अष्टाङ्गसंग्रहः उत्तरस्थानम् अध्याय ४६-५०
अथ षट्चत्वारिंशोऽध्यायः।
अउ46.1
अथातो मूषिकालर्कप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अउ46.2
लालनश्चपलः पुत्रो हसिरश्चिकिरोऽजिनः।
कषायदन्तः कुलकः कोकिलः कपिलोऽसितः॥
अउ46.3
अरुणः शबलः श्वेतः कपोतः पलितोन्दुरुः।
चुच्छुन्दारो रसालाख्यो दशाष्टौ चेति मूषिकाः॥
अउ46.4
यस्मिन्नङ्गे पतत्येषां शुक्रमङ्गैः स्पृशन्ति वा।
यच्छुक्रदिग्धैस्तत्रास्रे दूषिते पाण्डुतां गते॥
अउ46.5
ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमोरुचिः।
शीतज्वररोतिरुक्सादो वेपथुः पर्वभेदनम्॥
अउ46.6
रोमहर्षः स्नुतिर्मूर्च्छा दीर्घकालानुबन्धनम्।
श्लेष्मानुविद्धबह्वाखुपोतकछर्दनं सकृत्॥
अउ46.7
व्यवाय्याखुविषं कृच्छ्रं भूयो भूयश्च कुप्यति॥
अउ46.8
मूर्च्छाङ्गशोफवैवर्ण्यक्लेदशब्दाश्रुतिज्वराः।
शिरोगुरुत्वं लालासृक्छर्दिश्चासाध्यलक्षणम्॥
अउ46.9
शूनबस्तिं विवर्णौष्ठमाख्वाभैर्ग्रन्थिभिश्चितम्।
चुच्छुन्दुरुसगन्धं च वर्जयेदाखुदूषितम्॥
अउ46.10
शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञावहाश्रिताः।
मुष्णन्तः कुर्वते क्षोभं धातूनामतिदारुणम्॥
अउ46.11
लालावानन्धबधिरः सर्वतः सोभिधावति।
स्रस्तपुच्छहनुस्कन्धः शिरोदुःखी नताननः॥
अउ46.12
दंशस्तेन विदष्टस्य सुप्तः कृष्णं क्षरत्यसृक्।
हृच्छिरोरुग्ज्वरस्तम्भतृष्णामूर्छोद्भवोऽनु च॥
अउ46.13
अनेनान्येपि बोद्धव्या व्याला दंष्ट्राप्रहारिणः।
सृगालाश्वतराश्वर्क्षद्वीपिव्याघ्रवृकादयः॥
अउ46.14
कण्डूनिस्तोदवैवर्ण्यसुप्तिक्लेदज्वरभ्रमाः।
विदाहरागरुक्पाकशोफग्रन्थि विकुञ्चनम्॥
अउ46.15
दंशावदरणं स्फोटाः कर्णिका मण्डलानि च।
सर्वत्र सविषे लिङ्गं विपरीतं तु निर्विषे॥
अउ46.16
दष्टो येन तु तच्चेष्टारुतं कुर्वन् विनश्यति।
पश्यंस्तमेव चाकस्मादादर्शसलिलादिषु॥
अउ46.17
जलदर्शनसंस्पर्शशब्देभ्यो यश्च सन्त्रसेत्।
अदष्टमपि तं जह्याज्जलसन्त्रासरोगिणम्॥
अउ46.18
आखुना दष्टमात्रस्य दंशं काण्डेन दाहयेत्।
दर्पणेनाथवा तीव्ररुजा स्यात् कर्णिकान्यथा॥
अउ46.19
दग्धं विस्रावयेद्दंशं प्रच्छितं च प्रलेपयेत्।
शिरीषरजनीवक्रकुङ्कुमामृतवल्लिभिः॥
अउ46.20
अगारधूममञ्जिष्ठा रजनी लवणोत्तमैः।
लेपो जयत्याखुविषं कर्णिकायाश्च पातनः॥
अउ46.21
ततोम्लैः क्षालयित्वा तु तोयैरनु च लेपयेत्।
पालिन्दी श्वेतकटभी बिल्वमूलगुडूचिभिः।
