शब्दकल्पद्रुमः/काकपक्षः

विकिस्रोतः तः
पृष्ठ २/०७८

काकपक्षः, पुं, (काकस्य पक्ष इव आकारोऽस्त्यस्य ।

काकपक्ष + अच् ।) मस्तकपार्श्वद्वये केशरचना-
विशेषः । काण्पाटा जुल्पी इति च भाषा ।
तत्पर्य्यायः । शिखण्डकः २ । इत्यमरः । २ । ६ ।
९६ ॥ शिखाण्डकः ३ शिखण्डः ४ । इति तट्टीका ॥
(यथा, रघुः । ११ । १ ।
“कौशिकेन स किल क्षितीश्वरो
राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचित-
स्तेजसां हि न वयः समीक्ष्यते” ॥)

काकपदः, पुं, (बन्धस्य काकपदवदाकारवत्त्वात्

काकपद इव आकृतिरस्त्यस्य ।) रतिबन्धविशेषः
तस्य लक्षणम् । यथा, --
“पादौ द्वौ स्कन्धयुग्मस्थौ क्षिप्त्वा लिङ्गंभगे लघु ।
कामयेत् कामुकीं कामी बन्धः काकपदो मतः” ॥
इति रतिमञ्जरी ॥

काकपर्णी, स्त्री, (काक इव कृष्णं पर्णं यस्याः । गौरा-

दित्वात् ङीष् ।) मुद्गपर्णी । इति भावप्रकाशः ॥
(“मुद्गपर्णी हिमा रूक्षा तिक्ता स्वादुश्च शुक्रला ।
चक्षुष्या क्षतशोथघ्नी ग्राहिणी ज्वरदाहनुत् ।
दोषत्रयहरी लघ्वी ग्रहण्यर्शोऽतिसारजित्” ॥
इति च भावप्रकाशस्य पूर्ब्बखण्डेप्रथमभागे ॥)

काकपीलुः, पुं, (काकप्रियः पीलुः ।) काकतिन्दुकः ।

काकतुण्डी । श्वेतगुञ्जा । इति राजनिर्घण्टः । (पर्य्या-
योऽस्य यथा, भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ।
“श्वेता रक्तोच्चटा प्रोक्ता कृष्णला चापि सा स्मृता ।
रक्ता सा काकचिञ्ची स्यात् काकानन्ती च रक्तिका ।
काकादनी ककापीलुः सा स्मृता काकवल्लरी” ॥
विशेषविवरणमस्य च गुञ्जाशब्दे ज्ञेयम् ॥)

काकपीलुकः, पुं, (काकपिलु + संज्ञायां कन् ।)

काकतिन्दुकवृक्षः । इत्यमरः । २ । ४ । ३९ ।
माकडाकेन्दु इति भाषा ॥

काकपुच्छः, पुं, (काकस्य पुच्छ इव पुच्छा यस्य ।)

कोकिलः । इति शब्दरत्नावली ॥

काकपुष्टः, पुं, (काकेन पुष्टः । कोकिल्या हि निजाण्ड-

स्फोटनाशक्ततया काकाण्डं तन्नीडात् निक्षिप्य
तत्र स्वकीयाण्डं स्थापयित्वा काकद्वारा स्वापत्य-
पोषणात् अस्य तथात्वम् ।) कोकिलः । इति
त्रिकाण्डशेषः ॥

काकपुष्पं, क्ली, (काकवत् कृष्णं पुष्पमस्य ।) गन्ध-

पर्णम् । इति राजनिर्घण्टः ॥

काकफलः, पुं, (काकप्रियं फलमस्य ।) निम्बवृक्षः ।

इति राजनिर्घण्डः ॥ (निम्बशब्देऽस्य गुणादयो
ज्ञातव्याः ॥)

काकबलिः, पुं, (काकेभ्यो देयो बलिरन्नादिकम् ।)

काकसम्पदानकान्नादि । तद्दानविधिर्यथा ।
ॐ यमद्वारावस्थितनानादिग्देशीयवायसेभ्यो नमः ।
इति पाद्यादिभिरभ्यर्च्च्य प्रार्थयेत् ।
“ॐ काकत्वं यमदूतोऽसि गृहाण बलिमुत्तमम् ।
यमलोकगतं प्रेतं त्वमाप्यायितुमर्हसि ॥
ॐ काकाय काकपुरुषाय वायसाय महात्मने ।
अत्र पिण्डं प्रयच्छामि कथ्यतां धर्म्मराजनि” ॥
इति पूरकपिण्डदानान्त हलायुधः ॥ * ॥
बलिवैश्वदेवान्तर्गततद्विधिर्यथा, --
“ऐन्द्रवारुणवायष्याः सौम्या वै नैरृतास्तथा ।
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम्” ॥
ॐ काक्येभ्यो नमः । इति दद्यात् तदुपरि अद्भिः
सिञ्चेत् । इत्याह्निकाचारतत्त्वम् ॥ * ॥
गयायां तद्विधिर्यथा, --
“बलिः काकशिलायाञ्च काकमोक्षणमोक्षदः” ।
इति श्रीवायुपुराणे श्वेतवाराहकल्पे गयामा-
हात्म्ये ४ अध्यायः ॥ तत्र तृतीयदिनकृत्ये काक-
बलिदानं यथा, --
“ततः काकबलिं क्षिप्त्वा पुनः स्नानं समाचरेत् ।
ऐन्द्रवारुणवायव्या याम्या वै नैरृतास्तथा ॥
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम्” ॥
इति श्रीवायुपुराणे ७ अध्यायः ॥

काकभाण्डी, स्त्री, (काकस्य मुखोद्भवरसकारणस्य

ईषज्जलस्य भाण्डी क्षुद्रभाण्डमिव । तत्फलभक्ष-
णेन मुखात् ईषज्जलक्षरणात् अस्यास्तथात्वम् ।)
महाकरञ्जः । इति राजनिर्घण्टः ॥

काकभीरुः, पुं, (काकात् भीरुर्भयशीलः ।) पेचकः ।

इति त्रिकाण्डशेषः ॥

काकमद्गुः, पुं, (काक इव कृष्णो मद्गुर्जलचरपक्षि-

विशेषः ।) दात्यूहपक्षी । इति त्रिकाण्डशेषः ॥ (डा-
उकपाखी इति भाषा ॥ यथा, महाभारते १३ ।
दानधर्म्मे संसारचक्रकथने १११ । १२१ ।
“घृतं हृत्वा तु दुर्ब्बुद्धिः काकमद्गुः प्रजायते” ॥)

काकमर्द्दः, पुं, (काकं मृद्गातीति । काक + मृद् +

अण् ।) महाकालवृज्ञः । इति राजनिर्घण्टः ॥

काकमर्द्दकः, पुं, (काकमर्द्द + संज्ञायां कन् ।) महा-

काललता । इति रत्नमाला । माकाल् इति भाषा ॥

काकमाचिका, स्त्री, (काकमाची + स्वार्थे कन् ।)

काकमाचीवृक्षः । इति शब्दरत्नावली ॥

काकमाची, स्त्री, (काकान् मञ्चते अर्च्चयति फल-

दानेनेति । मचि + अण् + गौरादित्वात् ङीष्
पृषोदरादित्वात् म लोपः ।) क्षुद्रवृक्षविशेषः ।
गुडकामाइ इति भाषा । तत्पर्य्यायः । वायसी २ ।
इत्यमरः । २ । ४ । १५१ ॥ ध्माङ्क्षमाची ३ वाय-
साह्वा ४ सर्व्वतिक्ता ५ बहुफला ६ कट्फला ७
रसायनी ८ गुच्छफला ९ काकमाता १० स्वादु-
पाका ११ सुन्दरी १२ तिक्तिका १३ बहुतिक्ता
१४ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्ण-
त्वम् । कफशूलार्शःशोथदोषकुष्ठकण्डूनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ त्रिदोषशमताकारित्वम् ।
वृव्यत्वम् । रसायनत्वम् । नातिशीतत्वम् । नात्यु-
ष्णत्वम् । हृद्यत्वम् । भेदकत्वञ्च । इति राज-
वल्लभः ॥ (तथाच भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥
“काकमाची त्रिदोषघ्नी स्निग्धोष्णास्वरशुक्रदा ॥
तिक्ता रसायनीशोथकुष्ठार्शोज्वरमेहजित् ।
कटुर्नेत्रहिता हिक्काच्छर्द्दिहृद्रोगनाशिनी” ॥)

काकमाता, स्त्री, (काकम्य मातेव पोषिका । काकस्य

तत्फलप्रियत्वात् ।) काकमाची । इति राजनि-
र्घण्टः ॥ (काकमाचीशब्दे पर्य्यायगुणादिकं द्रष्टव्यं ॥

काकमुद्गा, स्त्री, (काकेन ईषज्जलेन मुदं गच्छतीति ।

काकमुद् + गम् + ड + टाप् ।) मुद्गपर्णोवृक्षः ।
इत्यमरः । २ । ४ । ११३ ॥ मुगाणी इति भाषा ॥
(अस्याः पर्य्यायो यथा, --
“मुद्गपर्णी काकपर्णी सूर्य्यपर्ण्याल्पका सहा ।
काकमुद्गा च सा प्रोक्ता तथा मार्ज्जारगन्धिका” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ गुणा-
दयोऽस्या मुद्गपर्णीशब्दे ज्ञेयाः ॥)

काकयवः, पुं, (काकमीषज्जलं यत्र तादृशो यव इव

नीरसत्वात्, यद्वा काकवन्निर्गुणो यवः ।) तण्डुल-
शून्यधान्यम् । आग्डा इति भाषा ॥
(“यथा फलाः षण्डतिलाः यथा चर्म्ममया मृगाः ।
तथैव पाण्डवाः सर्व्वे यथा काकयवा इव” ॥ इति
महाभारते सभापर्व्व ॥ तथा पञ्चतन्त्रे २ । ९५ ।
“यथा काकयवाः प्रोक्ता यथारण्यभवास्तिलाः ।
नाममात्रा न सिद्धौ हि धनहीनास्तथा नराः” ॥)

काकरुहा, स्त्री, (काक इव रोहति मूलशून्यतया

वृक्षाद्यवलम्बनेन जायते इति । काक + रुह +
कः । काकवत् परपुष्टतयास्यास्तथात्वम् । यद्वा
काकपुरीशात् रोहति उत्पद्यते वृक्षोपरीत्यर्थः
अतएव तत् संज्ञयाख्यायते ।) वन्दावृक्षः । इति
त्रिकाण्डशेषः ॥

काकरूकः, पुं, (कु कुत्सितं करोतीति । कु + कृ +

ऊकः । कोः कादेशः ।) स्त्रीजितः । उलूकः ।
दम्भः । दिगम्बरभीरुकनिर्धनेषु त्रि । इति हेम-
चन्द्रः ॥

काकलं, क्ली, (ईषत्कलो यस्भात् । कोः कादेशः ।)

कण्ठमणिः । इति त्रिकाण्डशेषः ॥ (ग्रीवास्थोन्नत-
देशः । इति सुश्रुतः ॥ दुँटि इति भाषा ।)

काकलः, पुं, (का इत्याकारः कलो यस्य ।) द्रोण-

काकः । इति शब्दरत्नावली ॥

काकलकः, पुं, (काकलं ततः कप् पुंस्त्वञ्च ।)

कण्ठमणिः । इति हेमचन्द्रः ॥

काकलिः, स्त्री, (कल् + इन् कलिः । कु ईषत् कलिः ।

कोः कादेशः ।) सूक्ष्ममधुरास्फुटध्वनिः । इत्य-
मरटीकायां भरतः ॥ (“कोकिलकाकलिकूजित-
कुञ्जम्” । इति शिष्टप्रयोगः ॥)

काकली, स्त्री, (काकलि + कृदिकारान्तत्वात् वा

ङीप् ।) सूक्ष्ममधरास्फटध्वनिः । इत्वमरः । १ ।
७ । २ ॥ (यथा, गातगाविन्दे । १ । ४ । ११ ।
“उन्मीलन् मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-
क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावघानक्षण-
प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः” ॥

काकलीद्राक्षा, स्त्री, (काकलीव सूक्षा द्राक्षा ।)

द्राक्षाप्रभेदः । किष्मिष् इति ख्याता । तत्प-
र्य्यायः । जम्बूका २ फलोत्तमा ३ लघुद्राक्षा ४
निर्वीजा ५ सुवृत्ता ६ रसाधिका ७ । तस्या
गुणाः । मधुरत्वम् । अम्लत्वम् । रसालत्वम् ।
रुचिकारित्वम् । शिशिरत्वम् । श्वासहृल्लास-
नाशित्वम् । जनवल्लभत्वञ्च । इति राजनिर्घण्टः ॥

काकलीरवः, पुं, (काकली मधरास्फुटो रवो यस्य ।)

कोकिलः । इति राजनिर्घण्टः ॥ (सूक्ष्ममधुरा-
स्फुटध्वनौ तु कर्म्मधारयः ॥)

काकवल्लरी, स्त्री, (काकप्रिया वल्लरी ।) स्वर्णवल्ली ।

पृष्ठ २/०७९
:इति राजनिर्घण्टः ॥

काकशीर्षः, पुं, (काकः शीर्षे अग्रेऽस्य । काकस्य

तदग्रे वासयोग्यत्वात् ।) वकवृक्षः । इति जटा-
धरः ॥ (पर्य्यायोऽस्य यथा, -- वैद्यकरत्नमालायाम् ।
“वकपुष्पः काकशीर्षः स्थूलपुष्पः शिवप्रियः ।
वसुकः काकनामा च वसुहट्टः स्वपूरकः” ॥)

काकस्फूर्ज्जः, पुं, (काकः स्फूर्ज्जति यत्र । काक +

स्फूर्ज्ज + आधारे घञ् ।) काकतिन्दुकवृक्षः ।
इति राजनिर्घण्टः ॥

काका, स्त्री, (काकवदाकारोऽस्त्यस्या इति अच्

ततष्टाप् ।) काकनासालता । काकोलीवृक्षः ॥
काकजङ्घावृक्षः । पर्य्यायो यथा भावप्रकाशस्य
पूर्ब्बखण्डे १ भागे ।
“काकजङ्घा नदी कान्ता काकतिक्ता सुलोमशा ।
पारावतपदी दासी काका चापि प्रकीर्त्तिता” ॥
गुणादयोऽस्याः काकजङ्घाशब्दे बोद्धव्याः ॥) रक्ति-
कालता । मलपूवृक्षः । काकमाचीवृज्ञः । इति
मेदिनी ॥

काकाङ्गा, स्त्री, (काकस्य अङ्गं जङ्घेवाकारो यस्याः

वा ङीष् । पक्षे टाप् ।) काकाङ्गीवृक्षः । इत्य-
मरटीकायां रमानाथः ॥

काकाङ्गी, स्त्री, (काकस्य अङ्गं जङ्घा इव आकृति-

र्यस्याः । ङीष् ।) काकजङ्घावृक्षः । इत्यमरः । २ ।
४ । १८ ॥ (अस्याः पर्य्यायो यथा, -- भावप्रकाशस्य
पूर्ब्बखण्डे १ भागे ।
“काकनासातु काकाङ्गी काकतुण्डफला चसा” ॥)

काकाञ्ची, स्त्री, (काकं तज्जङ्घाकारं अञ्चति गच्छ-

तीति । काक + अन्च् + अण् + ङीप् ।) काक-
जङ्घावृक्षः । इति शब्दरत्नावली ॥

काकाण्डः, पुं, (काक्या अण्ड इव फलं यस्य । काकी-

त्यस्य पुंवद्भावः ।) महानिम्बः । काकतिन्दुः ।
इति राजनिर्घण्टः ॥
(“माषैः समान फलमात्मगुप्त-
मुक्तञ्च काकाण्डफलन्तथैव” ॥
इति सुश्रुते सूत्रस्थाने । ४६ अध्याये ॥ यस्मिन्
व्यवह्रियते तद्यथा, --
“काकाण्डसुरसगवाक्ष्या
पुनर्नवा वायसी शिरीषफलैः ।
उद्बुद्धविषजलमृत
लेपौषधनस्यपानानि” ॥
इति चरके चिकित्सास्थाने । २५ अध्याये ॥)

काकाण्डा, स्त्री, (काकस्याण्डमिव वीजमस्याः ।) को-

लशिम्बी । इति राजनिर्घण्टः ॥

काकाण्डी, स्त्री, (काकाण्ड + गौरादित्वात् ङीष् ।)

महाज्योतिष्मती लता । इति राजनिर्घण्टः ॥
(महाज्योतिष्मतीशब्देऽस्या गुणादयो ज्ञातव्याः ॥)

काकाण्डोला, स्त्री, (काकाण्डमोरति तत्सादृश्यं वीजे

प्राप्नोतीति । उर गतौ + अच् । रस्य लत्वम् ।)
कोलशिम्बी । इति राजनिर्घण्टः ॥

काकादनी, स्त्री, (काकैरद्यते भुज्यतेऽसौ इति ।

काक + अद + कर्म्मणि ल्युट् ततो ङीप् च ।)
गुञ्जा । इति शब्दरत्नावली ॥ श्वेतगुञ्जा । इति
राजनिर्घण्टः ॥ वृक्षविशेषः । कालियाकडा इति
भाषा । तत्पर्य्यायः । हिंस्रा २ गृध्रनखी ३ तुण्डी ४
काला ५ अहिंस्रा ६ कटुका ७ पाणिः ८ का-
पालः ९ कुलिकः १० । इति रत्नमाला ॥ (अस्या-
व्यवहारो यत्र तद्यथा, --
“विकङ्कतारग्वधकाकणन्ती
काकादनीतापसवृक्षमूलैः ।
आलेपयेदेनम्” ॥
इति वैद्यकचक्रपाणिसंग्रहे गण्डमालाद्यधिकारे ॥
अस्याः पर्य्यायो यथा, भावप्रकाशस्य पूर्ब्बखण्डे
१ भागे ॥
“श्वेता रक्तोच्चटा प्रोक्ता कृष्णला चापि सा स्मृता ।
रक्ता सा काकचिञ्ची स्यात् काकानन्तीच रक्तिका ॥
काकादनी काकपीलुः सा स्मृता काकवल्लरी” ॥)

काकायुः, पुं, (काकस्य आयुर्यस्मात् ।) स्वर्णवल्ली ।

इति राजनिर्घण्टः ॥

काकारिः, पुं, (काकः अरिर्यस्य । काकस्यारिर्व्वा ।)

पेचकः । इति हेमचन्द्रः ॥

काकालः, पुं, (का इति शब्दं कलते रौति । का +

कल + अण् ।) द्रोणकाकः । इति शब्दरत्नावली ॥

काकिणी, स्त्री, (ककलौल्ये । ककते गणनाकाले चञ्चली-

भवतीति । कक + णिनि + ङीप् । पृषोदरादि-
त्वात् नस्य णः ।) पणचतुर्थांशः । पाँच गण्डा-
कडि इति भाषा ॥ यथाह लीलावती ।
“वराटकानां दशकद्वयं यत् सा काकिणी” ॥)
मानदण्डः । काठा नल इत्यादि भाषा । कृष्णला ।
कुँच इति भाषा । एकवराटी । एक कडा इति
भाषा ।
(“तस्मात्पणं काकिणीं वा फलं पुष्पमथापि वा ।
प्रदद्याद् दक्षिणां यज्ञे यया स सफलो भवेत्” ॥
इति शुद्धितत्त्वे वृहस्पतिः ॥) उन्मानस्यांशकः ।
इति मेदिनी ॥

काकिनी, स्त्री, (ककलौल्ये । ककते गणनाकाले चञ्चली-

भवतीति । कक + णिनि + ङीप् ।) काकिणी ।
इत्यमरटीकायां रायमुकुटः ॥ (यथा, -- पञ्चतन्त्रे
२ । ७४ ।
“ईश्वरा भूरिदानेन यल्लभन्ते फलं किल ।
दरिद्रस्तच्च काकिन्या (ण्या) प्राप्नुयादिति नःश्रुतिः” ॥)

काकिलः, पुं, (कु--ईषत् किरतीति । कु + कॄ + कः ।

कोः कादेशः रस्य लत्वम् ।) काकलः । कण्ठमणिः ।
इति शब्दमाला ॥

काकुः, स्त्री, (कक लौल्ये + उण् ।) शोकभयादिभि-

र्ध्वनिविकारः । इत्यमरः । १ । ६ । १२ ॥
(यथा, साहित्यदर्पणे । २ । २३ ।
“भिन्नकण्ठध्वनिर्धीरः काकुरित्यभिधोयते” । इति
काकुं लक्ष्मीकृत्य उदाहरणं यथा, तत्रैव
“गुरुपरतन्त्रतया वत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभि
समयेऽसौ ॥ नैष्यति, अपि तु एष्यति एवेति-
काक्वा व्यज्यते” ॥) जिह्वा । इति त्रिकाण्डशेषः ॥

काकुत्स्थः, पुं, (ककुत्स्थस्य नृपतेरपत्यम् । शिवादि-

त्वात् ४ । १ । २१२ । अण् ।) श्रीरामचन्द्रः । इति
रामायणम् ॥ (यथा, रघुः १२ । ४६ ।
“असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् ।
न चक्षमे शुभाचारः स दूषणमिवात्मनः” ॥
ककुत्स्थवंशोद्भवमात्रम् । अजराजार्थे यथा रघु-
वंशे ६ । २ ।
“काकुत्स्थमालोकयतां नृपाणां
मनो बभूवेन्दुमतीनिराशम्” ॥
दशरथार्थे यथा रामायणे ६ । १०५ । १ ।
“प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः” ॥
ककुत्स्थ एव स्वार्थे अण् । पुरा किल महोक्षरूप-
धारिणो महेन्द्रस्य ककुदि स्थित्वा असुरान्
जितवानतोऽस्य तथात्वम् ।) पुरञ्जयराजः । इति
त्रिकाण्डशेषः ॥ (विवरणन्तुककुत्स्थशब्दे द्रष्टव्यम् ॥)

काकुदं, क्ली, (काकुं ददातीति । काकु + दा + क ।)

तालु । इत्यमरः २ । ६ । ९१ ॥

काकेक्षुः, पुं, (काकमीषज्जलमत्र कोः कादेशः ।

ततः कर्म्मधारयः ।) खग्गडः । इति रत्नमाला त्रि-
काण्डशेषश्च ॥ खाग्डा आक् इति भाषा ॥
काशः । इति राजनिर्घण्टः ॥

काकेन्दुः, पुं, (काकस्य इन्दुराह्लादकः ।) कुलकवृक्षः

माकडा केन्दु इति ख्यातः । इत्यमरः । २ । ४ । ३९ ॥

काकेष्टः, पुं, (काकस्य इष्टः ।) निम्ववृक्षः । इति राज-

निर्घण्टः ॥ (निम्बशब्देऽस्य गुणादयो ज्ञेयाः ॥)

काकोचिकः, पुं, (कु ईषत् कोची सङ्कोची । कुच +

णिन् स्वार्थे कन् । कोः कादेशः ।) काकोची मत्स्यः ।
इति हारावली ॥ काउची इति भाषा ॥

काकोची, स्त्री, (काकोच + ङीष् ।) काकोचिमत्स्यः ।

इति हारावली ॥

काकोडुम्बरः, पुं, (काकप्रियः उडुम्बरः इति मध्य-

पदलोपी कर्म्मधारयः ।) काकोडुम्बरिका । इति
शब्दरत्नावली । काकडुमुर इति भाषा ॥

काकोडुम्बरिका, स्त्री, (काकोडुम्बरस्ततः स्वार्थे कन्

टाप् च अत इत्वम् ।) वृक्षविशेषः । कोठडुमुरि
डुमुरि इति च ख्याता । काकडुमुर इति भाषा ।
तत्पर्य्यायः । फल्गुः २ मलपूः ३ जघनेफला ४ ।
इत्यमरः । २ । ४ । ६२ ॥ मलयुः ५ फल्गुफला ६ का-
कोडुम्बरः ७ । इति शब्दरत्नावली ॥ फलवाटिका
८ बहुफला ९ । इति जटाधरः ॥ अस्या गुणाः ।
काकोदुम्बरिकाशब्दे द्रष्टव्याः ॥ (अस्याः व्यवहारो
यत्र तद्यथा, -- वैद्यकचक्रपाणिसंग्रहे मुखरोगा-
धिकारे ।
“काकोडुम्बरिका गोजी पत्रैर्विस्रावयेद्भिषक् ।
क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसाधयेत्” ॥)

काकोदरः, पुं, (कु कुत्सितं अकति । कु + अक वक्र-

गतौ + अच् । कोः कादेशः । काकं कुटिलगति-
कारि उदरं यस्य बहुब्रीहिः ।) सर्पः । इत्यमरः ।
१ । ८ । ७ ॥ (यथा, राघवपाण्डवीये ।
“यः पूतनामारणलब्धवर्णः
काकोदरो येन विनीतदर्पः ।
यशोदयालङ्कृतमूर्त्तिरव्या-
न्नाथो यदूनामथवा रघूणाम्” ॥)

काकोदुम्बरिका, स्त्री, (काकप्रिया कृष्णावा उदुम्ब-

पृष्ठ २/०८०
:रिका ।) काकोडुम्बरिका । काकडुमुरि इति
भाषा । अस्याः पर्य्यायः । कृष्णोदुम्बरिका २
खरपत्री ३ राजिका ४ क्षुद्रोदुम्बरिका ५
कुष्ठघ्नो ६ फल्गुवाटिका ७ अजाजी ८ फल्गुनी ९
मलपूः १० चित्रभेषजा ११ ध्माङ्क्षनाम्नी १२ ।
अस्या गुणाः । शीतत्वम् । कषायत्वम् । व्रणनाशि-
त्वम् । गर्भरक्षाहितत्वम् । स्तनदुग्धप्रदत्वञ्च । इति
राजनिर्घण्टः ॥

काकोलं, क्ली, (काकयति लोलयति दुःखदत्वात् ।

ककलौल्ये + णिच् + ओल । काकेन उल्लायते भ-
क्ष्यते अत्र वा आधारे घञर्थेकः पृषोदरादित्वात्
साधुः ।) नरकविशेषः । इति मेदिनी ॥ (यथा,
मनुः ॥
“महानरककाकोलं सञ्जीवनमहायसम्” ॥)

काकोलः, पुं क्ली, (कु कुत्सितं तीव्रतरं यथा स्यात्

तथा कोलति पीडयति विह्वलीकरोति वा-
ऽनेन करणे घञ् ।) कृष्णवर्णस्थावरविषविशेषः ।
इत्यमरः । १ । ८ । १० ॥
“काकोलमुग्रतेजः स्यात् कृष्णच्छविमहाविषम्” ।
इति वैद्यकम् ॥ (अस्य पर्य्यायो यथा, --
“काकोलो गरलक्ष्वेडो वत्सनाभः प्रदीपनः ।
शौक्लिकेयो ब्रह्मपुत्त्रो विषं स्याद्गरलो विषः” ॥
इति वैद्यकरत्नमाला ॥)

काकोलः, पुं, (कं जलमाकोलति संस्त्यायतीति । आ

+ कुल संस्त्याने + अण् ।) कुलालः । (कक लौल्ये
स्वार्थे णिच् + बाहुलकात् ओल ।) द्रोणकाकः ।
इति मेदिनी । (यथा, मनुः ५ । १४ ।
“वकञ्चैव बलाकाञ्च काकोलं खञ्जरीटकम् ।
मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्व्वशः” ॥)
सर्पः । शूकरभेदः । इति शब्दरत्नावली ॥ काकोली
नामख्यातौषधिविशेषः । इति धरणी ॥

काकोली, स्त्री, (काकोल + गौरादित्वात् ङीष् ।)

अष्टवर्गे प्रसिद्धौषधविशेषः । तत्पर्य्यायः । मधुरा
२ काकी ३ कालिका ४ वायसोली ५ क्षीरा ६
ध्माङ्क्षिका ७ वीरा ८ शुक्ला ९ धीरा १० मेदुरा
११ ध्माङ्क्षोली १२ स्वादुमांसी १३ वयःस्था १४
जीवनी १५ शुक्लक्षीरा १६ पयस्विनी १७ । इति
राजनिर्घण्टः ॥ पयस्या १८ शीतपाकी १९ । इति
रत्नमाला ॥ अस्या गुणाः । शीतत्वम् । मधुरत्वम् ।
क्षयपित्तानिलार्त्तिरक्तदाहज्वरनाशित्वम् । कफ-
शुक्रवर्द्धकत्वञ्च । इति राजनिर्घण्टः ॥
(क्षीरकाकोलीशब्दे चास्या विशेषविवरणं
ज्ञातव्यम् ॥ काकोल्यादिगणोयथा, “काकोली-
क्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदा-
महामेदाछिन्नरुहाकर्कटशृङ्गीतुगाक्षीरीपद्मकप्र-
पौण्डरीकर्द्धिवृद्धिमृद्वीकाजीवन्त्योभधुकञ्चेति” ।
“क्राकोल्यादिरयं पित्तशोणितानिलनाशनः ।
जीवनो वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा” ॥
इति सुश्रुते सूत्रस्थाने । ३८ अध्याये ॥)

काकोलूकिका, स्त्री, (काकश्च उलूकश्च नित्यविरो-

धित्वात् द्वन्दः । ततो वरे वुञ् स्त्रियां टाप् च ।)
काकोलूकयोर्वैरता । इति शब्दरत्नावली ॥

काक्ष इ काङ्क्षणे । आकाङ्क्षायामिति यावत् । इति

कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--सेट्--इदित् ।)
इ काङ्क्षति धनं लोकः । नमध्यपाठेनैवेष्टसिद्धे
इदनुबन्धो वेदेषूच्चारणभेदार्थः । इति दुर्गा-
दासः ॥

काक्षः, पुं, (कु कुत्सितं अक्षं अत्र । “का पथ्यक्षयोः”

६ । ३ । १०४ । इति कोः कादेशः ।) कटाक्षः ।
इति हेमचन्द्रः ॥ (यथा, भट्टिः । ८ । २४ ।
“आज्ञालाभोन्मुखोदूरात् काक्षेणानादरेक्षितः” ॥)

काक्षी, स्त्री, (कक्षे कच्छे भवः । “तत्र भवः” । ४ ।

३ । ५२ । इत्यण् ततो ङीप् च ।) तुररिका । अडर
इति भाषा । सौराष्ट्रमृत्तिका । इति मेदिनी ॥

काक्षीवः, पुं, (कु ईषत् क्षीवयति । क्षीव + णिच् +

अच् । कोः कादेशः ।) शोभाञ्जनवृक्षः इत्यमरः ।
(गौतमात् शूद्रायामौशीनर्य्यां जातः पुत्त्रविशेषः ।
यथा महाभारते २ पर्व्वणि ।
“शूद्रायां गौतमो यत्र महात्मा संशितव्रतः ।
औशीनर्य्यामजनयत् काक्षीवाद्यान् सुतान्मुनिः” ॥)

काक्षीवकः, पुं, (काक्षीव + स्वार्थे कन् । यद्वा ईषत्-

क्षीवयतीति । ण्वुल् ।) शोभाञ्जनः । इति शब्द-
रत्नावली ॥

कागः पुं, (का इति शब्दं गायतीति । का + गै +

कः ।) काकः । इति जटाधरः ॥

कागदं, क्ली, (कागः काकवर्णः मस्यादिर्दीयते अत्र

इति । काग + दा + घञर्थे आधारे कः । कस्य
चित्तस्य आगदो विस्तारितभाषणं यत्र वा ।) लेखन-
पत्रविशेषः । कागज इति आर्वी भाषा । यथा,
“भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके ।
कागदे चाष्टगन्धेन पञ्चगन्धेन वा पुनः ॥
त्रिगन्धेनाथवैकेन विलिख्य धारयेन्नरः ।
पञ्च सप्तत्रिलोकैर्व्वा शोधितं कवचं शुभम्” ॥
इति श्रीघनानन्ददासविरचितमन्त्रकल्पद्रुमे हनू-
मत्कवचम् ॥

काङ्गा, स्त्री, (कुत्सितं अङ्गं यस्याः । काङ्ग + टाप् ।)

वचा । इति शब्दचन्द्रिका ॥

काचं, क्ली, (कच्यते बध्यते अनेन इति । कच बन्धने

+ घञ् न कुत्वम् । तस्य बन्धनहेतुत्वात् तथात्वम् ।)
सिक्थकम् । मोम इति भाषा । (काचः क्षार-
मृत्तिकाऽस्त्यस्याकरत्वेन इति अच् ।) काचलवणम् ।
इति राजनिर्घण्टः ॥

काचः, पुं, (कच दीप्तौ + णिच् + घञ् ।) मृत्तिका-

विशेषः । काँच् इति भाषा । तत्पर्य्यायः । क्षारः
२ । इत्यमरः । २ । ९ । ९९ ॥ अस्य गुणाः । क्षार-
रसत्वम् । उष्णवीर्य्यत्वम् । अञ्जनात् दृष्टिकारि-
त्वञ्च । इति राजवल्लभः ॥ शिक्यम् । शिका इति
भाषा ॥ मणिविशेषः । (यथा,
“आकरे पद्मरागाणां जन्म काचमणेः कुतः” ।
इत्युद्भटः ॥) नेत्ररोगविशेषः । इति मेदिनी ॥
तस्य लक्षणम् ।
“अस्मिन्नपि तमोभूते नातिरूढे महागदे ।
चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः ॥
निर्म्मलानि च तेजांसि भ्राजिष्णूनीव पश्यति ।
स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः” ॥
इति माधवकरः ॥
(“प्राप्नोति काचतां दोषे तृतीयपटलास्रिते ।
तेनोर्द्धमीक्षते नाधस्तनुचेलावृतोपमम् ॥
यथावर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात् ।
तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः ॥
लिङ्गनाशं मनः कुर्व्वन् छादयेद्दृष्टिमण्डलम् ।
तत्र वातेन तिमिरे व्याविङ्गमिव पश्यति ॥
चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः ।
जालानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्र च ॥
काचीभूते दृगरुणापश्यत्यास्य मनासिकम् ।
चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते ॥
वृद्धःकाचोदृशं कुर्य्याद्रजोधूमवृतामिव ।
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम् ॥
सलिङ्गनाशो वाते तु सङ्कोचयति दृक्शिराः ।
दृङ्मण्डलं विशत्यन्तर्गम्भीरा दृगसौ स्मृता ॥
पित्तजे तिमिरे विद्युत् खद्योतोद्योतदीपितम् ।
शिखितित्तिरिपिच्छाभं प्रायोनीलञ्च पश्यति ॥
काचे दृक् काचनीलाभा तादृगेव च पश्यति ।
अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनूंषि च ॥
भृङ्गनीला निरालोका दृङ्स्निग्धालिङ्गनाशतः ।
दृष्टिःपित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्वदर्शना ॥
भवेत्पिण्डविदग्धाख्या पीतापीताभदर्शना ।
कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति ॥
शङ्खेन्दुकुन्दकुसुमैः कुमुदैरिव चाचितम् ।
काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम् ॥
सिताभा सा च दृष्टिः स्यालिङ्गनाशे तु लक्ष्यते
मूर्त्तः कफोदृष्टिगतः स्निग्धोदर्शननाशनः ॥
विन्दुर्जलस्येव चलः पद्मिनीपुटसंस्थितः ।
उष्णे सङ्कोचमायाभिश्छायायां परिसर्पति ॥
शङ्खकुन्देन्दु कुमुदस्फटिकोपमशुक्लिमा ।
रक्तेन तिमिरे रक्तं तमोभूतञ्च पश्यति ।
काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति” ॥
इति वाभटे उत्तरस्थाने । १२ अध्याये ॥
विस्तृतविवरणमस्य नेत्ररोगशब्दे ज्ञातव्यम् ॥)

