श्रीमद्भागवतपुराणम्/स्कन्धः ७/अध्यायः २

विकिस्रोतः तः

सप्तमः स्कन्धः - अथ द्वितीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.

हिरण्याक्षाच्या वधानंतर हिरण्यकशिपूकडुन माता व कुंटुंबियांचे सांत्वन

नारद उवाच भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना । हिरण्यकशिपं राजन पर्यंतप्यद्रुषा शुचा ॥१॥

आह चेदं रुषा घुर्णः सन्दष्ट दशनच्छदः । कोपोज्वलदभ्यां चक्षुभ्यां निरीक्षन ध्रुममम्बरम ॥२॥

करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः । शुलमुद्यम्य सदसि दानवानिदमब्रवीत ॥३॥

भो भो दानवदैतेयाः द्विमूर्धस्त्रक्ष शम्बर । शतबाहो हयग्रीव नमुचे पाक इल्वल ॥४॥

विप्रचित्ते मम वचः पुलोमन शकुनादयः । श्रृणुतानन्तरं सर्व क्रियतामाशु मा चिरम ॥५॥

सपत्नैर्घातितःक्षुद्रैर्भ्राता मे दयितः सुहृत । पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥६॥

तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः । भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥७॥

मच्छूलाभिन्नग्रीवस्य भुरिणा रुधिरेण वै । रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥८॥

तस्मिन कुटेऽहिते नष्टे कृत्तमूले वनस्पतौ । विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥९॥

तावद्यात भुवं युयं विप्रक्षत्रसमेधिताम । सुदयध्वं तपोयज्ञस्वाध्यायव्रतदानिनः ॥१०॥

विष्णूंर्द्विजक्रियामुलो यज्ञो धर्ममयः पुमान । देवर्षिपितृभुतानां धर्मस्य च परयणम ॥११॥

यत्र यत्र द्विजा गावो वेदा वर्णाश्रमः क्रियाः । तं तं जनपदं यात सन्दीपयत वृश्चत ॥१२॥

इति ते भुर्तुनिर्देशमादाय शिरसाऽऽदुताः । तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥१३॥

पुरग्रामव्रजोद्यानक्षेत्रारामा श्रमाकरान । खेटवर्वटघोषांश्च ददहुः पत्तनानि च ॥१४॥

केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान । आजीव्यांस्चिच्चिदुर्वृक्षान केचित्पशुरपाणयः । प्रादहन शरणान्यन्ये प्रजांना ज्वालितोल्मुकैः ॥१५॥

एवं विप्रकृते लोके दैत्येन्दरानुचरैर्मुहुः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥१६॥

हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा कटोदकादिनी भ्रातुपुत्रानसान्त्वयत ॥१७॥

शकुनिं शम्बरं धृष्टं भूतसन्तापनं वृकम । कालनाभं महानाभं हरिश्मश्रुमथोत्कचम ॥१८॥

तन्मातरं रुषाभानुं दितिं च जननीं गिरा । श्‍लक्ष्णया देशकालज्ञ इदमाह जनेश्वरः ॥१९॥

हिरण्यकशिपुरुवाच अम्बाम्ब हे वधुः पुत्रा वीरं मार्हथ शोचितुम । रिपोरभिमुखे श्लाघ्यः शुराणां वध ईप्सितः ॥२०॥

भुतानामिह संवाहः प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानं स्वकर्मभिः ॥२१॥

नित्य आत्माव्ययःशुद्धः सर्वगः सर्वविप्तरः । धत्तेऽसावात्मनो लिंग मायया विसृजन्गुणान ॥२२॥

यथा मभसा प्रचलता तरवोऽपि चला इव । चक्षुणा भ्राम्यमाणेन दृश्यते चलतीत भूः ॥२३॥

एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान । याति तत्साम्य्ततां भद्रे ह्यालिंगोलिंगवानिव ॥२४॥

एष आत्मविपर्यासो ह्यालिंगेः लिंगभावना । एष प्रियाप्रिर्यैर्योगो वियोगः कर्मसंसृतिः ॥२५॥

सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः । अविवेक्श्च चिन्ता च विवेकास्मृतिरेव च ॥२६॥

अत्राप्युदहरन्तीममितिहासं पुरातनम । यमस्य प्रेतबन्धुनां संवादं तं निबोधत ॥२७॥

उशीनरेष्वभुद्राचा सुयज्ञ इति विश्रुतः । सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥२८॥

विशीर्णरत्‍नकवचं विभ्रष्टाबह्रणस्रजम । शरनिर्भिन्नहृदयं शयानमसृगाविलम ॥२९॥

प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम । रजः कुण्ठमुखाम्भोजं छिन्नायुधभुजं मॄधे ॥३०॥

उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः । हताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपापतन ॥३१॥