अन्यैश्च विषशोफघ्नैः सिरां वा मोक्षयेत् द्रुतम्॥
अउ46.22
छर्दनं जालिनीकाथैः शुकाख्याङ्कोलयोरपि।
कोशवत्याः शुकाख्यायाः फलं जीमूतकस्य च।
मदनस्य च सञ्चूर्ण्य दध्ना पीत्वा विषं वमेत्॥
अउ46.23
वचामदनजीमूतकुष्ठं वा मूत्रपेषितम्।
पूर्वकल्पेन पातव्यं सर्वोन्दुरुविषापहम्॥
अउ46.24
निष्पावाः कदलीमूलं बन्धुजीवफलानि च।
सुवर्चलारामठकं स्वर्जिकातिविषाद्वयम्।
श्यामाद्रिकर्णिकामूलमूर्धचैंवमनत्रयम्॥
अउ46.25
वान्तस्य शुद्धे हृदये शूलं हिध्मारुचिर्वमिः।
उष्णोद्गारानुबन्धो वा स्याच्चेत्तत्रैतदौषधम्॥
अउ46.26
जीरकं त्र्यूषणं कुष्ठं तुङ्गाख्यं नागकेसरम्।
रजन्यौ सैन्धवं सेव्यं यष्टीमधुसुवर्चलाम्॥
अउ46.27
मधुरं च गणं पिष्ट्वा बीजपूरकपित्थयोः।
रसेन षाडवं कुर्यान्मधुमत्स्यण्डिकान्वितम्।
गन्धवर्णरसोपेतः स पीतो विषदोषजित्॥
अउ46.28
द्विपिप्पलीद्व्यंशुमतीक्वाथे पेया च तद्गुणा॥
अउ46.29
विरेचने त्रिवृन्नीलीत्रिफलाकल्क इष्यते।
शिरोविरेचने सारः शिरीषस्य फलानि च॥
अउ46.30
अञ्जने गोमयरसो व्योषसूक्ष्मरजोन्वितः।
कपित्थगोमयरसो मधुमानवलेहने॥
अउ46.31
तण्डुलीयकमूलेन सिद्धं पाने हितं घृतम्।
द्विनिशा कटभी रक्ता यष्ट्याह्वैर्वामृतान्वितैः।
आस्फोतमूलसिद्धं वा पञ्चकापित्थमेव वा॥
अउ46.32
अधोभागे विशुद्धस्य शूलं नाभ्यां भवेद्यदि।
पुरीषं वा विबध्येत गुदे स्याद्वा विकर्तिका॥
अउ46.33
तत्र पेयां पिबेच्छीतां शर्करामधुसंयुताम्।
पिप्पली पिप्पलीमूलसारिवा कटुकाह्वयैः।
शृतैः सिद्धां सह बलासमङ्गाविश्वभेषजैः॥
अउ46.34
नलदध्यामकव्योषलोध्रचित्रकदीप्यकम्।
कुतलक्षारतोयेन पिष्टं माक्षिकसर्पिषा॥
अउ46.35
दध्ना वा प्राशयेत् क्षौद्रं यवक्षारपयोदधि।
फणितं तैलमाज्यं च विषघ्नं पीतमेकतः॥
अउ46.36
सिन्दुवारं नतं शिग्रु बिल्वमूलं पुनर्नवम्।
वचा श्वदंष्ट्रा जीमूतमेषां क्वाथं समाक्षिकम्।
पिबेच्छाल्योदनं दध्ना भुञ्जानो मूषिकार्दितः॥
अउ46.37
तक्रेण शरपुङ्खाया बीजं सञ्चूर्ण्य वा पिबेत्।
अङ्कोलमूलवल्को वा बस्तमूत्रेण कल्कितः।
पानलेपनयोर्युक्तः सर्वोन्दुरुविषापहः॥
अउ46.38
पयः पयस्यया युक्तं सितया मधुकेन च॥
अउ46.39
किराततिक्तममृतां समङ्गां ककुभत्वचम्।
बाणं पलाशं काश्मर्यं पयस्यां तण्डुलीयकम्॥
अउ46.40
आखुविन्नां महानिम्बं सप्तपर्णं मधूलिकाम्।
कपित्थं राजवृक्षं वा पिबेदन्यतमं ज्वरी॥
अउ46.41
स्थिरां मन्दरुजां प्रच्छेत् कर्णिकां पातयेत वा।