काचनं, क्ली, (कचबन्धने + स्वार्थे णिच् + भावे ल्युट् ।)

पत्रनिबन्धनम् । इति त्रिकाण्डशेषः ॥ काचेल इत्यपि
पाठो दृष्टः ॥ (मुग्धबोधमते “किमः क्त्यन्ताच्चि-
च्चनौ” इति । का + चनप्रत्ययेन) स्त्रीलिङ्गकिम्-
शब्दार्थे व्य । इति व्याकरणम् ॥ (यथा, प्रबोध-
चन्द्रोदय्रे । “व्यूढा काचन कन्यका खलु मया
तेनास्मि वाताधिकः” ॥)

काचनकं, क्ली, काच्यते लेखो निबध्यते येन (कच् +

णिच् + ल्युट् । ततः स्वार्थे कन् ।) पत्रनिबन्धनम्
इति हारावली ॥

काचनकी, [न्] पुं, (काचनक + अस्त्यर्थे इनिः ।)

लिपिः । तत्पर्य्यायः । वर्णदूतः २ स्वस्तिमुखः ३
लेखः ४ वाचिकहारकः ५ तालिकः ६ । इति
जटाधरः ॥

काचभाजनं, क्ली, (काचनिर्म्मितं भाजनम् ।) काच-

पात्रम् । काँचेर वासन इति भाषा । तत्पर्य्यायः ।
शिङ्घानम् २ । इति त्रिकाण्डशेषः ॥
पृष्ठ २/०८१

काचमलं, क्ली, (काचस्य क्षारमृत्तिकायामलमिव ।)

काचलवणम् । इति राजनिर्घण्टः ॥

काचलवणं, क्ली, (काचात् क्षारमृत्तिकाया जातं लव-

णम् ।) लवणविशेषः । कालालुण इति भाषा ।
तत्पर्य्यायः । नीलम् २ काचोद्भवम् ३ काचम् ४
नीलकम् ५ काचसम्भवम् ६ काचसौवर्च्चलम् ७
कृष्णलवणम् ८ पाकजम् ९ काचोत्थम् १० हय-
गन्धम् ११ काललवणम् १२ कुरुविन्दम् १३ काच-
मलम् १४ कृत्रिमम् १५ । अस्य गुणाः । रुचि-
कारित्वम् । ईषत्क्षारत्वम् । पित्तवृद्धिकारित्वम् ।
दाहदातृत्वम् । कफवातगुल्मशूलनाशित्वम् । अग्नि-
दीपनत्वञ्च । इति राजनिर्घण्टः ॥

काचसम्भवं, क्ली, (सम्भवत्यस्मादिति सम्भवः । काचः

क्षारमृत्तिका सम्भव उत्पक्तिस्थानमस्य ।) काच-
लवणम् ॥ इति राजनिर्घण्टः ॥

काचसौवर्चलं, क्ली, (काचस्थानिकं सौवर्च्चलं लवणम् ।)

काचलवणम् । इति राजनिर्घण्टः ॥

काचस्थाली, स्त्री, (काचस्य क्षारस्य स्थालीव ।)

फलेरुहावृक्षः । पारुल गाछ इति भाषा । इत्य-
मरः । २ । ४ । ५४ ॥ (अस्याः पर्य्यायो यथा--
“पाटलिः पाटला मोघा मधुदूती फलेरुहा ।
कृष्णवृन्ता कुवेराक्षी कालस्थाल्यलिवल्लभा ॥
ताम्रपुष्पी च कथिता परा स्यात् पाटला सिता ।
मुष्कको मोक्षकोघण्टा पाटलिः काष्ठपाटला” ॥
कालस्थालीत्यत्र काचस्थालीत्येके ।
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
गुणादयोऽस्याः पाटलिशब्दे ज्ञेयाः ॥ काचनिर्म्मि-
ता स्थाली ।) काचपात्रम् ॥

काचिघः, पुं, (कचते दीप्यते इति बाहुलकात् इन् ।

काचिं कान्तिं हन्ति गच्छति । हन गतौ + ड ।
पृषोदरादित्वात् हस्य घः ।) काञ्चनम् । छेमण्डः ।
छिमडा । इति भाषा । मूषिकः । इति मेदिनी ॥

काचित्, व्य (पाणिनिमते पदद्वयमेतत् । मुग्धबोध-

मते “किमःक्त्यन्ताच्चिच्चनौ” इति का + चित्प्र-
त्ययः ।) काचन । कापि स्त्री । इति व्याकरणम् ।
(यथा, पदाङ्कदूते १ ।
“गोपीभर्त्तुर्विरहविधुरा काचिदिन्दीवराक्षी
उन्मत्तेव स्खलितकवरी निःश्वसन्ती विशालम्” ॥)

काचितं, त्रि, (कच्यते बध्यतेऽसौ । कच् + णिच् +

कर्म्मणि क्तः ।) शिक्यितम् । शिक्यारोपितवस्तु ।
इत्यमरः । ३ । १ । ८९ ॥ शिकाय तोला द्रव्य
इति भाषा ॥

काचिमः, पुं, (कच बन्धे + णिच् + इमन् ।) देव-

कुलोद्भववृक्षः । तत्पर्य्यायः । भञ्जरुः २ । इति
त्रिकाण्डशेषः ॥

काञ्चनं, क्ली, (काञ्चते दीप्यते इति । कचि ङ दीप्तौ

+ ल्युः ।) स्वर्णम् । इत्यमरः । २ । ९ । ९५ ॥
(यथा मनुः । २ । २३९ ।
“अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्” ॥)
पद्मकेशरम् । इति मेदिनी ॥ धनम् । नागकेशर-
पुष्पम् । इति राजनिर्घण्टः ॥ (भावे ल्युट् । दीप्तिः ।
काञ्चनमये त्रि, यथा, सनुः । ५ । ११२ ।
“निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति” ॥)

काञ्चनः, पुं, (काञ्चते दीप्यते इति कर्त्तरि ल्युः ।)

स्वनामख्यातपुष्पवृक्षविशेषः । रक्तश्वेतभेदेन स
द्विविधः । आद्यस्य पर्य्यायः । रक्तपुष्पः २ कोवि-
दारः ३ युग्मपत्रः ४ कुण्डलः ५ ॥ द्वितीयस्य
पर्य्यायः । काञ्चनालः २ कर्ब्बुदारः ३ पाकारिः ४ ।
इति रत्नमाला ॥ अस्य राजनिर्घण्टोक्तगुणपर्य्यायौ
कोविदारशब्दे द्रष्टव्यौ ॥ * ॥ चम्पकः । नाग-
केशरः । उदुम्बरः । धुस्तूरः । इति मेदिनी ॥
(पुरूरवसो वंश उद्भवस्य भीमस्य पुत्त्रः । यथा,
भागवते । ९ । १५ । ३ ।
“भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः” ॥)

काञ्चनकं, क्ली, (काञ्चन + संज्ञायां कन् ।) हरि-

तालम् । इति राजनिर्घण्टः ॥

काञ्चनकः, पुं, (काञ्चन + स्वार्थे कन् ।) कोविदार-

वृक्षः । इति वैद्यकम् ॥
(“काञ्चनारः काञ्चनको गण्डारिः शोणपुष्पकः” ।
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ गुणा-
दयोऽस्य कोविदारशब्दे ज्ञेयाः ॥)

काञ्चनकदली, स्त्री, (काञ्चनवर्णा कदली ।) सुवर्ण-

कदली । इति राजनिर्घण्टः । चाँपाकला इति
भाषा ॥

काञ्चनकारिणी, स्त्री, (काञ्चनं बहुमूलेन बन्धनं क-

करोति । काञ्चन + कृ + णिनिः । स्त्रियां ङीप् ।)
शतमूली । इति शब्दचन्द्रिका ॥ (शतावरी शब्दे
ऽस्या विवरणं बोद्धव्यम् ॥)

काञ्चनक्षीरी, स्त्री, (काञ्चनमिव क्षीरमस्याः । गौरा-

दित्वात् ङीष् । काञ्चनवृक्षस्य क्षीरमिव क्षीर-
मस्य वा ।) क्षीरिणिलता । इति राजनिर्घण्टः ॥

काञ्चनगिरिः, पुं, (काञ्चनमयो गिरिः । शाकपार्थि-

वादित्वात् समासः ।) सुमेरुपर्व्वतः । इति हेम-
चन्द्रः । (यथा भागवते । ५ । १६ । २८ ।
“जठरदेवकूटौ मेरुं पूर्ब्बेणाष्टादशयोजनसहस्र-
मुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवतः । एवमप-
रेण पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ
प्रागायतौ एवमुत्तरतस्त्रिशृङ्गककरौ अष्टाभि-
रेतः परिस्तृतो ऽग्निरिव परितश्चकास्ति काञ्चन-
गिरिः” ॥ दानाय कृतः सुवर्णपर्व्वतः ॥)

काञ्चनपुष्पकं, क्ली, (काञ्चनमिव पीतं पुष्पं यस्य । का-

ञ्चनपुष्प + कप् ।) आहुल्यवृक्षः । इति राज-
निर्घण्टः ॥

काञ्चनपुष्पी, स्त्री, (काञ्चनमिव पुष्पं यस्याः ङीप् ।)

गणिकारीवृक्षः । इति राजनिर्घण्टः ॥ (गणिका-
रिका शब्दे ऽस्या विशेषो ज्ञातव्यः ॥)

काञ्चनारः, पुं, (काञ्चनं तद्वर्णं ऋच्छति पुष्यैः । काञ्चन

+ ऋ + अण् ।) कोविदारवृक्षः । इति राज-
निर्घण्टः ॥ कच्नार इति हिन्दी भाषा ॥ (“काञ्च-
नारः काञ्चनकः” इत्यादि पर्य्यायाः काञ्चनकशब्दे
गुणाश्च कोविदारशब्दे ज्ञातव्याः ॥ व्यवहार्य्यते
यत्र तद्यथा, --
“काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन नाशयेत् ।
गण्डमालान्तथाक्वाथः क्षौद्रेण वरुणत्वचः” ॥
इति मध्यखण्डे २ अः शार्ङ्गधरेणोक्तम् ॥)

काञ्चनालः, पुं, (काञ्चनं काञ्चनवर्णं अलति । काञ्चन

+ अल + अण् ।) कोविदारवृक्षः । इति शब्द-
रत्नावली । (काञ्चनारशब्देऽस्य गुणादयो ज्ञेयाः ॥
अस्य विवृतिः कोविदारशब्दे द्रष्टव्या ॥)

काञ्चनाह्वयः, पुं, (काञ्चनं स्वर्णं आह्वयते स्पर्द्धते स्व-

भासा । आ + ह्वे + कः । काञ्चन इत्याह्वयो
नाम यस्य वा ।) नागकेशरवृक्षः । इत्यमरः ।
२ । ४ । ६५ ॥

काञ्चनी, स्त्री, (काञ्चते दीप्यते अनया । करणे ल्युट्

ङीप् ।) हरिद्रा । इति मेदिनी ॥ स्वर्णक्षीरी-
वृक्षः । गोरोचना । इति राजनिर्घण्टः ॥

काञ्चनीया स्त्री, (काञ्चनाय हिता । काञ्चन + च्छः

टाप् च ।) गोरोचना । इति राजनिर्घण्टः ॥

काञ्चिः, स्त्री, (काञ्चते इति “सर्व्वधातुभ्य इन्” ।

उणां ४ । ११७ । इति इन् ।) काञ्ची । इत्युणादि-
कोषः ॥ (यथा आर्य्यासप्तशती ६९३ ।
“हृतकाञ्चिवल्लिबन्धोत्तरजघनादपरभोगभुक्तायाः ।
उल्लसति रोमराजिः स्तनशम्भोर्गरलरेखेव” ॥)

काञ्चिकं, क्ली, (काञ्चि + संज्ञायां कन् ।) काञ्जिकम् ।

इति हेमचन्द्रः ॥

काञ्ची, स्त्री, (काञ्चि, “कृदिकारान्तत्वात्” वा ङीष् ।)

स्त्रीकट्याभरणम् । चन्द्रहार गोट् इत्यादि भाषा ।
तत्पर्य्यायः ॥ मेखला २ सप्तकी ३ रसना ४ सार-
सनम् ५ । इत्यमरः । २ । ६ । १०८ ॥ काञ्चिः ६
रशना ७ कक्षा ८ कक्ष्या ९ सप्तका १० सार-
शनम् ११ रसनम् १२ बन्धनम् १३ । इति शब्द-
रत्नावली ॥
(“वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः” ॥
इति मेघदूते । ३० ॥) केचित्तु
एकयष्टिर्भवेत् काञ्ची मेखला त्वष्टयष्टिका ।
रसना षोडश ज्ञेया कलापः पञ्चविंशकः” ॥
इति पठन्ति इह त्वभेदात् पर्य्यायता । इति
तट्टीका ॥ मोक्षदसप्तपुर्य्यन्तर्गतपुरीविशेषः । इति
मेदिनी ॥ (यदुक्तम् ।
“अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः” ॥
इयं हि कूर्म्मविभागे दक्षिणस्यां दिशि
स्थिते द्राविडदेशे अनुमीयते ॥) गुञ्जा । इति
विश्वः ॥

काञ्चीपदं, क्ली, (काञ्च्याः पदं स्थानम् ।) जघनम् ।

इति हलायुधहेमचन्द्रौ ॥

काञ्जिकं, क्ली, (अन्ज + धात्वर्थनिर्द्देशे ण्वुल् + टाप् अत

इत्वञ्च । अञ्जिका । कु कुत्सिता अञ्जिका व्यक्तिर्यस्य
कोः कादेशः ।) वारिपर्य्युषितान्नाम्लजलम् । काँजी
इति भाषा । तत्पर्य्यायः । आरनालकम् २ सौवीरम्
३ कुल्माषम् ४ अभियुतम् ५ अवन्तिसोमम्
६ धान्याम्लम् ७ कुञ्जलम् ८ । इत्यमरः । २ । ९ । ३९ ॥
कुल्मासम् ९ कुल्माषाभियुतम् १० काञ्चिकम् ११
काञ्जीकम् १२ काञ्जिका १३ कञ्जिकम् १४ काञ्जी
१५ भक्तवारि १६ धान्यमूलम् १७ धान्ययोनि
१८ तुषाम्बु १९ । इति तट्टीका ॥ गृहाम्लम् २०
पृष्ठ २/०८२
:महारसम् २१ । इति रत्नमाला ॥ तुषोदकम् २२
शुक्लम् २३ चुक्रम् २४ धातुघ्नम् २५ उन्नाहम् २६
रक्षोघ्नम् २७ कुण्डगोलकम् २८ सुवीराम्लम् २९ ।
इति हेमचन्वा ॥ वीरम् ३० अभिशवम् ३१ अम्ल-
सारकम् ३२ । अस्य गुणा । वातशोथपित्तज्वर-
दाहमूर्च्छाशूलाध्मानविबन्धनाशित्वम् ।
“काञ्जिकं दधि तैलन्तु बलीपलितनाशनम् ।
दाहकं गात्रशैथिल्यं बल्यं सन्तर्पणं परम्” ॥
मर्द्दनान्न च भक्षणात् । इति राजनिर्घण्टः ॥ अ-
पि च । भेदकत्वम् । तीक्ष्णत्वम् । उष्णत्वम् ।
पित्तरुचिवस्तिशुद्ध्यग्निवृद्धिकारित्वम् । स्पर्शे शी-
तलत्वम् । श्रमक्लमनाशित्वञ्च । पुरातनस्य तस्य
गुणः । हृत्पाण्डुकृमिरोगनाशित्वम् । अग्निवृद्धि-
कारित्वञ्च । इति राजबल्लभः ॥ * ॥
“कुल्माषधान्यमण्डेन चाशृतं काञ्जिकं भवेत् ॥
यन्मस्त्वादिशुचौ भाण्डे स गुडक्षौद्रकाञ्जिकम् ।
धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते” ॥
इति वैद्यकपरिभाषा ॥

काञ्जिकवटकः, पुं, (काञ्जिकयोगेन कृतो वटकः ।)

वटकविशेषः । काँजि वडा इति भाषा । तस्य
पाकप्रकारो यथा, --
“मन्थनी नूतना धार्य्या कटुतैलेन लेपिता ।
निर्म्मलेनाम्बुनापूर्य्य तस्याञ्चूर्णं विनिक्षिपेत् ॥
राजिकाजीरलवणहिङ्गुशुण्ठीनिशाकृतम् ।
निक्षिपेद्वटकांस्तत्र भाण्डस्यास्यञ्च मुद्रयेत् ॥
ततो दिनत्रयादूर्द्ध्वमम्लाः स्युर्वटका ध्रुवम्” ॥
अस्य गुणाः ।
“काञ्जिकवटको रुच्यो वातहरः श्लेष्मकारकः शीतः ।
दाहं शूलमजीर्णं हरते नेत्रामयेष्वहितः” ॥
इति भावप्रकाशः ॥

काञ्जिका, स्त्री, (कुत्सिता ईषद्वा अञ्जिका ।) जीवन्ती-

लता । पलाशीलता । इति राजनिर्घण्टः ॥

काञ्जी, स्त्री (कं जलं अनक्ति । क + अन्ज + कर्म्मणि

+ अण् । गौरादित्वात् ङीष् ।) महाद्रोणावृक्षः ।
इति राजनिर्घण्टः ॥ काञ्जिकम् । इत्यमरटीका ॥
(“तुम्बीवीजं सौद्भिदस्तु काञ्जीपिष्टं गुडीत्रयम् ।
अर्शोहरं गुदस्थं स्याद्दधिमाहिषमश्नुतः” ॥
इति तु काञ्जिकार्थे ज्ञेयम् ॥ इति वैद्यकचक्रपाणि-
संग्रहे अर्शोऽधिकारे ॥)

काठः, पुं, (काठ्यते तङ्क्यते इति । कठ + कर्म्मणि

घञ् ।) पाषाणः । इति त्रिकाण्डशेषः ॥

काठिन्यं, क्ली, (कठिनस्य भावः । कठिन + ष्यञ् ।)

कठिनता । यथा । “सीते मा कुरु सम्भ्रमञ्च मृदुना
काठिन्यमङ्गीकृतम्” । इत्युद्भटः ॥
(यथा च कुमारे । ६ । ७३ ।
“काठिन्यं म्थावरे काये भवता सर्व्वमर्पितम्” ॥)

काठिन्यफलः, पुं, (काठिन्यं फले यस्य ।) कपित्थवृक्षः ।

इति राजनिर्घण्टः ॥ (कपित्थशब्देऽस्य गुणादयो
बोद्धव्याः ॥)

काणः, पुं, (कणति एकचक्षुर्निमीलतीति । कण सं-

ज्ञायां कर्त्तरि घञ् ।) काकः । इति मेदिनी ॥

काणः, त्रि, (कणति एकचक्षषा पश्यति । कण् +

घञ् ।) एकचक्षुः । इति मेदिनी ॥ काणा इति
भाषा । (यथा, मनुः । ३ । २४२ ।
“खञ्जोवा यदिवा काणो दातुः प्रेष्योऽपि वा भवेत्” ॥)

काणूकः, पुं, (कणति शब्दायते । कण शब्दे + “मृक-

णिभ्यामूकोकणौ” । उणां ४ । ३९ । इत्यूकण् ।)
काकः । इत्युणादिकोषः ॥

काण्डं, क्ली, (कणतीति । कण शब्दे + डः । बाहुला-

कात् दीर्घः ।) सन्धिविच्छिन्नैकखण्डास्थि । यया ।
“भग्नं समासाद्द्विविधं हुताश-
काण्डे च सन्धौ च हि तत्र सन्धौ ।
उत्पिष्टविश्लिष्टविवर्त्तितञ्च
तिर्य्यग्गतं क्षिप्तमधश्च षट् च” ॥
इति रोगविनिश्चयः ॥ सन्धिविच्छिन्नमेकखण्डमस्थि-
काण्डम् । काण्डेन च ललककपालवलयत रुणरुच-
कानां ग्रहणम् । तत्र भग्नं काण्डभग्नम् । इति
तट्टीकाव्याख्यामधुकोषः ॥

काण्डः, पुं, क्ली, (कणि दीप्तौ + ञमन्तात् डः ।

क्वादिभ्यः कित् अनुनासिकस्येति दीर्घः ।) दण्डः ।
(यथा, कात्यायनश्रौतसूत्रे ८ । ७ । २७ ।
“पृषता वरत्राकाण्डेनाहन्ति” ।
“वरत्राकाण्डेन वंशदण्डेन” । इति कर्कः ॥)
नालम् । वाणः । (यथा, महाभारते १३ । ५ । ३ ।
“विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः ।
सविषं काण्डमादाय मृगयामास वै मृगम्” ॥)
शरवृक्षः । अर्व्वा । कुत्सितः । वर्गः । (वर्गश्च एक-
जातीयसमवायः । यथा, भागवते । ४ । २४ । ९ ।
“क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥)
परिच्छेदः । (यथा, अथर्व्ववेदे १२ । ३ । ४५ ।
“इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी
समाप” ॥) अवसरः । प्रस्तावः । वारि । जलम् ।
इत्यमरः । ३ । ३ । ४३ ॥ (यथा, हेः रामायणे
२ । ८९ । १८ ।
“तास्तु गत्वा परं तीरमवरोप्य च तं जनम् ।
निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः” ॥
“क्रीडार्थं काण्डचित्राणि काण्डे जले चित्राणि
चित्रगमानानि लघुत्वात् क्रियन्ते स्मेत्यर्थः” ॥
इति तट्टीका ॥) स्तम्बः । (यथा, अमरुशतके ९५ ।
“उरुद्वयं मृगदृशः कदलस्य काण्डौ
मध्यञ्च वेणिरतुलं स्तनयुग्ममस्याः” ॥)
तृणादिगुच्छः । (यथा, भट्टिः ५ । १८ ।
“दूर्व्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला” ॥)
तरुस्कन्धः । गुँडि इति भाषा । (यथा, रामायणे ।
“वृक्षकाण्डमितो भाति” ॥ वृक्षाणां शाखा ।
यथा, मनुः १ । ४६ ।
“उद्भिज्जाः स्थावराः सर्व्वे वीजकाण्डप्ररोहिणः” ।
“केचित्काण्डात् शाखा एव रोपिता वृक्षतांयान्ति” ॥
इति तट्टीका ॥ वृन्दः । समूहः । रहः । निर्जन-
स्थानम् । इति मेदिनी ॥ श्लाघा । इति हेमचन्द्रः ॥
पापोयान् । इति धरणिः ॥

काण्डकटुकः, पुं, (काण्डे स्तम्बे लतायामित्यर्थः कटुक-

स्तिक्तः ।) कारवेल्लः । इति राजनिर्घण्टः ॥ (का-
रवेल्लशब्देऽस्य विवरणं ज्ञेयम् ॥)

काण्डकाण्डकः, पुं, (काण्डस्य शरवृक्षस्य काण्डमिव

काण्डं यस्य । काण्डकाण्ड + कप् ।) काशतृणम् ।
इति राजनिर्घण्टः ॥

काण्डकारं, क्ली, (काण्डं स्कन्धं किरति दीर्घतया उत्-

क्षिपति । काण्ड + कॄ + अण् ।) गुवाकः । इति
शब्दमाला ॥ (पुंसि तु काण्डं वाणं करोति इति
काण्डकारः । वाणकारकः ॥)

काण्डकीलकः, पुं, (काण्डे स्कन्धे कीलकमिव यस्य ।

काण्डकील + कप् ।) लोध्रः । इति राजनिर्घण्टः ।
लोधकाठ इति भाषा ॥

काण्डगुण्डः, पुं, (काण्डेन गुच्छेन गुण्डयति वेष्टयति

भूमिम् । काण्ड + गुडि वेष्टने + अण् ।) गुण्ड-
नामतृणम् । इति राजनिर्घण्टः ॥

काण्डगोचरः, पुं, (काण्डस्य वाणस्य गोचर इव गो-

चरो यस्य ।) नाराचः । लौहमयवाणः । इति
त्रिकाण्डशेषः ॥

काण्डणी, स्त्री, (काण्डेन स्तम्बेन नीयतेऽसौ काण्डं

नयति आत्मानं वा । काण्ड + नी + क्विप् । पृषो-
दरादित्वात् णत्वम् ।) सूक्ष्मपर्णलता । रामदूती
इति ख्याता । इति शब्दचन्द्रिका ॥

काण्डतिक्तः, पुं, (काण्डे स्कन्धे तिक्तः ।) भूनिम्बः । इति

राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, --
“किराततिक्तः कैरातः कटुतिक्तः किरातकः ।
काण्डतिक्तो नोर्य्यतिक्तो भूनिम्बो रामसेनकः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । गुणा-
दयोऽस्य किराततिक्तशब्दे ज्ञेयाः ॥)

काण्डतिक्तकः, पुं, (काण्डतिक्त + स्वार्थे कन् ।) भूनिम्ब

वृक्षः । इति शब्दचन्द्रिका । चिराता इति भाषा ॥

काण्डनीलः, पुं, (काण्डे स्कन्धे नीलः ।) लोध्रः । इति

राजनिर्घण्टः ॥

काण्डपटः, पुं, (काण्डे काष्ठादिनिर्म्मितस्तम्भे आवर-

कत्वात् स्थितः पटः ।) यवनी । तिरस्करिणी ।
इति हेमचन्द्रः । कानात् इति भाषा ॥

काण्डपुङ्खा, स्त्री, (काण्डस्य वाणस्य पुङ्ख इव पुङ्खो

यस्याः ।) शरपुङ्खा । इति राजनिर्घण्ठः ॥

काण्डपुष्पं, क्ली, (काण्डात् स्कन्धं व्याप्य पुष्पं यस्याः ।)

क्षुद्रसुगन्धिपुष्पविशेषः । इति शब्दचन्द्रिका ।
दोना इति भाषा ॥

काण्डपृष्ठं, क्ली, (काण्डं तरुस्कन्ध इव स्थूलं पृष्ठं

यस्य ।) कर्णधनुः । इति महाभारतम् ॥

काण्डपृष्ठः, त्रि, (काण्डः वाणः पृष्ठे यस्य ।) काण्ड-

स्पृष्टः । शस्त्राजीवः । इत्यमरटीकायां स्वामी ॥
(“स्त्रीपूर्ब्बाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ ! ।
अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम्” ॥
इति महाभारते । १३ । २३ । २२ ॥) वैश्यापतौ
पुं । इति दानधर्म्मः ॥

काण्डवारिणी, स्त्री, (काण्डान् संग्रामापतितान् वा-

णान् स्मरणादेव निवारयतीति । काण्ड + वृ +
णिच् + णिनिः ।) दुर्गा । यथा, --
“महागजघटाटोपसंयुगे नरवाजिनाम् ।
स्मरणाद्वारते वाणान् तेन सा काण्डवारिणी” ॥
इति देवीपुराणे देवीनिरुक्तनाम ४५ अध्यायः ॥
पृष्ठ २/०८३

काण्डरुहा, स्त्री, (काण्डात् छिन्नस्कन्धात् रोहतीति ।

काण्ड + रुह + कः टाप् च ।) कटुकी । इति
रत्नमाला ॥ (अस्याः पर्य्यायो यथा, --
“कट्वी तु कटुका तिक्ता कृष्णभेदा कटुम्भरा ।
अशोका मत्स्यशकला चक्राङ्गी शकुलादनी ॥
मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अस्याः
गुणाः कटुकाशब्दे ज्ञेयाः ॥)

काण्डर्षिः, पुं, (काण्डस्य वेदविभागस्य ऋषिः । यद्वा

काण्डेषु एकजातीयक्रियादिसमवायेषु ऋषिर्वि-
चारकः ।) वेदकाण्डविशेषाध्यापकमुनिभेदः । स
तु जैमिन्यादिः । इति त्रिकाण्डशेषः ॥ (जैमि-
निस्तु पूर्ब्बमीमांसाशास्त्रप्रणयनेन क्रियाकाण्डस्य
विचारकः । तथा वेदव्यासः उत्तरमीमांसारूप-
वेदान्तशास्त्रप्रणयनेन ज्ञानकाण्डस्य विचारकः ।
इत्यादि सूरिभिर्निरुक्तम् ॥)

काण्डवान्, [त्] त्रि, (काण्डः शरःप्रहरणतया अ-

स्यास्ति इति । काण्ड + मतुप् । मस्य वः ।) का-
ण्डीरः । इत्यमरः । २ । ८ । ६९ ॥ तीरान्दाज
इति भाषा ॥

काण्डसन्धिः, पुं, (काण्डस्य स्कन्धस्य सन्धिः मेलन-

स्थानम् ।) ग्रन्थिः । इति राजनिर्घण्टः ॥ पाव्
गाँट इति च भाषा ॥

काण्डस्पृष्टः, त्रि, (स्पष्टं गृहीतं काण्डं येन निष्ठान्त-

त्वात् परनिपातः ।) काण्डपृष्ठः । शस्त्राजीवी ।
इत्यमरः । २ । ८ । ६७ ॥

काण्डहीनं, क्ली, (काण्डेन स्कन्धेन हीनम् ।) भद्रमु-

स्तकम् । इति शब्दचन्द्रिका ॥

काण्डिका, स्त्री, (काण्डः गुच्छः प्राशस्त्येन अस्ति

अस्याः । काण्ड + ठन् + टाप् ।) लङ्कानामकधान्य-
विशेषः । वालुकीनामकर्कटीभेदः । इति राज-
निर्घण्टः ॥

काण्डीरः, त्रि, (काण्डः वाणः अस्त्यस्य । काण्ड +

“काण्डाण्डादीरन्नीरचौ” । ५ । २ । १११ । इति
ईरन् ।) काण्डास्त्रवान् । इत्यमरः । २ । ८ । ६९ ॥
तीरान्दाज इति भाषा ॥ (यथा भट्टिः ४ । १० ।
“काण्डीरः खाड्गिकः शार्ङ्गी रक्षन् विप्रस्तनुत्रवान्” ॥)

काण्डीरः, पुं, (काण्डः स्तम्बः अस्यास्तीति । काण्ड +

“काण्डाण्डादीरन्नीरचौ” । ५ । २ । १११ । इति
ईरन् ।) अपामार्गवृक्षः । लताप्रभेदः । काण्ड-
वेल इति ख्यातः । तत्पर्य्यायः । काण्डकटुकः २
नासासंवेदनः ३ पटुः ४ अग्रकाण्डः ५ स्तोमवल्ली
६ कारवल्ली ७ सुकाण्डिका ८ । अस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । सारकत्वम् ।
दुष्टव्रणलूतागुल्मोदरप्लीहशूलमन्दाग्निनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

काण्डीरी, स्त्री, (काण्डीर + गौरादित्वात् ङीष् ।)

मञ्जिष्ठा । इति रत्नमाला ॥ काण्डीरा इत्यपि
पाठः ॥ (मञ्जिष्ठाशब्देऽस्या गुणादयो ज्ञातव्याः ॥)

काण्डेक्षुः, पुं, (काण्डे इक्षुरिव ।) कोकिलाक्षवृक्षः ।

इत्यमरः । २ । ४ । १०४ ॥ कुलिया खाडा इति
भाषा ॥ (अस्य पर्य्यायाः । यथा, भावप्रकाशस्य
पूर्ब्बखण्डे १ भागे ॥
“कोकिलाक्षस्तु काकेक्षुरिक्षुरः क्षुरकः क्षुरः ।
भिक्षुः काण्डेक्षुरप्युक्त इक्षुगन्धेक्षु वालिका” ॥
गुणाऽस्य क्षुरकशब्दे ज्ञेयाः ॥) काशतृणम् । इति
राजनिर्घण्टः ॥

काण्डेरी, स्त्री, (काण्डं वाणाकारं पुष्पं ईर्त्ते । काण्ड

+ ईरङ् गतौ + अण् । गौरादेराकृतिगणत्वात्
ङीष् ।) नागदन्तीवृक्षः । इति रत्नमाला ॥

काण्डेरुहा, स्त्री, (काण्डे रोहति इति कः टाप् ।

सप्तम्या अलुक् ।) कटुकी । इति रत्नमाला ॥
(कटुकीशब्दे ऽस्या विशेषो बोध्यः ॥)

कातरः, त्रि, (कु कष्टेन तरतीति । कु + तॄ + अच् ।

कोः कादेशः ।) व्यसनाकुलचित्तः । व्याकुलः ।
तत्पर्य्यायः । अधीरः २ । इत्यमरः । ३ । १ । २६ ॥
(यथा रघुः ११ । ७८ ।
“कातरोऽसि यदि वोद्गतार्चिषा
तर्ज्जितः परशुधारया मम” ॥)

