पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७०

विकिस्रोतः तः
← अध्यायः ०६९ पद्मपुराणम्
अध्यायः ०७०
वेदव्यासः
अध्यायः ०७१ →

पार्वत्युवाच-
यदाकर्णनमेतस्य ये वा पारिषदाः प्रभोः ।
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे १।
ईश्वर उवाच।
राधया सह गोविंदं स्वर्णसिंहासनेस्थितम् ।
पूर्वोक्तरूपलावण्यं दिव्यभूषांबरस्रजम् २।
त्रिभंगी मंजु सुस्निग्धं गोपीलोचनतारकम् ।
तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते ३।
प्रत्यंगरभसावेशाः प्रधानाः कृष्णवल्लभाः ।
ललिताद्याः प्रकृत्यंशा मूलप्रकृतिराधिका ४।
संमुखे ललिता देवी श्यामला वायुकोणके ।
उत्तरे श्रीमती धन्या ऐशान्यां श्रीहरिप्रिया ५।
विशाखा च तथा पूर्वे शैब्या चाग्नौ ततः परम् ।
पद्मा च दक्षिणे पश्चान्नैर्ऋते क्रमशः स्थिताः ६।
योगपीठे केसराग्रे चारु चंद्रावती प्रिया ।
अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्णवल्लभाः ७।
प्रधानप्रकृतिस्त्वाद्या राधा चंद्रावती समा ।
चंद्रावली चित्ररेखा चंद्रा मदनसुंदरी ८।
प्रिया च श्रीमधुमती चंद्ररेखा हरिप्रिया ।
षोडशाद्याः प्रकृतयः प्रधानाः कृष्णवल्लभाः ९।
वृंदावनेश्वरी राधा तथा चंद्रावली प्रिया ।
अभिन्नगुणलावण्य सौंदर्याश्चारुलोचनाः १०।
मनोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः ।
अग्रेतनास्तथा चान्या गोपकन्याः सहस्रशः ११।
शुद्धकांचनपुंजाभाः सुप्रसन्नाः सुलोचनाः ।
तद्रूपहृदयारूढास्तदाश्लेष समुत्सुकाः १२।
श्यामामृतरसे मग्नाः स्फुरत्तद्भावमानसाः ।
नेत्रोत्पलार्चिते कृष्णपादाब्जेऽपितचेतसः १३।
श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः ।
जगन्मुग्धीकृताकारा हृद्वर्तिकृष्णलालसाः १४।
नानासत्वस्वरालापमुग्धीकृतजगत्त्रयाः ।
तत्र गूढरहस्यानि गायंत्यः प्रेमविह्वलाः १५।
देवकन्यास्ततः सव्ये दिव्यवेषारसोज्ज्वलाः ।
नानावैदिग्ध्यनिपुणा दिव्यभावभरान्विताः १६।
सौंदर्यातिशयेनाढ्याः कटाक्षातिमनोहराः ।
निर्लज्जास्तत्र गोविंदे तदंगस्पर्शनोद्यताः १७।
तद्भावमग्नमनसः स्मितसाचि निरीक्षणाः ।
मंदिरस्य ततो बाह्ये प्रियया विशदावृते १८।
समानवेषवयसः समानबलपौरुषाः ।
समानगुणकर्माणः समानाभरणप्रियाः १९।
समानस्वरसंगीत वेणुवादनतत्पराः ।
श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे २०।
सुदामा च तथा पूर्वे किंकिणी चापि दक्षिणे ।
तद्बाह्ये स्वर्णपीठे च सुवर्णमंदिरावृते २१।
स्वर्णवेद्यंतरस्थे तु स्वर्णाभरणभूषिते ।
स्तोककृष्णं सुभद्राद्यैर्गोपालैरयुतायुतैः २२।
शृंगवीणावेणुवेत्रवयोवेषाकृतिस्वरैः ।
तद्गुणध्यानसंयुक्तैर्गायद्भिरपि विह्वलैः २३।
चित्रार्पितैश्चित्ररूपैः सदानंदाश्रुवर्षिभिः ।
पुलकाकुलसर्वांगैर्योगींद्रैरिव विस्मितैः २४।
क्षरत्ययोभिर्गोविंदैरसंख्यातैरुपावृतम् ।
तद्बाह्ये स्वर्णप्राकारे कोटिसूर्यसमुज्जवले २५।
चतुर्दिक्षुमहोद्यानं मंजुसौरभमोहिते ।
पश्चिमे संमुखे श्रीमत्पारिजातद्रुमाश्रये २६।
तदधस्तु स्वर्णपीठे स्वर्णमंडनमंडिते ।
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले २७।
तत्रोपरि परानंदं वासुदेवं जगत्प्रभुम् ।
त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् २८।
इंद्रनीलघनश्यामं नीलकुंचितकुंतलम् ।
पद्मपत्रविशालाक्षं मकराकृतिकुंडलम् २९।
चतुर्भुजं तु चक्रासिगदाशंखांबुजायुधम् ।
आद्यंतरहितं नित्यं प्रधानं पुरुषोत्तमम् ३०।
ज्योतीरूपं महद्धाम पुराणं वनमालिनम् ।
पीतांबरधरं स्निग्धं दिव्यभूषणभूषितम् ३१।
दिव्यानुलेपनं राजच्चित्रितांग मनोहरम् ।
रुक्मिणी सत्यभामा च नाग्नजिती सुलक्षणा ३२।