श्यामा लाङ्गलिका दन्ती किणिही गिरिकर्णिका॥
अउ46.42
आखुवृक्षो महावृक्षस्त्रिवृदञ्जनकी स्नुही।
कर्णिकापातनं कल्कमेकैकं तिलकल्कवत्॥
अउ46.43
क्षीरिप्रवालमञ्जिष्ठाबलादार्वीहयाह्वयाः।
रोपण्यः कल्कितास्तैलं घृतं वा साधितं तथा।
द्विनिशा तिलयष्ट्याह्वतगरोशीरपद्मकैः॥
अउ46.44
सामान्येनेति निर्दिष्टा क्रियाखूनां विशेषतः॥
अउ46.45
लालनेन वमिर्मूर्च्छा लालास्रावश्च जायते।
लिह्यात् समाक्षिकं तत्र चूर्णितं तण्डुलीयकम्॥
अउ46.46
चपलेन वमिर्मूर्च्छा तृड्वा तत्रावलेहयेत्।
सदारुमुस्तां त्रिफलां पुत्रकेण तु पाण्डुता॥
अउ46.47
सादोङ्गे सर्वतश्चाखुसदृशग्रन्थिसम्भवः।
शिरीषबीजं कुष्ठं च मधुना तत्र लेहयेत्॥
अउ46.48
हसिरेणान्नविद्वेषो जृम्भणं रोमहर्षणम्।
आरग्वधदिनिर्यूहं सुवान्तं तत्र पाययेत्॥
अउ46.49
चिकिरेण शिरोदुःखं शोफो हिध्मा वमिर्भ्रमः।
वान्तोत्र जालिनीक्वाथैः सारमङ्कोलजं पिबेत्॥
अउ46.50
अजिनेनाङ्गकृष्णत्वं मूर्च्छा छर्दिश्च हृद्ग्रहः।
मधुना तत्र मञ्जिष्ठां लिह्यात् स्नुक्क्षीरकल्किताम्॥
अउ46.51
निद्रा कषायदन्तेन हृच्छोषः कृशताति च।
शिरीषसारत्वग्बीजं तत्र क्षौद्रेण लेहयेत्॥
अउ46.52
कुलकेन रुजास्रावौ राजयो दंशमण्डले।
स सिन्दुवारकौ तत्र सहौ लिह्यान्मधुप्लुतौ॥
अउ46.53
ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः।
नीलीपुनर्नवाक्वाथे सिद्धं तत्र पिबेत् घृतम्॥
अउ46.54
कपिलेन व्रणे कोथो ज्वरो ग्रन्थिर्भ्रमः सतृट्।
लेहयेन्मधुना श्वेतां श्वेतां चात्र पुनर्नवाम्॥
अउ46.55
रक्तं कृष्णेन वमति विशेषाद् दुर्दिने पिबेत्।
तत्र किंशुकभस्माम्बु शिरीषफलवालकम्॥
अउ46.56
अरुणाद्याः पृथग्दोषसन्निपातास्रसम्भवान्।
जनयन्ति क्रमाद्रोगान् सर्वे च ग्रन्थिकर्णिकाः॥
अउ46.57
करञ्जारग्वधव्योषबृहत्यंशुमतीद्वयात्।
क्वाथे दधिपयः सर्पिः पृथक्प्रस्थोन्मितं पचेत्॥
अउ46.58
कपित्थदाडिमवरी विशालात्रिसुगन्धिकाः।
त्रिवृतामृत्तिका वक्रगुडूचीश्चात्रकल्किताः॥
अउ46.59
क्षिपेत्तदरुणादीनां पञ्चानां विषनाशनम्।
काकादनी काकमाची स्वरसेन शृतं घृतम्॥
अउ46.60
क्लमश्चुच्छुन्दरेणोग्रो ग्रीवास्तम्भो विषूचिका।
यवनालर्षभक्षारं बृहत्यौ वात्र पाययेत्॥
अउ46.61
ग्रीवास्तम्भो रसालेन वेदना दंशमण्डले।
लिह्यान्महागदं तत्र घृतमाक्षिकसंयुतम्॥
अउ46.62
सशेषं मूषिकविषं प्रकुप्यत्यभ्रदर्शने।
