भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १७५

विकिस्रोतः तः

तुलापुरुषदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पुरा प्रियव्रतो राजा पुत्रः स्वायंभुवस्य तु ।।
पालयामास वसुधां प्रजापतिरिवापरः ।। १ ।।
त्रिंशद्वर्षसहस्राणि पालयित्वा महीमिमाम् ।।
सप्तद्वीपान्विभज्यासौ पुत्रेभ्यः प्रददौ विभुः ।। २ ।।
राज्ये निक्षिप्य तनयान्सप्तद्वीपेषु सप्त सः ।।
विषयानुपसंहृत्य जगाम तपसे वनम् ।। ३ ।।
तपोवनगतं श्रुत्वा राजानं परमद्युतिम् ।।
समाजग्मुर्महात्मान ऋषयस्तं दिदृक्षवः ।। ४ ।।
तानागतानृषीन्दृष्ट्वा तपोनिर्धूतकल्मषान् ।।
पूजयामास मेधावी विधिदृष्टेन कर्मणा ।। ५ ।।
पाद्यार्घ्याचमनीयेन प्रियप्रश्नोत्तरेण च ।।
अथ तेषूपविष्टेषु ब्राह्मणेषु महात्मसु ।। ६ ।।
आजगाम महातेजाः पुलस्त्यो ब्रह्मणः सुतः ।।
दीप्यमानो महातेजा द्वितीय इव भास्करः(पावकः) ।। ७ ।।
तं दृष्ट्वा मुनयः सर्वे स च राजा महारथः ।।
उत्तस्थुर्विस्मिताः सर्वे प्रोत्फुल्लन यनास्ततः ।। ८ ।।
कृत्वा तु संविदं तेन यथायोग्यं विधानतः ।।
विष्टरं च ददुस्तस्मै पाद्यार्घ्याचमनादिकम् ।। ९ ।।
ततस्तु मुनयः सर्वे समा सीना यथासुखम् ।।
चक्रुः कथा मुदायुक्ता वेदोक्तविविधाश्रयाः ।। १० ।।
ततः कथांते कस्मिंश्चिन्मुनयस्ते सराजकाः ।।
पप्रच्छुर्ब्रह्मतनयं लोकानां हितकाम्यया ।। ११ ।।
।। ऋषय ऊचुः ।। ।।
भगवन्केन दानेन व्रतेन नियमेन वा ।।
प्राप्यते सद्गतिः पुंभिः स्त्रीभिश्च मुनिसत्तम ।। १२ ।।
इच्छामः श्रोतुमेतत्ते राजा चायं यतव्रतः ।।
।। पुलस्त्य उवाच ।। ।।
शृणुध्वं मुनयः सर्वे रहस्यं पापनारानम् ।। १३ ।।
उत्तमं सर्व दानानां समवायं वदामि वः ।।
यद्दत्त्वा ब्रह्महा गोघ्नः पितृघ्नो गुरुतल्पगः ।। १४ ।।
कृतघ्नः कूटसाक्षी च मुच्यते पातकान्नरः ।।
सद्यो दिव्य तनुश्चैव जायते स्त्री तथैव च ।। १५ ।।
कृच्छ्रचांद्रायणाद्यैश्च तुलापुरुषसंज्ञितैः ।।
व्रतैश्च पाचयेद्देहमाकांक्षन्ब्रह्मणः पदम् ।। १६ ।।
कृच्छ्रचांद्रायणादीनि व्रतानि मुनिसत्तमाः ।।
ब्राह्मणानां वनस्थानां भिक्षो रंडाजनस्य च ।। १७ ।।
कायक्लेशेन सिध्यंति गृहस्थेषु न तानि वै ।।
महाधनाश्च ये लोका राजानो रत्नभागिनः ।। १८ ।।
न तेषां कृच्छ्रसाध्योऽपि क्वचिद्धर्मः प्रशस्यते ।।
यदेतद्द्रविणं नाम प्राणाश्चैते बहिश्चराः ।। १९ ।।
तस्माद्बहिश्चरैः प्राणैरात्मा योज्यः सदा बुधैः ।।