मित्रविंदानुविंदा सुनंदा जांबवती प्रिया ।
सुशीला चाष्टमहिला वासुदेवप्रियास्ततः ३३।
उद्भ्राजिताः पारिषदा वृतयोर्भक्तितत्पराः ।
उत्तरे सुमहोद्याने हरिचंदनसंश्रये ३४।
तत्राधस्तु स्वर्णपीठे मणिमंडपमंडिते ।
तन्मध्ये हेमनिर्माणदले सिंहासनोज्जवले ३५।
तत्रैव सह रेवत्या संकर्षण हलायुधम् ।
ईश्वरस्य प्रियानंतमभिन्नगुणरूपिणम् ३६।
शुद्धस्फटिकसंकाशं रक्तांबुज दलेक्षणम् ।
नीलपट्टधरं स्निग्धं दिव्यभूषास्रगंबरम् ३७।
मधुपाने सदासक्तं मधुघूर्णितलोचनम् ।
प्रवीरदक्षिणेभागे मंजुनाभ्यंतरस्थिते ३८।
संतानवृक्षमूले तु मणिमंदिरमंडितम् ।
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ३९।
प्रद्युम्नं च रती देवं तत्रोपरिसुखस्थितम् ।
जगन्मोहनसौंदर्य्यसारश्रेणीरसात्मकम् ४०।
असितांभोजपुंजाभमरविंददलेक्षणम् ।
दिव्यालंकारभूषाभिर्दिव्यगंधानुलेपनम् ४१।
जगन्मुग्धीकृताशेष सौंदर्याश्चर्यविग्रहम् ।
पूर्वोद्याने महारण्ये सुरद्रुम समाश्रये ४२।
तत्राधस्तु स्वर्णपीठे हेममंडपमंडिते ।
तस्य मध्ये स्थिरे राजद्दिव्यसिंहासनोज्ज्वले ४३।
दिव्योषयासमं श्रीमदनिरुद्धं जगत्पतिम् ।
सांद्रानंदघनश्यामं सुस्निग्धं नीलकुंतलम् ४४।
सुभ्रून्नतलताभंगीं सुकपोलं सुनासिकम् ।
सुग्रीवं सुंदरं वक्षो मनोहर मनोहरम् ४५।
किरीटिनं कुंडलिनं कंठभूषाविभूषितम् ।
मंजुमंजीरमाधुर्यादतिसौंदर्य विग्रहम् ४६।
प्रियभृत्यगणाराध्यं यत्र संगीतकप्रियम् ।
पूर्णब्रह्मसदानंदं शुद्धसत्वस्वरूपकम् ४७।
तस्योर्द्ध्वे चांतरिक्षे च विष्णुं सर्वेश्वरेश्वरम् ।
अनादिमादिचिद्रूपं चिदानंदं परं विभुम् ४८।
त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययम् ।
समेघपुंजमाधुर्यसौंदर्यश्यामविग्रहम् ४९।
नीलकुंचितसुस्निग्ध केशपाशातिसुंदरम् ।
अरविंददलस्निग्ध सुदीर्घचारुलोचनम् ५०।
किरीटकुंडलोद्गंड शुद्धसत्वात्मभिर्वृतम् ।
आत्मारामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः ५१।
हृदयारूढ तद्ध्य्नौर्नासाग्रन्यस्तलोचनैः ।
क्रियतेऽहैतुकीभक्तिः कायहृद्वृत्तिभाषितैः ५२।
तत्सव्ये यक्षगंधर्वसिद्धविद्याधरादिभिः ।
सुकांतैरप्सरःसंघैर्नृत्यसंगीततत्परैः ५३।
तदंगभजनं कामं वांछद्भिः कृष्णलालसैः ।
तदग्रे वैष्णवैः सर्वैश्चांतरिक्षे सुखासने ५४।
प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः ।
जनकाद्यैर्लसद्भावैर्हृद्बाह्य स्फूर्तितत्परैः ५५।
पुलकाकुलसर्वांगैः स्फुरत्प्रेमसमाकुलैः ।
रहस्यामृतसंसिक्तैरर्द्धयुग्माक्षरो मनुः ५६।
मंत्रचूडामणिः प्रोक्तः सर्वमंत्रैककारणम् ।
सर्वदेवस्य मंत्राणां कैशोरं मंत्रहेतुकम् ५७।
सर्वकैशोरमंत्राणां हेतुश्चूडामणिर्मनुः ।
जपं कुर्वंति मनसा पूर्णप्रेमसुखाश्रयाः ५८।
वांछंति तत्पदांभोजे निश्चलं प्रेमसाधनम् ।
तद्बाह्ये स्फटिकाद्युच्च प्रावारे सुमनोहरे ५९।
कुंकुमैः सितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः ।
शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ६०।
शंखचक्रगदापद्मकिरीटादि विभूषितम् ।
रक्तं चतुर्भुजं पद्मशंखचक्रगदायुधम् ६१।
किरीटकुंडलोद्दीप्त द्वारपालकमुत्तरे ।
गौरं चतुर्भुजं विष्णुं शुखचक्रगदायुधम् ६२।
किरीटकुंडलाद्यैश्च शोभितं वनमालिनम् ।
पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम् ६३।
कृष्णवर्णं चतुर्बाहुं शंखचक्रादिभूषणम् ।
दक्षिणद्वारपालं तु श्रीविष्णुंकृष्णवर्णकम् ६४।
श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः ।
शृणुयाद्वापि यो भक्त्या गोविंदे लभते रतिम् ६५।
इति श्रीपद्मपुराणे पातालखंडे कृष्णचरिते सप्ततितमोऽध्यायः ७०।