यथायथं वा लाकेषु दोषाणां वृद्धिहेतुषु॥
अउ46.63
तत्र सर्वे यथावस्थं प्रयोज्याः स्युरुपक्रमाः।
यथास्वं ये च निर्दिष्टास्तथा दूषीविषापहाः॥
अउ46.64
दंशत्वलर्कदष्टस्य दग्धमुष्णेन सर्पिषा।
प्रदिह्यादगदैस्तैस्तैः पुराणं च घृतं पिबेत्।
व्रणस्योपरि निष्पीड्यः प्रत्यक्पुष्पीरसोथवा॥
अउ46.65
तिलगुग्गुलुदूर्वाणां दाडिमस्य गुडस्य च।
कल्को मुहुर्मुहुर्लेपः श्वदंशविषजित्परम्॥
अउ46.66
नलमूलं जले पिष्टं पानलेपनयोर्हितम्।
मातुलुङ्गच्छदैर्दंशं बध्नीयाद्दन्तचर्वितैः॥
अउ46.67
अर्कक्षीरयुतं चास्य योज्यमाशु विरेचनम्॥
अउ46.68
पिबेत् पुनर्नवां श्वेतां धुर्धूरकफलान्विताम्॥
अउ46.69
फलं धुर्धूरकान्मूलं काकोदुम्बरिकोद्भवम्।
शीधुना श्वविषं हन्ति पीतं वा तण्डुलाम्बुना॥
अउ46.70
ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः।
भिनत्ति विषमालर्कं घनवृन्दमिवानिलः॥
अउ46.71
लशुनोषणवैदेही वरा गोपित्तकल्किताः।
पाननस्याञ्जनालेपैः श्वदष्टस्यौषधं परम्॥
अउ46.72
जलवेतसपत्रत्वङ्मूलं क्षुण्णं पचेज्जले।
स क्वाथः शीतलः पीतः परं श्वविषभेषजम्॥
अउ46.73
तत्सिद्धं च घृतं पाननस्याभ्यञ्जनलेपनम्।
जलत्रासे समस्ते च विषे तत् गरुडोपमम्॥
अउ46.74
यवमाषकुलत्थानां पञ्चमूलस्य चाम्भसि।
क्षीरद्विगुणिते सर्पिः साधयेच्छ्लक्ष्णकल्कितैः॥
अउ46.75
अश्वगन्धासहाकुष्ठबृहतीरजनीद्वयैः।
विदारीनतकट्वङ्ग पयस्यासिन्दुवारकैः॥
अउ46.76
सर्पगन्धानखाभीरुशर्करारक्तचन्दनैः।
श्वसंष्ट्रोपद्रवान् सर्वान् पानाभ्यङ्गैर्निहन्तितत्॥
अस46.77। हृद्विदाहे प्रसेके च विरेकवमने भृशम्।
विषदोषहरे योज्ये शुद्धे संसर्जनक्रमः॥
अउ46.78
दद्यात् संशोधनं तीक्ष्णमवश्यं विषनाशनम्।
अशुद्धस्य निरूढेपि व्रणे कुप्यति तद्विषम्॥
अउ46.79
सरत्रबीजौषधिभिः कुम्भैः शीताम्बुपूरितैः।
अष्टोत्तरशतं वारान् सिद्धमन्त्राभिमन्त्रितै॥
अउ46.80
अष्टोत्तरशतोन्मानैः पुष्पमालावगुण्ठितैः।
गोचर्ममात्रके लिप्ते ज्वलिताग्नौ कुशास्तृते।
स्थण्डिले सरितस्तीरे स्नानं वास्य चतुष्पथे॥
अउ46.81
अलर्काधिपते यक्ष सारमेयगणाधिप।
अलर्कजुष्टमेतं मे निर्विषं कुरु मा चिरात्।
स्वाहेतिमन्त्रोलर्कार्त्ते सर्वकर्मसु शस्यते॥
अउ46.82
चतुष्पाद्भिद्विपाद्भिर्वा नखदन्तपरिक्षतम्।
शूयते पच्यते रागज्वरस्रावरुजान्वितम्॥
अउ46.83
सोमवल्कोश्वकर्णश्च गोजिह्वा हंसपादिका।
रजन्यौ गैरिकं लेपो नखदन्तविषापहः॥