द्रव्याणामुत्तमं लोके कांचनं सार्वकामिकम् ।। २० ।।
अपत्यं सुरमुख्यस्य ज्येष्ठं चैवं विभावसोः ।।
तेन सार्द्धं य आत्मानं तोलयेत्प्रयतो बुधैः ।। २१ ।।
विधूय सर्वपापानि सद्यो दिव्यतनुर्भवेत् ।।
एतत्पुलस्त्यमुनिना ऋषीणां पार्थिवस्व च ।। २२ ।।
समाख्यातं नृपश्रेष्ठ तेभ्यश्च तन्मया श्रुतम् ।।
।। युधिष्ठिर उवाच ।। ।।
तुलापुरुषदानस्य विधानं परमेश्वर ।। २३ ।।
कथयस्व महाभाग मम भक्तानुकंपया ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणुष्वावहितो राजन्विधानं गदतो मम ।। २४ ।।
तुलापुरुषसंज्ञस्य दानस्येह नृपोत्तम ।।
व्यतीपातेऽयने चैव कार्तिक्यां विषुवे तथा ।। २५ ।।
चन्द्रसूर्यग्रहे यद्वा माघ्यां वा नृपसत्तम ।।
जन्मर्क्षे ग्रहपीडासु तथा दुःस्वप्नदर्शने ।। २६ ।।
यदा वा जायते वित्तं तदा देयमिदं भवेत् ।।
अनित्यं जीवितं यस्माद्वपुश्चातीव चञ्चलम् ।। २७ ।।
केशेषु च गृहीतः सन्मृत्युना धर्ममाचरेत् ।।
तस्माद्यदैव जायेत श्रद्धा दानं प्रति प्रभो ।। २८ ।।
तदैव दानकालः स्यात्कारणं हि यतो मम ।।
तीर्थे वायतने गोष्ठेष्वथ वा भव नांगणे ।।
मण्डपं कारयेद्विद्वांश्चतुर्भद्राननं बुधः ।। २९ ।।
आर्द्रशाखान्वितं दिव्यं प्रागुदक्प्रवणं दृढम् ।।
षोडशारत्निमात्रं च पताकाभिरलंकृ तम् ।। ३० ।।
तन्मध्ये कारयेद्वेदिं हस्तमात्रोच्छ्रितां शुभाम् ।।
चतुरस्रां समंताच्च सप्तहस्तां सुशोभनाम् ।। ३१ ।।
तस्या मध्ये तुलां दिव्यां स्थाप येद्विधिपूर्वकम् ।।
हस्तद्वयं च निखनेच्चतुर्हस्तोच्छ्रितां बुधः ।।३२।।
स्तंभद्वयं महाराज स्थापयेत्सुदृढं नवम् ।।
चंदनः खदिरो बिल्वः शाकश्चैवेंगुद स्तथा ।।३३।।
तिंदुको देवदारुश्च श्रीपर्णश्चाष्टमः स्मृतः ।।३४।।
इत्यष्टौ वृक्षजातीयाः स्तंभास्ते परिकीर्तिताः ।।
अन्यथापि भवेद्वृक्षः सारज्ञो याज्ञिकस्तथा।।३५।।
सुनिश्चलं ततः कृत्वा तिर्यक्काष्ठमथोपरि।।
न्यसेत्तद्वृक्षजातीयं चतुर्हस्तं प्रमाणतः ।।३६।।
समानजातिं तु तुलां तन्मध्ये योजयेद्दृढम्।।
षण्णवत्यंगुला दिव्या समग्रा लोहपाशिका ।। ३७ ।।
कृष्णलोहमयौ तस्यां कर्णौ चापि प्रकल्पयेत् ।।
तुलापुरुषसंज्ञस्तु मध्ये कार्यः पुमान्भ वेत् ।। ३८ ।।
एवंविधां तुलां कृत्वा नानारत्नैर्विभूषिताम्।।
चंदनेनानुलिप्तांगीं वस्त्रालंकारविग्रहाम् ।। ३९ ।।
स्तंभौ च वस्त्रसंयुक्तौ पुष्पमालाव लंबिनौ ।।
चंदनेनानुलिप्तांगौ नानात्नैरलंकृतौ ।। ४० ।।