कातरः, पुं, (कं जलं आतरति । क + आ + तॄ +

अच् ।) कातलमत्स्यः । इति शब्दरत्नावली ॥

कातलः, पुं, (कातर एव रस्य लः । अयं हि रोहि-

तादिवत् न तेजस्वी अतोऽस्य तथात्वम् । यद्वा,
कस्य जलस्य तलं स्पृश्यत्वेन न अस्ति अस्य । अर्श
आदित्वादच् ।) मत्स्यविशेषः । कात्ला इति
भाषा । तस्य गुणाः । उष्णत्वम् । मधुरत्वम् ।
गुरुपाकित्वम् । त्रिदोषकारित्वञ्च । इति राज-
वल्लभः ॥ (यथा, वैद्यके ।
“कातलो मधुरश्चोष्णो गुरुपाकी त्रिदोषकृत्” ॥)

कातृणं, क्ली, (कुत्सितं तृणं क्षुद्रं तृणं वा । कोः का-

देशः ।) रोहिपतृणम् । इति राजनिर्घण्टः ॥

कात्यः, पुं, (कतस्य ऋषेर्गोत्रापत्यं । कत + “गर्गा-

दिभ्यो यञ्” । ४ । १ । १०५ । इति यञ् ।) कात्यायन-
मुनिः । इति त्रिकाण्डशेषः ॥

कात्यायनः, पुं, (कतस्य गोत्रापत्यम् । गर्गादित्वात्

यञ् यञन्तत्वात् यनिष्फः ।) धर्म्मशास्त्रकर्तृमुनि-
विशेषः । (यथोक्तं याज्ञवल्क्ये १ । ४ । ५ ।
“मन्वत्रि विष्णुहारीतयाज्ञ्यवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसम्बर्त्ताः कात्यायनवृहस्पती ॥
पराशरव्यासशङ्खलिखिता दक्षगोतमौ ।
शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः” ॥
वररुचिः । इति मेदिनी ॥

कात्यायनी, स्त्री, (कतस्यापत्यं स्त्री । “गर्गादिभ्यो

यञ्” । ४ । १ । १०५ । इति यञ् । “सर्व्वत्र-
लोहितादिकतस्तेभ्यः” । ४ । १ । १८ । इति ष्फः ।
षित्वात् ङीष् ।) दुर्गा । (यथा मार्कण्डेय ९१ । २३ ।
“एतत्ते वदनं सौम्यं लौचनत्रयभूषितम् ।
पातु नः सर्व्वभूतेभ्यः कात्यायणि नमोऽस्तुते” ॥)
अर्द्धवृद्धा काषायवसना विधवा । इत्यमरः । २ ।
६ । १७ ॥ (याज्ञवल्क्यमुनेः पत्न्योरेका पत्नी ।
यदुक्तं वृहदारण्यकोपनिषदि । “याज्ञवल्क्यस्य
द्वे भार्य्ये बभूवतुः मैत्रेयी कात्यायनी च । तयोर्हि
मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि कात्या-
यनी” ॥ पत्न्यां ङीष् । कात्यायनस्य ॠषेः पत्नी” ॥)

कादम्बः, पुं, (कदम्बे समूहे भवः । कदम्ब + अण् ।)

कलहंसः । वालि हाँस् इति भाषा । इत्यमरः ।
२ । ५ । २३ । (यथा रघुः । १३ । ५५ ।
“क्वचित् खगानां प्रियमानसानां
कादम्बसंसर्गवतीव पङ्व्क्तिः” ॥)
अस्य मांसस्य गुणाः । वायुरक्तपित्तनाशित्वम् ।
भेदकत्वम् । शुक्रकारित्वम् । शीतत्वञ्च । इति
राजवल्लभः । (कदम्ब एव । स्वार्थे अण् ।) कदम्ब-
वृक्षः । इत्यमरटीकायां भरतः ॥ (कदम्बस्येदमिति
व्युत्पत्त्या अण् । कदम्वसम्बन्धिनि, त्रि । कदम्ब-
कुसुमम् । यथा रघुः १३ । २७ ।
“गन्धश्च धाराहतपल्वलानां
कादम्बमर्द्धोद्गतकेसरञ्च” ॥)
वाणः । इति मेदिनी ॥

कादम्बकः, पुं, (कादम्ब + स्वार्थे कन् ।) वाणः । इति

हारावली ॥

कादम्बरं, क्ली, (कादम्बम् कदम्बोद्भवं रसं लाति

गृह्णातीति । कदम्ब + ला + कः । लस्य रः ।)
कदम्बपुष्पोद्भवमद्यम् । इति मेदिनी ॥
(यथा, माघे ।
“निषेव्य मधुमाधवाः सरसमत्र कादम्बरम्” ॥)
दधिसारः । इति हेमचन्द्रः ॥ शीधुः । इति विश्वः ॥
(इक्षुजातगुडादि । इति मल्लिनाथः ॥)

कादम्बरः, पुं, (कादम्बं कदम्बरसवत् लाति गृह्णातीति ।

ला + कः । लस्य रश्च ।) दध्यग्रम् । दधिसरः ।
इति मेदिनी ॥

कादम्बरी, स्त्री, (कु कृष्णवर्णं नीलवर्णमित्यर्थः अम्बरं

वस्त्रं यस्य । कोः कदादेशः । कदम्बरो बलरामस्तस्य
प्रिया । कदम्बर + अण् ततः स्त्रियां ङीप् ।
यद्वा कदम्बे जातो रसः कादम्बः । “तत्रजातः” ।
४ । ३ । २५ । इत्यण् । कादम्बं राति ददा-
तीति । रादाने + “आतोऽनुपसर्गे कः” । ३ ।
२ । ३ । इति कः । गौरादित्वात् ङीष् ।) मदिरा ।
इति मेदिनी ॥ (यथा, --
“कादम्बरीमदविधूर्णितलोचनस्य
युक्तं हि लाङ्गलभृतः पतनं पृथिव्याम्” ॥
इत्युद्भटः ॥) कोकिला । स्वरस्वती । शारिकाप-
क्षिणी । इति मेदिनी ॥ (वाणभट्टविरचितकाव्य-
विशेषः । स्वनायिकानाम्नैव प्रसिद्धोऽयं ग्रन्थः । इयं
कादम्बरी तु वाणभट्टेनासमापितां पुनरस्य पुत्त्रेण
समाप्तिं नीता ॥ नायिकाविशेषः । सातु तुम्बुरु-
प्रभृतीनां षण्णां गन्धर्व्वाणां ज्येष्ठस्य हंस इत्याख्यया
प्रसिद्धस्य गन्धर्व्वस्य कन्या । अस्या जननी सोम-
मयूखसम्भवाप्सरसां कुले जाता गौरीति नाम्ना
प्रसिद्धा । अस्या अन्यद्विवरणन्तु कादम्बर्य्यां द्रष्ट-
व्यम् ॥)

कादम्बरीवीजं, क्ली, (कादम्बर्य्यैः वीजं आसवः ।)

सुरावीजम् । इति रत्नमाला ॥

कादम्बर्य्यः, पुं, (कादम्बर्य्यै हितः इति यत् ।) कदम्ब-

वृक्षः । इति जटाधरः ॥

कादम्बा, स्त्री, (कादम्ब इव आचरति । कादम्ब +

आचारे क्विप् + अच् + टाप् ।) कदम्बपुष्पीवृक्षः ।
पृष्ठ २/०८४
:इति शब्दचन्द्रिका ॥ मुण्डिरी इति भाषा ॥

कादम्बिनी, स्त्री, (कादम्बाः कलहंसाः सन्ति अस्यां ।

कादम्ब + इनि ङीष् ।) मेघमाला । मेघश्रेणिः ।
इत्यमरः । १ । ३ । ८ ॥

कादाचित्कं, क्ली, कदाचिद्भवम् । इति मुग्धबोध-

व्याकरणम् ७ । १५ ॥ (यथा, साहित्यदर्पणे ३ । २७ ।
“यद्यपि रसाभिन्नतया चर्व्वणस्यापि न कार्य्यत्वं
तथापि तस्य कादाचित्कतया उपचरितेन कार्य्य-
त्वेन कार्य्यत्वमुपचर्य्यते” ॥)

काद्रवेयः, पुं, (कद्रोरपत्यं पुमान् । कद्रु + “शुभ्रादि-

भ्यश्च” । ४ । १ । १२३ । इति ढक् । “ढे लोपो-
ऽकाद्व्राः” । ६ । ४ । १४ । इति न लोपः ।) कद्रु-
सन्तानः । नागः । इत्यमरः । १ । ८ । ४ ॥
(यथा, महाभारते १ । ६५ । ४१ ।
“शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः ।
कूर्म्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्त्तिताः” ॥)

कानकं, क्ली, (कनकं फलमिव उग्रं फलं अस्त्यस्य ।

कनक + अण् ।) जयपालवीजम् । अस्य गुणाः ।
तीक्ष्णत्वम् । उष्णत्वम् । सारकत्वम् । उत्क्लेद-
कारित्वञ्च । इति राजवल्लभः ॥ (वैद्यकचक्रपाणि-
संग्रहे वृहत्सिंहनादगुग्गुलौ व्यवहारोऽस्य यथा ।
“सहस्रं कानकफलं सिद्धे संचूर्ण्य निक्षिपेत् ।
ततो माषद्वयं जग्ध्वा पिबेत्तप्तजलादिकम्” ॥)

काननं, क्ली, (कं जलं अननं जीवनमस्य । यद्वा

कानयति दीपयति । कनदीप्तौ + णिच् + ल्युट् ।)
वनम् । (यथा, मेघदूते ४४ ।
“शीतो वायुः परिणमयिताकाननोडुम्बराणाम्” ॥
कस्य ब्रह्मणः आननं मुखम् ।) ब्रह्मणो मुखम् ।
गृहम् । इति मेदिनी ॥

काननारिः, पुं, (काननस्य अरिरिव । शमीगर्भोत्थि-

ताग्निना सर्व्वकाननस्य दहनात् तथात्वम् ।) शमी-
वृक्षः । इति शब्दचन्द्रिका ॥ (अस्य गुणादयः शमी
शब्दे बोद्धव्याः ॥)

कानीनः, पुं स्त्री, (कन्यायां अनूढायां जातः कन्याया

जातो वा । कन्या + “कन्यायाः कनीन च” । ४ । १ ।
११६ । इति अण् कनीनादेशश्च ।) अनूढापुत्त्रः ।
तत्पर्य्यायः । कन्यकाजातः २ । इत्यमरः । २ । ६ ।
२४ ॥ सा कन्या यद्यनूढा पितृगृह एव तिष्ठति
तदा तत्पुत्त्रो मातामहस्यैव यथा, --
“कानीनः कन्यकाजातो मातामहसुतो मतः” ॥
इति याज्ञवल्क्यः ॥ यद्यूढा तदा वोढुरेव यथा, --
“पितृवेश्मनि कन्या तु यं पुत्त्रं जनयेद्रहः ।
तं कानीनं वदेन्नाम्ना वोढुःकन्यासमुद्भवम्” ॥
इति मनुः ॥ व्यासे कर्णे च पुं । इति मेदिनी ॥

कान्तं, क्ली, (कनते दीप्यते इति । कन + कर्त्तरि क्तः ।)

कुङ्कुमम् । इति राजनिर्घण्टः ॥ लौहविशेषः ।
तस्य लक्षणं यथा, --
“स्वादुर्यत्र भवेन्निम्बकल्को रात्रिन्दिवोषितः ।
कान्तं तदुत्तमं यच्च रूप्येणावर्त्तितं मिलेत्” ॥
तस्य परीक्षा । यथा ।
पात्रे यस्मिन् विसरति जले तैलविन्दुर्निषिक्तो
विद्धं गन्धं विसृजति निजं रूपितं निम्बकल्कैः ।
पाके दुग्धं भजति शिखराकारतां नैति भूमौ
कान्तं लौहं तदिदमुदितं लक्षणोक्तं न चान्यत्” ॥
इति सुखबोधः ॥ अपि च ।
“यत्पात्रे न प्रसरति जले तैलविन्दुर्निषिक्तो
हिङ्गुर्गन्धं त्यजति भजते स्वादुतां निम्बकल्कः ।
पाच्यं दुग्धं भवति सिकतापुञ्जवन्नैति भूमौ
कृष्णाङ्गः स्यात् सजलचणकः कान्तलौहंवदन्ति” ॥
इतिवैद्यकम् ॥ (वैद्यकरसेन्द्रसारसंग्रहे वृहत्सर्व्व
ज्वरहरलौहेऽस्य व्यवहारो यथा, --
“पारदं गन्धकं शुद्धं ताम्रमभ्रञ्च माक्षिकम् ।
हिरण्यं तारतालञ्च कर्षमेकं पृथक् पृथक् ॥
मृतं कान्तं पलं देयं सर्व्वमेकीकृतं शुभम्” ॥)

कान्तः, त्रि, (काम्यते इति । कम् + कर्म्मणि क्तः “यस्य

विभाषा” । ७ । २ । १५ । इति नेट् । अनुनासि-
कस्येति दीर्घः ।) मनोरमः । शोभनः । इत्यमरमे-
दिनीकरौ ॥ (यथा,
“मलिनमपि मृगाक्ष्या बल्कलं कान्तरूपं
न मनसि रुचिभङ्गं स्वल्पमप्यादधाति” ।
इति शाकुन्तले १ अङ्के ॥)

कान्तः, पुं, (कम् + क्त ।) श्रीकृष्णः । चन्द्रः । इति

शब्दरत्नावली ॥ पतिः । (यथा मेघदूते । १०१ ।
‘कान्तोदन्तः सुहृदुपनतः सङ्गमात् किञ्चिदूनः’ ॥)
चन्द्रसूर्य्यायःपर्य्यायान्तःशिला । यथा । चन्द्रकान्त-
सूर्य्यकान्तायस्कान्तादयः । इति मेदिनी ॥ हिज्जल-
वृक्षः । वसन्त ऋतुः । इति राजनिर्घण्टः ॥
(विष्णुः । यथा, महाभारते १३ । १४९ । ४५ ।
“कामहा कामकृत् कान्तः कामः कामप्रदःप्रभुः” ॥
शिवः । यथा, तत्रैव १३ । १७ । १४८ ।
“गुहः कान्तो निजः सर्पः पवित्रं सर्व्वपावनः” ॥
कार्त्तिकेयः । यथा, तत्रैव २ । २३१ । ४ ।
“कामजित् कामदः कान्तः सत्यवाग्भुवनेश्वरः” ॥)

कान्तपक्षी, [न्] पुं, (कान्तस्य कार्त्तिकेयस्य पक्षी ।

मयूरस्य कार्त्तिकवाहनत्वात्तथात्वम् ।) मयूरः ।
इति शब्दचन्द्रिका ॥

कान्तपुष्पः, पुं, (कान्तानि मनोरमाणि पुष्पाण्यस्य ।)

कोविदारवृक्षः । इति राजनिर्घण्टः ॥

कान्तलकः, पुं, (कान्तं लक्यते आस्वाद्यते । कान्त + लक

आस्वादने + घञर्थे कः । यद्वा काम्यते इति “मति
बुद्धिपूजार्थेभ्यश्च क्तः” । ३ । २ । १८८ । इति क्तः ।
कान्तः । ततः लकतीति । लक + अच् । कान्त-
श्चासौलकश्चेति ।) नन्दीवृक्षः । इत्यमरः । २ । ४ । १२८ ॥
तुँद इति भाषा ॥

कान्तलोहं, क्ली, (कान्तं लौहश्रेष्ठत्वात् कमनीयं

लोहम् ।) अयस्कान्तः । इति राजनिर्घण्टः ॥ (अस्य
परीक्षादिकं कान्तशब्दे द्रष्टव्यम् ॥ अस्य निरुत्थी-
करणं यथा, ॥
“शुद्धस्य सुतराजस्य भागो भागद्वयं बलेः ।
द्वयोः समं लौहचूर्णं मर्द्दयेत् कन्यकाद्रवैः ॥
यामद्वयं ततो गोलं स्थापयेत्ताम्रभाजने ।
आच्छाद्यैरण्डजैः पत्रैरुष्णो यामद्वयाद्भवेत् ॥
त्रिदिनं धान्यराशिस्यं तत्ततोमर्द्दयेद्दृढम् ।
रजस्तद्वस्त्रगलितं नीरे तरति हंसवत् ॥
तीक्ष्णं मुण्डं कान्तलोहं निरुत्थं जायते भृशम्”
“ततः कोटिसहस्रैर्व्वा कान्तलोहं महागुणम्” ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा धि
कारे ॥)

कान्ता, स्त्री, (काम्यते असौ । कम् + णिच् + कर्म्मणि

क्त + टाप् ।) नारी । (यथा शृङ्गारतिलके ६ ।
“झटिति प्रविश गेहं मावहिस्तिष्ठ कान्ते !
ग्रहणसमयवेला वर्त्तते शीतरश्मेः ।
अयि ! सुविमलकान्तिं वीक्ष्य नूनं स राहु-
र्ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय” ॥) प्रिय-
ङ्गुवृक्षः । इति मेदिनी ॥ सर्व्वाङ्गसुन्दरी स्त्री ।
इत्यमरः । २ । ६ । ३ ॥
(गङ्गा यथा, काशीखण्डे २९ । ४३ ।
“कूटस्था करुणा कान्ता कूर्म्मयाना कलावती” ॥)
वृहदेला । रेणुका । नागरमुस्ता । इति राज-
निर्घण्टः ॥

कान्ताङ्घ्रिदोहदः, पुं, (कान्तायाः अङ्घ्रिणा चरणस्पर्शे-

नैव दोहदः पुष्पोद्गमो यस्य । “पादाघाताद-
शोको विकशति” इति कविप्रौढोक्तेस्तथात्वम् ।)
अशोकवृक्षः । इति त्रिकाण्डशेषः ॥

कान्ताचरणदोहदः, पुं, (कान्ताचरणेन रमणीचरण-

स्पर्शेन दोहदः पुष्पोद्गमो यस्य । “पादाघा-
तादशोको विकशति” । इति कविप्रौढोक्तेस्तथा-
त्वम् ।) अशोकवृक्षः । इति भूरिप्रयोगः ॥

कान्तायसं, क्ली, (अय एव आयसम् । कान्तं कम-

नीयं आयसम् ।) अयस्कान्तः । इति राजनिर्घण्टः ॥

कान्तारं, क्ली, (कस्य सुखस्य अन्तं ऋच्छति गच्छ-

तीति । कान्त + ऋ + “कर्म्मण्यण्” । ३ । २ । १ ।
इति अण् ।) उपसर्गादि । (कान्तं मनोज्ञं
ऋच्छति प्राप्नोतीति । कर्म्मण्यण् ।) काननम् ।
(यथा, हेः रामायणे २ । २८ । ५ ।
“सीते विमुच्यतामेषा वनवासकृता मतिः ।
बहुदोषं हि कान्तारं वनमित्यभिधीयते” ॥)
पद्मविशेषः । इति हेमचन्द्रः ॥

कान्तारः, पुं, (कान्तं मनोज्ञं रसं ऋच्छति प्राप्नोति ।

कान्त + ऋ + अण् ।) इक्षुविशेषः । कतारे इति
हिन्दी भाषा । (यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये ।
“कान्तार तावसाविक्षुवंशकानुगुणौ मतौ” ।)
अस्य गुणाः । गुरुत्वम् । शुक्रश्लेष्मवृद्धिकारित्वम् ।
वृंहणत्वम् । सारकत्वञ्च । इति भावप्रकाशः ॥
कोविदारवृक्षः । वंशः । इति राजनिर्घण्टः ॥

कान्तारः, पुं, क्ली, (कस्य सुखस्य अन्तं ऋच्छति

यत्र । हिंस्रसङ्कु लत्वात् । कान्त + ऋ + आधारे
घञ् ।) महावनम् । (यथा, गोः रामायणे । ४ ।
४३ । ११ ।
“कैकेयान् सिन्धुसौवीरान् कान्तारगिरयश्च ये ।
गिरिजालावृतां दुर्गां मार्गध्वं पश्चिमां दिशम्” ॥)
दुर्गमपथः । इत्यमरः । ३ । ३ । १७१ ॥ (उक्तञ्च--
“सिंहक्षुण्णकरीन्द्रकपोलमूलगलितं रक्ताक्तमुक्ता-
फलम् कान्तारे वदरीभ्रमाद्द्रुतमगाद्भिल्लस्य
पत्नी मुदा” इति ।) विलम् । छिद्रम् । इति
मेदिनी ॥
पृष्ठ २/०८५

कान्तारकः, पुं, (कान्तार + स्वार्थे कन् । इक्षुविशेषः ।

इत्यमरः । २ । ४ । १६३ ॥ काजले आक् इति भाषा ॥

कान्तारी, स्त्री, (कान्तार + गौरादित्वात् ङीष् ।)

इक्षुभेदः । काज्ले आक् इति भाषा । अस्या
गुणाः । मधुरत्वम् । लघुत्वम् । क्षाररसत्वम् ।
कफवातकारित्वञ्च । इति राजवल्लभः ॥

कान्तिः, स्त्री, (कमु कान्तौ कन् दीप्तौ वा + भावे

क्तिन् ।) दीप्तिः । तत्पर्य्यायः । शोभा २ द्युतिः ३
छविः ४ । इत्यमरः । १ । ३ । १० ॥ शुभा ५ दीप्तिः
६ भा ७ श्रीः ८ भासा ९ भाः १० । इति शब्द-
रत्नावली ॥ अभिख्या ११ । इति जटाधरः ॥ * ॥
(यथा, विष्णुपुराणे १ मांशे ८ । २३ ।
“शशाङ्कः श्रीधरः कान्तिः श्रीस्तस्यैवानपायिनी” ॥)
कान्तिकारकपर्य्याया यथा । रश्मि १ उश्मसि २
वेति ३ वेनति ४ वेसति ५ वाञ्छति ६ वष्टि ७
वनोति ७ जूषते ९ हर्षति १० आचके ११ उशिक्
१२ मन्यते १३ छन्तसत् १४ चाकनत् १५ चक-
मानः १६ कमति १७ कानिषत् १८ इत्यष्टादश-
कान्तिकर्म्माणः । इति वेदनिघण्टौ २ अध्यायः ॥
स्त्रीशोभा । इति हेमचन्द्रः ॥ (यथा साहित्यदर्पणे ।
“रूपयौवनलालित्वं भोगाद्यैरङ्गभूषणम् ।
शोभा प्रोक्ता सैव कान्तिर्मन्मथाप्यायिता द्युतिः” ॥)
इच्छा । स्पृहार्थकमधातोर्भावे क्तिन् प्रत्ययः ।
दुर्गा । यथा, -- देविपुराणे देवीनिरुक्तनाम ४५
अध्याये ॥
“स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्च या ।
लक्ष्मीर्वा ललना वापि क्रमात् सा कान्तिरुच्यते” ॥
(गङ्गा । यथा, काशीखण्डे गङ्गास्तोत्रे २९ । ४० ।
“कुमुद्वतो कमलिनी कान्तिः कल्पितदायिनी” ॥
“कान्तिश्चन्द्रतेजोरूपा” । इति तट्टीका ॥)

कान्तिदं, क्ली, (कान्तिं द्यति नाशयतीति । कान्ति + दो

+ क ।) पित्तम् । इति शब्दचन्द्रिका ॥ (कान्तिं
ददातीति । कान्ति + दा + कः ।) शोभादायके त्रि ॥

कान्तिदा, स्त्री (कान्तिद + टाप् ।) वाकुचीवृक्षः ।

सोमराजी इति ख्याता । इति राजनिर्घण्टः ॥

कान्तिदायकं, क्ली, (कान्तिं ददातीति । कान्ति + दा

+ ण्वुल् ।) कालीयकवृक्षः । इति जटाधरः ॥ शो-
भादायके त्रि ॥

कान्दविकः, त्रि, (कन्दौ संस्कृतं कान्दवं । कन्दु + अण् ।

कान्दवं पण्यं अस्य “तदस्य पण्यम्” । ४ । ४ । ५१ ।
इति ठक् ।) आपूपिकः । पूपविक्रयकर्त्ता । इत्य-
मरः । २ । ९ । २८ ॥

कान्दिग्भूतः, त्रि, (कां दिशं गच्छामि इत्याकुलीभूतः ।

कान्दिश् + भू + कर्त्तरि क्तः ।) भयेन पलायितः ।
इति पुराणम् ॥

कान्दिशीकः, त्रि, (कां दिशं यामि इत्याह । तदा

हेति मा शब्दादिम्य उपसङ्ख्यानमिति ठक् पृषो-
दरादिस्वात् साधुः ।) भयद्रुतः । भयेन पलायितः ।
इत्यमरः । ३ । १ । ४२ ॥

कान्यकुब्जं, क्ली, (कन्याः कुब्जा न्युब्जीकृता वायुना

यत्र । ततः स्वार्थे अण् ।) गङ्गातीरस्थपुरविशेषः ।
कनज् इति भाषा । तत्पर्य्यायः । महोदयम्
२ कन्याकुब्जम् ३ गाधिपुरम् ४ कौशम् ५ कुश-
स्थलम् ६ । इति हेमचन्द्रः ॥ (यथा, महाभरते
३ । ११५ । १९ ।
“एतस्मिन्नेव काले तु पृथिव्याः पृथिवीपतिः ।
कान्यकुब्जे महानासीत् पार्थिवः सुमहाबलः ।
गाधीति विश्रुतो लोके वनवासं जगाम ह” ॥
एतद्पुरविवरणं कन्याकुब्जशब्दे द्रष्टव्यम् ॥)

कान्यजा, स्त्री, (कात् जलात् अन्यस्मिन् जायते ।

कान्य + जन + डः + टाप् ।) नलीनामगन्धद्रव्यम् ।
इति शब्दत्तन्द्रिका ॥

कापटिकः, पुं, (कपटेन चरति इति ठक् ।) छात्रः ।

अन्यमर्म्मज्ञः । (“तत्र परमर्म्मज्ञः प्रगल्मच्छात्रः
कपटव्यवहारित्वात् कापटिकः । तं वृत्त्यर्थिन-
मर्थमानाभ्यामुपगृह्य रक्षसि राजा ब्रूयात् यस्य
दुर्वृत्तं पश्यसि तत् तदानीमेव मयि वक्त्रव्यम् । इति
मनुसंहितायां ७ । १५४ । श्लोकस्थ टीकायां कु-
ल्लूकभट्टः ।) शठे त्रि । इति मेदिनी ॥

कापट्यं, क्ली, (कपटस्य कार्य्यं भावो वा । कपट

+ ष्यञ् ।) कपटता । शठता । कपटशब्दात्
भावार्थे ष्ण्यप्रत्ययः ॥ इति मुग्धबोधव्याकरणम् ।

कापथः, पुं, (कुत्सितः पन्थाः । कु + पथिन् + अच् ।

“कापथ्यक्षयोः” । ६ । ३ । १०४ । इति कादेशः ।)
कुत्सितपथः । तत्पर्य्यायः । व्यध्वः २ दुरध्वः ३
विपथः ४ कदध्वा ५ । इत्यमरः । २ । १ । १६ ॥
कुपथः ६ असत्पथः ७ कुत्सितवर्त्म ८ । इति
शब्दरत्नावली ॥ (“आस्थातुं कापथं दुःखं विष-
मम् बहुकण्टकम्” ॥ इति हेः रामायणे । २ ।
१०८ । ७ ॥)

कापालं, क्ली, (कपालमेव कपालस्येदं वा । कपाल +

अण् ।) अष्टादशकुष्ठान्तर्गतवातिककुष्ठम् । इति
माधवकरः ॥ अस्य निदानं कपालशब्दे द्रष्टव्यम् ॥

कापालः, पुं, (कपाल + अण् ।) कर्कटा । इति शब्द-

चन्द्रिका रत्नमाला च ॥ कालिया कडा इति
भाषा ॥

कापालिकः, पुं, (कपालेन नृकपालेन चरति अभ्य-

वहारादिकं करोतीति । कपालं + ठक् ।) वर्ण-
सङ्करजातिविशेषः । इति तन्त्रसारः ॥ कपालि
इति भाषा । वामाचारिविशेषः । यथा, --
“अथ तीर्णकराग्रणीः प्रतस्थे
कापालिकजालकं विजेतुम्” ।
इति शङ्करविजयः ॥ (योगिविशेषः । यथा हट-
योगदीपिकायां १ । ८ ।
“भानुकी नारदेवश्च खण्डः कापालिकस्तथा” ॥
तत्सम्प्रदायश्च यथा तत्रैव ३ । ९६ ।
“निषेव्यते शीतलमध्यधारा
कापालिके खण्डमते ऽमरोली” ॥
“कापालिकस्यायं कापालिकस्तस्मिन् कापालिके
खण्डकापालिकसम्प्रदाये इत्यर्थः” ॥ इतितट्टीका ॥)

कापाली, स्त्री, (कपाल + ङीष् ।) विडङ्गा । इति

राजनिर्घण्टः ॥ (शिवः । यथा महाभारते । १३ ।
१७ । १०२ ।
“अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः” ॥)

कापिलः, पुं, (कपिलेन प्रोक्तं शास्त्रं वेत्ति अधीते वा

इति अण् ।) साङ्ख्यशास्त्रज्ञः । इति हेमचन्द्रः ॥
(कपिलमधिकृत्य कृतो ग्रन्थः । अण् । कपिलाधि-
कारेण कृत उपपुराणभेदः । यथा कूर्म्मपुराणे ।
“कापिलं मानवञ्चैव तथैवोशनसेरितम्” ॥)
पिङ्गलवर्णः । तद्वति त्रि । इत्यमरटीकायां भरतः ॥

कापिशं, क्ली, (कापिशा माधवी तत्पुष्पमधूद्भवम् ।

कपिशा + अण् ।) मद्यम् । इति हेमचन्द्रः ॥

कापिशायनं, क्ली, (कपिशैव स्वार्थे अण् । तत्र जा-

तम् । “कापिश्याः ष्फक्” । ४ । २ । ९९ । इति
ष्फक् ।) मद्यम् । इति जटाधरः ॥ देवता । इति
धरणी ॥

कापिशेयः, पुं, (कपिशायाः अपत्यम् । ढक् ।) पिशाचः ।

इति त्रिकाण्डशेषः ॥

कापुरुषः, पुं, (कुत्सितः पुरुषः । “विभाषा पुरुषे” ।

६ । ३ । १०६ । इति कोःकादेशः ।) कुपुरुषः ।
कुत्सितपुरुषः । इति व्याकरणम् ॥ यथा हितो-
पदेशे ॥
“उद्योगिणं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति” ॥

कापेयः, त्रि, (कपेर्भावः कर्म्म वा । कपि + ढक् ।

कपिसम्बन्धी । इति हलायुधः ॥ (स्त्रियां प्रमाणं
यथा, गोः रामायणे । ६ । १११ । १९ ।
“कच्चिन्नु खलु कापेयी सैव ते चलचित्तता” ॥)

कापोतं, क्ली, (कपोतानां समूहः । अण् ।) कपोत-

गणः । इत्यमरः २ । ५ । ४७ । पायरार झाँक्
इति भाषा ॥ (कपोतस्येदम् । “तस्येदम्” । ४ ।
३ । १२० । इत्यण् । यथा भागवते । ९ । १८ । २५ ॥
“दुर्म्मना भगवान् काव्यः पौरहित्यं विगर्हयन् ।
स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात्” ॥
कापोतीं कपोतसम्बन्धिनीं वृत्तिं परवृत्त्युपजीवित्व-
मित्यर्थः ॥) सौवीराञ्जवम् । इति राजनिर्घण्टः ॥

कापोतः, पुं, (कपोत + अण् ।) सर्जिकाक्षारः ।

इत्यमर । २ । ९ । १०९ ॥ रुचकः । इति मेदिनी ।
कपोताभवर्णः । तद्वति त्रि । इति हेमचन्द्रः ॥

कापोताञ्जनं, क्ली, (कापोतञ्च तत् अञ्जनञ्चेति ।)

सौवीराञ्जनम् । स्रोतोञ्जनम् । इत्यमरः । २ । ९ । १०० ॥

काप्यकरः, पुं, (कुत्सितं आप्यं काप्यं पापं करोतीति ।

काप्य + कृ + ताच्छील्यादौ टः ।) स्वयं कृतं पापं
चित्ते आधाय यः कथयति सः । इति शब्दरत्ना-
वली ॥

काप्यकारः, पुं, (काप्यं करोतीति । काप्य + कृ + अण् ।

चित्ते पापं आधाय यः शसात सः । इति त्रिका-
ण्डशेषः ॥ श्वपापवक्ता । इति शब्दरत्नावली ॥

काफलः, पुं, (कुत्सितं फलं यस्य । कोः कादेशः ।)

कट्फलः । इति शब्दरत्नावली ॥

काम, व्य, अभ्यनुज्ञा । इति विश्वः ॥

कामं, क्ली, (कामाय हितम् । कम + अण् ।) रेतः ।

निकामः । काम्यम् । इति मेदिनी ॥ वाढम् । अनु-
मतिः । इति हेमचन्द्रः ॥ (यथा माघे २ । ४३ ।
“मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी)” ॥