॥इति षट्चत्वारिंशोऽध्यायः॥
अथ सप्तचत्वारिंशोऽध्यायः
अउ47.1
अथातो विषोपद्रवप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥
अउ47.2
ज्वरकासवमिश्वासहिध्मा तृष्णातिमूर्च्छनम्।
विशोभेदोऽतिकाठिन्यमानाहो बस्तिमूर्द्धरुक्॥
अउ47.3
श्वयथुः पूतिदंशत्वं रक्तस्रावो विषानिलः।
इति षोडश निर्दिष्टा विषार्तानामुपद्रवाः।
गच्छन्त्युपोक्षिता नाशं यैर्जुष्टा विषरोगिणः॥
अउ47.4
राजवृक्षफलोशीरकाश्मर्यघनपद्मकात्।
क्वाथः सशर्कराक्षौद्रो विषज्वरहरः परम्॥
अउ47.5
पीता तण्डुलतोयेन कटुका ससितोपला।
विषज्वरहराजाजी जीवकर्षभकोत्पलम्॥
अउ47.6
कोलमज्जसिताधान्यभार्ङ्गीयष्ट्याह्वकेसरम्।
विषज्वरवमिश्वासकासतृष्णानिबर्हणम्॥
अउ47.7
त्रिफलारग्वधव्याघ्रीक्वाथो ज्वरविबन्धजित्।
बालबिल्ववचामुस्ता कषायः सपुनर्नवः।
ज्वराग्निसादश्वयथून्निहन्ति विषसम्भवान्॥
अउ47.8
वैदेहिकारामठकं कपित्थरससैन्धवम्।
ससितामाक्षिकं लीढं श्वासकासज्वरापहम्॥
अउ47.9
सद्राक्षानागरां कृष्णामथवा सवराघनाम्।
लीढ्वाज्यमधुना कासान्मुच्यते विषसम्भवात्॥
अउ47.10
सपाठाञ्जनमञ्जिष्ठाद्विनिशामधुकां तथा।
यष्ट्याह्वमम्भसा पीत्वा मरिचैरवचूर्णितम्॥
अउ47.11
विषवम्यां पिबेत् क्वाथं विल्बमूलाद्रजोऽथवा।
धात्रीषरूपकद्राक्षा मधुकं पयसा द्रुतम्॥
अउ47.12
वेल्लाग्र्याञ्जनसोशीरयष्ट्यैलाकणकेसरम्।
लिह्यान्मरिचकुम्भीं वा घृतपुष्परसद्रुताम्॥
अउ47.13
क्षीरिवृक्षाङ्कुरक्षौद्रसितास्तृड्वमथुच्छिदः॥
अउ47.14
जीर्णशाल्योदनं क्षौद्रं क्षीरं चन्दनसाधितम्।
शीतान्भोनुपिबेत् भुक्त्वा विषच्छर्दिमपोहति॥
अउ47.15
तैलगोविड्रसक्षौद्रैलिह्यात् कृष्णाप्रियङ्गुके॥
अउ47.16
श्वासी क्षौद्रेण वा द्राक्षाशृङ्गीमागधिकासिताः।
गुडनागरवैदेहीविजयामलकानि वा॥
अउ47.17
हिध्मायां शङ्खकनककटुकास्वर्णगैरिकम्।
वेल्लशुण्ठीकणोशीररजनीद्वितयानि वा॥
अउ47.18
लिह्याद्वा व्योषमृद्वीकां बीजपूररसेन वा।
सक्षौद्रं वालकरजः क्वाथं वा सगुडं पिबेत्॥
अउ47.19
विश्वभेषजगायत्रीहरिद्रामरदारुजम्।
दन्तीन्द्रवारुणीद्वीपीकल्कं सौवीरकेण वा॥
अउ47.20
तृण्मूर्च्छयोरशिरसो लेपसेका हिमा हिताः।
अम्भोजनालकुसुमचन्दनोशरीमौक्तिकैः।
वैहायससितातोयक्षीराज्येक्षुरसाप्लुतैः॥
अउ47.21
वीजनं तालवृन्तेन शीते सिकतिले स्थितिः॥
अउ47.22
कमलोत्पलकिञ्जल्कपटलावृतवारिषु।
विषतृड्दाहमूर्च्छाघ्नं सरसीष्ववगाहनम्॥
अउ47.23
