उमासहस्रनामस्तोत्रम्/तृतीयशतकम्/नवमस्तबकः

विकिस्रोतः तः

मन्दहासः (आर्यावृत्तम्)

शारदवलक्षपक्षक्षणदावैमल्यशिक्षकोऽस्माकम् ।
जागर्तु रक्षणाय स्थाणुपुरन्ध्रीमुखविकासः ॥ ९.१॥

व्याख्यानं हर्षस्य प्रत्याख्यानं शरत्सुधाभानोः ।
दिशतु हृदयप्रसादं गौरीवदनप्रसादो नः ॥ ९.२॥

अन्तर्गतस्य हर्षक्षीरसमुद्रस्य कश्चन तरङ्गः ।
हासो हरहरिणदृशो गतपङ्कं मम करोतु मनः ॥ ९.३॥

दिशि दिशि विसर्पदंशुप्रशमिततापं परास्तमालिन्यम् ।
कुशलानि प्रदिशतु नः पशुपतिहृदयेश्वरीहसितम् ॥ ९.४॥

अन्तर्गतं च तिमिरं हरन्ति विहसन्ति रोहिणीकान्तम् ।
हसितानि गिरिशसुदृषो मम प्रबोधाय कल्पन्ताम् ॥ ९.५॥

भाषातुषारदीधितिदीधित्या सह विहायसो रङ्गे ।
विचरन् पुरहरतरुणीदरहासो मे हरत्वेनः ॥ ९.६॥

रुद्राणीदरहसितान्यस्माकं संहरन्तु दुरितानि ।
येषामुदयो दिवसो भूषापीयूषकिरणस्य ॥ ९.७॥

स्कन्दजननीमुखेन्दोरस्मान् पुष्णातु सुस्मितज्योत्स्ना ।
मुनिमतिकैरविणीनामुल्लासकथा यदायत्ता ॥ ९.८॥

कमनीयकण्ठमालामुक्तामणितारकावयस्यो नः ।
कामान् वितरतु गौरीदरहासो नाम धवलांशुः ॥ ९.९॥

अनवद्यकण्ठमालामुक्तावलिकिरणनिवहसहवासी ।
हरदयितादरहासो हरतु ममाशेषमज्ञानम् ॥ ९.१०॥

ञ इव ज्ञदृश्य उत्तम इलाधराधीशनन्दिनीहासः ।
पूर्णं करोतु मानसमभिलाषं सर्वमस्माकम् ॥ ९.११॥

आलोकमात्रतो यः शङ्करमसमास्त्रकिङ्करं चक्रे ।
अल्पोऽप्यनल्पकर्मा हासो नः पातु स शिवायाः ॥ ९.१२॥

स्मरमतरतमीशं यः करोति भावप्रसङ्गचातुर्या ।
द्विजगणपुरस्कृतोऽव्यात् स शिवाहासप्रवक्ता नः ॥ ९.१३॥

रदवाससा रथी मां शरी करैः पातु पार्वतीहासः ।
पावकदृशं जिगीषोः पञ्चपृषत्कस्य सेनानीः ॥ ९.१४॥

शिवहृदयमर्मभेदि स्मितं तदद्रीशवंशमुक्तायाः ।
दशनद्युतिद्विगुणितश्रीकं शोकं धुनोतु मम ॥ ९.१५॥

ब्रह्माण्डरङ्गभाजो नट्याः शिवसूत्रधारसहचर्याः ।
श्रीवर्धनोऽनुलेपो मुखस्य हासः पुनात्वस्मान् ॥ ९.१६॥

अधरप्रवालशयने नासाभरणप्रभाविलासिन्या ।
रममाणो हररमणीहासयुवा हरतु नः शोकम् ॥ ९.१७॥

अधरोष्ठवेदिकायां नासाभरणांशुशाबकैः साकम् ।
कुलमखिलमवतु खेलन्नद्रिसुताहासबालो नः ॥ ९.१८॥

अनुलेपनस्य वीप्सा द्विर्भावः कुचतटीदुकूलस्य ।
हरतु हृदयव्यथां मे हसितं हरजीवितेश्वर्याः ॥ ९.१९॥

गिरिशाङ्गरागभसितं स्वागतवचसाऽभिनन्ददादरतः ।
गिरिजालीलाहसितं गरीयसीं मे तनोतु धियम् ॥ ९.२०॥

दयितेन सँल्लपन्त्याः सह तुहिनमरीचिशिशुकिरीटेन ।
वागमृतबुद्बुदोऽव्यादलसो मामगभुवो हासः ॥ ९.२१॥

शुद्धः कुचाद्रिनिलयादपि मुक्ताहारतो हरपुरन्ध्र्याः ।
वदनश्रीप्रासादे विलसन् हासोऽलसोऽवतु माम् ॥ ९.२२॥

व्यर्थीभूते चूते गतवति परिभूतिमसितजलजाते ।
अनिते सिद्धिमशोके कमलेऽपि गलज्जयश्रीके ॥ ९.२३॥

बहुधा बिभेद हृदयं हरस्य बाणेन येन सुमबाणः ।
तदुमालीलाहसितं मल्लीसुममस्तु मे भूत्यै ॥ ९.२४॥

अमलदरस्मितचिह्नास्ता एताः सर्वमङ्गला आर्याः ।
कमनीयतमास्वसमामुपतिष्ठन्तामुमां देवीम् ॥ ९.२५॥