रुदत्य उच्चेर्दयितांडघ्रिपंकज सिचंन्त्य अस्त्रैः कुचकुडकुमारुणैः । विस्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे ॥३२॥

अहो विधात्राकरुणेन नः प्रभो भवान प्रणीतो दृदगोचरां दशाम । उशीनराणामासि वृत्तिदः पुरा कृतोऽधुना येन शुचां विवर्धनः ॥३३॥

त्वया कृतज्ञेन वयं महीपते कथं विना स्याम सुहृत्तमेन ते । तत्रानुयानं तव वीर पादयोः शुश्रुषतीनां दिशं यत्र यास्यसि ॥३४॥

एवं विलपतीनांवै परिगृह्या मृतं पतिम । अनिच्छतीनां निर्हारकार्कोऽस्तं संन्यवर्तत ॥३५॥

तत्र ह प्रेतबन्धुनामाश्रुत्य परिदेवितम । आह तान बालको भुत्वा यमः स्वय्मुपागतः ॥३६॥

यम उवाच अहो अमीषां वयसाधिकांनी विपश्यतां लोकविधि विमोहः । यत्रगतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम ॥३७॥

अहो वयं धन्यतमा यदत्र त्यक्ता पितृषां न विचिन्तयामः । अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि नर्भे ॥३८॥

य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः । तस्याबलाः क्रीडनमाहुरेशितु श्चराचरं निग्रहसंग्रेहे प्रभुः ॥३९॥

पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति । जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽपि गुप्तोऽस्य हतो न जीवति ॥४०॥

भुतानि तैस्तैर्निजयोनिकर्मभिर्भवन्ति काले न भवन्ति सर्वशः । न तत्र हात्मा प्रकृतावपि स्थित स्तस्या गुणैरन्यतमो निबध्यते ॥४१॥

इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भीतिकमीयते गृहम । यथौदकैः पार्थिवतैजसैर्जनः कालेनःजातो विकृतो विनश्यति ॥४२॥

यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक स्थितः । यथा नभः सर्वगतं ग सज्जते तथा पुमान सर्वगुणाश्रयः परः ॥४३॥

सुयज्ञो नन्वयं शेते मुढा यमनुशोचथ । यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित ॥४४॥

न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः । यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः ॥४५॥

भुतेन्द्रियमनोलिंगन देहानुच्चावचान विभूः । भजत्युत्सृजति ह्यान्यस्तच्चपि स्वेन तेजसा ॥४६॥

यावाल्लिंगन्वितो ह्यात्मा तावत कर्म निबन्धनम । ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते ॥४७॥

वितथाभिनिवेशोऽयं यद गुणैष्वर्थदृग्वचः । यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥४८॥

अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । नान्यथा शक्यते कर्तृं स्वभावः शोचतामिति ॥४९॥

लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः । वितत्य जालं विदधे तत्र तत्र प्रलोभयन ॥५०॥

कुलिंगमिथुनं तत्र विचरत्समदृश्यत । तयोः कुलिंगीं सहसा लुब्धकेन प्रलोभिता ॥५१॥

सासज्जत शिचस्तन्त्यां महिषी कालयन्त्रिता । कुलिंगस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः । स्नेहादकल्पः कृपणः कृपणां पर्यदेवयतः ॥५२॥

अहो अकरुणो देवः स्त्रियाऽऽकरुणया विभुः । कृपणं मानुशोचन्त्त्या दीनया किं करिष्यति ॥५३॥

कामं नयतु मां देवः किमर्धेनात्मनो हि मे । दीनेन जीवता दुःखमनेन विधुरायुषा ॥५४॥

कथं त्वजातपक्षांस्तान मातृहीनाना बिभर्म्यहम । मन्दभाग्यः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥५५॥

एवं कुलिंग विलपन्तमारात प्रियवियोगातुरमश्रुकण्ठम । स एव तं शाकुनिकः शरेण विव्याध कालप्रहितो विलीनः ॥५६॥

एवं युयमपश्यन्त्य आत्मापायमबुद्धयाः । नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥५७॥

हिरण्यकशिपुरुवाच बाल एवं प्रवदति सर्वे विस्मितचेतसः । ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम ॥५८॥

यम एतदुपाख्याय तत्रैवान्तरधीयत । ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्साम्परयिकम ॥५९॥

ततः शोचत मा युयं परं चात्मानमेव च । क आत्मा कः परो वात्र स्वीयः पारक्य एव वा । स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम ॥६०॥

नारद उवाच इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा । पुत्रशोकं क्षणात्यक्त्वा तत्त्वे चित्तमधारयत ॥६१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितांयां सप्तमस्कन्धे दितिशोकापनयनं नाम द्वितीयोऽध्यायः ॥२॥