कामः पुं, (काम्यते असौ कर्म्मणि घञ् ।) काम्य

पृष्ठ २/०८६
:इच्छा । इति हेमचन्द्रः ॥ (यथा मनुः २ । ९४ ।
“न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्तेव भूय एवाभिवर्द्धते” ॥)
कामस्तु ब्रह्मणो हृदयाज्जातः । यथा ।
“हृदि कामो भ्रुवोः क्रोधो लोभश्चाधोरदच्छदात्” ।
इति श्रीभागवतम् ॥ (काम्यते इति । कर्म्मार्थे घञ्
वरः । यथा रघुः २ । ६५ ।
“सन्तानकामाय तथेति कामं
राज्ञे प्रतिश्रुत्य पयस्विनी सा” ॥
कामं वरं प्रतिश्रुत्य प्रतिज्ञाय इत्यर्थः ॥ मनोरथः ।
यथा तत्रैव ३ । ६७ ।
“तथेति कामं प्रतिशुश्रुवान्
रघोर्यथागतं मातलिसारथिर्ययौ” ॥
महादेवः । यथा महाभारते । १३ । १७ । ४१ ।
“गणकर्त्ता गणपतिर्दिग्वासाः काम एव च” ॥
विष्णुः । यथा तत्रैव १३ । १४९ । ४५ ।
“कामहाकामकृत् कान्तः कामः कामप्रदः प्रभुः” ॥)
बलदेवः । इति शब्दरत्नावली ॥ महाराजचूतः ।
इति राजनिर्घण्टः ॥ कामदेवः । (यथा कुमारे
३ । ६४ ।
“कामस्तु वाणावसरं प्रतीक्ष्य
पतङ्गवद्वह्निमुखं विविक्षुः” ॥)
स तु श्रीकृष्णपुत्रः । तत्पर्य्यायः । मदनः २ मन्मथः
३ मारः ४ प्रद्युम्नः ५ मीनकेतनः ६ कन्दर्पः ७
दर्पकः ८ अनङ्गः ९ पञ्चशरः १० स्मरः ११ शम्ब-
रारिः १२ मनसिजः १३ कुसुमेषुः १४ अनन्यजः
१५ पुष्पधन्वा १६ रतिपतिः १७ मकरध्वजः १८
आत्ममूः १९ ब्रह्मसूः २० विश्वकेतुः २१ । इत्यमरः
१ । १ । २६--२८ ॥ * ॥ स तु पञ्चाशद्विधो यथा ।
कामः १ कामदः २ कान्तः ३ कान्तिमान् ४
कामगः ५ कामचारः ६ कामी ७ कामुकः ८
कामवद्धनः ९ रामः १० रमः ११ रमणः १२
रतिनाथः १३ रतिप्रियः १४ रात्रिनाथः १५
रमाकान्तः १६ रममाणः १७ निशाचरः १८
नन्दकः १९ नन्दनः २० नन्दी २१ नन्दयिता २२
पञ्चवाणः २३ रतिसखः २४ पुष्पधन्वा २५ महा-
धनुः २६ भ्रामणः २७ भ्रमणः २८ भ्रममाणः २९
भ्रमोऽपरः ३० भ्रान्तः ३१ भ्रामकः ३२ मृङ्गः ३३
भ्रान्तचारः ३४ भ्रमावहः ३५ मोहनः ३६
मोहकः ३७ मोहः ३८ मोहवर्द्धनः २९ मदनः
४० मन्मथः ४१ मातङ्गः ४२ भृड्गनायकः ४३
गायनः ४४ गीतिजः ४५ नर्त्तकः ४६ खेलकः ४७
उन्मत्तोन्मत्तकः ४८ विलासः ४९ लोभवर्द्धनः ५० ॥
“दाडिमीकुसुमाभाश्च वामाङ्के शक्तिसंयुताः ।
सौम्या रक्ताम्बराः सर्व्वे पुष्पवाणेक्षुकार्म्मुके ॥
बिभ्राणाः सर्व्वभूषाढ्याः कामाः पञ्चाशदीरिताः” ।
इति शारदातिलकटीकायां राघवसट्टः ॥ तेषा-
मेकपञ्चाशत्शक्तयो रतिशब्दे द्रष्टव्याः ॥ * ॥
तस्य स्थानानि यथा ।
“पादे गुलफे तथोरौ च भगे नाभौ कुचे हृदि ।
कक्षे कण्ठे च ओष्टे च गण्डे नेत्रे श्रुतावपि ।
ललाटे शीर्षकेशेषु कामस्थानं तिथिक्रमात् ॥
दक्षे पुंसां स्त्रिया वामे शुक्ले कृष्णे विपर्य्ययः ॥
पादाङ्गुष्ठे प्रतिपदि द्वितीयायाञ्च गुल्फके ।
ऊरुदेशे तृतीयायां चतुर्थ्यां भगदेशतः ॥
नाभिस्थाने च पञ्चम्यां षष्ठ्यान्तु कुचमण्डले ।
सप्तम्यां हृदये चैव अष्टम्यां कक्षदेशतः ॥
नवम्यां कण्ठदेशे च दशम्यां चोष्ठदेशतः ।
एकादश्यां गण्डदेशे द्वादश्यां नयने तथा ॥
श्रवणे च त्रयोदश्यां चतुर्द्दश्यां ललाटके ।
पौर्णमास्यां शिखायाञ्च ज्ञातव्यञ्च इति क्रमात् ॥
यत्र स्थाते वसेत् कामस्तथैव नखचुम्बनम् ।
मन्त्रेणानेन कर्त्तव्यं ज्ञातव्यं रतिकोविदैः” ॥
इति स्मरदीपिका ॥ मन्त्रस्तु प्रणवादिसविन्दुप्र-
त्येकषोडशस्वरयुक्तनमोऽन्तप्रत्येकचन्द्रषोडशकला-
रूपः ॥ उत्पन्नमात्रशरीरिषु कामस्यानुत्पत्ति-
कारणं यथा । मार्कण्डेय उवाच ।
“ब्रह्मापि तनयां सन्ध्यां दृष्ट्वा पूर्ब्बमथात्मनः ।
कामायाशु मनश्चक्रे त्यक्त्वा सा च सुतेति वै ॥
तस्याश्च चलितं चित्तं कामवाणविलोडितम् ।
ऋषीणां प्रेक्षतां तेषां मानसानां महात्मनाम् ॥
मर्गस्य वचनं श्रुत्वा सोपहासं विधिं प्रति ।
आत्मनश्चलचित्तत्वममर्य्यादमृषीन् प्रति ॥
कामस्य तादृशं भावं मुनिमोहकरं मुहुः ।
दृष्ट्वा सन्ध्या स्वयं तत्र त्रपामापातिदुःखिता ॥
ततस्तु ब्रह्मणा शप्ते मदने तदनन्तरम् ।
अन्तर्भूते विधौ शम्भौ गते चापि निजास्पदे ॥
अभर्षवशमापन्ना सन्ध्या ध्यानपराभवत् ।
ध्यायन्ती क्षणमेवात्र पूर्ब्बवृत्तं मनस्विनी ॥
इदं विममृषे सन्ध्या तस्मिन् काले यथोदितम् ।
उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः ॥
अकार्षीत्सानुरागोऽयमभिलाषं पितामहः ।
दृष्ट्वैव माममर्य्यादं सकाममभवन्मनः ॥
ममापि मथितं चित्तं मदनेन दुरात्मना ।
येन दृष्ट्वा मुनीन् सर्व्वांश्चलितं मन्मनो भृशम् ॥
फलमेतस्य पापस्य मदनः खयमाप्तवान् ।
यत्तं शशाप कुपितः शम्भोरग्रे पितामहः ॥
ममोचितं फलमहमाप्तुमिच्छामि साम्प्रतम् ।
यन्मां पिता भ्रातरश्च सकामामपरोक्षतः ॥
दृष्ट्वा चक्रुः स्पृहां तस्मान्न मत्तः कापि पापकृत् ।
ममापि कामभावोऽभूदमर्य्यादं समीक्ष्य तान् ॥
पत्याविव स्वके ताते सर्व्वेषु सहजेष्वपि ।
करिष्याम्यस्य पापस्य प्रायश्चित्तमहं स्वयम् ॥
आत्मानमग्नौ होष्यामि वेदमार्गानुसारतः ।
किन्त्वेकां स्थापयिष्यामि मर्य्यादामिह भूतले ॥
उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः ।
एतदर्थमहं कृत्वा तपः परमदारुणम् ॥
मर्य्यादां स्थापयित्वैव पश्चात् त्यक्ष्यामि जीवितम् ।
यस्मिन् शरीरे पित्रा मे ह्यभिलासः स्वयं कृतः ॥
भ्रातृमिस्तेन कायेन किञ्चिन्नास्ति प्रयोजनम् ।
येन स्वेन शरीरेण तातेऽथ सहजे स्वके ॥
उद्भावितः काममावी न तत्सुकृतसाधनम् ।
इति संचिन्त्य मनसा सन्ध्या शैलवरं ततः ।
जगाम चन्द्रभागाख्यं चन्द्रभागा यतः सृता ॥
तया स शैलः समधिष्ठितः सदा
सौवर्णगौर्य्यादिसमप्रभाभृता ।
सोमेन सन्ध्यासमयोदितेन
यथोदयाद्रिर्व्विरराज शश्वत्” ॥
इति कालिकापुराणे १९ अध्यायः ॥ * ॥
मार्कण्डेय उवाच ।
“अथ तस्याः शरीरन्तु वल्कलाजिनसंवृतम् ।
परिक्षीणं जटाव्रातैः पवित्रं मूर्द्ध्नि राजितम् ॥
हिमानीतर्ज्जिताम्भोजसदृशं वदनं तदा ।
निरीक्ष्य कृपयाविष्टों हरिः प्रोवाच तामिदम्”
श्रीभगवानुवाच ।
“प्रीतोऽस्मि तपसा भद्रे भवत्याः परमेण वै ।
स्तवेन च शुभे प्रज्ञे वरं वरय साम्प्रतम् ॥
येन ते विद्यते कार्य्यं वरेणास्ति मनोगतम् ।
तत् करिष्ये च भद्रं ते प्रसन्नोऽहं तव व्रतैः” ॥
सन्ध्योवाच ।
“यदि देव प्रसन्नोऽसि तपसा मम संप्रति ।
वृतस्तदायं प्रथमं वरो मम विधीयताम् ॥
उत्पन्नमात्रा देवेश प्राणिनोऽस्मिन् भुवःस्थले ।
न भवन्तु क्रमेणैव सकामाः सम्भवन्तु वै” ॥
श्रीभगवानुवाच ।
“प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः ।
तृतीयो यौवनो भावश्चतुर्थं वार्द्धकं तथा ॥
तृतीयेष्वथ संप्राप्ते वयोभागे शरीरिणः ।
सकामाः स्युर्द्वितीयान्ते भविष्यन्ति क्वचित् क्वचित् ॥
तपसा तव मर्य्यादा जगति स्थापिता मया ।
उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः” ॥
इत्यादि श्रीकालिकापुराणे २२ अध्यायः ॥ * ॥
अभिलाषः । तस्य रजोगुणादुत्पत्तिर्यथा, --
“काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्” ॥
इति श्रीभगवद्गीतायां ३ । ३७ ॥

कामकला, स्त्री, (कामस्य कला प्रिया ।) रतिः ।

कामदेवपत्नी । इति शब्दरत्नावली ॥ चन्द्रस्य याः
षोडशकलास्ता एव कामकलाः ॥

कामकूटः, पुं, (काम एव कूटं प्रधान यस्य ।) वेश्या

प्रियः । वेश्याविम्बमः । इति मेदिनी ॥

कामकेलिः, त्रि, (कामे तद्धेतुकरतौ केलिर्यस्य ।)

षिङ्गः । इति त्रिकाण्डशेषः ॥ (कामनिमित्ता
केलिः ।) सुरते पुं । इति हेमचन्द्रः ॥

कामखड्गदला, स्त्री, (कामं कमनीयं खङ्ग इव दलं

पत्रं यस्याः ।) स्वर्णकेतकी । इति राजनिर्घण्टः ॥

कामगामी, [न्] त्रि, (कामं यथेष्टं योनिविचारम-

कुर्व्वन्नेव वा गच्छतीति । काम + गम + णिविः ।)
कामङ्गामी । स्वेच्छागमनशोलः । इत्यमरटीका ॥

कामगुणः, पुं, (कामकृतो गुणः ।) रागः । विषयः

आभोगः । इति मेदिनी ॥

कामङ्गामी, [न्] त्रि, (कामं यथेच्छं गमनशीलः ।

सुपीति णिनिः । काममत्राव्ययम् ।) स्वेच्छागमन-
शीलः । तत्पर्य्यायः । अनुकामीनः २ । इत्यमरः ॥
२ । ८ । ७६ ॥

कामचारी, [न्] त्रि, (कामेन स्वेच्छया चरति ।

पृष्ठ २/०८७
:काम + चर + णिनिः ।) कामुकः । (यथा
“पुरन्दरं च जानीते परस्त्रीकामचारिणम्” ॥
इति महाभारतम् ॥) स्वच्छन्दः ॥ कलविङ्कः । इति
मेदिनी ॥

कामचारी, [न्] पुं, (कामेन इच्छानुसारेण चरति

विहरति । काम + चर + णिनिः ।) गरुडः ।
इति शब्दरत्नावली ॥

कामजानः, पुं, (कामं जनयति कुहुध्वनिना । काम

+ जन + णिच् + अच् । निपातनात् न ह्रस्वः ।
यद्वा कामजं कन्दर्पभावं आनयति । कामज +
आ + नी + ड ।) कोकिलः । इति शब्दरत्ना-
वली ॥ कामजनि इति च पाठः ॥

कामतालः, पुं, (कामं तालयति प्रतिष्ठापयति ।

काम + तलप्रतिष्ठायां + णिच् + अण् ।) को-
किलः । इति त्रिकाण्डशेषः ॥

कामदः, त्रि, (कामं अभिलाषं ददाति । काम + दा +

कः ।) कामदाता । अभिलाषदः । इति मेदिनी ॥
(यथा हेः रामायणे २ । ३३ । ७ ।
“ऐश्वर्य्यस्य रसज्ञः सन् कामानाञ्चैव कामदः” ॥
कामं कामस्य रूपं स्वसौन्दर्य्येण द्यति अवखण्ड-
यतीति । यद्वा कामं मदनं द्यति नाशयतीति ।
ऊर्द्ध्वरेतस्त्वादस्य तथात्वम् । काम + दो + कः ।
कार्त्तिकेयः । यथा, महाभारते ३ । २३१ । ४ ।
“कामजित् कामदः कान्तः सत्यवाग्मुवनेश्वरः” ॥)

कामदा, स्त्री, (कामं अभीष्टं ददाति या । काम + दा

+ कः + टाप् ।) कामधेनुः । इति मेदिनी ॥

कामदुघा, स्त्री, (कामं दोग्धि । काम + दुह +

“इगुपधज्ञाप्रीकृषः कः” । ३ । १ । १३५ । इति
कः । ततष्टाप् ।) कामधेनुः । इति मुग्धबोधव्या-
करणम् ॥ (यथा, मागवते १ । १० । ४ ।
“कामं ववर्ष पर्जन्यः सर्व्वकासदुघा मही” ॥)

कामदूतिका, स्त्री, (कामस्य उद्दीपकत्वात् दूतिकेव ।)

नागदन्तीवृक्षः । इति रत्नमाला ॥

कामदूती, स्त्री, (कामस्य दूतीव कामोद्दीपकत्वात् ।)

पाटलावृक्षः । इति शब्दरत्नावली ॥

कामधरः, पुं, (कामरूपं कामस्य संज्ञां वा धरति

धारयति वा । काम + धृ + अच् ।) कामरूपस्य
मत्स्यध्वजपर्व्वतस्थसरोवरः । यथा, --
“मणिकूटाचलात् पूर्ब्बं मत्स्यध्वजकुलाचलः ।
निर्द्दग्धो यत्र मदनो हरनेत्राग्निना पुनः ॥
शरीरं प्राप्य तपसा समाराध्य वृषध्वजम् ।
तत्र मत्स्यस्वरूपस्तु कामदेवेन संस्थितः ॥
अधित्यकायां पृथिवीं वीक्ष्यमाणः समन्ततः ।
तदा तु शाश्वती नाम तत्रास्ते दक्षिणस्रवा ॥
सरः कामधरो नाम तस्मिन् शैले व्यवस्थितः ।
शाश्वत्यां विधिवत् स्रात्वा पीत्वा कामधराम्भसि ॥
विमुक्तपापः शुद्धात्मा शिवलोके महीयते” ॥
इति श्रीकालिकापुराणे ८१ अध्यायः ॥

कामधेनुः, स्त्री, (कामप्रतिपादिका धेनुः ।) स्वनाम-

ख्यातगौः । तस्या उत्पत्तिर्यथा, --
“दक्षस्य तनया याभूत् सुरभिर्नाम नामतः ।
गवां माता महाभागा सर्व्वलोकोपकारिणी” ॥
तस्यान्तु तनया जज्ञे कश्यपात्तु प्रजापतेः ।
नाम्ना सा रोहिणी शुभ्रा सर्व्वकामदुघा नृणाम् ॥
तस्यां जज्ञे शूरसेनाद्वसोरतितपोज्ज्वलात् ।
कामधेनुरिति ख्याता सर्व्वलक्षणसंयुता” ॥
“तस्यां जज्ञे शुनःशेफान्मुनेरतितमोज्ज्वलात्” ।
इति पुस्तकान्तरे पाठः ॥
“सा सिताभ्रप्रतीकाशा चतुर्व्वेदचतुष्पदा ।
स्तनैश्चतुर्भिर्धर्म्मार्थकामाप्रसवकारिणी” ॥ * ॥
तस्या गर्भे शिववाहनवृषोत्पत्तिर्यथा, --
“सा स्वयम्भुशरीरात्तु कालेन महता सती ।
निर्म्मलं यौवनं कामधेनुराप मनोहरम् ॥
तां चरन्तीं मेरुपृष्ठे चारुरूपां मनोहराम् ।
ददर्श स तु वेतालः कामुकश्चाभ्यपद्यत ॥
तं कामुकन्तु वेतालं विदित्वा कामधेनुका ।
पशुधर्म्मात् स्वयं भेजे तं पुत्त्रं शशभृद्भृतः ॥
सोऽवाप तस्यां परममामोदं शङ्करात्मजः ।
सा चापि परमं तस्मिन् मदनात् प्रतिहर्षिता ॥
तयोः प्रवृत्ते सुरते तस्या गर्भोऽभवत्तदा ।
काले प्राप्ते तु सुसुवे कामधेनुर्म्महाबृषम् ॥
सोऽचिरेणैव कालेन सुमहान् वृषभोऽभवत् ।
भहाककुदसंयुक्तश्चारुशृङ्गद्वयान्वितः ॥
उत्क्षिप्तविचलत्कर्णयुगलो दीर्घवालधिः ।
ककुदेन च शृङ्गाभ्यां कर्णाभ्यां स सिताभ्रवत् ॥
विचरन् ददृशे देवैः शृङ्गैरिव हिमाचलः ।
वेतालस्त्वकरोत्तस्य नाम भृङ्ग इति द्विजाः ! ॥
स तु भृङ्गो ज्ञानशाली समाराधयदीश्वरम् ।
सोऽपि तुष्टो वरं तस्मै ददाविष्टं महेश्वरः ॥
तमेव वाहनं चक्रे कृत्वा देवतनुं वृषम् ।
स चिरायुश्च बलवान् पृथिवीधरणक्षमः ॥
भृङ्गो नाम महातेजाः केतुश्चाप्यभवत् पतेः ।
भृङ्गोऽभूद्वाहनो यस्माच्छङ्करस्य महावृषः ॥
अतो भृङ्गिरिति ख्यातिं स च प्राप महेश्वरात्” ॥
इति श्रीकालिकापुराणे ९१ अध्यायः ॥ * ॥
अमीवृप्रदा धेनुः । तद्दानफलं यथा, --
“वर्षो हरिः सर्व्व एव पवित्र-
स्तत्रापि वर्षे शरदेव शुद्धा ।
तस्यां शुभः कार्त्तिको नाम मास-
स्तत्रापि पुण्यो हि बभूव दर्शः ॥
यम्यां हरेर्द्दैत्यमयाद्विमुक्ता
उरःस्थलं प्राप्य सुखं सुशेते ।
लक्ष्मीः पुराद्यापि विनिर्म्मिता वै
कामप्रदा धेनव एव यत्र ॥
अहर्मुखे यत्र दिने समस्ताः
सुधेनवो भूमितले भ्रमन्ति ।
गृहे न यस्मिन् कथयन्ति लीलां
हानिः क्षयस्तत्र च प्रत्ययो मे ॥
तस्मात्त्वमत्रैव च कामधेनुं
दद्याः समुद्दिश्य तु केशवस्य ।
विप्राय वै सर्व्वगुणोपपन्नां
कृत्वा व्रतं कृच्छ्रमतो हरेस्तु ॥
सम्यक् प्रदत्तैस्तु गवां सहस्वैः
सवत्सवस्त्रैः सहितैश्च हेम्ना ।
काले फलं यल्लभते मनुष्यो
न कामधेनोश्च समं द्विजेभ्यः ॥
कन्यारथानां करिवाजियुक्तै
शतैः सहस्रैः सततं द्विजेभ्यः ।
दत्तैः फलं यल्लभते मनुष्यः
समं तथा स्यान्नतु कामधेनोः” ॥ * ॥
तद्भेदाः तद्दानविधिश्च यथा, --
“नन्दा सुनन्दा सुरभी सुशीला सुमनास्तथा ।
निर्गता मथ्यमानेऽब्धौ उषःस्नानं शुभप्रदम् ॥
तत्र स्नात्वा समभ्यर्च्च्य धेनुं पूज्य प्रयत्नतः ।
गोदानफलमाप्नोति नरो विगतकल्मषः ॥
एकादश्यामुपोष्याथ नरो दिनचतुष्टयम् ।
घृतेन स्नापयेद्विष्णुं गव्येन पयसापि वा ॥
नक्ताशी गोरसैर्हव्यैः पूजयेन्मधुसूदनम् ।
गन्धपुष्पैः सुनैवेद्यैर्वस्त्राभरणकुण्डलैः ॥
शङ्खासिचक्रोद्यतबाहुविष्णो-
र्गदाब्जहस्तस्य तु शङ्खपाणेः ।
अर्घं प्रयच्छामि जनार्द्दनस्य
श्रिया युतस्यापि धराधरस्य ॥
श्रियः पतिं श्रीधरमेव कान्तं
श्रियाः सखायं हि श्रियोऽधिमूलम् ।
नमाम्यहं श्रीधरं श्रीनिवासं
समर्च्चितो मे प्रददातु कामान् ॥
एवं पूज्य विधानेन श्रिया युक्तैस्तु नामभिः ।
पृथक् जागरणं कुर्य्यात् श्रिया सार्द्धं जगत्पतेः ॥
या देवी भार्गवं भेजे कुलंसर्व्वत्र पूजिता ।
आयातु सा गृहं नन्दा सुप्रीता वरदा मम ॥
याङ्गिरसञ्च सा देवी सुनन्दा प्रत्युपस्थिता ।
आयातु मे गृहे सा तु सुप्रीता वरदा सती ॥
सुरभी या भरद्वाजं कामधेनुः सुकामदा ।
सदाभवद्गृहं सात्र ममायातु सुरार्च्चिता ॥
सुशीला कश्यपं या तु भेजे सर्व्वत्र कामदा ।
सा मे भवतु सुप्रीता कामधेनुर्गृहे सदा ॥
सुमना या वशिष्ठन्तु संप्राप्य मुमुदे शुभा ।
सा मे गृहं सदायातु कामदा देवपूजिता ॥
एवं पूज्य विधानेन प्रभाते विमले शुभे ।
शुक्लाम्बरधरः स्नातः शुक्लमाल्यानुलेपनः ॥
कृतनित्यक्रियो हृष्टः कुण्डलाङ्गदभूषितः ।
अनुलिप्ते महीपृष्ठे कृष्णाजिनसुसंस्तृते ॥
तिलप्रस्थेन चाकीर्णे चतुःस्वर्णविभूषिते ।
क्षौमवस्त्रान्विते शुभ्रे मध्वाज्यपात्रसंयुते ॥
शुभवस्त्रैः समावृत्य सर्व्वरत्नैरलङ्कृताम् ।
सुवर्णशृङ्गीं सुखुरां चतुःस्वर्णां मनोरमाम् ॥
क्षीराब्धिपयसोपेतां धेनुं मन्त्रैः प्रपूजयेत् ।
या धेनुः सर्व्वदेवानां ऋषीणां भावितात्मनाम् ॥
क्षीराब्धेर्निर्गता या च सा मे भवतु सुस्थिरा ।
घृतक्षीराभिषेकञ्च कृत्वा विष्णोः प्रयत्नतः ॥
समभ्यर्च्च्य यथान्यायं गन्धपुष्पादिभिः क्रमात् ।
गावो ममाग्रतः सन्तु गावः पार्श्वे च पृष्ठतः ॥
गावो मे हृदये नित्यं गवां मध्ये वसाम्यहम् ।
प्राङ्मुखोदङ्मुखो वापि सितयज्ञोपवीतिनीम् ॥
इमां त्वं प्रतिगृह्वीष्व देवदेव ! जगत्पते ॥
पृष्ठ २/०८८
:सवत्सालड्कृतां धेनुं गोविन्द ! प्रीयतामिति ॥
एवं विप्राय तां दद्यात् कृत्वा चैव प्रदक्षिणम् ।
अनुव्रजेच्च गच्छन्तं पदान्यष्टौ नराधिप ! ॥
अनेन विधिना यस्तु कामधेनुं प्रयच्छति ।
सर्व्वकामसमृद्धार्थः स्वर्गलोकञ्च गच्छति ॥
किं दत्त्वा शतशोर्वीन्तु राहुग्रस्ते दिवाकरे ।
तत्फलं प्राप्यते राजन् कामधेन्वा यदश्नुते” ॥
इत्याद्ये बह्निपुराणे कामधेनुप्रदाननामाध्यायः ॥ * ॥
अन्यत् वाल्मीकीयरामायणे बालकाण्डे ५३ सर्गे
महाभारते १ । १०१ अध्याये च द्रष्टव्यम् ॥ * ॥
अथ कामधेनुमहादानम् ।
“अथातः संप्रवक्ष्यामि कामधेनुविधिं परम् ।
सर्व्वकामफलं नॄणां महापातकनाशनम् ॥
लोकेशावाहनं तद्वद्धोमकर्म्माधिवासनम् ।
तुलापुरुषवत्कार्य्यं कुण्डमण्डपवेदिकम् ॥
स्वल्पे ह्येकाग्निवत् कुर्य्यात् गुरुरेव समाहितः ।
काञ्चनस्यातिशुद्धस्य धेनुं वत्सञ्च कारयेत्” ॥
धेनुं वत्सञ्चेत्यनेन धेन्वर्थोपात्तसुवर्णेनैव स्वे-
च्छया वत्सकल्पनमुक्तम् ॥
“उत्तमा पलसाहस्री तदर्द्धेन तु मध्यमा ।
कनीयसी तदर्द्धेन कामधेनुः प्रकीर्त्तिता ॥
शक्तितस्त्रिपलादूर्द्ध्वमशक्तोऽपीह कारयेत् ।
वेद्यां कृष्णाजिनं न्यस्य गुडप्रस्थसमन्वितम् ॥
न्यसेदुपरि तां धेनुं महारत्नैरलङ्कृताम् ।
कुम्भाष्टकसमोपेतां नानाफलसमन्विताम्” ॥
महारत्नैरुत्कृष्टरत्नैः ॥
“तथाष्टादश धान्यानि समन्तात् परिकल्पयेत् ।
इक्षुदण्डाष्टकं तद्वन्नानाफलसमन्वितम् ।
भाजनञ्चासनं तद्वत्ताम्रदोहनकन्तथा ॥
कौषेयवस्त्रद्वयसंप्रयुक्तां
दीपातपत्राभरणाभिरामाम् ।
सचामरां कुण्डलिनीं सघण्टां
मणित्रिकां चन्द्रकरौप्यपादाम्” ॥
मणित्रिका अक्षमाला ।
“रसैश्च सर्व्वैः पुरतोऽभिजुष्टां
हरिद्रया पुष्पफलैरनेकैः ।
अजाजिकुस्तुम्बुरुशर्कराभि-
र्व्वितानकञ्चोपरि पञ्चवर्णम्” ।
रसैः सर्व्वैरिति लवणादिभिः षड्भिः । अजाजी
जीरकः । कुस्तुम्बुरु धन्याकम् ॥
“स्नातस्ततो मड्गलवेदघोषैः
प्रदक्षिणीकृत्य सपुष्पहस्तः ।
आवाहयेत्तां गुडधेनुमन्त्रै-
र्द्विजाय दद्यादथ दर्भपाणिः” ॥
बहुतरमत्स्यपुराणपुस्तकेषु गुडधेनुमन्त्रैरिति
पाठदर्शनात् गुडधेनूक्तया लक्ष्मीरित्यादिमन्त्र-
पाठश्चात्र कर्त्तव्यः । द्विजाय दद्यादिति श्रुतेः
कृत्स्नैव कामधेनुर्गुरवे देया ऋत्विग्भ्यस्तु दक्षि-
णामात्रम् ॥
“त्वं सर्व्वदेवगणमन्दिरमङ्गभूता
विश्वेश्वरत्रिपथगोदधिपर्व्वतानाम् ।
तद्दानशस्त्रशकलीकृतपातकौघः
प्राप्तोऽस्मि निर्वृतिमतीव परां नमामि ॥
लोके यथेप्सितफलार्थविधायिनीं त्वा-
मासाद्य को हि भवदुःखमुपैति मर्त्यः ।
संसारदुःखशमनाय यतस्व कामं
त्वां कामधेनुमिति देवगणा वदन्ति ॥
आमन्त्र्य शीलकुलरूपगुणान्विताय
विप्राय यः कनकधेनुमिमां प्रदद्यात् ।
प्राप्नोति धाम स पुरन्दरदेवजुष्टं
कन्यागणैः परिवृतः पदमिन्दुमौलेः” ॥ * ॥
अत्र यजमानः समुपजातकामधेनुमहादानेच्छः
तुलापुरुषलिखितं खङ्गचर्म्ममयाच्छन्नसन्नाहतुला-
पुरुषस्थापनीयहरिप्रतिमासालङ्गारतुलाहस्तप्ना-
प्तप्रतिमावहिःसर्व्वसम्भारमधिकत्वेन सुवर्णपल-
सहस्रनिर्म्मितामुत्तमां सुवर्णपलशतपञ्चकनिर्म्मि-
तां मध्यमां सुवर्णसार्द्धपलशतद्वयनिर्म्मितां कनी-
यसीं अशक्तौ पलत्रयादूर्द्ध्वं यथाशक्त्युपात्तसुवर्ण-
घटितामुत्कृष्टरत्नालङ्कृतां सवत्सां धेनुम् । धेन्व-
वस्थापनार्थं कृष्णाजिनं गुडप्रस्थञ्च धेन्वलङ्करणार्थं
यथेच्छकाञ्चनघटितचन्द्रतिलकललाटपट्टिकाकुण्ड-
लयुगघण्टारौप्यखुरचतुष्टयस्फाटिकाक्षमालाचा-
मराणि । धेन्वाच्छादनार्थं कौषेयवस्त्रयुगम् । धेनु-
पार्श्वस्थापणार्थं कुम्भाष्टकातिप्रचुरविविधफला-
ष्टादशधान्येक्षुदण्डाष्टककांस्यपात्रासनताम्रदोह-
नदीपसामग्रीछत्रपादुकायुगानि । धेन्वग्रतः स्था-
पनार्थं मधुरादिरसषट्कहरिद्रानानाविधकुसु-
मार्हणद्रव्यजीरकधन्याकशर्कराश्चोत्पादयेत् ।
ततस्तुलापुरुषोक्तसमयानामन्यतमस्य पूर्ब्बतरदिने
गुर्वृत्विग्यजमानजापकास्तुलापुरुषबद्धविष्यभोज-
नादिकं कृत्वा निवेदनसङ्कल्पवाक्ययोस्तुलापुरुष-
पदस्थाने हिरण्यकामधेनुपदं प्रक्षिप्य निवेदनं
सङ्कल्पञ्च कुर्य्युः । अपरदिने च यजमानस्तुलापु-
रुषवद्गोविन्दाद्याराधनादिमधुपर्कदानान्तं गो-
विन्दाद्यभ्यर्च्चनब्राह्मणानुज्ञापनदानसंकल्पपूण्याहा-
दिवाचनवरणवाक्येषु तुलापुरुषपदस्थाने हिरण्य-
कामधेनुपदं प्रक्षिप्य कुर्य्यात् । ततो गुर्वृत्विग्-
यजमानजापका उपवसेयुः । अपरदिने च कृत-
नित्यास्तुलापुरुषवदग्निस्थापनादिमध्यब्राह्मणवाच-
नान्तं कर्म्म यथायथं कुर्य्युः । एवञ्च मध्यब्राह्मण-
वाचनान्तं कर्म्म तुलापुरुषग्रन्थमनुसन्धायानुष्ठा-
तव्यम् । तत ऋत्विजः सवत्सां धेनुं प्रधानवेदी-
मध्यलिखितचक्रोपरि कृष्णाजिनमास्तीर्य्य तदुपरि
गुडप्रस्थं निधाय तत्रारोप्य पूर्ब्बोक्तालङ्कारैरलङ्कृत्य
कौषेयवस्त्रयुगेनाच्छाद्य धेनुपार्श्वे च पूर्णकुम्भाष्टकं
नानाविधफलानि अष्टादशधान्यानि रत्ननानावि-
धफलमिक्षुदण्डाष्टककांस्यभाजनपट्टिकाताम्रदो-
हनदीपातपत्रपादुकायुगान्यारोपयेयुः । घेन्वग्रतः
मधुरादिरसषट्कहरिद्राविविधपुष्पार्हणसामग्री-
जीरकधन्याकशर्क्कराश्चारोप्य मङ्गलगीतवाद्यव-
न्दिघोषेषु यज्ञकुण्डसमीपस्थकुम्भचतुष्टयजलेन स्व-
स्ववेदोक्ताभिषेचनिकमन्त्रैर्यजमानं स्नापयेयुः ।
ततो यजमानः शुक्लमाल्याम्बरधरो धृतसर्व्वाल-
ङ्कारः कुशहस्तः पुष्पाञ्जलिमादाय कामधेनुं प्रद-
क्षिणीकृत्य या लक्ष्मीरित्यादि देवगणा वदन्ती-
त्यन्तं पठित्वा कामधेनुं पुष्पाञ्जलिना सम्पूज्य
गुरवे दद्यात् । तद्यथा, ओं अद्यामुकसगोत्राया-
मुकवेदामुकशाखाध्यायिने अमुकशर्म्मणे तुभ्यं
मत्स्यपुराणोक्तहिरण्यकामधेनुमहादानफलप्राप्ति-
कामोऽहं एतां कृष्णाजिनन्यस्तगुडप्रस्थारोपितां
उत्कृष्टरत्नसौवर्णचन्द्रतिलकपट्टककुण्डलयुगलघ-
ण्टारौप्यखुरस्फाटिकाक्षमालाचामरालंकृतां कौ-
षेयवस्त्रयुगाच्छादितां पूर्णकुम्भाष्टकनानाफलाष्टा-
दशधान्यफलसहितेक्षुदण्डाष्टककांस्यपात्रासनता-
म्रदोहनदीपछत्रपादुकायुगसर्व्वरसहरिद्रानाना-
विधकुसुमफलजीरकधन्याकशर्करायुतां पञ्चवर्ण-
वितानकसहितां सवाससां हिरण्यकामधेनुं
ददे । गुरुः स्वस्तीत्युक्त्वा सावित्रीं पठित्वा
हिरण्यकामधेनुरियं विष्णुदैवतेति उक्त्वा यथा-
शाखं कामस्तुतिं पठेत् । ततो गुर्वृत्विग्भ्यो
दक्षिणान्दद्यात् । ओं अद्य कृतैतद्दानदक्षिणा-
मिमां उत्पत्तियोग्यां भूमिमेतानि च रत्नानि
ददे । स्वस्तीति ब्राह्मणा ब्रूयुः । गुरुस्तु स्वस्त्यन-
न्तरं धेनुपुच्छं गृह्णीयात् । ततो यजमानस्तुला-
पुरुषवज्जापकेम्यो दक्षिणां दत्त्वा दीनानाथादीं-
स्तर्पयित्वा ब्राह्मणवाचनञ्च कृत्वा त्वरया गुरवे
कामधेनुं प्रतिपादयेत् । पलत्रयादूर्द्ध्वं यथाशक्ति
स्वल्पमहादानदाने तु गुरुरेव स्वगृह्योक्तविधिना
सर्व्वं ब्रह्माण्डवत् कुर्य्यात् ॥ इति हिरण्यकाम-
धेनुमहादानं समाप्तम् । इति दानसागरः ॥