विषवेगसमुत्थायां तृष्णायां लाजतर्पणम्।
शर्करादाडिमक्षौद्रसलिलाप्लावितं पिबेत्।
वटवेतसजम्ब्वाम्रसेव्यतोयं च शीतलम्॥
अउ47.24
भूनिम्बमुस्तकटुकात्रायन्तीन्द्रयवान् समान्।
द्वौ भागौ चित्रकादष्टौ कुटजाद्वारिणा पिबेत्।
विषातिसारोदावर्तकासश्वासज्वरापहम्॥
अउ47.25
लोध्रमोचरसाम्बष्ठाधातकीस्तण्डुलाम्बुना।
समाक्षिकाः पिबेत्तद्वन्नागरातिविषाभयाः॥
अउ47.26
सधातकीः सकुटजाः साञ्जनाः श्लक्ष्णचूर्णिताः।
पाठानागरचूर्णं वा दध्ना युक्तं समाक्षिकम्॥
अउ47.27
बस्तिरुग्वर्तनाहेषु फलवर्तिं प्रयोजयेत्।
सारग्वधां सत्रिवृतां सोपकुल्यां हरीतकीम्।
पिबेत् घृतेन सक्षौद्रां बस्तिशूलादिनाशिनीम्॥
अउ47.28
गृहधूमनतश्यामा नीलिनी तण्डुलीयकैः।
सिद्धं वाज्यं तथासिद्धं वरा क्वाथत्रिवृद्युतम्॥
अउ47.29
काकोली क्षीरिवृक्षत्वग्द्राक्षायष्ट्याह्वशर्कराः।
नस्यं विषशिरोरुघ्नं संयोज्यं शीतवारिणा॥
अउ47.30
श्वयथौ शुद्धकोष्ठस्य पयः पाने हितं शृतम्।
विश्वभेषजवैदेहीकटुकादेवदारुभिः।
सुरसाम्लकल्कैर्वा छागं वा पिप्पलीशृतम्॥
अउ47.31
त्रिफलायाः कषायेण त्रिवृता भाविता त्र्यहम्।
आलोड्य सर्पिषा पीता विषश्वयथुनाशिनी॥
अउ47.32
मधुवेल्लवराव्योषसुराह्वोशीरपद्मकैः।
विषश्वयथुजिल्लेपस्तथा स्वादुकषायकैः॥
अउ47.33
शिरीषपुष्पाहिशिरोनतकुष्ठैर्घृतान्वितः।
धूपोऽगदः श्वयथुजित् समस्तविषनाशनः॥
अउ47.34
अल्पेनाप्यपचारेण दंशः पूतित्वमश्नुते।
प्रायो न सहते तीक्ष्णमुष्णं वा भेषजं विषम्॥
अउ47.35
मधुरस्निग्धशीतानि युञ्यात्तस्माद्विषव्रणे।
सेकालेपांश्च सक्षीरैः कषायैः क्षीरिवृक्षजैः॥
अउ47.36
न्यग्रोधशुङ्गमधुकतिलसर्षपसैन्धवम्।
साभया निम्बपत्राज्यं दंशपूतित्वनाशनम्।
कर्णिकापातनं श्रेष्ठं विषव्रणविनाशनम्॥
अउ47.37
रक्ते स्रवत्यतिभृशं घृतं समरिचं पिबेत्।
तण्डुलीयकमूलेन सितया वा समन्वितम्॥
अउ47.38
दंशं प्रलेपयेच्चास्य दार्व्या सुश्लक्ष्णपिष्टया।
सितोपलाक्षौद्रघृतच्छागदुग्धानि नावनम्॥
अउ47.39
शमीकल्कं पिबेच्छ्लक्ष्णमङ्गं लिम्पोद्विशालया।
नावने हेमं शुक्ला च ततः शाम्यति शोणितम्॥
अउ47.40
क्द्शस्यातिस्रुते रक्ते रूक्षैरत्यर्थसेवितैः।
विषस्य च स्वभावेन मातरिश्वा प्रकुप्यति॥
अउ47.41
उन्मादाक्षेपकमनोभ्रंशापस्मृतयस्ततः।
तत्रेष्टं स्नेहनं बस्तिनस्यप्रधमानाञ्जनम्॥
अउ47.42
नागदन्त्यभयाकुष्ठपिप्पलीवृषकट्फलम्।
भल्लातकास्थिकटुकाबिल्वप्रतिविषाग्निकाः।
