तर्कसङ्ग्रहः/अवशिष्टगुणनिरूपणम्
अथावशिष्टगुणनिरूपणम्
[सम्पाद्यताम्]॥अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात्॥१॥
अयथार्थानुभवं विभजते अयथार्थ इति। स्वप्नस्य मानसविपर्ययरूपत्वान्न त्रैविध्यविरोधः।
॥एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः। यथा स्थाणुर्वा पुरुषो वेति॥२॥
संशयलक्षणमाह एकेति। घटपटाविति समूहावलम्बनेऽतिव्याप्तिवारणाय एकेति। ’घटो द्रव्यम्’ इत्यादावतिव्याप्तिवारणाय विरुद्धेति।घटत्वविरुद्धपटत्ववान् इत्यत्र अतिव्याप्तिवारणाय नानेति।
॥मिथ्याज्ञानं विपर्ययः। यथा शुक्तौ इदं रजतमिति॥३॥
विपर्ययलक्षणमाह मिथ्येति। तदभाववति तत्प्रकारकनिर्णय इत्यर्थः।
॥व्याप्यारोपेण व्यापकारोपास्तर्कः, यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति॥४॥
तर्कं लक्षयति व्याप्येति। यद्यपि तर्को विपर्ययेऽन्तर्भवति, तथापि प्रमाणानुग्राहकत्वाद्भेदेन सङ्कीर्तनीयम्।
॥स्मृतिरपि द्विविधा। यथार्थायथार्था च। प्रमाजन्या यथार्था। अप्रमाजन्याऽयथार्था॥५॥
स्मृतिं विभजते स्मृतिरिति।
॥सर्वेषामनुकूलतया वेदनीयं सुखम्॥६॥
सुखं लक्षयति सर्वेषामिति। ’सुख्यहम्’ इत्याद्यनुव्यवसायगम्यं सुखत्वादिकमेव लक्षणम्। यथाश्रुतं तु स्वरूपकथनमिति द्रष्टव्यम्।
॥सर्वेषां प्रतिकूलतया वेदनीयं दुःखम्॥७॥
॥इच्छा कामः। क्रोधो द्वेषः। कृतिः प्रयत्नः। विहितकर्मजन्यो धर्मः। निषिद्धकर्मान्यस्त्वधर्मः॥८॥
॥बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः। बुद्धीच्छाप्रयत्ना द्विविधा। नित्या अनित्याश्च। नित्या ईश्वरस्य अनित्या जीवस्य॥९॥
॥संस्कारस्त्रिविधः। वेगो भावना स्थितिस्थापकश्चेति। वेगः पृथिवादिचतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुर्भावना। आत्ममात्रवृत्तिः। अन्यथाकृतस्य पुनस्तदवस्थापकः स्थितिस्थापकः, कटादिपृथिवीवृत्तिः॥१०॥
संस्कारं विभजते संस्कार इति। संस्कारत्वजातिमान्संस्कारः। वेगस्याश्रयमाह वेग इति। वेगत्वजातिमान्वेगः। भावनां लक्षयति अनुभवेति। अनुभवध्वंसेऽतिव्याप्तिवारणाय स्मृतिरिति। आत्मादावतिव्याप्तिवारणाय अनुभवेति। स्मृतेरपि संस्कारजनकत्वं नवीनैरुक्तम्। स्थितिस्थापकं लक्षयति अन्यथेति। सङ्ख्यादयोष्टौ नैमित्तिकद्रवत्ववेगस्थितिस्थापकाः सामान्यगुणाः। अन्ये रूपादयो विशेषगुणाः। द्रव्यविभाजकोपाधिद्वयसमानाधिकरणावृत्तिजातिमद्गुणत्वं विशेषगुणत्वम्।