ऋग्वेदः/ब्राह्मणम्/द्वितीय पञ्चिका/२.२१

विकिस्रोतः तः

शिरो वा एतद्यज्ञस्य यत्प्रातरनुवाकः प्राणापाना उपांश्वन्तर्यामौ वज्र एव वाङ्नाहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत। यदहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत वाचा वज्रेण यजमानस्य प्राणान्वीयाद्य एनं तत्र ब्रूयाद्वाचा वज्रेण यजमानस्य प्राणान्व्यगात्प्राण एनं हास्यतीति शश्वतत्तथा स्यात्तस्मान्नाहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत। प्राणं यच्छ स्वाहा त्वा सुहव सूर्यायेत्युपांशुमनुमन्त्रयेत तमभि प्राणेत्प्राण प्राणं मे यच्छेत्यपानं यच्छ स्वाहा त्वा सुहव सूर्यायेत्यन्तर्याममनुमन्त्रयेत तमभ्यपानेदपानापानं मे यच्छेति व्यानाय त्वेत्युपांशुसवनं ग्रावाणमभिमृश्य वाचं विसृजते। आत्मा वा उपांशुसवन आत्मन्येव तद्धोता प्राणान्प्रतिधाय वाचं विसृजते सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥2.21॥ (8.3) (51)