पृष्ठम्:Gandhi charitam sanskrit book.pdf/29

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

’ द्वितीयंः परिच्छेदः । र्थत एषां बहिष्कार एव तासामभिमत आसीत् । इत्थं कदर्थिता मा जीवन्तः परवशादूनचेतस्का' इमे प्रत्यवस्थानैकं तानमनसोऽभूवन् । परं नेतारमन्तरेण कार्यपदवीं नाबुधन् | भरतदेशीयस्य कस्यचिदिश्यस्यापरेण केनं चित् संहं प्रवृत्तं प्रिटोरिया इत्यत्राधिकरणे विचार्थ- माणं व्यवहारं संमर्थुयितुं श्रीमोहनदासः पञ्चशदुत्तरनबंशतोत्तरसह्स्रतमे संवत्सरें दक्षिणांप्रीका भूखण्डमापद्यत । व्यवहारस्य कृते वंर्ष तत्रवस्थानं च प्रत्यजानीतं । अत्रत्यां दशां प्रथमंमजानन्स क्रमंशैस्त सम्यक् पर्यचैषीत् । आश्चर्य चं महदागमत् । नेटाल् इत्यत्र ट्रांस्वाल् इत्यत्र च कृष्णाङ्गप्रद्वेषात् सोधिक्रुतैगौरांङ्गे रतिमात्रं न्यक्कृतोऽभूत् । अंवसथेभ्यो बहिष्कृतः चलद्भयो

लोहपथसंचारिभ्यो बाष्पयानेभ्यों भ्रंशित: ताडितः

पादेन प्रहृतश्च । आफ्रिकानिवासेन निर्विद्य वर्षान्ते तंतं प्रतिं


१ माख्याक्रोशे इति वक्तव्याल्लट: शत्रादेशः । गर्हितजीविनः सन्त इत्यर्थः । २ प्रत्यवस्थनेि विरोधे एकंतानंमेकाग्रं मन एषां ते। एकतांनोऽनन्यवृत्तिरे कारैकायनावपैि—इत्यमरः। ३ न्यक्कृतः—अधः कृतःतिरस्कृत इत्यर्थः । न्यङ्नीचखर्वह्र्स्वाः स्युः-- इत्यमरः । ४ निर्विण्णो भूत्वा इत्यर्थः ।