कुण्डानि चात्र चत्वारि योनियुक्तानि कारयेत् ।।
हस्तमात्रप्रमाणानि मेखलात्रयवंति च ।। ४१ ।।
पूर्वोत्तरे हस्तमिता वेदिः कार्या सुशोभना ।।
लोकपालग्रहाणां च पूजा तत्र विधीयते ।। ४२ ।।
अर्चार्चनं च तत्रैव विरिंच्यच्युतयो र्नृप ।।
शंकरस्य भवेत्कार्यं माल्यवस्त्रफलाक्षतैः ।। ४३ ।।
तोरणानि च कार्याणि क्षीरवृक्षोद्भवानि च ।।
चतुर्द्वारेषु संस्थाप्याः कुम्भाः स्रक्पल्ल वाननाः ।। ४४ ।।
पंचरत्नसमायुक्ताः सप्तधान्योपरिस्थिताः ।।
ऋग्वेदपाठकौ द्वौ च पूर्वकुण्डे नियोजयेत् ।। ४५ ।।
यजुर्वेदविदौ याम्ये पश्चिमे सामवेदिनौ ।।
अथर्वणावुत्तरतो नवमो धर्मदेशकः ।।४६।।
अत्रैव केचिदिच्छंति ऋषयः षोडशर्त्विजः ।।
ताम्रपात्रद्वयं देयमेकैकस्मै तथासनम् ।। ।।४७।।
होमद्रव्याणि सर्वाणि तिलाज्यं समिधस्तथा।।
स्रुवाः स्रुचश्च शस्त्राणि विष्टरः कुसुमानि च ।।४८।।
लोकपालाः सुवर्णास्तु पताकाः परितः शुभाः ।।
महाध्वजं च बध्नीयात्पंचवर्णं वितानकम् ।। ४९ ।।
एतत्सर्वं समाहृत्य पुण्येऽहनि विचक्षणः ।।
वर्द्धकिर्ब्राह्मणैः सार्द्धं सर्वशिल्पविशा रदः ।। ५० ।।
संपूर्णं यजमानाय दर्शयेद्यज्ञमंडपम् ।।
यजमानस्ततः प्राज्ञः शुक्लांबरधरः शुचिः ।। ५१ ।।
शंखतूर्यनिनादेन वेदध्वनिरवेण च ।।
प्रक्षिपेल्लोकपालानामेभिर्मंत्रैः शुभैर्बलिम् ।। ५२ ।।
एह्येहि सर्वामरसिद्धसाध्यैरभिष्टुतो वज्रधरामरेश ।।
संवीज्यमानोप्सरसां गणेन रक्षाध्वरं नो भगवन्नमस्ते ।। ५३ ।।
( ॐ इंद्राय नमः) ।।
एह्येहि सर्वामरहव्यवाह मुनिप्रवीरेरभिहृष्टमानसः ।।
तेजोवता लोकगणेन सार्द्धं ममाध्वरं रक्ष कवे नमस्ते ।।५४।।
( ॐ अग्नये नमः ।।)
एह्येहि वैवस्वतधर्मराज सर्वामरैरर्चितदिव्यमूर्ते ।।
शुभाशुभानंदकृतामधीश रक्षाध्वरं मे भगवन्नमस्ते ।।५५।।
ॐ यमाय नमः) ।।
एह्येहि रक्षोगणनायकस्त्वं विशालवेतालपिशाचसंघैः ।।
ममाध्वरं पाहि पिशाचनाथ लोकेश्वरस्त्वं भगवन्नमस्ते ।। ५६ ।।
ॐ निर्ऋतये नमः।।)
एह्येहि यादोगणवारिधीनां गणेन पर्जन्य सहाप्सरोभिः ।।
विद्याधरेन्द्रामरगीयमान पाहि त्वमस्मान्भगवन्नमस्ते ।। ५७।।
( ॐ वरुणाय नमः ।।
एह्येहि यज्ञे मम रक्षणाय मृगाधिरूढः सह सिद्धसंघैः ।।
प्राणाधिपः कालकवेः सहायो गृहाण पूजां भगवन्नमस्ते ।। ५८ ।।
( ॐ वायवेय नमः)
एह्येहि यज्ञेश्वर यज्ञरक्षां विधत्स्व नक्षत्रगणेन सार्द्धम् ।।
सर्वौषधीभिः पितृभिः सहैव गृहाण पूजां भगवन्नमस्ते ।। ५९ ।।
