश्चक्षुषा चारुतारेणाधीतविभ्रमम् ।
अन्यतः पाणिपाथोजे खेलतो मृगबालतः ॥ २१.१०॥

एकतो भालफलके काश्मीरेण विशेषितम् ।
अन्यतोऽर्धेक्षणेनैव रतिभ्रूविभ्रमद्रुहाः ॥ २१.११॥

एकतः शीतलालोकं साधुलोकशिवङ्करम् ।
अन्यतः प्रज्वलत्प्रेक्षं दुष्टगोष्ठीभयङ्करम् ॥ २१.१२॥

एकतो मणिताटङ्कप्रभाधौतकपोलकम् ।
अन्यतः कुण्डलीभूतकुण्डलीभूतकुण्डलि ॥ २१.१३॥

एकतः कुन्तलान् बिभ्रदिन्द्रनीलोपमद्युतीन् ।
अन्यतः पावकज्वालापाटलांशुच्छटा जटाः ॥ २१.१४॥

एकतः केशपाशेन कीर्णेनोरसि भासुरम् ।
अन्यतो लम्बमानस्य भोगिनो हरता श्रियम् ॥ २१.१५॥

अवतंसितमम्लानपारिजातस्रजैकतः ।
विमलोल्लोलमालिन्या विभुधापगयाऽन्यतः ॥ २१.१६॥

रौप्याचलकृतावासं प्राप्यं युक्तेन चेतसा ।
वस्तु रामापुमाकारं हृदि सन्निदधातु मे ॥ २१.१७॥

कान्तार्धविग्रहे मातर्जटार्धाश्चिकुरास्तव ।
दधत्यदभ्रसन्ध्याभ्रयुक्तकालाभ्रविभ्रमम् ॥ २१.१८॥

दम्पत्योर्युवयोरेष लोपो यन्नास्ति शैलजे ।
वामं पार्श्वं विभोः शेतुं दातुं ते दक्षिणः करः ॥ २१.१९॥

लोके स्त्री स्तनयुग्मेन पुष्णात्येकं सुतं न वा ।
स्तनेनैकेन शर्वाणि पुष्णासि त्वं जगत्त्रयम् ॥ २१.२०॥

खिद्यन्ति योषितः कुक्षौ वहन्त्योऽर्भकमेककम् ।
अर्धकुक्षौ दधासि त्वं त्रिलोकीमम्ब लीलया ॥ २१.२१॥

अनुरूपा शिवस्य त्वमनुरूपः शिवस्तव ।
अलङ्कारोऽनुरूपो वामकलङ्कोऽर्भकः शशी ॥ २१.२२॥

तवैव तव देहांशो हरस्यैव हरस्य यः ।
प्राणास्तु जगतां धात्रि हरस्य त्वं हरस्तव ॥ २१.२३॥

अविभक्तं भवानि स्वं भवस्य तव चोभयोः ।
सकृत्सकरुणं चेतः सङ्कल्पयतु नश्शिवम् ॥ २१.२४॥

भवस्य भागमुत्सृज्य भवानी भागमात्मनः ।
भजत्वनुष्टुभामासां सृष्टानां नारसिंहिना ॥ २१.२५॥