कामध्वंसी, [न्] पुं, (कामं कन्दर्पं ध्वंसयतीति । काम

+ ध्वन्स् + णिच् + णिनिः ।) शिवः । इति ह-
लायुधः ॥

कामनः, त्रि, (कामयति इति । कम् + णिङ् +

युच् ।) कामुकः । इत्यमरः । २ । १ । २४ ॥

कामना, स्त्री, (कम + अनुदात्तादेश्चेति णिङ्न्तात्

भावे युच् टाप् च ।) इच्छा । इति हलायुधः ॥

कामन्धमी, [न्] पुं, (कामं यथेष्टं धमति । काम +

ध्मा + णिनिः । बाहुलकात् धमादेशः । निपात-
नात् मुमि साधुः ।) कांस्यकारः । इति जटाधरः ॥

कामपत्नी, स्त्री, (कामस्य पत्नी ।) रतिः । इति शब्द-

रत्नावली ॥

कामपालः, पुं, (कामान् पालयति । काम + पाल +

अण् ।) बलदेवः । इत्यमरः । १ । १ । २४ ॥

कामप्रदः, पुं, (कामं कामजरतिभेदं प्रददाति । काम

+ प्र + दा + कः ।) रतिबन्धविशेषः । यथा, --
“द्वौ पादौ स्कन्धसंलग्नौ क्षिप्त्बा लिङ्गं भगे तथा ।
कामयेत् कामुकः प्रीत्या बन्धः कामप्रदो हि सः” ॥
इति स्मरदीपिका ॥ (कामानां सर्व्वेषां पुरु-
षार्थाणां प्रदः । विष्णुः । यथा महाभारते । १३ ।
१४९ । ४५ ।
“कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः” ॥)

कामफलः, पुं, (कामं यथेष्टं फलमस्य ।) महाराजा-

म्रवृक्षः । इति दाजनिर्घण्टः ॥

कामम्, व्य (कमेर्णिजन्तात् अमु ।) अकामानुमतिः ।

इत्यमरः । ३ । ४ । १३ ॥ (यथा, शाकुन्तले ५ अङ्के
पृष्ठ २/०८९
:“महाभागः कामं नरपतिरभिन्नस्थितिरसौ
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते” ॥)
अनुमतिः । प्रकामम् । असूया । अनुगमनम् ।
इति मेदिनीकरहेमचन्द्रौ ॥

काममहः, पुं, (कामस्य महः उत्सवो यत्र ।) चैत्री

पूर्णिमा । इति त्रिकाण्डशेषः ॥

कामयिता, [ऋ] त्रि, (कामयते । कम् + णिच् +

तृच् ।) कामुकः । इत्यमरः । ३ । १ । २४ ॥

कामरूपः, पुं, (मूलप्रकृतिर्भगवती कामरूपिणी

सती यत्र देशे विराजमाना स देशस्तन्नाम्ना एव
उच्यते ।) स्वनामख्यातदेशः । तत्पर्य्यायः । प्राग्-
ज्योतिषः २ । इति त्रिकाण्डशेषः ॥ तत्र काम-
गिरौ योनिपीठे कामाख्या देवी वर्त्तते । यथा ।
“योनिपीठं कामगिरौ कामाख्या तत्र देवता” ।
“सर्व्वत्र विरला चाहं कामरूपे गृहे गृहे” ॥
इति तन्त्रचूडामणौ पीठमाला ॥ (अयं हि गणेश-
गिरिशिखरस्थो देशः । यदुक्तं तन्त्रे ।
“कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतम् ।
कामरूपाभिधो देशो गणेशगिरिमूर्द्ध्वनि” ॥
कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतं यावत् ॥
अयं खलु वङ्गदेशस्य ईशानभागे आसामप्रदेशस्य
पश्चिमभागे वर्त्तते ॥)

कामरूपः, त्रि, (कामं काम्यं मनोहरं रूपं यस्य ।)

मनोज्ञरूपः । स्वेच्छारूपः । (यथा महाभारते ।
१ । सुपर्णस्तुतौ २३ । ६ ।
“कामरूपः कामगर्भः कामबीर्य्यो विहङ्गमः” ॥)
तथा च । मेघदूते ६ ।
“जातं वंशे भूवनविदिते पुष्करावर्त्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः” ॥

कामरूपिणी, स्त्री, (कामं मनोज्ञं रूपं अस्त्यस्याः ।

कामरूप + इनि + ङीप् ।) अश्वगन्धावृक्षः ।
इति राजनिर्घण्टः ॥

कामरूपी, [न्] पुं, (कामं कमनीयं रुपमस्यास्तीति ।

कामरूप + इनिः ।) विद्याधरः । इति त्रि-
काण्डशेषः ॥ जाहकजन्तुः । इति राजनिर्घण्टः ॥
(कामेन स्वेच्छया रूपं धार्य्यत्वेनास्त्यस्य इनिः ।)
मनोज्ञरूपिणि स्वेच्छारूपिणि च त्रि । यथा, --
“सर्व्वमाशु विचेतव्यं हरिभिः कामरूपिभिः” ॥
इति रामायणम् ॥

कामरेखा, स्त्री, (कामानां कामव्यापाराणां रेखा चिह्नं

लक्षणं राजिर्वा यत्र ।) वेश्या । इति शब्दमाला ॥

कामलः, पुं, स्त्री, (कम + णिच् + कलच् ।) रोग-

विशेषः । काँओल कामला इति च प्रसिद्धिः ।
इति मेदिनी ॥ तस्य निदानसम्प्राप्ती यथा, --
“पाण्डुरोगी च योऽत्यर्थं पित्तलानि निषेवते ।
तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” ॥
तस्य लक्षणम् ।
“हारिद्रनेत्रः सुभृशं हारिद्रत्वङ्नखाननः ।
रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः ॥
दाहाविपाकदौर्ब्बल्यसदनारुचिकर्षितः ।
कामला बहुपित्तैषा कोष्ठशाखाश्रया मता ।
कालान्तरात् खरीभूता कृच्छ्रा स्यात्कुम्भकामला” ॥
तस्यारिष्टलक्षणम् ।
“कृष्णपीतशकृन्मूत्रो मृशं शूवश्च मानवः ।
सरक्ताक्षिमुखच्छर्द्दिविण्मूत्रो यश्च ताम्यति ॥
दाहारुचितृडानाहतन्द्रामोहसमन्वितः ।
नश्यति श्वासकासार्त्तो विड्भेदी कुम्भकामली” ॥
इति माधवकरः ॥

कामलः, पुं, (कामयते अभीष्टमस्मिन् । कम + अ-

धिकरणे + कलच् ।) वसन्तकालः । मरुभूमिः ।
(कामं लाति गृह्णातीति । काम + ला + कः ।) का-
मुके त्रि इति मेदिनी ॥

कामलता, स्त्री, (कामस्य लतेव ।) शिश्नः । इति

हेभचन्द्रः ॥

कामला, स्त्री, पुं, (कामल + टाप् ।) खनामख्यात-

रोगः । अथ पाण्डुरोगभेदस्य कामलाया निदान-
पूर्ब्बिकां संप्राप्तिमाह ।
“पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते ।
तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” ॥
पित्तं कर्तृ । दग्ध्वा संदूष्य । रोगाय कामला-
रूपाय । पाण्डुरोगिण एवातिशयितपित्तलसेवया
कामला भवति । नायं नियमः । किन्तु कामला
स्वतन्त्रापि भवति । यथा राजयक्ष्मा कासादुपे-
क्षिताद्भवति । नायं नियमः । किन्तु राजयक्ष्मा
स्वतन्त्रापि भवति । तद्वदेषापि ॥ * ॥
कामलाया लक्षणमाह ।
“हारिद्रनेत्रः सुभृशं हारिद्रत्वङ्नखाननः ।
पीतरक्तशकृन्मूत्रो भेकवर्णो हतेन्द्रियः ॥
दाहाविपाकदौर्ब्बल्यसदनारुचिकर्षितः” ॥
हारिद्रं हरिद्रावर्णम् । पीतरक्तशकृन्मुत्रः । पीते
रक्ते वा शकृन्मूत्रे यस्य सः । भेकवर्णः वृहद्भेक-
वर्णः । तस्या भेदावाह । “कामला बहुपित्तैषा
कोष्ठशाखाश्रया मता” । एषा कोष्ठाश्रया अपरा
शाखाश्रया । तत्र कोष्ठकामलामाह । “कालान्त-
रात् खरीमूता कृच्छ्रा स्यात् कुम्भकामला” ।
कालान्तरात् खरीभूता अतिरूक्षीकृतसर्व्वधातुः ।
कुम्भकामला कोष्ठकामलेत्यर्थः । सा कृच्छ्रा कष्ट-
साध्या ॥ * ॥ कुम्भकामलिनोऽरिष्टलक्षणमाह ॥
“छर्द्यरोचकहृल्लासज्वरक्लमनिपीडितः ।
नश्यति श्वासकासार्त्तो विड्भेदी कुम्भकामली” ॥
उभयोरपि कामलयोररिष्टलक्षणमाह ।
“कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानवः ।
सरक्ताक्षिमुस्वच्छर्द्दिविन्मूत्रो यश्च ताम्यति ॥
दाहारुचितृडानाहतन्द्रामोहसमन्वितः ।
नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान् विपद्यते” ॥ * ॥
अथ कामलाचिकित्सा ।
“त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसः ।
प्रातर्म्माक्षिकसंयुक्तः शीतलः कामलापहः ॥
अञ्जने कामलार्त्तानां द्रोणीपुष्पीरसी हितः ।
गुडूचीपत्रकल्कं वा पिबेत्तक्रेण कामली ॥
धात्रीलोहरजोव्योषनिशाक्षौद्राज्यशर्कराः ।
लीढा निवारयन्त्याशु कामलामुद्धतामपि ॥
कुम्भाख्यकामलायान्तु हितः कामलिको विधिः ।
गोमूत्रेण पिबेत् कुम्भकामलायां शिलाजतु ॥
दग्ध्वाक्षकाष्ठैर्मलमायसन्तु
गोमूत्रनिर्व्वापितमष्टवारान् ।
विचूर्णलीढं मधुनाचिरेण
कुम्भाह्वयं पाण्डुगदं निहन्ति” ॥
इति भावप्रकाशः ॥ * ॥
“मरीचतिलपुष्पाभ्यामञ्जनं कामलापहम्” ॥
इति गारुडे १८७ अध्यायः ॥
“तण्डुलीयकगोक्षुरमूलं पीतं पयोऽन्वितम् ।
कामलादिहरं प्रोक्तं मुखरोगहरं तथा” ॥
इति तत्रैव १८८ अध्यायः ॥

कामवती, स्त्री, (कामः कमणीयता अस्त्यस्याः । काम

+ मतुप् । मस्य वः । ङीप् च ।) दारुहरिद्रा ।
इति राजनिर्घण्टः । (कामः कन्दर्पभावः अस्त्य
स्याः । मैथुनानुरागयुक्ता स्त्री । यथा महाभारते
१ । शान्तनूपाख्याने ९७ । ५ ।
“त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः” ॥)

कामवल्लभः, पुं, (कामः कमनीयः स्पृहणीय इत्यर्थः

अत एव वल्लभः प्रियः । यद्वा कामस्य कन्दर्पस्य
बल्लभः । कन्दर्पप्रियवसन्तकालोद्भवत्वात् तथात्वम् ।)
आम्रः । इति राजनिर्घण्टः ॥

कामवल्लभा, स्त्री, (कामस्य कन्दर्पस्य वल्लभा प्रिया ।

कामोद्दीपकत्वात् तथात्वम् ।) ज्योत्स्ना । इति
राजनिर्घण्टः ॥

कामवृद्धिः, पुं, (कामस्य वृद्धिर्यस्मात् ।) क्षुप-

विशेषः । कामव इति कर्णाटके प्रसिद्धः । तत्प-
र्य्यायः । स्मरवृद्धिसंज्ञः २ मनोजवृद्धिः ३ मदना-
युषः ४ कन्दर्पजीवः ५ जितेन्द्रियाह्वः ६ कामैक-
जीवः ७ जीवसंज्ञः ८ । अस्य वीजगुणाः । मधु-
रत्वम् । बलवर्द्धनत्वम् । कामवृद्धिरुचिकारित्वम् ।
बहुलेन्द्रियवृद्धिदत्वञ्च । इति राजनिर्घण्टः ॥

कामवृन्ता, स्त्री, (कामं कमनीयं वृन्तं यस्याः ।)

पाटलावृक्षः । इति शब्दमाला ॥

कामवृक्षः, पुं, (कामं यथेच्छं वीजाद्यनपेक्षतया

उत्पन्नो वृक्षः ।) वन्दाकः । इति राजनिर्घण्टः ॥

कामशरः, पुं, (कामस्य कन्दर्पस्य शर इव कामोद्दीप-

कत्वात् ।) आम्रः । इति राजनिर्घण्टः ॥

कामसखः, पुं, (कामस्य सखा । “राजाहःसखि-

भ्यष्टच्” । ५ । ४ । ९१ । इति टच् ।) वसन्त-
कालः । इति राजनिर्घण्टः ॥

कामसुतः, पुं, (कामस्य सुतः ।) अनिरुद्धः । इति

हेमचन्द्रः ॥

कामाख्या, स्त्री, (कामयते भक्तानां कामं पूरयति

यद्वा भक्तैः साधकैः काम्यतेऽसौ इति कामा ।
कामा आख्या यस्याः ।) देवीविशेषः । तन्नाम-
कारणं यथा ।
श्रीभगवानुवाच ।
“कामार्थमागता यस्मान्मया सार्द्धं महागिरौ ।
कामाख्या प्रोच्यते देवी नीलकूठे रहोगता ॥
कामदा कामिनी कामा कान्ता कामाङ्गदायिनी ।
कामाङ्गनाशिनी यस्मात् कामाख्या तेन चोच्यते ॥ * ॥
तत्पीठकारणं यथा, --
“अथ काले बहुतिद्ये व्यतीते प्राणिसर्ज्जने ।
पृष्ठ २/०९०
:अगृह्णां दक्षतनयां भार्य्यार्थेऽहं बधूवराम् ॥
सा मेऽभूत् प्रेयसी भार्य्या प्रदाय समयं पितुः ।
अनिष्टकारी त्वञ्चेत् स्याः प्राणांस्त्यक्ष्ये तदा त्वहम् ॥
ततो यज्ञे समस्तन्तु स च वव्रे चराचरम् ।
न मां नापि सतीं वव्रे तदनिष्टान्मृता तु सा ॥
ततो मोहसमापन्नस्तामादाय मृतामहम् ।
प्राप्तः पीठवरं तन्तु भ्रममाण इतस्ततः ॥
तस्यास्त्वङ्गानि पर्य्यायात् पतितानि यतो यतः ।
तत्तत् पुण्यतमं जातं योगनिद्राप्रभावतः ॥
तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनिमण्डलम् ।
पतितं तत्र सा देवी महामाया व्यलीयत ॥
लीनायां योगनिद्रायां मयि पर्व्वतरूपिणि ।
स नीलवर्णः शैलोऽभूत् पतिते योनिमण्डले ॥
स तु शैलो महातुङ्गः पातालतलमाविशत् ।
तस्या आक्रमणाद्वाढं ततस्तं द्रुहिणोऽभ्ययात् ॥
स तु पूर्ब्बं ब्रह्मशक्तिशिलां धर्त्तुं चतुमुखः ।
शैलरूपोऽभवत्तेन शैलरूपेण मामधात् ॥
ब्रह्मा पर्व्वतरूपेण मयि पर्व्वतरूपिणि ।
संसक्तोऽधोऽगमद्गाढमाक्रान्तो मायया विधेः ॥
ततो वराहः संसक्तो मयि मां स तु माधवः ।
शैलरूपः शैलरूपं धर्तुं समुपचक्रमे ॥
सोऽप्यधोऽयान्मया सार्द्धं तदा पर्व्वतरूपिणा ।
आक्रम्य देवीं पृथिवीं स्थितो भुवि निखातकः ॥
शतं शतं योजनानां तुङ्गमासीद्गिरित्रयम् ।
तदाक्रान्तं महादेव्या सर्व्वमेव ह्यधोगतम् ॥
क्रोशमात्रे स्थितं तुङ्गं शेषं तत्त्रितयस्य तु ।
एका समस्तजगतां प्रकृतिः सा यतस्ततः ॥
ब्रह्मविष्णुशिवैर्देवैर्धृता सा जगतां प्रसूः ।
तत्र पूर्ब्बो ब्रह्मशैलः श्वेत इत्युच्यते बुधैः ॥
मद्रूपधारी शैलस्तु नील इत्युच्यते तथा ।
स तु मध्यगतः शैलस्त्रिकोणोदूखलाकृतिः ॥
विभ्राजमानः सततं मध्ये ब्रह्मवराहयोः ।
वराहः शैलरूपो यः स चित्र इति कथ्यते ॥
स सर्व्वेषां स्थितः पश्चात् दीर्घः सर्व्वेभ्य एव तु ।
ऐशान्यां योऽभवत् कूर्म्मः शैलरूपो महाद्युतिः ॥
मणिकर्णः स नाम्ना तु ख्यातो देवौघसेवितः ।
योऽनन्तरूपः शैलस्तु वायव्यां समवस्थितः ॥
मणिपर्व्वतसंज्ञोऽसौ पर्व्वतो माधवप्रियः ।
महामायागिरिर्यस्त नैरृत्यां समवस्थितः ॥
स गन्धमादनो नाम्ना सर्व्वदा शङ्करप्रियः ।
वराहपृष्ठभवने यत्र च्छिन्नौ महासुरौ ॥
हरिणा तत्र संजातः पुण्डुनाथ इति स्मृतः ।
ब्रह्मशक्तिशिलायास्तु पूर्ब्बभागे तु मध्यतः ॥
यस्तु पर्व्वतरूपोऽहं स तु भस्माचलाह्वयः ।
एवं पुण्यतमे पीठे कुब्जिकापीठसंज्ञके ॥
नीलकूटे मया सार्द्धं देवी रहसि संस्थिता ।
सत्यास्तु पतितं तत्र विशीर्णं योनिमण्डलम् ॥
शिलात्वमगमत् शैले कामाख्या तत्र संस्थिता ।
संस्पृश्य तां शिलां मर्त्यो ह्यमर्त्यत्वमवाप्नुयात् ॥
अमर्त्यो ब्रह्मसदनं तत्स्थो मोक्षमवाप्नुयात् ।
तस्याः शिलाया माहात्म्यं यत्र कामेश्वरी स्थिता ॥
अद्भूतं यस्य गुह्ये तु लोहं मस्म भवेद्गतम् ।
सा चापि प्रत्यहं तत्र पञ्चमूर्त्तिधरा भवेत् ॥
मोहार्थं सर्व्वलोकानां ममापि प्रीतये शिवा ।
अहं पञ्चमुखेनाशु पञ्चभागे व्यवस्थितः ॥
ईशानः पूर्ब्बभागस्थः कामेश्वर्य्याः प्रधानतः ।
ऐशान्यां तै तत्पुरुषो ह्यघोरस्तस्य सन्निधौ ॥
सद्योजातोऽथ वायव्यां वामदेवस्तु सङ्गतः ।
देव्याश्चापि नरश्रेष्ठ पञ्चरूपाणि भैरव ! ॥
शृणु वेताल ! गुह्यानि देवैरपि सदैव हि ।
कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा ॥
सारदाथ महोत्साहा कामरूपगुणैर्युता ।
मयि लिङ्गत्वमापन्ने शिलायां योनिमण्डले ॥
सर्व्वे शिलात्वमगमन् शैलरूपाश्च निर्ज्जराः ।
यथाहं निजरूपेण रेमे वै सह कामया ॥
शिलारूपप्रतिच्छन्नास्तदा सर्व्वास्तु देवताः ।
शिलारूपप्रतिच्छन्नाः शैले शैले व्यवस्थिताः ॥
रमन्ते च स्वरूपेण नित्यं रहसि सङ्गताः ।
ब्रह्माविष्णुरहञ्चात्र दिक्पालाः सर्व्व एव ते ॥
अन्येऽप्यत्र स्थिता देवाः सानुकूलाः सदा मयि ।
उपासितुं तदा देवीं कामाख्यां कामरूपिणीम् ॥
नीलशैलस्विकोणस्तु मध्ये निम्नः सदाशिवः ।
तन्मध्ये मण्डलं चारु षष्टिशक्तिसमन्वितम् ॥
गुहा मनोभवा तत्र मनोभवविनिर्म्मिता ।
योनिस्तस्यां शिलायान्तु शिलारूपा मनोहरा ॥
वितस्तिमात्रविस्तीर्णा एकविंशाङ्गुलायता ।
क्रमसूक्ष्मविनिर्म्माणभस्मशैलानुगामिनी ॥
सिन्दूरकुङ्कुमारक्ता सर्व्वकामप्रदायिनी ।
तस्यां योनौ पञ्चरूपा नित्यं तिष्ठति कामिनी ॥
महामाया जगद्धात्री मूलभूता सनातनी ।
तत्राष्टौ योगिनीर्नित्यं मूलभूताः सनातनीः ॥
पूर्ब्बोक्ताः शैलपुत्त्राद्याः स्थिता देव्याः समन्ततः ।
तासान्तुपीठनामानि शृणु चैकत्र भैरव ! ॥
गुप्तकामा च श्रीकामा तथा च विन्ध्यवासिनी ।
कटीश्वरी धनस्था तु पाददुर्गा तथापरा ॥
दीर्घेश्वरी क्रमादेव प्रकटा भुवनेश्वरी ।
स्वयोगिन्यः पीठनाम्ना ख्याता अष्टौ च देवताः ॥
सर्व्वतीर्थानि चैकत्र जलरूपाणि भैरव ! ।
स्थितानि नाम्ना सौभाग्या वरेण्या प्राणिपुण्यदा ॥
विष्णुस्तु तीरे तस्याः स नाम्ना कमल इत्युत ।
कामुकायास्तु वटुकः कामाख्याभ्यर्णसंस्थितः ॥
लक्ष्मीः सरस्वती देव्यौ देव्या अङ्गे व्यवस्थिते ।
ललिताख्याऽभवल्लक्ष्मीर्मातङ्गी तु सरस्वती ॥
गणाध्यक्षः पूर्ब्बभांगे तस्य शैलस्य संस्थितः ।
सिद्धः स नाम्ना विख्यातो द्वारि देव्याः प्रियः सुतः ॥
कल्पवृक्षः कल्पवल्ली तिन्तिडी चापराजिता ।
भूतास्तस्मिन्महाशैले स्थिते देव्या धृतप्रिये ॥
वराहः पाण्डनाथाख्यः स्थितस्तत्र हरिर्यतः ।
जघने शिरसी कृत्वा जघान मधुकैटभौ ॥
तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्म्मितं पुरा ।
ईशानाख्यं शिरोरत्नं तत् सिद्धेश्वरसंज्ञकम् ॥
शिलारूपं सिद्धकुण्डं मध्यस्थं विद्धि भैरव ! ।
तस्यासन्न गयाक्षेत्रं क्षेत्रं वाराणसी तथा ॥
योनिमण्डलसङ्काशं कुण्डं भूत्वा व्यवस्थितम् ।
तत्रैवामृतकुण्डन्तु सुधासंघप्रपूरितम् ॥
मम प्रियार्थमिन्द्रेण स्थापितं सह निर्ज्जरैः ।
वामदेवाह्वयं शीर्षं श्रीकामेश्वरसंज्ञकम् ॥
कामकुण्डं महापुण्यं तस्यासन्ने व्यवस्थितम् ।
केदारसंज्ञकं क्षेत्रं मध्यस्थं सिद्धकामयोः ॥
दीर्घं चतुर्द्दशव्यामं छायाच्छत्राह्वयं तु तत् ।
तस्यासन्ने शैलपुत्त्री गुप्तकामाह्वया तु सा ॥
गुप्तकुण्डस्य मध्यस्था कामेशग्राब्णि सङ्गता ।
कामेश्वरशिलासक्ता कामाख्यासंज्ञिता सदा ॥
पूर्ब्बभागेन संसक्ता योनेस्तु परभागतः ।
कामकामाख्ययोर्म्मध्ये कालरात्रिर्व्यवस्थिता ॥
पीठे दीर्घेश्वरी नाम्ना सीमाभागे प्रचण्डिका ।
कामाख्या प्रस्तरप्रान्ते कुष्माण्डी नाम योगिनी ॥
पीठे कोटीश्वरी नाम्ना योनिरूपेण संस्थिता ।
यच्चाघोराह्वयं शीर्षं तत् कामायास्तु दक्षिणे ॥
पीठे भैरवनामा तु गीयते परमार्थिभिः ।
चामुण्डाभैरवी नाम्ना भैरवासन्नसंस्थिता ॥
नायिका कामदा भक्ते चण्डमुण्डविनाशिनी ।
कामाभैरवयोर्म्मध्ये स्वयं देवी सुरापगा ॥
हिताय सर्व्वजगतां देव्यास्तु प्रीतये स्थिता ।
सद्योजाताह्वयं शीर्षं पीठे त्वाम्रातकेश्वरम् ॥
भैरवाख्ये गह्वरे तु स्थितं देवर्षिसेवितम् ।
विद्धि तत्रैव दुर्गाख्यां नायिकां योगरूपिणीम् ॥
सिद्धकामेश्वरी नाम्ना ख्याता देवेषु नित्यशः ।
अजीर्णपत्रः सुच्छायो वृक्षस्तत्र तु संस्थितः ॥
आम्रातकः कल्पवृक्षः कल्पवल्लीसमन्वितः ।
पीठे तु सिद्धगङ्गाख्या स्वयं गङ्गा समुत्थिता ॥
आम्रातकस्य निकटे मम प्रीतिविवृद्धये ।
पुष्कराख्यन्तु तत् क्षेत्रं पीठे त्वाम्रातकाह्वयम् ॥
ऐशान्यां तत्पुरूषाख्यं मम शीर्षं व्यवस्थितम् ।
भुवनेश्वरनाम्ना तु पीठे ख्यातञ्च भैरव ! ॥
गह्वरं भुवनेशस्य भुवनानन्दसंज्ञकम् ।
तस्यासन्ने तु सुरभिः शिलारूपेण संस्थिता ॥
कामधेनुरिति ख्याता पीठे कामप्रदायिनी ।
योऽसौ सरभमूर्त्तिर्म्मे मध्यखण्डः प्रचण्डकः ॥
महाभैरवनामाभूत् कोटिलिङ्गाह्वयस्तु सः ।
मूर्त्तिभिः पञ्चभिः पञ्चभागेषु सममास्थितः ॥
अहं पश्चादतिप्रीत्या भैरवाख्यः स्थितोऽधरे ।
महागौरी तु या देवी योगिनी सिद्धरूपिणी ॥
सा ब्रह्मपर्व्वते चास्ते शिलारूपेण चोर्द्ध्वतः ।
अतीवरूपसम्पन्ना नाम्ना सा भुवनेश्वरी ॥
यत्र ब्रह्मा तु संसक्तो मयि पर्व्वतरूपिणि ।
कल्पवल्ली तु तत्रास्ते नाम्ना सा त्वपराजिता ॥
कामधेनोरदूरस्था पूर्ब्बभागे महेश्वरी ।
श्रीकामाख्या योनिरूपा चण्डिका सा तुयोगिनी ॥
आग्नेय्यां विद्धि तां संस्थां सर्व्वकामप्रदां शुभाम् ।
योगिनी चण्डघण्टाख्या पीठेऽभूत् विन्ध्यवासिनी ॥
योगिनी स्कन्दमाता तत्पीठेऽभूद्वनवासिनी ।
कात्यायनी पीठनाम्ना पाददुर्गेति गद्यते ॥
नैरृत्यां नीलशैलस्य प्रान्ते सा संस्थिता शिवा ।
योऽसौ नन्दी मम तनुः स तु पाषाणरूपधृक् ॥
संस्थितः पश्चिमद्वारि हनूमान् पीठनामतः” ॥ * ॥
पृष्ठ २/०९१
:श्रीऔर्व्व उवाच ।
“इति तस्य वचः श्रुत्वा शम्भोरमिततेजसः ।
भैरवस्तं तु पप्रच्छ वेतालोऽपि समुत्सुकः” ॥
श्रीवेतालभैरवावूचतुः ।
“श्रुतः पीठक्रमस्तात देव्याः पूजाक्रमन्ततः ।
श्रोतुमिच्छामि मूर्त्तीनां पञ्चानामपि शङ्कर ! ॥
रूपाणि पञ्चमूर्त्तीनां मन्त्राणि च समन्ततः ।
तथा यन्त्राणि तन्त्राणि वद नौ वृषभध्वज !” ॥
ईश्वर उवाच ।
“शृणु वक्ष्यामि वेताल मन्त्रं तन्त्रं पृथक् पृथक् ।
कामाख्यापञ्चमूर्त्तीनां रूपं कल्पञ्च भैरव ! ॥
कामस्थं काममध्यस्थं कामदेवपुटीकृतम् ।
कामेन कमयेत् कामी कामं कामे नियोजयेत् ॥
ज्येष्ठन्तु व्यञ्जनं ब्रह्म न परः शान्त उच्यते ।
प्रथमं क्रमतः कुर्य्यात् तत्संसक्तं सुधामयम् ॥
प्रजापतिस्तथा शक्रवीजसंस्थादिसंयुतम् ।
चन्द्रार्द्धसहितं वीजं कामाख्यायाः प्रचक्षते ॥
इदं धर्म्मप्रदं काममोक्षार्थानां प्रदायकम् ।
इदं रहस्यं परममन्यत्र तु सुदुर्ल्लभम् ॥
श्रोत्रेणेदं यः शृणुयाद्गुरुवक्त्रान्नरोत्तमः ।
स कामानखिलान् प्राप्य शिवलोके महीयते ॥ * ॥
“श्रुतिसकलितसारं देवकण्ठौधहारं
सकलकलुषहारि श्रीधरामर्त्यकारि ।
सुनयशुभयशोभिर्योजयेद्यत्तु गोभि-
स्तदिह शिवसमस्तं विघ्नधर्म्माङ्गितास्तम् ॥
नयनकलितकारि ध्यानिनां दत्तपारि
प्रणयसुनयसंस्थं देवसत्यादिकस्थम् ।
परमपदविशीर्णं शुद्धदौर्भाग्यजीर्णं
शृणु शिवपदरूपं कामदेव्याः स्वरूपम् ॥
श्रवणगमनमात्रान्मार्गितं यस्य नाम
प्रभवति बहुभूत्यै नीतिमार्गैकधाम ।
सुरगणगणसंधा कुण्डली यस्य शक्ति-
स्तदिह परमरूपं चिन्तनीयं कृतीशैः ॥
रविशशियुतकर्णा कुङ्कुमापीतवर्णा
मणिकनकविचित्रा लोलकर्णा त्रिनेत्रा ।
अभयवरदहस्ता साक्षसूत्रप्रशस्ता
प्रणतसुरवरेशा सिद्धकामेश्वरी सा ॥
अरुणकमलसंस्था रक्तपद्मासनस्था
नवतरुणशरीरा मुक्तकेशी सुहारा ।
शवहृदि पृथुतुङ्गस्तन्ययुग्मा मनोज्ञा
शिशुरविसमवस्त्रा सिद्धकामेश्वरी सा ॥
विपुलविभवदात्री स्मेरवक्त्रा सुकेशी
दलितकरकदन्ता सासिचन्द्रावनम्रा ।
मनसिजदृशदिस्था योनिमुद्रां लषन्ती
पवनचलनशक्ता संश्रुतस्थानभागा ॥
चिन्त्या चैवं विद्युदग्निप्रकाशा
धर्म्मार्थाद्यैः साधिता वाञ्छितार्थैः ।
कल्पं तन्त्रं शृण्विदं सम्यगर्थं
वेतालत्वं भैरवत्वं प्रतिष्ठम् ॥
तस्मिन्नाद्यं मण्डलं विद्धि पश्चात्
कार्य्यं तद्वै चन्दनैः पुष्पगन्धैः ।
तत्पर्य्यायो लेखने पूर्ब्बमुक्तो
देवीतन्त्रे सोऽत्र पूर्ब्बं विधेयः” ॥
इति श्रीकालिकापुराणे ६१ अध्यायः ॥