( ॐ सोमाय नमः ।।)
एह्येहि विश्वेश्वर विश्वमूर्ते त्रिशूलखट्वाङ्गधरेण सार्द्धम् ।।
लोकेन भूतेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन्नमस्ते ।। ६० ।।
( ईशानाय नमः ।।)
एह्येहि पातालधराधरेन्द्र नागांगनाकिन्नरगीयमान ।।
यक्षोरगेन्द्रामरलोकसंघैरनंत रक्षाध्वरमस्मदीयम् ।।६१।।
( ॐ अनंताय नमः)
एह्येहि विश्वाधिपते मुनींद्र लोकेश सार्द्धं पितृदेवताभिः ।।
विशाध्वरांतः सततं शिवाय पितामहस्त्वं सततं नमस्ते ।। ६२।।
( ॐ ब्रह्मणे नमः)
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।।
ब्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्वंतु तानि मे ।। ६३ ।।
देवदानवगन्धर्वा यक्ष राक्षसपन्नगाः ।।
ऋषयो मनवो गावो देवमातर एव च ।।६४।।
सर्वे ममाध्वरे रक्षां प्रकुर्वंतु मुदान्विताः ।।
इत्यावाह्य सुरान्दद्यादृत्विग्भ्यः कण्ठ भूषणम् ।। ६५ ।।
कुंडलानि च हैमानि सूत्राणि कटकानि च ।।
तथांगुलिपवित्राणि वासांसि कुसुमानि च ।। ६६ ।।
द्विगुणं गुरवे दद्याद्भूषणा च्छादनादिकम् ।।
आघारावाज्यभागौ तु पूर्वं हुत्वा विचक्षणः ।। ६७ ।।
प्रणवादिस्वनाम्ना च स्वाहांतो होम उच्यते ।।
होमः सुराणां कर्तव्यो ये चैवात्र प्रतिष्ठिताः ।। ६८ ।।
ग्रहाणां लोकपालानां शिवकेशवयोस्तथा ।।
वनस्पतिभ्यो ब्रह्मणे होमः कार्यो यथेच्छया ।। ५९ ।।
ततो मंगलशब्देन स्थापितो वेदमंगलैः ।।
त्रिःप्रदक्षिणमावृत्य गृहीतकुसुमांजलिः ।। ७० ।।
शुक्लमाल्यांबरो भूत्वा तां तुलामभिमंत्रयेत् ।।
नमस्ते सर्वदेवानां शक्तिस्त्वं सत्यमास्थिता ।। ७१ ।।
साक्षिभूता जगद्धात्रि निर्मिता विश्वयोनिना ।।
एकतः सर्वसत्यानि तथानृतशतानि च ।। ७२ ।।
धर्माधर्मभृतां मध्ये स्थापितासि जगद्धिते ।।
त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता ।। ७३ ।।
मां तोलयंती संसारादुद्धरात्र नमोस्तुते ।।
योऽसौ तत्त्वा धिपो देवः पुरुषः पचविंशकः ।। ७४ ।।
स एकोऽधिष्ठितो देवि त्वयि तस्मान्नमो नमः ।।
नमो नमस्ते गोविंद तुलापुरुषसंज्ञक ।। ७५ ।।
त्वं हरे तारयस्वास्मानस्मात्संसारसागरात् ।।
पुण्यकालमथासाद्य कृत्वैवमधिवासनम् ।। ७६ ।।
प्रणम्य परया भक्त्या तां तुलामारुहेद्बुधः ।।
स सङ्गचर्मकवची सर्वाभरणभूषितः ।। ७७ ।।
धर्मराजमथादाय हेमसूर्येण संयुतम् ।।
कराभ्यां बद्धमुष्टिभ्यामास्ते पश्यन्हरेर्मुखम् ।। ७८ ।।
वामे यमं तथा गृह्य दक्षिणे च रविं तथा ।।
