उमासहस्रनामस्तोत्रम्/पञ्चमशतकम्/नवदशस्तबकः

विकिस्रोतः तः

ध्येयललितारूपम् (प्रमाणिकावृत्तम्)

प्रफुल्लकल्पपादपप्रसूनसद्यशोहरम् ।
महारुजं धुनोतु ते महेशसुन्दरीस्मितम् ॥ १९.१॥

मुनीन्द्रमूलवेदिभूधनञ्जयप्रबोधनम् ।
यतीन्द्रहार्दपेटिका कवाटबन्धभेदनम् ॥ १९.२॥

यथाविधिक्रियापरद्विजातिचित्तशोधनम् ।
ममाम्बिकास्मितं भवत्वघप्रतापरोधनम् ॥ १९.३॥

सुवर्णसालभञ्जिका चरेव शोभयाऽधिका ।
अतीव मार्दवान्विता नवेव पुष्पिता लता ॥ १९.४॥

सुपर्वमौलिरत्नभा विराजिहेमपादुका ।
मरालिकानिमन्त्रकप्रशस्तरत्ननूपुरा ॥ १९.५॥

वलक्षदीधितिप्रभाविशेषहृन्नखावली ।
मुनीन्द्रशुद्धमानसप्रमेयपादसौष्ठवा ॥ १९.६॥

घनीभवत्तटित्प्रभाप्रवाहकल्पजङ्घिका ।
मतङ्गजेन्द्रनासिका मनोज्ञसक्थिशोभिनी ॥ १९.७॥

प्रसूनसायकागमप्रवादचुञ्चुकाञ्चिका ।
विशालकेशचुम्बितोल्लसन्नितम्बमण्डला ॥ १९.८॥

अजाण्डपिण्डसंहतिप्रपूर्णकुक्षिशालिनी ।
अपारदिव्यकान्तिवार्निधाननाभिदीर्घिका ॥ १९.९॥

बिसप्रसूनसायकच्छुराभरोमराजिका ।
जगत्त्रयीवसज्जनोपजीव्यदुग्धभृत्कुचा ॥ १९.१०॥

महेशकण्ठबन्धकप्रशस्तबाहुवल्लरी ।
समस्तविष्टपाभयप्रदायिपाणिपङ्कजा ॥ १९.११॥

विलोलहारमौक्तिकप्रतानसंवदत्स्मिता ।
विशुद्धसुन्दरस्मितप्रकाशभासिताम्बरा ॥ १९.१२॥

सुकोमलोष्ठकम्पनप्रभीतदुर्जयासुरा ।
सुयुक्तकुन्दकुट्मलप्रकाशदन्तपङ्क्तिका ॥ १९.१३॥

शरत्सुधांशुमण्डलप्रभाविगर्हणानना ।
सुधामरन्दवज्जपासुमोपमाधराधरा ॥ १९.१४॥

तिलप्रसूनचारुताऽपहासिभासिनासिका ।
नवीनभाभनासिकाविलम्बिदिव्यमौक्तिका ॥ १९.१५॥

विशुद्धगण्डबिम्बितस्वरूपरत्नकुण्डला ।
महामहस्तरङ्गितप्रभावशालिलोचना ॥ १९.१६॥

दलान्तरस्थयामिनीप्रभुप्रभालिकस्थली ।
मयूरबर्हगर्हणप्रकृष्टकेशभासिनी ॥ १९.१७॥

दिवाकरायुतोज्ज्वला हिमांशुलक्षशीतला ।
तटित्सहस्रभासुरा निरङ्कचन्द्रशेखरा ॥ १९.१८॥

नभोन्तरालचारिणी महाविचित्रकारिणी ।
कुलाग्निकुण्डशायिनी जगत्कथाविधायिनी ॥ १९.१९॥

नभस्तले बलेश्वरी धरातले क्रियेश्वरी ।
दिवाकरे विभेश्वरी सुधाकरे रसेश्वरी ॥ १९.२०॥

महेशवेश्मदीपिका जगत्त्रयप्रमापिका ।
अशेषशीर्षशासिनी समस्तहृन्निवासिनी ॥ १९.२१॥

गुणस्तवे गुणस्तवे गुणप्रकर्षदायिनी ।
विचिन्तने विचिन्तने विशिष्टशक्तिधायिनी ॥ १९.२२॥

भ्रमाकुलेन दुस्तरा भवालसेन दुर्गमा ।
अमन्त्रकेण दुर्भरा जगत्त्रयेण दुर्जया ॥ १९.२३॥

सुवर्णचेलधारिणी समस्तमोदकारिणी ।
विलासिनी निरामया विचिन्त्यतां मनस्त्वया ॥ १९.२४॥

पदाब्जवन्दिनः कवेरियं प्रमाणिकावली ।
महेशमानसेश्वरी गृहे महाय कल्पताम् ॥ १९.२५॥