कामाग्निसन्दीपनमोदकं, क्ली, (सन्दीप्यते अनेनेति

सन्दीपनम् । कामाग्नीनां सन्दीपनमुद्दीपकम् ।
कामाग्निसन्दीपनञ्च तत् मोदकञ्चेति ।) औषध-
विशेषः । यथा, --
“कर्षो रसो गन्धकमभ्रकञ्च
द्विक्षारचित्रे लवणानि पञ्च ।
शटी यमानीद्वयकीटहारि
तालीशपत्राण्यपरं द्विकर्षम् ॥
जीरं चतुर्ज्जातलवङ्गजाती-
फलञ्च कर्षत्रयमेवमन्यत् ।
सवृद्धदारं कटुकत्रयञ्च
तथा चतुःकर्षमितं निबोध ॥
धन्याकयष्ठीमधुकं कशेरु-
कर्षाः पृथक् पञ्च वरी विदारी ।
वरेभकणेभबलात्मगुप्ता-
वीजं तथा गोक्षुरवीजयुक्तम् ॥
सवीजपत्रेन्द्ररजःसमानं-
समासिता क्षौद्रघृतञ्च तुल्यम् ।
कर्षैकमिन्दोरथमोदकं तत्
कामाग्निसन्दीपनमेतदुक्तम्” ॥ * ॥
“वृष्यं ततः परतरं सततं न दृष्ट-
मेनं निषेव्य मनुजः प्रमदासहस्रम् ।
गच्छन्न लिङ्गशिथिलत्वमवाप्नुयाच्च
नागाधिपं विजयते बलतः प्रमत्तः ॥
कान्त्या हुताशनमपि स्वरतो मयूरान्
वाहं यवेन नयनेन महाविहङ्गम् ।
बातानशीतिमथपित्तगदं समग्रं
श्लेष्मोत्थविंशतिरुजः परमग्निमान्द्यम् ॥
दुर्न्नामकामलभगन्दरपाण्डुरोग-
मेहातिसारकृमिहृद्ग्रहणीप्रदोषान् ।
कासज्वरश्वसनपीनसपार्श्वशूल-
शूलाम्लपित्तसहितांश्चिरजान् समस्तान् ॥
हत्वा गदानपि च तत् पुनरपत्यकारि
सर्व्वर्त्तुपथ्यमथ सर्व्वसुखप्रदायि ।
वृष्यं बलीपलितहारि रसायनं स्यात्
श्रीमूलदेवकथितं परमं प्रशस्तम्” ॥
इति भैषज्यरत्नावली ॥

कामाङ्कुशः, पुं, (कामे कामोद्दीपने अङ्कुश इव ।

नखाघातेन कामोद्दीपनादस्य तथात्वम् ।) नखः ।
इति त्रिकाण्डशेषः ॥ (कामस्य अङ्कुश इव ।) शिश्नः ।
इति जटाधरः ॥

कामाङ्गः, पुं, (कामं कामोद्दीपकं अङ्गं मुकुलं यस्य ।)

आम्रवृक्षः । इति जटाधरः ॥

कामातुरः, त्रि, (कामेन आतुरः ।) कामार्त्तः । यथा ।

“अर्थीलाघवमुच्छ्रितो निपतनं कामातुरो लाञ्छ
नम्” ॥ इति नवरत्नमध्ये धन्वन्तरिः ॥

कामान्धः, पुं, (कामेन अन्धयति निजध्वनिजनित-

मन्मथोद्दोपनेन हतज्ञानं करोतीति । काम +
अन्ध + णिच् + अच् ।) कोकिलः । इति राज-
निर्घण्टः ॥ (कामेन अन्धः । स्मरान्धः । कामवेगेन
कर्त्तव्यताज्ञानशून्यः ॥)

कामान्धा, स्त्री, (कामं यथेष्टं अन्धयति । अन्ध + णिच्

+ अच् + टाप् ।) कस्तूरी । इति राजनिर्घण्टः ।
(स्मरेण अन्धा । कर्त्तव्यज्ञानशून्या । प्रगल्मा-
नायिकाविशेषः । यथा, साहित्यदर्पणे ३ । ७० ।
“ल्मरान्धा गाढतारुण्या समस्तरतकोविदा ।
भावोन्नता दरव्रीडा प्रगल्माक्रान्तनायका” ॥
अस्या उदाहरणं यथा तत्रैव ।
“धन्यासि या कथयसि प्रियसङ्गमेऽपि
विश्रब्धचाटुकशतानि रतान्तरेषु ।
नीबीं प्रति प्रणिहिते तु करे प्रियेण
सख्यः शपामि यदि किञ्चिदपि स्मरामि” ॥)

कामायुः [स्] पुं, (कामं यथेष्टं आयुर्यस्य ।) गरुडः ।

इति त्रिकाण्डशेषः ॥

कामायुधः, पुं, (कामस्य आयुधमिव मुकुले आकारो-

ऽस्ति अस्य । अर्श आदित्वात् अच् ।) महा-
राजचूतः । आम्रः । इति राजनिर्घण्टः ॥ काम-
देवास्त्रे क्ली ॥

कामारण्यं क्ली, (कामं मनोहरं अरण्यम् ।) मनोज्ञ-

वनम् । इति शब्दमाला ॥
(कामस्य अरण्यमिति विग्रहे कन्दर्पवनम् ॥)

कामारिः, पुं, (कामस्य अरिः ।) विटमाक्षिकधातुः ।

इति हेमचन्द्रः ॥ महादेवः कन्दर्षनाशकत्वात् ॥

कामार्त्तः, त्रि, (कामेन ऋतः ।) कामपीडितः ।

कामातुरः । यथा, मेघदूते ५ ।
“कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु” ॥

कामालुः, पुं, (कामं यथेष्टं अलति पुष्पविकाशेन

पर्य्याप्नोतीति । अल पर्य्याप्तौ + उण् ।) रक्तका-
ञ्चनवृक्षः । इति शब्दचन्द्रिका ॥

कामावसायिता, स्त्री, (कामेन स्वेच्छया अवसाययति

सर्व्वानि अविद्याबासनाजालानि । काम + अव +
सो + णिच् णिनि ततो भावार्थे तल् ।) कामान्
स्वेच्छया अवसाययितुं शीलमस्य कामावसायी
तस्य भावः । इति सारसुन्दरी ॥ शिवस्याणिमा-
द्यष्टधैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । इत्यमरः शब्द-
रत्नावली च ॥ सा तु सत्यसङ्कल्पता ॥ (अष्टैश्व-
र्य्याणि यथा,
“अणिमा लघिमा व्याप्तिः प्राकाम्यं गरिमा तथा ।
ईशित्वञ्च वशित्वञ्च तथा कामावसायिता” ॥)

कामावसायित्वं, क्ली (कामावसायिनो भावः । त्व-

प्रत्ययः ।) कामवसायिता । इति हेमचन्द्रः ॥

कामिः, पुं, (कामयते इति । कम् + णिच् + इण् ।)

कामुकः । रत्यां स्त्री । इति मेदिनी ॥

कामिकः, पुं, (कामः अस्त्यस्य ठन् ।) कारण्डवपक्षी ।

इति शब्दरत्नावली ॥ (कामेन निर्वृत्तम् । ठञ् ।
कामनिर्वृत्तकर्म्मणि क्ली । यथा, महाभारते
अनुशासनपर्व्वणि ।
“देवतास्तस्य तुष्यन्ति कामिकं तस्य सिध्यति” ॥)

कामिनी, स्त्री, (अतिशयेन कामः अस्या अस्ति इति ।

काम + इनिः + ङीप् ।) अतिशयकामयुक्ता नारी ।
इत्यमरः । २ । ६ । ३ ॥ (यथा, मनुः ८ । ११२ ।
“कामिनीषु विवाहेषु गवाम्भक्ष्ये तथेन्धने ।
पृष्ठ २/०९२
:ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्” ॥)
भीरुस्त्री । वन्दा । इति मेदिनी ॥ दारुहरिद्रा ।
मदिरा । स्त्रीसामान्यम् । इति राजनिर्घण्टः ॥
(यथा, आर्य्यासप्तशती २७० ।
“कर्ण श्व कामिनीनां न शोभते निर्भरः प्रेमा” ॥)

कामिनीशः, पुं, (कामिन्याः कामिनीप्रियाञ्जनस्य

ईशः तत्साधनत्वात् ।) शोभाञ्जनवृक्षः । इति
शब्दचन्द्रिका ॥

कामी, [न्] पुं, (अतिशयेन कामयते । कम + णिच्

+ णिनिः ।) चक्रवाकः । पारावतः । कामुकः ।
इति मेदिनी ॥ (यथा, मेघदूते । ७४ ।
“सभ्रूभङ्गं प्रहितनयनैः कामिलक्ष्येष्वमोघैः” ॥)
चटकः । इति शब्दरत्नावली ॥ चन्द्रः । इति त्रि-
काण्डशेषः ॥ ऋषभौषधिः । सारसपक्षी । इति
राजनिर्घण्ठः ॥ (सर्व्वकामवत्त्वात् विष्णुः । यथा,
महामारते १३ । १४९ । ८३ ।
“कामदेवः कामपालः कामी कान्तः कृतागमः” ॥)

कामीलः, पुं, (काममनुगच्छति इति खः । पृषोदरा-

दित्वात् साधुः ।) रामगुवाकः । इति त्रिकाण्ड-
शेषः ॥ (कामीन इत्यपि दृश्यते ॥)

कामुकः, त्रि, (कामयते इति । “लषपतपदेत्या-

दिना” । ३ । २ । १५४ । उकञ् ।) कामी । तत्प-
र्य्यायः । कमिता २ अनुकः ३ कम्रः ४ कामयिता
५ अभीकः ६ कमनः ७ कामनः ८ अभिकः ९ ।
इत्यमरः । ३ । १ । २० ॥ (यथा, भागवते ९ ।
२३ । १७ ।
“दुष्यन्तः स पुनर्भेजे स्ववंशं राज्यकामुकः” ॥)

कामुकः, पुं, (कम + उकञ् ।) अशोकवृक्षः । अति-

मुक्तकलता । इति मेदिनी ॥ चटकः । इति
राजनिर्घण्टः ॥

कामुककान्ता, स्त्री, (कामुकानां कान्ता प्रिया ।)

अतिमुक्तकलता । इति राजनिर्घण्टः ॥

कामुका, स्त्री, (कम + उकञ + स्त्रियां टाप् । न

ङीप् ।) धनादीच्छाविशिष्टा । तत्पर्य्यायः । इच्छा-
वती २ । इत्यमरः । २ । ६ । ९ ॥

कामुकी, स्त्री, (कम + उकञ् + “जानपदकुण्डेति”

। ४ । १ । ४२ । ङीष् ।) मैथुनेच्छावती । तत्प-
र्य्यायः । वृषस्यन्ती २ । इत्यमरः । २ । ६ । ९ ॥
(यथा, नैषधे १९ । २४ ।
“अनिशभवदत्यागादेनं जनः खलु कामुकी
सुभगमभिधास्यत्युद्दामापराङ्कवदावदः” ॥)

कामेश्वरी, स्त्री, (काम्यन्ते इति कामा विषयास्तेषां

भोग्यानां प्रदायित्वेन ईश्वरी ।) कामाख्यापञ्च-
मूर्त्त्यन्तर्गतमूर्त्तिविशेषः । यथा, --
“देव्याश्चापि नरश्रेष्ठ ! पञ्च रूपाणि भैरव ! ।
शृणु वेताल ! गुह्यानि देवैरपि सदैव हि ॥
कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा ।
मारदाथ महोत्साहा कामरूपगुणैर्युता” ॥
इति कालिकापुराणे ६१ अध्यायः ॥ * ॥
अस्या मन्त्रं यथा, श्रीभगवानुवाच ।
“देव्याः कामेश्वरीं मूर्त्तिं शृणु वक्ष्यामि भैरव ! ।
यस्याश्चिन्तनमात्रेण साधको लमते प्रियान् ॥
तन्त्रं तस्याः प्रथमतस्ततोऽनुध्यानगोचरम् ।
ततः पूलाकृमं वक्ष्ये क्रमाद्वेतालभैरव ! ॥
प्रजापतिस्ततो वह्निरिन्द्रवीजं ततः परम् ॥
चूडाचन्द्रार्द्धसहितं चतुर्थस्वरसंयुतम् ।
इदं कामेश्वरीमन्त्रं सर्व्वकामार्थसाधनम्” ॥ * ॥
तस्या ध्यानं यथा, --
“रूपन्तु चिन्तयेद्देव्याः कामेश्वर्य्या मनोहरम् ।
प्रभिन्नाञ्जनसंकाशां नीलस्निग्धशिरोरुहाम् ॥
षड्वक्त्रां द्वादशभुजां अष्टादशविलोचनाम् ।
प्रत्येकं षट्सु शीर्षेषु चन्द्रार्द्धकृतशेखराम् ॥
मणिमुक्तादिमाणिक्त्यकृतां मालामुरःस्थले ।
कण्ठे च बिभ्रतीं नित्यं सर्व्वालङ्कारमण्डिताम् ॥
पुस्तकं सिद्धसूत्रञ्च पञ्चवाणवरं तथा ।
खड्गं शक्तिञ्च शूलञ्च बिभ्रतीं दक्षिणैः करैः ॥
अक्षमालां महापद्मं कोदण्डञ्चाभयं तथा ।
चर्म्म पश्चात् पिनाकञ्च बिभ्रतीं वामपाणिभिः ॥
शुक्लं रक्तञ्च पीतञ्च हरितं कृष्णमेव च ।
विचित्रं क्रमतः शीर्षं ऐशान्यां पूर्ब्बमेव च ॥
दक्षिणं पश्चिमञ्चैव तथैवोत्तरशीर्षकम् ।
मध्यञ्चेति महाभाग ! क्रमात् शीर्षाणि वर्णतः ॥
शुक्लं माहेश्वरीवक्त्रं कामाख्यारक्तमुच्यते ।
त्रिपुरापीतसंकाशं सारदाहरितं तथा ॥
कृष्णं कामेश्वरीवक्त्रं चण्डायाश्चित्रमिष्यते ।
धम्मिल्लसंयतकचं प्रतिशीर्षं प्रकीर्त्तितम् ।
सिंहोपरिसितप्रेतं तस्मिँल्लोहितपङ्कजम् ।
कामेश्वरी स्थिता तत्र ईषत्प्रहसितानना ॥
विचित्रांशुकसंप्रीता व्याघ्रचर्म्माम्बरा तथा ।
एवं कामेश्वरीं ध्यायेद्धर्म्मकामार्थसिद्धये” ॥
इत्यादि कालिकापुराणे ६३ अध्यायः ॥

कामोदकं, क्ली, (कामेन स्वेच्छया दत्तं उदकम् ।)

मृतोद्देशे स्वेच्छया दत्तोदकम् । इति मिताक्षरा ॥

कामोदा, स्त्री, (कुत्सितो मोदो आमोदो यस्याः ।

सहृदयमनोहरत्वाभावात् ।) रागिणीविशेषः ।
इति हलायुधः ॥

काम्पिलः, पुं, (कम्पिलः नदीविशेषः तस्य अदूरे

भवः अण् ।) काम्पिल्यदेशः । इति शब्दरत्नावली ॥
(अयन्तु पाञ्चालस्य दक्षिणांशे वर्त्तते । इति
हरिवंशः ॥)

काम्पिल्यः, पुं, (कम्पिल + जातार्थे ष्यञ् ।) गुण्डा-

रोचनीनामसुगन्धिद्रव्यम् । इत्यमरटीकायां भरतः ॥
(कम्पिलाया अदूरे भवः इति सङ्काशादित्वात्
ण्यः ।) उत्तरदेशविशेषः । इति शब्दरत्नावली ॥
(यथा, महाभारते । १ । १३९ । ६८ ।
“माकन्दीमथगङ्गायास्तीरे जनपदायुताम् ।
सोऽध्यवात्सीत् दीनमनाः काम्पिल्यञ्च पुरोत्तमम् ।
दक्षिणांश्चापि पाञ्चालान् यावच्चर्म्मन्वती नदी” ॥)

काम्पिल्लः, पुं, (काम्पिल + अण् निपातनात् साधुः ।)

गुण्डारोचनी । कमलागुँडी इति भाषा । इत्य-
मरः । २ । ४ । १४६ ॥ तस्य रूपान्तराणि
कम्पिल्लः । कम्पीलः । कम्पिलः । काम्पिल्यः ।
इति भरतः ॥

काम्पिल्लका, स्त्री, (काम्पिल्ल + स्वार्थे कन टाप च ।)

काम्पिल्लः । इति हारावली ॥ (क्वचित् क्लीवे
ऽपि दृश्यते । यथा सुश्रुते सूत्रस्थाने ४५ अः ।
“चूर्णं काम्पिल्लकं वापि तत्पीतं गुटिकाकृतम्” ।)

काम्पीलः, पुं, (काम्पिल + अण् निपातनात् साधुः ।)

काम्पिल्लः । इति शब्दरत्नावली ॥ (“देवीं का-
म्पीलवासिनीम्” । इति यजुर्व्वेदे ॥)

काम्पीलकः पुं, (काम्पील + स्वार्थेकन् ।) काम्पिल्लः ।

इति रत्नमाला ॥

काम्बलः, पुं, (कम्बलेनावृतः । कम्बल + अण् ।) क-

म्बलावृतरथः । इत्यमरः । २ । ८ । ५४ ॥

काम्बविकः, पुं, (कम्बुः शङ्खं भूषणत्वेन शिल्पमस्य

ठक् ।) शङ्खकारः । इत्यमरः । २ । १० । ८ ।
शाँखारी इति भाषा ॥

काम्बुका, स्त्री, (कुत्सितं अम्बु यस्याः कप् । कोः

कादेशः ।) अश्वगन्धा । इति रत्नमाला ॥

काम्बोजः, पुं, (कम्बोजदेशे भवः इति । अण् ।) कम्बो

जदेशजघोटकः । इत्यमरः । २ । ८ । ४५ ॥ सोम-
वल्कः । पुन्नागवृक्षः । इति मेदिनी ॥ (कम्बोजः
अभिजनो यस्य सिन्ध्वादित्वात् अण् ।) म्लेच्छ-
जातिविशेषः । स तु यवनतुल्यः सगरराजेनास्य
सर्व्वशिरोमुण्डनं कृतम् । यथा । हरिवंशे ॥
“अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्ज्जयत् ।
यवनानां शिरः सर्व्वं काम्बोजानां तथैव च” ।

काम्बोजी, स्त्री (कम्बोजेषु भवः कच्छादित्वात् अण्

ङीप् ।) माषपर्णी । माषाणी इति भाषा । इत्य-
मरः २ । ४ । १३८ ॥ वलक्षखदिरः । इति मेदिनी ॥
पापिडि खएर इति भाषा ॥ गुञ्जा । कुँच
इति भाषा । वाकुची । हाकुच् इति भाषा ।
इति राजनिर्घण्टः ॥

काम्यं, त्रि, (काम्यते इति । कम् + णिच् + कर्म्मणि

यत् ।) कमनीयम् । सुन्दरम् । इति हेमचन्द्रः ॥
(“काम्यानां स्वफलार्थञ्च दोषघातार्थमेव च ।
अतः काम्यं नैमित्तिकं प्रायश्चित्तमिति स्थितिः” ॥
इति जावालः ॥) कामनायुक्तव्यक्तिः । कर्त्तव्यकर्म्म ।
यथा, मुग्धबोधटीकाकृद्रामतर्कवागीशधृता स्मृतिः
“यत् किञ्चित् फलमुद्दिश्य यज्ञदानजपादिकम् ।
क्रियते कायिकं यच्च तत्काम्यं परिकीर्त्तितम्” ॥

काम्यदानं, क्ली, (काम्यञ्च तत् दानञ्चेति ।) कमनीयस्य

वस्तुनो वरस्त्रीरत्नादिनी दानं कामनया वा दानं ।
इति भरतः ॥ तत्पर्य्यायः । प्रवारणम् २ । इत्य-
मरः । ३ । २ । ३ ॥ (यथा, गरुडपुराणे ।
“अपत्यविजयैश्वर्य्यस्वर्गार्थं यत्प्रदीयते ।
दानं तत् काम्यमाख्यातं ऋषिभिर्धर्म्मचिन्तकैः” ॥)

कायं, क्ली, मनुष्यतीर्थम् । इति मेदिनी ॥ (कः प्रजा-

पतिर्देवतास्य । “कस्येत्” । ४ । २ । २५ । इत्यण्
इदन्तादेशश्च ततः आदिवृद्धिः ।) प्राजापत्य-
तीर्थम् । तत्तु स्वल्पांङ्गुल्योर्मूलम् । कनिष्ठा-
नामिकयोरधोभाग इति यावत् । इत्यमर-
भरतौ ॥ (यथा मनुः २ । ५९ ।
“अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।
कायमङ्गुलिमूले ऽग्रे दैवं पित्र्यं तयोरधः” ॥)
पृष्ठ २/०९३

कायः, पुं, (को व्रह्मास्य देवता “कस्येत्” । ४ । २ । २५ ।

इत्यण् । इदन्तादेशश्च । यस्येतिलोपात् पर-
त्त्वादादिवृद्धिः कदैवतम् । स तु ब्राह्मतीर्थम् ।
(कायति प्रकाशते इति अच् ।) मूर्त्तिः ।
(“कायः सन्निहितापायः सम्पदः पदमापदाम् ।
समागमाः सापगमाः सर्व्वमुत्पादि भङ्गुरम्” ॥
इति हितोपदेशः ॥) संघः । लक्ष्यः । स्वभावः ।
इति मेदिनी ॥ प्राजापत्यविवाहः । इति स्मृतिः ॥
(यथा मनुः ३ । ३८ ।
“आर्षोढाजः सुतस्त्रींस्त्रीन्
षट् षट् कायोढजः सुतः” ॥)
अस्य लक्षणं उद्वाहशब्दे द्रष्टव्यम् ॥ मूलधनम् ।
यथा, -- नारदः ।
“कायाविरोधिनी शश्वत् पणार्द्धाद्या तु कायिका” ॥

कायमानं, क्ली, (कायस्य मानमिव मानमस्य ।) तृण-

कुटीरः । इति त्रिकाण्डशेषः ॥

कायवलनं, क्ली, (कायो वल्यते आच्छाद्यते अनेन ।

वलस्तृतौ करणे ल्युट् ।) कवचम् । इति हारा-
वली । ७३ ॥

कायस्थः, पुं, (कायेषु सर्व्वभूतशरीरेषु अन्तर्यामि-

तया तिष्ठतीति । काय + स्था + कः ।) पर
मात्मा । (यथा उत्तरगीतायाम् ।
“कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते ।
कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते” ॥
काये ब्रह्मकाये तिष्ठतीति । काय + स्था + कः ।)
नरजातिविशेषः । इति मेदिनी ॥ तत्पर्य्यायः ।
कूटकृत् २ पञ्जीकरः ३ । इति त्रिकाण्डशेषः ॥
करणः ४ पञ्जिकारकः ५ । इति जटाधरः ॥
तस्योत्पत्त्यादिर्यथा