ततोऽपरे तुलाभागे न्यसेयुर्द्विजपुंगवाः ।।
साम्यादभ्यधिकं यावत्कांचनं चातिनिर्मलम् ।। ७९ ।।
पुष्टिकामस्तु कुर्वीत भूमिसंस्थं नरेश्वर ।।
क्षणमात्रं ततः स्थित्वा पुनरेतदुदीरयेत्।। ८० ।।
नमस्ते सर्वभूतानां साक्षिभूते सनातने ।।
पितामहेन देवि त्वं निर्मिता परमेष्ठिना ।। ८१ ।।
त्वयोद्धृतं जगत्सर्वं सह स्थावरजंगमम् ।।
सर्वभूतात्मभूतस्थे नमस्ते विश्वधारिणि ।। ८२ ।।
ततोऽवतीर्य गुरवे सर्वमर्द्धं निवेदयेत्।।
ऋत्विग्भ्योऽपरमर्द्धं च दद्यादुदकपूर्वकम् ।। ८३ ।।
प्राप्य तेषामनुज्ञां वा तथान्येभ्योऽपि दापयेत् ।।
दीनानाथ विशिष्टादीन्पूजयेद्ब्राह्मणैः सह ।। ८४ ।।
न चिरं धारयेद्गेहे हेमसंप्रोक्षितं बुधः ।।
तिष्ठद्भयावहं यस्मात्कष्टव्याधिकरं भवेत् ।। ८५ ।।
रात्रिं परस्वीकर णाच्छ्रियं प्राप्नोत्यनुत्तमाम् ।।
अनेनैव विधानेन केचिद्रौप्यमयं तथा त ८६ ।।
कर्पूरेण तथेच्छंति केचिद्ब्राह्मणपुंगवाः ।।
तथासिततृतीयायां नार्यः सौभाग्यवर्धिताः ।। ८७ ।।
कुंकुमेन प्रयच्छंति लवणेन गुडेन च ।।
तत्र मंत्रा न होमो वा एवमेव प्रदापयेत् ।। ८८ ।।
विधिनानेन यो दद्या द्दानमेतत्समाहितः ।।
तस्य पुण्यफलं राजञ्छृणुष्व गदतो मम ।। ८९ ।।
विमानवरमास्थाय नारी वा पुरुषोऽपि वा ।।
अप्सरोगणसंकीर्णं गंध र्वनगरोपमम् ।। ९० ।।
नानावृक्षाकुलं रम्यं नानागंधाधिवासितम् ।।
अनेकरत्नविद्धांगं मुक्तादामावलंबितम् ।। ९१ ।।
शयनासनसंकीर्णं पताका भिरलंकृतम् ।।
घंटाशतरवोद्धुष्टं चामरव्यजनान्वितम्।। ९२ ।।
सर्वर्तुसुखदं रम्यं सर्वदुःखविवर्जितम् ।।
इत्थं विमानमारुह्य गच्छेत्सूर्यसलो कताम्।। ९३ ।।
मित्वा तत्र राजेंद्र कल्पमेकं निरामयः ।।
विष्णुलोके तथा कल्पं शिवलोके तथैव च ।। ९४ ।।
विश्वेषां चैव देवानां देव राज पुरे तथा ।।
पुरे च धर्मराजस्य वरुणस्य तथैव च ।। ९५ ।।
धनदस्य पुरे स्थित्वा कल्पकोटिशतं नरः ।।
पुनर्मानुषमभ्येत्य राजा भवति धार्मिकः ।। ९६ ।।
यज्वा दानपतिर्धीमाञ्छत्रुपक्षक्षयंकरः ।।
यश्चैतच्छृणुयाद्भक्त्या महादानानुकीर्तनम् ।। ९७ ।।
सोऽपि मुच्येत पापेन त्रिविधेन न संशयः ।। ९८ ।।
ब्रह्मेशकेशवपरोऽस्ति न पूजनीयो नैवाश्वमेधसदृशः क्रतुरस्ति कश्चित् ।।
गंगासमं त्रिभुवनेऽपि न तीर्थमस्ति दानं तुलापुरुषतुल्यमिहास्ति नान्यत्।। ९९ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तुलापुरुषदानविधिवर्णनं नाम पंचसप्तत्युत्तरशततमोऽध्यायः ।। १७५ ।।