प्रवर्तमानो टुत्सेकादसाध्ये परिभूयते । दशास्य इव दर्पण कैलासोन्मूछनोद्यतः ॥
दुर्लड्यो पूर्कचन्द्राभ्यामपि मेरुस्तवेह च । विद्याधरेन्द्रतादिष्टा शर्वेण न सुरेन्द्रता ॥
विद्याधराणां भूमिर्हि . हिमवान्विजितस्त्वया । तन्मेरौ देवभूमौ ते किं कार्यं मुञ्च दुर्मुहम् ॥
पिता मन्दरदेवस्य यस्स्वकम्पनसंज्ञकः । स द्रष्टव्यस्त्वया गत्वा वनस्थः शिवमिच्छता ॥
इत्युक्त्वा नारदमुनिः प्रतिपन्नं तथेति तम् । चक्रवर्तिनमामद्य जगाम स यथागतम् ॥
चक्रवर्यपि कार्यज्ञो नारदेन च वारितः। अरषभस्य तथा नाशं देवमायाच्छुतं स्मरन् ॥
स विमृश्य स्वयं बुद्ध्या निविवृत्य ततो ययौ । तपोवनस्थितं द्रष्टुं राजर्षेि तमकम्पनम् ॥
प्रापत्तपोवनं चास्य योगनिष्टैर्महर्षिभिः । पद्मासनोपविष्टैश्च ब्रह्मलोकमिवावृतम् ॥
तत्र वृद्धं दशैतं जटावल्कलधारिणम् । अकम्पनं मुनिजनैर्महाद्रुममिवाश्रितम् ॥
ववन्दे चोपसृत्यात्र पादावस्य तपस्विनः । असावपि कृतातिथ्यो राजर्षिर्निजगाद तम् ॥
युक्तं कृतं त्वया राजन्निममागच्छताश्रमम् । उदञ्चय गच्छतस्ते हि दद्युः शापं महर्षयः ॥
इति ब्रुवति राजर्षी तमिस्तं चक्रवर्तिनम् । तिष्ठंस्तपोवने तत्र स गृहीतमुनिव्रतः ॥
आगान्मन्दरदेवोऽपि पितुस्तस्य तदान्तिकम् । स्वस्र मन्दरदेव्यात्र कुमार्या सहितस्तया ॥
नरवाहनदत्तश्च दृष्ट्वा कण्ठे तमग्रहीत् । जितशान्तेषु धीराणां स्नेह एवोचितोऽरिषु ॥
अथ मन्दरदेवीं तां भ्रात्रा सममुपागताम् । दृष्याकम्पनराजर्षिः स सम्राजमुवाच तम् ॥
इयं मन्दरदेवीति नाम्ना राजन्सुता मम । उक्त च दिव्यवाचैषा महिषी चक्रवर्तिनः ॥
तदेतामुपयच्छस्व चक्रवर्तन्मयार्पिताम् । इत्युक्तवति राजधं सा जगाद तदात्मजा ॥
इह सन्ति चतस्रो से वयस्या वरकन्यकाः। एका कनकवत्याख्या कन्या काञ्चनदंडूजा ॥
द्वितीया कालजिह्रस्य नाम्ना कालवती सुता । तृतीया दीर्घदंष्ट्रस्य श्रुता नाम तनूद्भवा ॥
चतुर्थी पोत्रराजस्य पुत्री नाम्नाम्बरप्रभा । विद्याधरेन्द्रकन्यानामहं तासां च पञ्चमी ॥
भ्रमन्त्यस्ता वयं पञ्च दृष्ट्वा पूर्व तपोवने । आर्यपुत्रमिमं सोका व्यधम समयं मिथः ॥
सममस्माभिराहाय भर्तारं या पृथक्त्वमुम् । भजेदुद्दिश्य ता मारमा हन्तव्योऽन्याभिराश्विति ॥
तसखीभिर्विना ताभिर्युक्तः परिणयो न मे । मादृश्यो हि कथं कुर्युः सत्वोल्लङ्घनसाहसम् ॥
एवं तया प्रौढयोक्ते तत्पिताकम्पनः स तान् । विद्याधरेन्द्रांश्चतुरोऽप्याह्वयत्कन्यकापितृन् ॥
शशंस च यथातत्त्वं स तेभ्यस्तेऽपि तत्क्षणम् । कृतार्थमानिनः कन्यास्तनयास्ता समानयन् ॥
ततो मन्दरदेवीतः प्रभृत्येताः क्रमेण सः। नरवाहनदत्तोऽन्याः पञ्चत्र परिणीतवान् ॥
ताभिः सह च तत्रासीद्वासराणि बहूनि सः । त्रषींस्त्रिसंध्यं प्रणमन्कृतोत्सवपरिच्छदः ॥
राजन्महाभिषेकार्थमृषभादिं व्रजाधुना । इत्युक्तेऽकम्पनेनाथ देवमायोऽप्युवाच तम् ॥
देवैवमेव कार्यं ते यस्मादृषभकादयः। अभ्यषिच्यन्त तत्राद्रौ प्राक्तनाश्चक्रवर्तिनः ॥
तच्छुत्वा निकटे श्लाघ्ये मन्दराद्रौ प्रशंसति । अभिषेकं हरिशिखे वागेवमुदभूद्दिवः ॥
महाभिषेकं सर्वं हि राजऋषभपर्वते । पूर्वं प्राप्तास्त्रमष्यद्य गच्छ सिद्धपदं ह्यदः ॥
इत्युक्तो दिव्यया वाचा नवा साकम्पनानृषीन् । नरवाहनदत्तोऽतः स प्रतस्थे शुभेऽहनि ॥
प्राप तच्च त्रिशीर्षाख्यगुहाया द्वारमुत्तरम् । सहामितगतिप्रकैः सर्वविद्याधरेश्वरैः ॥
तत्र संपूजितां कालरात्रीि द्वारेण तेन सः। प्रविश्य तां गुहां सम्राट् दक्षिणेन विनिर्ययौ ॥
नियतश्च समं सैन्यैर्देवमायस्य मन्दिरे । तदर्थितो विशश्राम दिनेऽस्मिन्संपरिग्रहः ॥
तत्रस्थश्च स कैलासे तस्मिन्संनिहितं हरम् । विचिन्त्य गोमुखसखः स्वैरं द्रष्टुं जगाम तम् ॥
आसाद्य चाश्रमं तस्य सुरभिं वृषभं तथा। दृष्ट्वा प्रणम्य च बूथं स नन्दिनमुपेयिवान् ॥
प्रदक्षिणप्रतीतेन मुक्तद्वारश्च तेन सः। प्रविश्य देवीसहितं ददर्श वृषभध्वजम् ॥
दूरादेव कुतोहदं चूडाचन्द्रकरोत्करैः। इतस्ततो गतैगौंथं मुखद्युतिजितैरिव ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/424
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२२
[ आदितस्तरङ्गः १
कथासरित्सागरः ।