<F>*) । कायस्थीत्पत्त्यादौ ग्रन्थकृता राज्ञा यानि प्रमाणानि

संगृहीतानि तदितराण्यधुना प्राप्तानि । कतिपयप्रशस्तप्रा-
माण्यप्रमाणान्यत्रोद्धृतानीति । तद् यथा, --
“क्षणं ध्यानस्थितस्यास्य सर्व्वकायाद्विनिर्गतः ।
दिव्यरूपः पुमान् हस्ते मसीपात्रञ्च लेखनी ॥
चित्रगुप्त इति ख्यातो धर्म्मराजसमीपतः ।
प्राणिनां सदसत्कंर्म्मलेख्याय स निरूपितः ।
ब्रह्मणातीन्द्रियज्ञानी देवाग्न्योर्यज्ञभुक् स वै ।
भोजनाच्च सदा तस्मादाहुतिर्दीयते द्विजैः ॥
ब्रह्मकायीद्भवो यस्मात् कायस्थी वर्ण उच्यते ।
नानागोत्राश्च तद्वंश्याः कायस्था भुवि सन्ति वै” ॥
इति पद्मपुराणे सृष्टिखण्डम् ॥ * ॥
दत्तात्रेय उवाच ।
“त्रिकालज्ञं महाप्राज्ञं पुलस्त्यमुनिपुङ्गवम् ।
उपसङ्गम्य पप्रच्छ भीष्मः शस्त्रभृताम्बरः ॥
चतुणामपि वर्णानामाश्रमाणां तथैवच ।
सम्भवः सङ्करादीनां श्रुतो विस्तरतो मया ॥
कायस्थोत्पत्तयो लोकेख्याताश्चैव महामने ।
भूय एव महाप्राज्ञ ! श्रोतुमिच्छामि तत्त्वतः ॥
वैष्णवा दानशीलाश्च पितृयज्ञपरायणाः ।
सुधियः सर्व्वशास्त्रेषु काव्यालङ्कारबोधकाः ॥
पोष्टारो निजवर्गाणां ब्राह्मणानां विशेषतः ।
तानहं श्रोतुमिच्छामि कथयस्व महामुने ! ॥
एतन्म संशयं विप्र ! वक्तुमर्हस्यशेषतः ।
इति पृष्टो मुनिप्राज्ञः, गाङ्गेय ! शृणु तत्त्वतः ॥
पलस्त्य उवाच ।
शृणु गाङ्गेय ! वक्ष्यामि कायस्थोत्पत्तिकारणम् ।
न श्रुतं यत् त्वया पूर्ब्बं तन्मे कथयतः शृणु ॥
येनेदं सकलं विश्वं स्थावरं जङ्गमं तथा ।
उत्पाद्य पाल्यते भूयो निधनाय प्रकल्पते ॥
अव्यक्तः पुरुषः शान्तो ब्रह्मा लोकपितामहः ।
यथाऽसृजत् पुरा विश्वं कथयामि तव प्रभो” ॥
“मुखतीऽस्य द्विजा जाता बाहुभ्यां क्षत्त्रियास्थथा ।
ऊरुभ्याञ्च तथा वैश्याः पद्भ्यां शूद्राः समुद्भवाः ॥
द्विचतुःषट्पदादींश्च प्लवङ्गमसरीसृपान् ।
एककालेऽसृजत् सर्व्वं चन्द्रसूर्य्यग्रहांस्तथा ॥
एवं बहुविधानेन विश्वमुत्पाद्य भारत ! ।
उवाच तं सुतं ज्येष्ठं कश्यपं चातिवेजसम् ॥
प्रतियत्नेन भोः पत्त्र जगत् पालय सुव्रत ! ।
इत्याज्ञाप्य सुतं ज्येष्ठं ऋषिसम्भवहेतुकम् ॥
ततस्तु ब्रह्मणा तेन यत् कृतं तन्निबोध मे” ॥
“दशवर्षसहस्राणि दशवर्षशतानि च ।
समाधिस्थोऽभवत् प्राणान् संयम्य शान्तमानसः ॥
ततः समाहितमतैर्यद्भूतं तद्वदामि ते ।
तच्छरीरान्महाबाहुः श्यामः कमललोचनः ॥
कम्बुग्रीवो गूढशिराः पूर्णचन्द्रनिभाननः ।
लेखनौच्छेदनाहस्तो मसीभाजनसंयुतः ॥
निःसृत्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।
उत्तमः सुविचित्राङ्गः ध्यानस्तिमितलोचनः ॥
त्यक्त्वा समाधिं गाङ्गेय ! तं ददर्श पितामद्वः ।
अधोऽर्द्धस्तन्निरीक्ष्याथ पुरुषश्चाग्रतः स्थितः ॥
नामधेयं हि मे तात । वक्तुमर्हस्यतःपरम् ।
यथोचितञ्च यत् कार्य्यं तत् त्वं मामनुशासय” ॥
पुलस्त्य उवाच ।
“इत्याकर्ण्य ततो ब्रह्मा पुरुषं स्वशरीरजम् ।
प्रहृष्य प्रत्युवाचेदमानन्दितमतिः पुनः ॥
स्थिरचित्तं समाधाय ध्यानस्थमतिसुन्दरम् ।
मच्छरीरात् समुद्भूतस्तस्मात् कायस्थसंज्ञकः ॥
चित्रगुप्तेति नाम्ना वै ख्यातो भुवि भविष्यसि ।
धर्म्माधर्मविवेकार्थं धर्मराजपुरे सदा ॥
स्थिनिर्भवतु ते वत्स ! ममाज्ञां प्राप्य निश्चलाम् ।
क्षत्तवर्णोचितो धर्मः पालनीयो यथाविधि ॥
प्रजाः सृजख भोः पुत्त्र भुवि भारसमन्विताः ।
तस्मै दत्त्वा वरं ब्रह्मा तत्रैवान्तरधीयत” ॥
पुलस्त्य उवाच ।
“चित्रगुप्तान्वये जाताः शृणु तान् कथयामि ते ।
श्रीमद्रा नागरा गौराः श्रौवत्सश्चैव माथुराः ॥
अहिफणाः सौरसेनाः शैवसेनास्तथैव च ।
वर्णावर्णद्वयञ्चैव अम्बष्ठाद्याश्च सत्तम् ! ॥
शृण तेषाञ्च कर्माणि कुरुवंशविवर्द्धन ! ।
पुत्त्रान् वै स्थापयामास चित्रगुप्तो महीतले ॥
धर्माधर्मविवेकज्ञश्चित्रगुप्ती महामतिः ।
भूस्थानं बोधयामास सर्व्वसाधनमुत्तमम् ॥
पूजनं देवतानाञ्च पितॄणां यज्ञसाधनम् ।
वर्णानां ब्राह्मणानाञ्च सर्व्वदातिथिसेवनम् ॥
प्रजाभ्यः करमादाय धर्माधर्मविलोकनम् ।
कर्त्तव्यं हि प्रयत्नेन पुत्त्राः स्वर्गस्य काम्यया ॥
या माया प्रकृतिः शक्तिश्चण्डौ चण्डप्रमर्द्दिनी ।
तस्यास्तु पूजनं कार्य्यं सिद्धिं प्राप्य दिवं गताः ॥
स्वर्गाधिकारमासाद्य यतो यज्ञभुजः सदा ।
भवद्भिः सा सदा पूज्या ध्यातव्या सफलादिभिः ॥
भवन्ती सिद्धिदा नित्यं पुत्त्रदा सा तु चण्डिका ।
तथाचोक्ता मुरापेया यानपेया द्विजातिभिः ॥
वैष्णवं धर्ममाश्रित्य मद्वाक्यं प्रतिपालय ।
कर्त्तव्यं हि प्रयत्नेन लोकद्वयहिताय वै ॥
अनुशिष्य सुतानेवं चित्रगुप्तो दिवं ययौ ।
धर्मराजस्याधिकारी चित्रगुप्तो बभूव ह ॥
खयं भीष्म ! समुत्पन्नाः कायस्था ये प्रकीर्त्तिताः ।
ये पृष्टास्वे मया ख्याताः संवादं शृणु तत्परः ॥
अहं ते कथयिष्यामि विचित्रं परमाद्भुतम् ।
प्रभावं चित्रगुप्तस्य समुद्भूतं यथा पुनः” ॥
पुलस्त्य उवाच ।
“सौदासो नाम राजाभूत् समस्ते क्षितिमण्डले ।
सदा पापरतः सोऽथ धर्माधर्मं न विन्दति ॥
स यथा स्वर्गमासाद्य लेभे पुण्यफलं शृणु ।
सर्व्वपापो दुराचारः सर्वधर्मविवर्जितः ॥
राजनीतिगतं धर्मं न जानाति कथञ्चन ।
आतिथ्यजयकर्माणि तत्तत्साधनमुत्तमम् ॥
न कर्त्तब्यं द्विजैः क्वापि मयाज्ञप्तैर्महीतले
एवमाज्ञप्तवाँल्लोके दैवपित्रेयकर्मणि ॥
परित्यज्य स्वकं देशं ततो देशान्तरं ययौ ।
ये केचिद्वसतिं चक्रुर्लोकेषु ब्राह्मणादिषु ॥
ततः प्रभृति गाङ्गेय ! न यज्ञहवनं क्वचित्” ॥
“न कोऽपि कुरुते भीष्म ! पुण्यं तत्र निषेवितम् ।
गृहीत्वा ब्राह्मणादिभ्यः करं कर्मविदूषकः ॥
अहो धर्मभृतां श्रेष्ठ शृणु कर्म विपाकजम् ॥
कालेनान्येन गाङ्गेय सौदासो विचरन् महीम् ।
कार्त्तिके शुक्लपक्षे च द्वितीया चीत्तमा तिथिः ।
तस्यां कार्य्यञ्च कायस्थैश्चित्रगुप्तस्य पूजनम् ॥
महतीभक्तिभावेन धूपदीपादिभिस्तथा ॥
दैवयोगात्तथायातः सौदासः पर्य्यटन्महीम् ।
श्रद्धायुक्तशरीरेण दृष्ट्वा च पजनं ततः ।
कृत्वा सुपूजनं तत्र चित्रगुप्तस्य भक्तितः ॥
गतपापोऽभवत् सद्यः सौदासोऽसौ महीपतिः ।
चित्रगुप्तप्रभावेण गतो लोकं सुणलयम् ॥
इदं विचित्रमाहात्म्यं चित्रगुप्तप्रभावजम् ।
कथितं नृपशार्द्दूल ! किमन्यत् श्रोतुमिच्छसि ॥
इत्याकर्ण्य ततो भीष्मः प्रत्युवाच मुनिं ततः ।
विधिना केन तत्रापि पूजा कार्य्या महामुने ! ॥
को मन्त्रः को विधिस्वत्र सर्व्वं तद्वद्र मे प्रभो ।
यामासाद्य मुनिश्रेष्ठ ! सौदासः स्वर्गमाप्तवान् ॥
पुलस्त्य उवाच ।
चित्रगुप्तस्य पूजाया विधानं कथयाम्यहम् ।
नैवेद्यैर्घृतपक्वैश्च यथाकालोद्भवैः फलैः ॥
गन्धपुष्पोपहारैश्व धूपदीपैः समासतः ।
चित्रगुप्तञ्च संपूज्य श्रद्धाभक्तिसमन्वितः ॥
नवकुम्भं समानीय पानीयपरिपूरितम् ।
शर्करापूरितं कृत्वा पात्रं तस्योपरि न्यस्येत् ॥
पूजान्ते च प्रयत्नेन दातव्यञ्च द्विजन्मने ।
ब्राह्मणान् भोजयेत्तत्र कायस्थानपि मन्त्रवित् ॥
मसीभाजनसंयुक्तः सदा चरसि भूतले ।
लेखनीच्छेदनीहस्तचित्रगुप्त ! नमोऽस्तु ते ॥
चित्रगुप्त नमस्तुभ्यं नमस्तं धर्मसृपिणे ।
तेषां त्वं पालकी नित्यं नमः शान्तिं प्रयच्छ मे ॥
सन्त्रेणानेन राजेन्द्र चित्रगुप्तस्य पूजनम् ।
एवं संपूज्य विधिवत् सौदासो भक्तिभावतः ॥
अचिरात् पापसंमुक्तो राज्यं कृत्वा मृतो नृपः ।
नीतोऽसौ यमदूतैश्च यमलोकं भयानकम् ॥
चित्रगुप्तन्तदापृच्छद्धर्मराजोऽपि भारत ! ॥
धर्मराज उवाच ।
सौदासोऽसौ दुराचारः पापकर्मसदारतः ।
यानि कानि च पापानि राजासौ कृतवान् भुवि ॥
पृष्टोऽसौ यमराजेन धर्माधर्मविशारदः ।
धर्मराजं ततः प्राह चित्रगुप्तो महामतिः ॥
विपाकं धर्मजं ज्ञात्वा तं प्रहस्याब्रबीद्वचः ॥
चिचगुप्न उवाच ।
जानेऽहं पापकर्मासौ राजायं विदितः सदा ।
त्वत्प्रसादादहं सौरे ! पूज्योऽस्मि वसुधातले ॥
त्वया दत्तं वरं स्यानं भक्तस्तेऽहं सदा प्रियः ।
इति ज्ञात्वा वदाम्यत्र राजापापोऽस्ति मे मतिः ॥
पूजां चकार राजासौ द्वष्ट्वा पूजाञ्च मामकीम् ।
अतस्तष्टोऽस्मि हे देव ! यातु विष्णुपदं नृपः ॥
यमेनाज्ञापितो राजा वैष्णवं पदमाप्तवान् ।
ये चान्ये पूजयिष्यन्ति चित्रगुप्तं महीतले ॥
कायस्थाः पापनिर्मुक्ता यास्यन्ति परमां गतिम् ।
तस्प्रात् लमपि गाङ्गेय ! पूजां कुरु विधानतः ॥
दत्तात्रेय उवाच ।
मुनेर्वचनमाकर्ण्य भीष्मः प्रयतमानसः ।
चकार पूजनं तत्र चित्रगुप्तस्य तत्परः ॥
कार्त्तिके शुक्लपक्षे तु द्वितीयायाञ्च भारत ! ।
यमञ्च चित्रगुप्तञ्च यमदूतांश्च पूजयेत् ॥
अतो यमद्वितीयेति संज्ञा लोके बभूव ह ।
तेनैव भगिनीहस्ते भोक्तव्यं पुष्टिवर्द्धनम् ॥
नित्यं यशस्यमायुष्यसर्व्वकामार्थसिद्धिदम् ।
दानानि दापयेद्यस्तु भगिन्यै च विशेषतः ॥
काले तत्र च संपूज्य चित्रगुप्तञ्च लेखकम्
चित्रैश्च चित्रपुष्पैश्च रक्तचन्दनमिश्रितैः ॥
नैवेद्यं दीयते तस्मै मोदकं गुडमिश्रितम् ॥
भीष्मोक्तप्रार्थना यथा, --
उत्पत्तौ प्रलये चैव भोग्ये दाने कृताकृते ।
लेखकस्त्वं सदा श्रीमांश्चित्रगुप्त नमोऽस्तुते ॥
श्रिया सह समुत्पन्न समुद्रमथनीद्भव ! ।
चित्रगुप्त महाबाहो ! ममाद्य वरदो भव ॥
चिबगुप्तस्तु सन्तुष्टो भीष्माय च वरं ददौ ।
मत्प्रसादान्महाबाहो मृत्युस्ते न भविष्यति ॥
स्मरिष्यसि यदा मृत्युं तदा मृत्युर्भविष्यति ।
इति तस्मै वरं दत्त्वा चित्रगुप्तो दिवं ययौ ॥
अनेन विधिना यस्तु चित्रगुप्तस्य पूजनम् ।
करिष्यति महाबुद्धे तस्य पुण्यफलं शृणु ॥
इहैव विपुलान् भोगान् भुक्त्वा सर्व्वान् मनोरथान् ।
अक्षय विष्णुलोकञ्च नरो याति न संशयः ॥
चित्रगुप्तकथां दिव्यां कायस्थोत्पत्तिसंज्ञकाम् ।
भक्तियुक्तेन मतसा ये शृण्वन्ति नरोत्तमाः ॥
दीर्घायुषो भविष्यन्ति सर्व्वव्याधिविवर्जिताः ।
सर्व्वे विष्णपदं यान्ति यत्र यान्ति तपोधनाः” ॥
इति भविष्यपुराणे चित्रगुप्तकायस्थीत्पत्तिमाहात्म्यकथ
समाप्ता ॥ * ॥
“एवं हत्वार्ज्जुनं रामः सन्धाय निशितान् शरान् ।
एक एव ययौ हन्तुं सर्व्वानेवातुरान् नृपान् ॥
केचित् गहनमाश्रित्य केचित् पातालमाविशन् ।
सगर्भा चन्द्रसेनस्य भार्य्या दाल्भ्याश्रमं ययौ” ॥
“ततो रामः समायातो दालभ्याश्रममनुत्तमम् ।
पूजितो मुनिना सद्यः पाद्यार्ध्याचमनादिभिः ॥
ददौ मध्याह्नसमये तस्मै भोजनमादरात् ।
रामस्तु याचयामास हृदिस्थं स्वमनीरथम् ॥
याचयामास रामाच्च कामं दाल्भ्यो महामुनिः ।
ततस्तौ परमप्रीतौ भोजनं चक्रतुर्मुदा ॥
भोजनानन्तरं दाल्भ्यः पप्रच्छ भार्गवं प्रति ।
यत्त्वया प्रार्थितं देव तत् त्वं शंसितुमर्हसि ॥
राम उवाच ।
तवाश्रमे महाभाग सगर्भा स्त्रौ समागता ।
चन्द्रसेनस्य राजर्षेः क्षत्त्रियस्य महात्मनः ॥
तन्मे त्वं प्रार्थितं देहि हिंसेयं तां महामुने ।
ततो दाल्भ्यः प्रत्युवाच ददामि तव वाञ्छितम् ॥
दाल्भ्य उवाच ।
स्त्रियो गर्भममुं बालं तन्मे त्वं दातुमर्हसि ।
ततो रामोऽब्रवीद्दाल्भ्यं यदर्थमहमागतः ॥
क्षत्त्रियान्तकरश्चाहं तत् त्वं याचितवानसि ।
प्रार्थितश्च त्वया विप्र ! कायस्थो गर्भ उत्तमः ॥
तस्मात् कायस्थ इत्याख्या भविष्यति शिशोः शुभा ॥
एवं रामो महाबाहुर्हित्वा तं गर्भमुत्तमम् ।
निर्जगामाश्रमात् तस्मात् क्षत्त्रियान्तकरः प्रभुः” ॥
“कायस्थ एष उत्पन्नः क्षत्त्रिय्यां क्षत्त्रियात्ततः ।
रामाज्ञया स दालभ्येन क्षत्त्रधर्माद्वहिष्कृतः ॥
कायस्थषर्मोऽस्मै दत्तश्चित्रगप्तश्च यः स्मृतः ।
तद्गीत्रजाश्च कायस्था दाल्भ्यगोत्रास्ततोऽभवन् ॥
दालभ्योपदेशतस्त वै धर्मिष्ठाः सत्यवादिनः ।
सदाचारपरा नित्यं रता हरिहरार्च्चने ॥
देवविप्रपितृणाञ्च अतिथौनाञ्च पूजकाः” ॥
इति स्कान्दे रेणुकामाहात्म्यम् ॥ * ॥</F>
श्रीहर उवाच ।
“भूयस्तेऽहं प्रवक्ष्यामि वगलेति मनूत्तमम् ।
यस्य ग्रहणमात्रेण कायस्थो विप्रसेवकः ॥
पार्व्वत्युवाच ।
अतीव चित्रं शम्भो ! त्वमुक्तवानावयोरुप ।
शूद्रात् कनीयसी जातिरभवद्विप्रसेवकः ॥
श्रोष्याम्यादौ हि कायस्थवृत्तान्तं ब्रूहि विस्तरात् ।
कायस्थः क्षत्त्रविट्शूद्रानृते विप्रार्च्चकः कथम् ॥
केन प्रकारेण च वा वगलेति गृहीतवान् ।
ततश्च सिद्धविद्याया वगलाया वरेश्वर ! ॥
श्रोष्यामि महिमानञ्च साधनं त्वत्त एव हि ॥
हर उवाच ।
ब्रह्मपादांशतो जन्म चातः कायस्थनामभृत् ।
ककारं ब्राह्मणं विद्यादाकारं नित्यसंज्ञकम् ॥
आयन्तु निकटं ज्ञेयं तत्र काये हि तिष्ठति ।
कायस्थोऽतः समाख्यातो भसीशं प्रोक्तवांश्च यम् ॥
जीवेक्षणे भृगुपदे जन्मत्वात् शोभना धियः ।
शठश्च शूरता किञ्चिदनेकप्रतिपालकृत् ॥
जन्मावधि द्विजार्च्चायां मतिरेव निरन्तरम् ।
कुशासनादि सकलं गृहीत्वा मस्तकोपरि ॥
अनुगच्छामि सततमिति चिन्तामनाः सदा ।
शठत्वाच्चतुरत्वाच्च विप्रसेवामनुक्षणम् ॥
वाञ्छत्येव मसीशः स सदोद्वेगीतिमावहन् ।
ब्राह्मणं हीश्वरं ज्ञात्वा भक्त्या स्तौति पुटाञ्जलिः ॥
यं यं गच्छति विप्रश्च मसीशश्चानुगच्छति ।
नद्यादौ गत्वा चेद्विप्रः स्नात्वा कुर्य्यात्तपोऽपि च ॥
यावत्तावच्च तिष्ठेत् स क्षुधया पीडितोऽपि च ।
तथापि नासनं लाति शिरे धर्त्तुं, द्विजोऽपि च ॥
मसीशायादीक्षिताय क्षत्त्रवैश्योपमाय च ।
अशूद्रायेति वोढुं न ददात्येवासनादिकम् ॥
पार्व्वत्युवाच ।
चित्रं ब्रवीषि हे नाथ कायस्थोऽशूद्र एव किम् ।
जाने शूद्रकनिष्ठं तं शूद्रतुल्यः कथं स न ॥
क्षत्रवैश्योपमो ह्युक्तस्त्वयैष कथमीश्वर ! ॥
हर उवाच ।
ब्रह्मपादांशत शूद्रमसीशौ द्वो बभूवतुः ।
शूद्रात् परः कनिष्ठः स चातः वतलि ! ऋतञ्च तत् ॥
किन्तु सामादिवेदान् हि क्षत्रो विट् शूद्र एव हि ।
गृहीतवान्न तत् किञ्चिन्मसीशोऽलसतः शिवे ! ॥
अतो यज्ञोपवीती न ते हि यज्ञोपवीतिनः ।
एते स्युर्वैदिकाचारा मसीशो हि स्वमावतः ॥
मस्या सह तु लेखन्या सर्व्वं लेखितुमीश्वरः ।
लेखितुं नैव शक्नोति वैदिकं किञ्चितं किल ॥
अतो हृदि विचार्याथ खेदेन विप्रमीश्वरम् ।
ज्ञात्वा भक्त्यानुगच्छेद्धि यत्र याति धरासुरः ॥
कृतत्रेताद्वापरेषु गतेष्वपि मसीशकः ।
तदपि त्यक्तवान्नैव दृढां भक्तिं द्विजेषु च ॥
ततो हि कृपया विप्रः कायस्थमनुगृह्य हि ।
सालसं प्राददद्विद्यां बगसेति तव प्रिये ! ॥
यतो दीक्षामात्रमेव पवित्रः कार्य्यसिद्धिता ।
ततः कुशासनादींश्च वोढुं प्रादात् शिरोपरि ॥
एवं प्रकारेण कालि ! विप्राणामनुगाः कलौ ॥
कायस्थाः कालिके ! देवि ! पुनस्तद्विभवं शृण ॥
कलिप्रथमतो राजा क्षत्त्रियाणां महाबलः ।
सुयज्ञनामा गोमेधमखमारब्धवान् प्रिये ॥
आहूतवांश्च सर्व्वान् स चतुर्योजनमध्यतः ।
पृष्ठ २/०९४
:ब्राह्मणान् भ्रान्तिवशतः केवलं सुतपसं विना ॥
प्राप्ताह्वानद्विजान् यातो दृष्ट्वा सुतपसः प्रिया ।
धवं तिरस्कृतवती यथैतच्छृणु कालिके ! ॥
हे स्वामिंस्त्वां नृपो मूर्खं मत्वा नाहूतवान् मखे ।
केवलं तव पाण्डित्यं मत्समीपे न शोभते ॥
सुतपा उवाच ।
कान्ते ! ब्रवीमि विप्राणां यत् कर्त्तव्यं शृणुष्व तत्
यात्रामात्रं वहन्नन्नं काङ्क्षितव्यं न चाधिकम् ॥
विद्वांश्चेद्विद्या दातव्या क्वापि नानार्ज्जवं चरेत् ।
मूर्खश्चेत् केवला सन्ध्या सदोपास्या प्रयत्नतः ॥
प्रिये तेन च वक्तव्यमृतमेवाप्रियन्त्वपि ।
विप्रेण सततं कार्य्यं वैद्यमागमिकञ्च तत् ॥
ऋतौ गच्छेच्च स्वां कान्तां मुदा कालञ्च पातयेत् ।
कालीं कालादिकं वापि जपेद्विप्रो निरन्तरम् ॥
स्वयं स्वभावतो नॄणां क्षत्त्रादीनां शिवं वचः ।
वक्तव्यं चेन्न गृह्णन्ति विप्रहानिर्न तत्क्षतिः ॥
ब्राह्मण्युवाच ।
सुमानुषत्वं ते कान्त ! सुविप्रत्वं धव ! त्वयि ।
तिष्ठत्वेव चिरं विप्र तेऽन्तौ मे मरणं शिवम् ।
कांस्यकङ्कणवलयौ सङ्गिनौ मे मृतावधि ॥
सुतपा उवाच ।
प्रिये ते ह्यधुना तीव्रं धनान्तःकरणं सदा ।
विना निमन्त्रितेनापि गत्वा चानीयते धनम् ॥
इत्युक्त्वा सुतपाः कान्तां गत्वा राजसभां प्रिये ! ।
रान्तं सुयज्ञं वरणं प्रोवाच नृपतिं द्विजः ॥
रे सुयज्ञ ! विनाह्वानैरगच्छं ते सभामहम् ।
विप्राणां रणं राजन् ! क्षत्रियाणां तथैव च ॥
कृतं तदपि नाहं रे त्वया दृष्टः स्वचक्षुषा ।
भ्रष्टो भवतु ते यज्ञः श्रीश्च यातु स्थलान्तरम् ॥
क्रुधैतदुक्त्वा सुतपास्ततो नृपसदः स्थलात् ।
विप्रो निःसृतवान् राजा भीतेन मनसाब्रवीत् ॥
हे पुरोहित ! हे विप्र ! हेऽङ्गिरोऽसौ गतः स कः ।
रे इत्युक्त्वा सभामध्ये वृत्तान्तं वद विस्तरात् ॥
नृपाज्ञया क्षत्रियार्थं पट्टादिवस्त्रसंकुलम् ।
स्वर्णाङ्गुरीयकमपि चानेतुं गतवान् हि यः ।
कोषमन्दिरमालोक्य राजान्तिकमथागतः ॥
इत्यब्रवीच्च राजानं चित्रन्ते कोषमन्दिरे ।
किञ्चिच्च वस्तु दृष्टं न दृष्टं भस्मतृणादिकम् ॥
श्रुत्वैतत् विस्मितो राजाऽब्रवीच्चैतत् पुरोहितम् ।
हे पुरोहित ! विप्र ! त्वं कृतवान् यत्त्वभूच्च तत् ॥
कोऽपराधोऽस्ति मे विप्रः कथं शप्त्वा गतः प्रभो ! ।
कोषमन्दिरसंपातसंवादं दत्तवानयम् ॥
कोषे नास्ति धनं किञ्चित् सर्व्वं भस्मतृणादिकम् ।
श्रुत्वैतदङ्गिरा ब्रूते सुतपा यत्र तत्पट ॥
ततो दुर्गे स राजा च तूर्णं स्वर्णकुठारकम् ।
गले बद्ध्वा द्विजकुलैर्गतवान् सुतपोऽन्तिकम् ॥
अङ्गिरादिद्विजाः सर्व्वे तत्राट्य सुतपोद्विजम् ।
स्तुतिञ्चक्रुः स राजा च दूरस्थो भक्तितोऽस्तवीत् ॥
अङ्गिरःप्रभृतय ऊचुः ।
धरामरवर ! प्राज्ञ ! नो वरस्त्वं धरातले ।
राज्ञः शिवं नो मानं त्वद्याचामह उमेशहृत् ! ॥
देवस्त्वं देवताज्ञस्त्वं पण्डितानाञ्च पण्डितः ।
दयालो ! नो दयस्व ज्ञ ! नमस्ते वरतो वर ! ॥
ब्रह्म ब्रह्मज्ञ एव त्वं ब्राह्मणेश्वर मानद ! ।
राज्ञः शिवं नो मानं त्वद्याचामह उमेशहृत्” ! ॥
सुयज्ञराज उवाच ।
हे नाथ ! हे धरेशेश ! धर्म्मकर्म्मविधायक ! ।
वर्णेश्वर ! नमस्तुभ्यं वन्दे ते चरणाम्बुजम् ॥
हे ब्रह्मण्यदेव ! हे नाथ हे धरामर हे प्रभो ! ।
कृपां कुरु नमस्तुभ्यं प्रणमामि पदं तव ।
नाहं जानामि ते पूजां नाहं जानामि ते स्तुतिम् ॥
नाहं जानामि ते ध्यानं मूढं मां कृपया दय ॥
सुतपा उवाच ।
किमर्थं स्तुथ हे विप्राः किमर्थं स्तौषि हे नृप ! ।
गच्छ यात मखं गव्यं सुखेन सफलं कुरु ॥
श्रुत्वेति सुतपोवाक्यं सुयज्ञः सुखमानसः ।
कृताञ्जलिपुटो राजा चाब्रावीदिदमुत्तमम् ॥
राजोवाच ।
निमन्त्रणन्तु विप्रेन्द्र ! भोज्यञ्च सकलोत्तमम् ।
गृह्णापराधसाहस्रं क्षमस्व मे कृपां कुरु ॥
अपराधसहस्राणि कृतवानहमव्यय ! ।
गृह्ण मद्राजतीं मुद्रामयुतां मां कृपां कुरु ॥
मत्सभास्था द्विजा ह्येते प्रोचुः पाण्डित्यमद्भुतम् ।
गुणांश्च ते बहुविधान् श्रुत्वाहं सुखमानसः ॥
क्षमस्व नाथ ! मे दोषमेकं प्रश्नोत्तरं वद ।
मत्सभास्थो बुधः कोऽपि न ब्रवीति विदाम्बर ! ॥
आगच्छति कलिर्घोरस्तत्र के भक्तितो द्विजान् ।
अर्च्चिष्यन्तीति श्रुत्वा मे वरञ्च मरणं शिवम् ॥
श्रुत्वैतत् सुतपा विप्रोऽब्रवीच्च सदयो नृपम् ॥
सुतपा उवाच ।
हे सुयज्ञ नृपश्रेष्ठ ! ब्राह्मणातिप्रियो नृपः ।
पश्यैतान् विप्रभृत्यांस्त्वमासनादिशिरोधृतान् ॥
एतद्घोरकलावेते भविष्यन्ति द्विजार्च्चकाः ।
जात्या मसीशाः कायस्था ब्राह्मणेश्वरमानसाः ॥
पृष्ठ २/०९५
:महाविद्योपासकाश्च गुणतः क्षत्रियोपमाः ।
कलौ हि क्षत्रियाभावात् वैश्याभावाच्च सुव्रत ! ॥
एते भक्त्या भविष्यन्ति विप्रामानसहिष्णवः ।
विप्रप्रिया विप्रभक्ता विप्रमानप्रदा यतः ॥
महाविद्याप्तितश्चैते क्षत्रकर्म्मकृतः कलौ ।
मस्या एवेश इत्यस्मात् मसीशोऽसौ निगद्यते ॥
ब्रह्मणो विप्रमूर्त्तेस्तु पादांशे सम्भवन्ति तत् ।
कायस्था इति संज्ञाः स्युः सुयज्ञैषां शिवा मतिः ॥
श्रुत्वैतत् सकलं राजा वृत्तान्तं सुतपोमुखात् ।
प्रेमाश्रुभिर्नृत्यकारी कृताञ्जलिपुटोऽब्रवीत् ॥
राजोवाच ।
इतः परमृषेऽहञ्चेत् म्रिये तदपि मच्छिवम् ।
श्रुतं यत्तव जातीनां क्षत्रहीनकलौ सुखम् ॥
ततो ऽतितुष्टः सुतपा उवाच मधुरं नृपम् ।
सुयज्ञ ! सुमतिस्त्वं हि त्वत्तो विप्रप्रियो न हि ॥
मानेन ब्राह्मणानां हि वरञ्च मरणं नयेः ॥
सुयज्ञोवाच ।
हे नाथ सुतपो विप्र ! श्रुतं यन्मेऽङ्गकृन्मुखात् ।
कृपया शृणु तत् सव्व ते जातेर्म्महिमानमु ॥
ब्राह्मणो ब्रह्म जानाति नान्यजातिरिति श्रुतिः ।
ब्रह्मज्ञानी सदा विप्रो न चेद्ब्राह्मणसंज्ञकः ॥
विना प्रयुक्तिं यो विप्र उपकारी स्वयं भवेत् ।
आशीः करोति ब्रूते च क्षत्रादीनां शिवं वचः ॥
स एव साक्षाद्बह्मेति विप्राणां जातिलक्षणम् ।
ब्राह्मणाज्ञावचो ये न गृह्णन्ति पालयन्ति च ॥
गुर्व्वाज्ञालङ्घनं पापं स्पृशेत्तेषां शरीरतः ।
पित्रेति सकलं चोक्तं ते च सन्दिग्धजातयः ॥
वशीकारादि सकलं सृष्टिस्थितिलयञ्च यत् ।
शक्नुवन्ति हि कर्तुं ते विप्राः पित्रेति चोक्तमु ॥
विनायासैर्मुदा यो यत् विप्राय शक्तितो ददत् ।
मुदा तदेव गृह्णाति विप्राणामिति लक्षणम् ॥
केषामपि न कापट्यं कुरुते ब्राह्मणः क्वचित् ।
विनापराधैर्न शपेदिति तज्जातिलक्षणम् ॥
हिंस्रे भवति हिंस्रः स शठे शाठ्यं समाचरेत् ।
आर्जवञ्चेन्द्रियग्रामान् स्ववशे स्थापयेच्चिरम् ॥
दयालुश्च सदा विप्र इति पुत्त्र हृदि स्मरन् ।
भीत्या भक्त्या सदा पूज्यः पितेति ब्रूतवांश्च मे ॥
कटूक्त्या यदि गृह्णाति हृदा दुःखेन राति चेत् ।
तद्विप्रो दुःखं भजते दातुर्नैव शिवं क्वचित् ॥
वित्तशाठ्यं गृह्णशाठ्यं कार्य्यं नोभयतः क्वचित् ।
इत्यप्यात्मज विप्राच्च श्रुतं शासनसम्मतम् ॥
शृणु पुत्र प्रवक्षामि सावधानं समाचर ।
घ्नन्तं बहुशपन्तं वा नैव द्रुह्यति भूसुरम् ॥
सुतपो नाथ मे पित्रा यद्यदुक्तं तदुक्तवान् ।
त्वञ्चापि ब्राह्मण ब्रह्म यथारुचि तथा कुरु ॥
श्रुत्वैतत् सुतपा विप्र उवाच परमादरम् ।
राजन् वरं वृणु वृणु यत्ते मनसि वाञ्छितम् ॥
सुयज्ञ उवाच ।
ऋषे ! वरेण ते नैक उपकार इहाधुना ।
यज्ञे समाप्तौ मे मस्तच्छेत्ता रामो भविष्यति ॥
सुतपा उवाच ।
यज्ञं समाप्य सुखतः प्रगच्छेर्विन्ध्यनैरृतिम् ! ।
तत्र वै स्वर्णदानद्या मध्ये द्वीपोऽस्ति सुन्दरः ॥
द्वादशक्रोशमानी हि तद्गत्वा वसतिं कुरु ।
यदा परशुरामस्ते कच्चिच्छेत्ता भविष्यति ॥
भविष्यति च काणः स नय ते वाञ्छितं वरम् ।
ततः पुनः कृते राजन् जम्बूद्वीपेश्वरो भवान् ॥
भविष्यतीति त्वं वीजरूपेण तिष्ठ तत्र हि ।
वरं ते वाञ्छितं गृह्ण तुष्टोऽहं भक्तितस्तव ॥
इहतः परतो यद्यत् परमानन्द मुत्तमम् ॥
सुयज्ञराजोवाच ।
नाथ ! नाहं वरं याचे याचे केवलमङ्घ्रिते ।
चिरं मम मतिस्तिष्ठेदिति देहि वरोत्तमम् ॥
तेऽङ्घ्रौ पवित्रे परमे सर्व्वत्र सुस्वदे किल ।
तदेवास्तु इति प्रोच्य सुतपा गतवान् गृहम् ॥
राजापि च मखं कृत्वा विप्रेभ्यो दक्षिणां ददत् ।
परिवारयुतोऽगच्छद्द्वीपे काञ्चनदान्तरे ॥
वसतिं वरतः प्राप्तां चतुर्द्दिक्षु जलप्लुताम् ।
अत्रस्थाः प्रापटन् विप्राः पण्डिताः स्वस्ववासभूम् ॥
एको मसीशः सर्व्वाख्यः सर्व्वाणीहृदयद्विजात् ।
कुलप्रदीपः स्वीयानां जातीनां पूततास्पृहः ॥
वगलेति महाविद्यां गृहीत्वा साधयन् मुदा ।
सर्व्वाणीहृदयाख्यस्य पण्डितस्य प्रसादतः ॥
वरं याचितवान् भक्त्या त्रिलोकाधिपतिं गुरो ! ।
कृपया कुरु मां नाथ ! त्वमेव वगला मम ॥
गुरुस्त्वपि वरं दत्तो राज्यं भुक्त्वा पुनर्भवन् ।
त्रिलोकाधिपतिर्भूय मुदा तत्र सुखिष्यसि ॥
गुर्व्वाज्ञया मसीशः स राज्यभोगी द्विजार्च्चितः ।
विहाय देहं भूयश्च त्रिधारुपो बभूव ह ॥
चित्रगुप्तश्चित्रसेनश्चित्राङ्गद इति त्रयः ।
स्वर्गे मर्त्ये च पाताले राजते चिरमुत्तमः ॥
चित्रगुप्तो महाविद्यां प्राप्य कुल्लाख्यविप्रतः ।
पुत्रान् याचितवान्नैव गुरोदर्वेत्वमावहन् ॥
यमान्तिस्थो बभूवापि स्वर्म्मर्त्याधोविवेचकः ।
चिरं शुभाशुभं कर्म्म विविच्य शमनान्तिके ॥
यद्वदेत् सकलानां तु तदेवाभोजयेत् यमः ।
चित्रसेनो महाविद्यां वगलेति गुरोर्नयन् ॥
जप्त्वा संतोष्य पुत्रादीन् याचित्वा प्राप्य मर्त्यतः ।
राज्यं चकार मुद्युक्तश्चित्राङ्गद अधोगतः ॥
अधोगतस्य हेतुं त्वं वगले शृणु कालिके ! ।
वगलेति भनुं प्राप्य विप्रोऽस्मि इति वाञ्छया ॥
तपश्चकार पञ्चाब्दं नान्नं किञ्चित् गृहीतवान् ।
फलमूलादिकं किञ्चित् सायमत्ति यथा मिलेत् ॥
विहाय विप्रस्य गुरोरपि पूजाञ्च पार्व्वति ! ।
जपेन्नित्यं हि वगलामन्यविप्रञ्च नेक्षयन् ॥
ज्ञात्वेति ब्राह्मणाः सर्व्वे ऊचुश्चित्राङ्गदं क्रुधा ।
वचो हि मधुरं किञ्चित् प्रियाद्भक्ताच्च सुन्दरि ! ॥
रे चित्राङ्गद ! अज्ञस्त्वं वत्स विप्रत्वमिच्छसि ।
कदाप्युपानन्मस्तस्थो नैवेति न हि बुध्यसि ॥
वत्स ! शीघ्रमधो गच्छ चिरं कुरु तपो मुदा ।
ततः श्रुत्वेति शापं स भक्त्यातिशयमानसः ॥
कृताञ्जलिपुटो ब्रूते चित्राङ्गद इतीश्वरि ! ॥
पृष्ठ २/०९६
:चित्राङ्गद उवाच ।
“हे ब्राह्मणा हे गुरवो ! मामेवातिनिरागसम् ।
कथं शेपुर्भवन्तो हि विप्ररूपा ह ईश्वराः ॥
मुखाद्वो श्रुतवान् यद्यत्क्षतिः का तत्समाचरन् ।
उपास्यो यस्तद्भवितुं सर्व्वे ह्युद्योगिनः स्युरु ॥
जानेऽहं ब्राह्मणो ब्रह्म स्वेच्छया विविधाकृतिः ।
नानालीलामाचरितुं मानुषाकृतिरप्यभूत् ॥
तद्ब्रह्म ब्राह्मणं जाने जाने तत् सर्व्वरूपधृक् ।
राजेति संज्ञाधारी कः किं वा तच्च प्रजाभिधम् ॥
तदेव मकलस्थायि तदेव सर्व्वकर्त्तृ च ।
तदेव सर्व्वपातृ स्यात्तदेव सर्व्वहर्त्तृ च ॥
पुंरूपं चैव स्त्रीरूपं क्लीवरूपञ्च नान्यथा ।
आत्मा एवैकरूपं तत् स्वमेवानेकमाकरोत् ॥
नानाप्रकारजीवादि चात्मनात्मानमेव हि ।
स्थावरं जङ्गमं विप्रास्तदेव नात्र संशयः ॥
भवन्तो हीश्वराः सर्व्वे किमर्च्चयथ तत् कथम् ।
कथं चिन्तयथात्मानं देवमर्च्चनकालतः ॥
छलेन भूतशुद्ध्यादि कृत्वा देवाः स्युरेव किम् ।
ईशोऽपि मानुषाकृत्या ईशत्वप्राप्तये पुनः ॥
यद्युद्योगी भवेत्तत् किं मानुषोऽहं न तच्चरे ।
अन्यायि न भवेद्बह्म यूयमन्यायिनः कथम् ॥
वगलापि च या जप्या सा च ब्राह्मण एव हि ।
कश्चिद्विशेषो भेदोऽपि वगलायां द्विजेऽपि न ॥
अतस्तद्भवितुं विप्रा अहमप्येव तापसः ।
गुर्व्वाज्ञा मे पुराभूच्च सर्व्वं त्यक्त्वा जपं कुरु ॥
अतोऽहं सकलं त्यक्त्वा केवलां वगलां जपे ।
वगलायां द्विजे नैव कश्चिद्भेदोऽस्ति शासने ॥
अतो विप्रोऽस्मीति कामं कृतवान् जपकर्म्मणि ।
गुरौ विप्रे मनौ चापि देवे चात्मनि भूसुराः ॥
मसीशजातिः किञ्चिच्च न विशषं विचिन्तयेत् ।
ब्राह्मणोऽप्यविशेषश्च तस्मिंस्तस्मिंश्च भूसुराः ॥
आत्मन्यात्मनि कीटेऽपि चेति वो जातिलक्षणम् ।
मूर्खोऽहं यच्च श्रुतवान् प्रभवो ब्राह्मणास्यतः ॥
तदाचरितवान् मे को दोषोऽस्ति वदत द्विजाः ।
विनापराधतो विप्रा यूयं वामनरूपतः ॥
बलिञ्चातिप्रियं भक्तमधः प्रास्थापयन् यदि ।
अहं कीटोऽत्र नाश्चर्य्यं किमधो न पटे कथम् ॥
कृताञ्जलिपुटोऽहं वश्चरणं शतसंख्यया ।
प्रणमे स्वगृहं विप्रा गच्छताहमधः पटे ॥
अधोगच्छाम्यहं तत्र किञ्चित् खेदं करोमि न ।
वाञ्छयामीति चाज्ञा वो न लङ्घ्या भवतु क्वचित् ॥
इत्यादि श्रुत्वा हे कालि ! लज्जां प्राप्यातिखेदिताः ।
ब्रुवन्ति चातिमधुरं क्रन्दन्त इव ते द्विजाः ॥
हे चित्राङ्गद ! हे विद्वन् ! दौर्ब्बल्यं त्यज वत्सक ! ।
दुश्चिन्तां कुरु मा तात भद्रं ते कथयामि ते ॥
जनस्तपोबलेनैव सर्व्वं भवितुमर्हति ।
नार्हतीशं विना तात ब्राह्मणो भवितुं किल ॥
इतीश्वराज्ञा वेदेऽस्ति प्रतिजानीहि तत्त्वतः ।
वरं प्राप्नोति देवत्वं ब्राह्मणत्वं कदापि न ॥
यथामरत्वमीशेन विना क्वापि न शासने ।
मा टुःखी त्वमधो गच्छ मुखेन वगलां जप ॥
कलेदशसहखाणि नागलोकेश्वरो भव ।
ततस्त्रिलोकनाथस्त्वमिन्द्रतुल्यो भविष्यसि ॥
राज्यं भुक्त्वा ततो नैव पुनरावर्त्तनं तव ।
सदा वयं तव शिवं चिन्तयामो न भीं कुरु ॥
के जानन्तीदृशं त्वां हि भक्तश्रेष्ठं विवेचकम् ।
शापं दारुणमाहुस्त्वमधुना तन्न खण्डति ॥
तात गच्छ सुखं भुङक्ष्व नागलोकेऽपि विस्तरात् ।
तत आनन्दमनसा गताश्चत्राङ्गदस्तलम् ॥
स्वस्थानं ब्राह्मणाश्चापि चागच्छन् लज्जितान्तराः ।
भूस्थो मसीशः सर्व्वोऽपि विप्रदासाभिधोऽभवत् ॥
विप्रप्रसादात् शूद्राणामपि श्रेष्ठो बभूव ह ।
वगलेति महामन्त्रं सर्व्वेषां सर्व्वकामदम् ॥
केवलेन जपेनैव लक्षेण कालि । सिध्यति ।
वशीकरणकर्म्मादि दशसाहस्रतो भवेत् ॥
अथ वक्ष्ये महेशानि । वगलासाधनं तव ।
वगलेति मनोः संख्या पुरश्चरणकर्म्मणि ॥
लक्षेण मन्त्रसिद्धिः स्यात् नास्त्यत्र युगसंख्यकम् ।
ततो वश्यादि कर्त्तव्यं दशसाहस्नसंख्यया ॥
शरीरारोग्यतो वापि धनेच्छुश्चायुतं जपेत् ।
कलावेतस्य हि मनोः प्रभावं किं ब्रवीमि ते ॥
सहस्रमात्रहोमेन सर्व्वसिद्धिर्न चान्यथा ।
नास्त्यपेक्षा हि ऋष्यादेः स्तुतिपाठादिकस्य वा ॥
स्तुतिर्व्वा कवचं वापि ऋष्यादिन्यास एव वा ।
वगलेति स्वयं सर्व्वं सिद्धविद्या इति प्रिये ! ॥
त्वयाद्यारूपया कालि ! स्वयमुक्तं पुरैकदा ।
शरीरारोग्यतो देवि ! वैरिनिग्रहतोऽपि वा ॥
दिवा नक्तञ्च कर्त्तव्या सहस्रमानतो हुतिः ।
केवलाहुतिमात्रेण रात्रावारोग्यतां लभेत् ॥
वगले इति यो द्विश्चाप्युक्त्वोच्चैर्यत्र वारयेत् ।
पथिस्था विघ्नदाः सर्व्वे पलायन्ते तमीक्षिताः ॥
भवेद्धि सफलं कर्म्म वगलेति स्मरन् जनः ।
वगलाजापिनं दृष्ट्वा सर्व्वे भीतिमवाप्नुयुः ॥
केवलं पटलमिदं पठन् शृण्वन् मनोरथम् ।
लभेत् कालि ! वपुस्त्यक्त्वा वगलाञ्च न संशयः ॥
एषा विद्या मसीशेन सदोपास्या न संशयः ।
ब्राह्मणे वगलायाञ्च चिन्तयेदेकरूपतः ॥
विना प्रयुक्तिमपि च मसीशं श्रावयेद्द्विजः ।
श्रावणायां धनाकाङ्मी न भवेद्ब्राह्मणोत्तमः ॥
आलस्याद्वा प्रमादाद्वा श्रावयेन्न यदि द्विजः ।
मसीशहत्याभागी स्याच्छ्रावयित्वा तव प्रियः ॥
ब्राह्मणोऽपि वरारोहे ! शृणुयात् भक्तितत्परः ।
निर्व्वाणं लभते कालि ! निष्कामी कोऽपिचेत् पठेत् ।
एतदुक्तेऽपि कायस्थः शृणुयान्न यदि प्रिये ! ।
पटलं काम्यदञ्चाशु ब्रह्महत्याफलं लभेत्” ॥
इति आचारनिर्णयतन्त्रे वासुदेवसम्मते हर-
पार्व्वतीसंवादे सप्तत्रिंशत्तमः पटलः ॥
“चाटचारणचौरेभ्यो वधबन्धभयादिभिः ।
पीड्यमानाः प्रजा रक्षेत् कायस्थेभ्यो विशेषतः” ॥
इति वह्निपुराणे पाशुपतदानाध्यायः ॥ * ॥
गौडदेशे तेषामागमनकारणम् । तत्रादौ
मङ्गलाचरणं यथा, --
“यस्याभूद्भूमिदेवो वदनसरसिजेयद्भुजेभूमिपालो
यस्योर्व्वोर्व्वैश्य एव द्विजभजनरतिर्यस्य शूद्रःपदाब्जे ।
सृष्ट्वा पातिष्यतीदं जगदिति प्रकृतिर्यः स्वयं पूरुषस्तं
वन्देऽहं देवदेवंत्रिगुणमयवरं सर्व्व लोकानुकम्पम्” ॥
अथ आदिशूरराजप्रशंसा ।
“श्रीमद्राजादिशूरोमवदवनिपतिर्धर्म्मराजो व शास्ता
सल्लोकः सद्विचारैरदितिसुतपतिः स्वर्यथासी-
द्तथासीत् । प्रातापादित्यतप्ताखिलतिमिररिपु-
स्तत्त्ववेत्ता महात्मा जित्वा बुद्धांश्चकार स्वयमपि
नृपतिर्गौडराज्यान्निरस्तान्” ॥ * ॥ अथादि-
शूरस्य पात्रं प्रति क्रतुज्ञब्राह्मणकुलीनशूद्रयोः
प्रश्नस्तस्योत्तरञ्च । “पात्रं पप्रच्छ पूतं परमसुरपद-
द्वन्द्वपद्मार्च्चकोऽसौ कासन्ते काश्यपीशाः क्रतु-
कृतिकुशलाः क्वापि शूद्राः कुलीनाः । पात्रन्तेषा
मवोचत् परिचयमखिलं भूपवाक्यात् द्विजास्ते
कोलाञ्चस्थाः कुरङ्गा इव किल तपसा नैव केषा-
मधीनाः ॥ कोलाञ्चस्य महीपतिः क्षितिभूजा-
मेकप्रधानः प्रधी स्वेष्टे निष्ठमतिर्महाशयवरं
श्रीवीरसिंहः स्वभूत् । तद्देशवासिनः समाधि-
कृतिनः पापालिसंहारिणः सन्ति व्यासलमाः
सभासद इतो गौडेन्द्रभूमीश्वराः” ॥ * ॥
अथ वीरसिंहं प्रति लिपिप्रेरणम् ।
“भूपोऽभूद्भवने स्वचेष्टितपरः सद्भृत्यभार्य्यान्वितान्
भूदेवान् वृषवान् विचित्रलिखनैरानेतुकामः स्वयम् ।
पात्रेण प्रणयप्रमोदरचितां श्रीवीरसिंहे लिपिं
गौडक्ष्मापतिरेव पुण्यसुमतिर्दूतेन प्रास्थापयत्” ॥ * ॥
अथ लिपिप्रकारः ।
“सुकृतसुकृतसंघाः सर्व्वशास्त्रार्थदक्षा
लपितहतविपक्षाः स्वस्तिवाक्याः श्रुतिज्ञाः ।
सुजितसुगतवृन्देगौडराज्ये मदीये
द्विजकुलवरजाताः सानुकम्पाः प्रयान्तु ॥
नृपतिसुकृतिसारः स्वीयवंशावतारः
प्रबलबलविचारो वीरसिंहोऽतिवीरः ।
मयि वरसखितास्ते भूमिदेवान् सशूद्रान्
पुनरपि मम गौडे प्रापय त्वं नितान्तम्” ॥ * ॥
अथ ब्राह्मणशूद्राणां गौडदेशे गमनेच्छा ।
“मुदा गन्तुकामाः पुरावासगौडाः
समाहाय कोलाञ्चदेशं क्षितीशम् ।
नृपाज्ञाञ्च लवध्वा सदारादिभृत्या
महायोगिनस्ते बभूवुः सशूद्राः” ॥ * ॥
अथादिशूरसमीपे ब्राह्मणप्रेरणम् ।
“महाराजराजादिशूरो महात्मा
त्वया वीरसिंहस्य मेऽस्त्वादिसख्यम् ।
तवाज्ञानुसाराद्धि प्रस्थापयामि
द्विजान् पञ्चगोत्रान् सदारादिभृत्यान्” ॥ * ॥
अथ ब्राह्मणानां गमनम् ।
“चलच्चञ्चलाश्वालियानाः प्रधाना
वृहत्श्मश्रुगुम्फातिशोभानलाभाः ।
क्रतुज्ञाः श्रुतिज्ञाः प्रतिज्ञानसाध्याः
सवर्म्माश्वशस्त्राः प्रयाताः प्रयागम् ॥
ततः स्नानदानादि कृत्वा च विप्राः
ययस्तेऽपि वाराणसीं पञ्चगोत्राः ।
ततो विश्वनाथं समालोक्य दानै-
र्यशः प्राप्य तस्माद्गयाभू मिमापुः” ॥ * ॥
पृष्ठ २/०९७
::अथ ब्राह्मणानां गौडराज्यप्रवेशो राजसमीपे
आशिरर्थं गमनञ्च
“पितॄन् बान्धवांस्तारयित्वा गयायां
गताः शासितं गौडराज्येशराज्यम् ।
ततस्तेजसा ते दिशो भासयन्तः
श्रुतिं व्याहृतिं भारतीं पाठयन्तः ॥
ततो हस्तदूर्व्वाक्षताः पञ्चगोत्रा
नृपञ्चाशिषं कर्त्तुमेव प्रतस्थुः ।
अमी पञ्च मध्याह्नमार्त्तण्डतुल्या
द्विजाः स्थापिताश्वाः परश्रेयसञ्च” ॥ * ॥
अथैषां वेशं दृष्ट्वा राज्ञोऽवज्ञा तेषां शुष्कवृक्षे
आशिषो निक्षेपश्च । “दृष्ट्वैवं वेशमेषामवनिपति-
रसौ भ्रात्तचित्तो द्विजानां तैरालापं न कृत्वा
स्वगृहमपि ययौ गन्तु कामाः पुनस्ते । बुद्ध्वा भू-
पालबुद्धिं क्षणमपि च बुधाः शुष्कवृक्षाशिषस्ते
तद्धस्तात् प्राप्य दूर्ब्बाक्षतमपि स वभौ शुष्कवृक्षः
सुवृक्षः” ॥ * ॥ अथ राज्ञा ब्राह्मणानां प्रशान्तनं
गोत्रनामप्रश्नश्च ।
“सविस्मया वै गलबद्धवस्त्रा
भूपादयस्ते चरणारविन्दम् ।
पवित्रकीर्त्तिं भुवि भूसुराणां
श्रुत्वा च पेतुः सकलाः प्रणम्य ॥
क्षमध्वमस्माकमुच्चित्तवादं
मूढात्मनाञ्चापराधं हि विप्राः ।
भो ब्रूत विप्राः किमु नाम गोत्रं
ततश्च सर्व्वे गदितुं प्रवृत्ताः” ॥ * ॥
अथ पञ्चब्राह्मणानां परिचयः ।
“अभूद्वन्द्यवंशोद्भवो भट्टनारायणोऽयञ्च शाण्डिल्य-
गोत्रे गरीयान् । तपस्वान् यशस्वान् दयावान्
सुविद्वान् विवस्वानिवास्यां सभायां विभाति ॥
श्रुतितत्त्वतदङ्गविचारकरोऽत्रनिपालक काश्यप-
गोत्रवरः । क्रतुदक्षसमः किल दक्षमहाशयो नाम
इति भुवि भाति यतिः ॥ समस्तशास्त्रपण्डित-
स्तथागवप्रखण्डितः प्रचण्डसर्व्ववैरिदर्पगर्व्वखर्व्व-
कारकः । सावर्णगोत्रसम्भवोऽत्र भाति वेदगर्भकः
छान्दडः प्रभाति भूप वात्स्यगोत्रसम्भवः ॥ यशः-
सुधाकरोत्तपत्सपत्निसङ्गयोषिताननाम्बुजे महा-
तपस्तपोवशीकृतेन्द्रियः ॥ अयं श्रीलहर्षोऽनिशं
दानहर्षो महर्षिर्यथास्यां तपोभिः प्रभाति । क्षि-
तीन्द्र ! क्षितौ यो भरद्वाजगोत्रेश्वरो विप्रवर्य्यः
प्रतापारिशौर्य्यः” ॥ * ॥
अथ शूद्रपरिचयप्रश्नः ।
“के यूयं नाम किं वा कथयत कृतिनः स्वागताः
क्वापि देशात् ? कोलाञ्चात् पञ्चशूद्रा वयमपि
नृपते ! किङ्करा भूसुराणाम् । धन्या यूयं पृथिव्यां
परिचयमखिलं ब्रूत भो विप्रभक्ताः श्रुत्वोचुर्व्वि-
प्रवर्य्याः सकलपरिचयं भूपतेरत्नि चैषाम् ॥ * ॥
अथ पञ्चशूद्राणां परिचयः ।
“सुकृतालिकृताम्बर एष कृती
क्षितिदेवपदाम्बुजचारुरतिः ।
मकरन्द इति प्रतिभाति यति-
र्द्विजवन्द्यकुलोद्भवभट्टगतिः ॥
स च घोषकुलाम्बुजभानुरयं
प्रथिमेन्दुयशःसुरलोकवशः ।
सततं सुसुखी सुमतिश्च सुधीः
शरदिन्दुपयोऽम्बुधिकुन्दयशाः ॥
वसुधाधिपचक्रवर्त्तिनो
वसुतुल्या वसुवंशसम्भवाः ।
वसुधाविदिता गुणार्णवै-
र्नियतं ते जयिनो भवन्तु नः ॥
दशरथो विदितो जगतीतले
दशरथप्रथितः प्रथमः कुले ।
दशदिशां जयिनां यशसा जयी
विजयते विभवैः कुलसागरे ॥
यशस्विनां यशोधरः सदा हि सर्व्वसादरः
प्रमत्तसत्वमत्तहःशरत्सुधांशुवद्यशः ।
प्रतापतापनोत्तपद्द्विषालियोषिदालिको
विभाति मित्रवंशसिन्धुकालिदासचन्द्रकः ॥
द्विजालिपालनार्थकोऽप्यसौ च हर्षसेवकः ।
कुलाम्बुजप्रकाशको यथान्धकारदीपकः ॥
अयं गुहकुलोद्भवो दशरथामिधानो महान्
कुलाम्बुजमधुव्रतो विविधपुण्यपुञ्जान्तितः ।
निशम्य गुहभाषितं सकलसभ्यहास्यं व्यभूत्
स वङ्गगमनोद्यतो विबिधमानभङ्गो यतः ॥
अहञ्च पुरुषोत्तमः कुलभृदग्रगण्यः कृती
सुदत्तकुलसम्भवो निखिलशास्त्रविद्योत्तमः ।
विलोकितुमिहागतो द्विजवरैश्च राज्यं प्रभो !
चकार नृपतिः स तं विनयहीनतो निष्कुलम्” ॥ * ॥
अथाष्टौ सिद्धमौलिकाः ।
“गौडेऽष्टौ कीर्त्तिमन्तश्चिरवसतिकृता मौलिका
ये हि सिद्धास्ते दत्ताः सेनदासाः करगुहसहिताः
पालिताः सिंहदेवाः । ये वापाद्याभिमुख्याः स्थि-
तिविनयजुषः सप्ततिस्ते द्विपूर्ब्बा होडाद्या वीक्ष्य
राज्ञा चरणगुणवुता मौलिकत्वेन साध्याः” ॥ * ॥
अथ द्विसप्ततिः साध्यमौलिकाः ।
“होडः स्वर धर धरणी वान आइच सोमः पैसुर
सामः । भञ्जो विन्दो गुह वल लोधः शर्म्मा वर्म्मा
हुइ भुइ चन्द्रः ॥ रुद्रो रक्षित राजादित्यो विष्णु-
र्नागः खिल पिल गूतः । इन्द्रो गुप्तः पालो भद्र
ओमश्चाङ्कुर बन्धुर नाथः ॥ शाँइ हेशश्च मनो
गण्डो राहा राणा राहुत साना दाहा दाना गण
उपमाना । खामः क्षोमो घर वैओषो वीदस्तेज-
श्चार्णव आशः ॥ शक्तिर्भूतो ब्रह्मः शानः क्षेमो
हेमो बर्द्धन रङ्गः । गुइः कीर्त्तिर्यशः कुण्डुर्नन्दी
शीलो धनुर्गुणः ॥ * ॥ इति दक्षिणराढीयघटक-
कारिका ॥ * ॥ * ॥ * ॥
अथ वङ्गजकुलाचार्य्यकारिका लिख्यन्ते ।
अथ शूद्रोत्पत्तिः ।
तथा चाग्निपुराणोक्तजातिमालायाम् ।
“आदौ प्रजापतेर्जाता मुखाद्विप्राः सदारकाः ।
बाह्वोश्च क्षत्त्रिया जाता उर्व्वोर्व्वैश्या विजज्ञिरे ॥
पादाच्छूद्रश्च सम्भूतस्त्रिवर्णस्य च सेवकः ।
हीमनामा सुतस्तस्य प्रदीपस्तस्य पुत्त्रकः ॥
कायस्थस्तस्य पुत्त्रोऽभूद्बभूव लिपिकारकः ।
कायस्थस्य त्रयः पुत्त्राः विख्याता जगतीतले ॥
चित्रगुप्तश्चित्रसेनो विचित्रश्च तथैव च ।
चित्रगुप्तो गतः स्वर्गे विचित्रो नागसन्निधौ ॥
चित्रसेनः पृथिव्यां वै इति शूद्रः प्रचक्ष्यते” ॥ * ॥
अथ चित्रसेनादिसुताः ।
“वसुर्घोषो गुहो मित्रो दत्तः करण एव च ।
मृत्युञ्जयश्च सप्तैते चित्रसेनसुता भुवि ॥
करणस्य सुता जाता नागो नाथश्च दासकः ।
मृत्युञ्जयतनूद्भूता देवः सेनश्च पालितः ॥
सिंहश्चैव तथा ख्यातश्चैते पद्धतिकारकाः ।
एते पद्धतिकाराश्च मुनिभिः कथिताः पुरा” ॥ * ॥
अथ द्वादशशुद्धवंशजाः ।
“वसुर्घोषो गुहो मित्रो दत्तो नागश्च नाथकः ।
दासो देवस्तथा सेनः पालितः सिंह एव च ॥
एते द्वादशनामानः प्रसिद्धाः शुद्धवंशजाः” ॥ * ॥
अथ सप्ताशीतिः पद्धतिकाराः ।
“मृत्युञ्जयवंशभूतो नित्यानन्दो नृपेश्वरः ।
तस्यापि वंशसंजाताः सप्ताशीतिः प्रकीर्त्तिताः ॥
तेऽपि पद्धतिकाराश्च मुनिभिः कथिताः पुरा” ॥ * ॥
तेषां नामानि ।
करो भद्रो धरो नन्दी पालश्चाड्करदामकः ।
स्मारो धरणिहोडौ च वानश्चाइचसोमकौ ॥
पै सुरः शोनकश्चैव भञ्जो विन्दुर्गुहस्तथा ।
बलश्च लोदकश्चैव शर्म्मा वर्म्मा च भूमिकः ॥
हुइश्च रुद्रकश्चैव चन्द्रो रक्षितराजकौ ।
आदित्यविष्णुगुप्ताश्च खिलश्च पीलकस्तथा ॥
चाञिर्हेशश्च बन्धुश्च शाञिश्च सुमनुस्तथा ।
गण्डको राहकश्चैव राणाराहुतदाहकाः ॥
दाना गणश्च मानाश्च खामापक्षेमघारकाः ।
वैतोषवेदकाश्चैन्दश्चार्णवश्चावशक्तिकः ॥
भूतो ब्रह्मः संज्ञः क्षीमो बर्द्धनो हेमरङ्गकौ ।
भूञिः कीर्त्तिर्यशः कुण्डुः शीलश्चैव धनुर्गुणः ॥
दाँडिर्मनोरितिश्चैव चाकिश्च नन्दनस्तथा ।
श्यामश्चाढ्यश्च पूञिश्च तेजको नाद एव च ॥
रोइर्ह्रोमश्च हाथिश्च ढोलश्च दूतकस्तथा ।
एते पद्धतिकाराश्च सप्ताशीतिः प्रकीर्त्तिताः” ॥
एताः सप्ताशीतिपद्धतयः द्वादशशुद्धपद्धतयश्च मि-
लित्वा नवाधिकनवतिपद्धतयो भवन्ति ॥ एतेषां पु-
रोहितगोत्रप्रवरेण गोत्रप्रवरत्वं मुनिभिरुक्तम् ॥ * ॥
अथ कान्यकुब्जात् पञ्चानां विप्राणां शूद्राणाञ्चा-
गमनमाह देवीवरः ।
“अम्बष्ठकुलसम्भूत आदिशूरो नृपेश्वरः ।
राढगौडवरेन्द्राश्च वङ्गदेशस्तथैव च ॥
एतेषां नृपतिश्चैव सर्व्वभूमीश्वरो यथा ।
अमात्यैर्बान्धवैश्चैव मन्त्रिभिर्द्विजवृन्दकैः ॥
एतैः सह महीपाल एकदा स निजालये ।
उपविष्टो द्विजान् प्रष्टुं धर्म्मशास्त्रपरायणः ॥
केन यज्ञेन भगवत्प्रीतिर्भवति निश्चितम् ।
तत् सर्व्वं श्रोतुमिच्छामि कथयध्वं द्विजोत्तमाः ॥
इति श्रुत्वा द्विजाः सर्व्वेखर्व्वीकृतकलेवराः ।
कथयन्ति नृपाग्रे तु सर्व्वे विकृतमानसाः ॥
केन केन विधानेन यज्ञो वा क्रियते बुधैः ।
पृष्ठ २/०९८
:वयं सर्व्वे न जानीमो विधानं कीदृशं क्रतोः ॥
इति तेषां वचः श्रुत्वा चिन्तायुक्तो महीपतिः ।
किं करोमि क्व गच्छामि विललाप पुनः पुनः ॥
कान्यकुब्जात् समानीतान् दूतेन द्विजपञ्चकान् ।
वेदशास्त्रेष्ववगतान् सर्व्वास्त्रे च विशारदान् ॥
गोयानारोहितान् विप्रान् खड्गचर्म्मादिभिर्युतान् ।
पत्तिवेशान् समालोच्य विषादो जायते हृदि ॥
अश्रद्धा जायते राज्ञ इति ज्ञात्वा द्विजोत्तमाः ।
आशीर्व्वादार्थनिर्म्माल्यं मल्लकाष्ठोपरि स्थितम् ॥
तदा काष्टं सजीवं स्यात् फलपल्लवसंयुतम् ।
इति दृष्ट्वा नृपस्तस्मिन् कम्पान्वितकलेवरः ॥
स्तोत्रञ्च बहुधा तेषामकरोत् स नृपोत्तमः ।
आसनं पाद्यमानीय ददौ विनयपूर्ब्बकम् ।
उपविष्टा द्विजाः पञ्च तथा च शूद्रपञ्चकाः ॥
राजंस्ते कुशलं सर्व्वं प्रोचुश्चेत्यवदत् स तान् ।
अद्य मे सफलं जन्म जीवितञ्च सुजीवितम् ॥
पूतञ्च भवनं जातं युष्माकं गमनं यतः ।
एवञ्च क्रियते स्तोत्रं पृष्ट्वान्यत् शूद्रपञ्चके ॥
युष्माकं गोत्रमाख्या च किमर्थं वा द्विजैः सह ।
तत् सर्व्वं श्रोतुमिच्छामि ब्रूत भोः शूद्रपुङ्गवाः ॥
इति राज्ञो वचः श्रुत्वा कथयन् नामगोत्रके ।
काश्यपे चैव गोत्रे च दक्षनामा महामतिः ॥
तस्य दासो गौतमस्य गोत्रे दशरथो वसुः ।
शाण्डिल्यगोत्रे सम्भूतो भट्टनारायणः कृती ॥
सौकालिनश्च दासोऽयं घोषः श्रीमकरन्दकः ।
भरद्वाजेषु विख्यातः श्रीहर्षो मुनिसत्तमः ॥
दासस्तस्य विराटाख्यो गुहकः काश्यपः स्मृतः ।
सावर्णगोत्रनिर्द्दिष्टो वेदगर्भमुनिस्त्वयम् ॥
तस्य दासो मित्रवंशो विश्वामित्रश्च गोत्रकः ।
कालिदास इति ख्यातः शूद्रवंशसमुद्भवः ॥
वात्स्यगोत्रेषु सम्भूतश्च्छान्दडश्चेति संज्ञितः ।
मौद्गल्यगोत्रजो दत्तः पुरुषोत्तमसंज्ञकः ॥
एतेषां रक्षणार्थाय आगतोऽस्मि तवालये ।
इति श्रुत्वा नृपस्तत्र मनसा हर्षमागतः ॥
विधानेनैव निर्वर्त्त्य क्रतुञ्च धर्म्मसंज्ञितम् ।
ग्रामं सुवर्णं गाञ्चैव वस्त्राणि विविधानि च ॥
दक्षिणार्थे द्विजातिभ्यः प्रददौ स नृपोत्तमः ।
अत्र देशे कृतावासाः सर्व्वे च द्विजशूद्रकाः ॥
बहवश्च प्रजा जाता नानादेशनिवासिनः” ॥ * ॥
अथ वल्लालकृतश्रेणिविभागः ।
“अथ वल्लालभूपश्च अम्बष्टकुलनन्दनः ।
कुरुतेऽतिप्रयत्नेन कुलशास्त्रनिरूपणम् ॥
आदिशूरानीतविप्रान् शूद्रांश्चैव तथापरान् ।
एतेषां सन्ततीः सर्व्वा आनयत् स निजालये ॥
यत्र यत्र स्थिता विप्रास्तत्र ग्रामे निरोपिताः ।
श्रेणीद्वयन्तु निर्णीतं राढीवारेन्द्रसंज्ञितम् ॥
तथैव द्विविधं प्रोक्तं कुलञ्च सद्विजोत्तमे ।
शूद्रस्याथ चतम्रश्च नृपेण श्रेणयः कृताः ॥
उदगदक्षिणराढौ च वङ्गवारेन्द्रकौ तथा ।
इति चतस्रः संज्ञाः स्युस्तत्तद्देशनिवासनात् ॥
कुलं चतुर्व्विधं तेषां श्रेणीश्रेणीविशेषतः” ॥ * ॥
अथ वङ्गजकायस्थश्रेणिनिर्णयः ।
“तत्र वङ्गेषु यैः शूद्रैर्निवासः क्रियतेऽधुना ।
तेषां निर्णयमाचक्षे कुलञ्चैव विशेषतः ॥
वसुवंशे च मुख्यौ द्वौ नाम्ना लक्षणपूषणौ ।
घोषेषु च समाख्यातश्चतुर्भुजमहाकृती ॥
गुहे दशरथश्चैव मित्रे तारापतिस्तथा ।
दत्ते नारायणश्चैव एते च वङ्गजाः स्मृताः” ॥
अपरन्तु ।
“नागे दशरथश्चैव महानन्दस्तु नाथकः ।
चन्द्रशेखरदासस्तु सेने गङ्गाधरस्तथा ॥
दामोदरकरः ख्यातो दामस्तूषापतिस्तथा ।
पालिते जनसंज्ञः स्यात् चन्द्रे नारायणाख्यकः ॥
पाले आवः समाख्यातो राहावंशे च कृष्णकः ।
भद्रे दिगम्बरश्चैव धरे तु व्याससंज्ञकः ॥
प्रभाकरस्तु नन्दी स्यात् केशवो देववंशजः ।
अवीपतिरिति ख्यातः कुण्डुवंशे प्रकीर्त्तितः ॥
सोमे वंशधरश्चैव सिंहे रत्नाकरस्तथा ।
नारायणः समाख्यातो रक्षिते च तथापरे ॥
वेदगर्भाड्कुरश्चैव दैत्यारिर्विष्णुसंज्ञकः ।
आढ्ये त्रिलोचनः ख्यातो नन्दने च उषापतिः ॥
एते वङ्गजनिर्द्दिष्टा वल्लालेन महात्मना ।
अन्येऽपि शूद्रा विख्यातास्तत्र देशनिवासिनः ॥
ते वङ्गजाः समाख्याताः करणेषु प्रतिष्ठिताः” ॥ * ॥
अथ वङ्गजकुलीनादिनिरूपणम् ।
“कुलीन इति संज्ञा स्यात् मध्यन्यश्च तथापरः ।
महापात्रोऽचलश्चैव इति संज्ञाचतुष्टयम्” ॥
तद्यथा ।
“वसुर्घोषो गुहो मित्रो दत्तो नागश्च नाथकः ।
दासः सेनः करो दामः पालितश्चन्द्रपालकौ ॥
राहो भद्रो धरो नन्दी देवः कुण्डुश्च सोमकः ।
रक्षिताङ्कुरसिंहाश्च विष्णुराढ्यश्च नन्दनः ॥
चत्वारोऽग्र्यास्त्रयो मध्या महापात्राः परे तथा ।
सप्तविंशतिः शूद्राणां वल्लालेन प्रशंसिताः” ॥ * ॥
इति कुलीनमध्यन्यमहापात्राः । अचलान् वक्ष्यामि ।
“होढश्च स्मारकश्चैव धरणीवान एव च ।
आइचः पैसुरश्चैव शानश्च भञ्जविन्दुकौ ॥
गुहश्च वललोधौ च शर्म्मा वर्म्मा च भूमिकः ।
हुइश्च रुद्रकश्चैव राणादित्यौ च पीलकः ॥
खिलश्च गुप्तचाञी च बन्धुश्च शाञिसंज्ञकः ।
हेशश्च सुमनुर्गण्डो राणाराहुतदाहकाः ॥
दानागणापमानाख्याः खामः क्षेमश्च तोषकः ।
वैश्चापि घरवेदौ च भूतार्णवकब्रह्मकाः ॥
एन्दश्च शक्तिसङ्गौ च क्षेमाशौ वर्द्धनस्तथा ।
हेमश्च बन्धकश्चैव भूञिः कीर्त्तिश्च शीलकः ॥
धनुर्गुणो यशश्चैव मनोरीतिश्च दाडिकः ।
चाकिश्च श्याम पूञिश्च गण्डको नादकस्तथा ॥
रोइश्च होमकश्चैव चाशकश्च तथैव च ।
ढोलश्च दूतकश्चेति द्विसप्तत्यचलाः स्मृताः” ॥
एतेषां प्रतिपुरुषक्रमेण कुलार्च्चनात् महापात्र-
भावो जायते ॥ * ॥ इति वङ्गजघटकरामानन्द-
शर्म्मकृतकुलदीपिका ॥

कायस्था, स्त्री, (कायस्तिष्ठत्यनया । काय + स्था +

घञर्थे कः ।) हरीतकी । इति मेदिनी ॥ धात्री-
वृक्षः । इति जटाधरः ॥ काकोली । इत्यमर-
टीकायां भरतः ॥ एलाद्वयम् । तुलसी । इति
राजनिर्घण्टः ॥ कायस्थस्त्रीजातिः । कायस्थपत्न्यां
कायस्थी ॥

कायिकः, त्रि, (कायेन निष्पादितः निष्पन्नो वा

कायेन निर्वृत्त इति वा । काय + ठक् ।) शा-
रीरिकः । कायनिष्पन्नः । यथा ।
“अदत्तानामुपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च कायिकं त्रिविधं स्मृतम्” ॥
इति तिथ्यादितत्त्वम् ॥ (स्त्री, शरीरसम्बन्धिनी
चक्रवृद्धिः । यथा मनुः ८ । १५३ ।
“चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या” ॥)

कायिकावृद्धिः, स्त्री, (गोबलीवर्द्दादीनां कायपरि-

श्रमसाध्या या वृद्धिः ।) गवादिवलीवर्द्दादिकर्म्म-
युता वृद्धिः । यथा ।
“दोह्यवाह्यकर्म्मयुता कायिका समुदाहृता” ॥
इति व्यासः ॥ मूलधनाविरोधिनी प्रत्यब्ददेयपण-
तदर्द्धादिरूपा वृद्धिः । यथा ।
“कायाविरोधिनी शश्वत् पणार्द्धाद्या तु कायिका” ।
इति नारदः ॥ हलायुधस्तु पणार्द्धाद्या इत्यत्र
पणवाह्येति पठित्वा पणस्य मूलधनस्य यावदव-
स्थानं तावत् शश्वत् वर्षसहस्रमपि उत्तमर्णेन या
वाह्यते प्राप्यते सा कायिकेति व्याख्यातवान्
तत्राद्या भोगलाभान्तर्गता अपरा च तद्भिन्ना
इति मिश्राः । इति विवादार्णवसेतुः ॥

कारः, पुं, (कृ हिंसायां + भावे घञ् ।) वधः । निश्चयः ।

(धातूनामनेकार्थत्वात् अत्र निश्चयार्थेऽपि ॥ कं सुखं
ऋच्छत्यनेन । क + ऋ + करणे + घञ् ।) बलिः ।
यत्नः । यतिः । (कं सुखं निर्वृतिं ऋच्छतीति । क
+ ऋ + कर्त्तरि अण् ।) पतिः । इति शब्दरत्ना-
वली ॥ (कं निष्यन्दजलमृच्छतीति ।) तुषारशैलः ।
इति मेदिनीकरहेमचन्द्रौ ॥। कर्म्मोपपदे कर्तृवाच-
कः । यथा कर्म्मकारः स्वर्णकार इत्यादि । इति
व्याकरणम् ॥ क्रिया । यथा करणं कारः क्रिया ।
इति रामतर्कवागीशः ॥ (अक्षरान्ते तदक्षर-
वाचकः । यथा ककारः । मकारः । इत्यादिः ॥)

कारकं, क्ली, (क्रियाभिरन्वितं इति । भाष्यमते तु

करोति क्रियां निर्वर्त्तयतीति । कृ + कर्त्तरि ण्वुल् ।)
क्रियानिमित्तं लोकतः सिद्धम् । इति दुर्गसिंहः ॥
फणिभाष्यमते पुं, यथा भवितुः स प्रयोजकः
कारकः । तत्तु षड्विधम् । कर्म्म १ यथा रामं
नमति । करणम् २ यथा नेत्रैः शिवो दृष्टः ।
कर्त्ता ३ यथा जनैः शिवो दृष्टः । सम्प्रदानम् ४
यथा हरिः सद्भ्यः सुखं ददातु । अपादानम् ५
यथा विभीषणः पदाद्भ्रष्ठः । अधिकरणम् ६ यथा
रेमे शरदि गोविन्दः । इति वोपदेवः ॥ वर्षोप-
लोद्भवं जलम् । इति राजनिर्घण्टः ॥

कारकः, त्रि, (करोति कर्म्मादिकम् । कृ + “ण्वुल्तृ-

चौ” । ३ । १ । १३३ । इति ण्वुल् ।) कर्त्ता ।
इति मेदिनी ॥ (यथा मनुः ७ । २०४ ।
“आदानमप्रियकरं दानञ्च प्रियकारकम्” ॥)