सक्षीरं तैर्घृतं सिद्धं विषवातविकारजित्॥
अउ47.43
पिबेदेरण्डतैलं वा छागमांसरसान्वितम्।
ऐकध्यं घृततैलं वा मेध्यमांसरसाशनः॥
अउ47.44
कार्पासमूलं मरिचं हरिद्रे नलदं नलम्।
पिप्पलीं स्वर्जिकां कुष्ठं जलेनालोड्य पाययेत्।
उन्मत्तं विषवातेन तथापस्मारिणं नरम्॥
अउ47.45
वचाहंसपदीव्योषदधित्थं हस्तिपिप्पलीम्।
देवदारुबलाबिल्वकृमिजित् कुष्ठटुण्टुकम्॥
अउ47.46
लोध्राखुकर्ण्यतिविषाः क्षीरं सर्पिश्च पाययेत्।
निहन्ति पानाभ्यङ्गाभ्यां घृतं सर्वविषाणि तत्॥
अउ47.47
प्रतिकुर्याद्यथास्वं च रोगेष्वेवं परेषु च।
दोषानुबन्धमालोच्य विषतन्त्राविरोधतः॥
अउ47.48
दृश्यशब्दागदैरस्य विषशेषं निवर्तयेत्।
अल्पमप्यवशिष्टं हि व्याधये मरणाय वा॥
अउ47.49
धवाश्वकर्णतिनिशकरघाटकपीतनान्।
पलाशाम्रातककुभपारिभद्रकतिल्वकान्॥
अउ47.50
कपित्थकुटजाङ्कोलप्रग्रहामलकीभुजान्।
शमीश्लेष्मातकाश्मन्तगोजीयमलकण्टकान्॥
अउ47.51
चिरिविल्वार्ककट्वङ्गसमङ्गामधुशिग्रुकान्।
गोपघोण्टाहिमारौ च भस्मीकृत्याम्भसा गवाम्॥
अउ47.52
क्षारकल्पेनविस्राव्य पचेत् क्षिप्त्वावचूर्णितान्।
पिप्पलीद्वयकोशास्रसप्तपर्णैलवालुकान्॥
अउ47.53
वराङ्गचोचमञ्जिष्ठाकुष्ठवञ्जुलटुण्टुकान्।
विडङ्गातिविषानन्तासर्षपतण्डुलीयकान्॥
अउ47.54
सुराह्वसरलप्लक्षगृहधूमकरञ्जकान्।
नागदन्ती सुतश्रेणी निचुलं वरुणं वचाम्॥
अउ47.55
वर्द्धमानमयो बिल्वं क्षारवत्पाकमागतम्।
तत् लोहकुम्भे निहितं कार्यं सन्निहितं सदा॥
अउ47.56
तेन दुन्दुभिमालिम्बेत् पताकास्तरणानि च।
दर्शनश्रवणस्पर्शैर्निर्विषं तानि कुर्वते॥
अउ47.57
पानात् क्षारागदश्चैष विषं स्थावरजङ्गमम्।
शूलगुल्मोदराजर्णिश्वासकासाश्मशर्कराः॥
अउ47.58
शोफार्शोग्रहणीदोषानरुचिं च नियच्छति।
अपि तक्षकतुल्यानां सर्पाणां दर्पनाशनः॥
अउ47.59
श्रीवेष्टकमनोह्वालं ससर्जरसवालकम्।
कर्षांशं नागपुष्पस्य प्रकुञ्चं त्रुटिविंशकम्॥
अउ47.60
हरेणवश्चतुःषष्टिः कुटन्नटचतुष्टयम्।
शताह्वां षोडशैतानि पुष्ये सम्भृत्य पेषयेत्॥
अउ47.61
आश्लेषासु गवां मध्ये शस्त्रमन्त्राभिरक्षितम्।
कुमार्या स्नातया तत्र मन्त्रोयं विष्णुनिर्मितः॥
अउ47.62
माता मे विजयानाम जयो नाम पिता मम।
अजय्यस्य च पुत्रोसौ विजये च जयामि वः॥
अउ47.63
सुगन्धाख्योयमगदो नित्यं देहविलेपनात्।
अभङ्गकरणो युद्धे विवादे च जयावहः॥
अउ47.64
अमुना लेपिताश्छत्रदुन्दुभिध्वजतोरणाः।
दृष्टस्पृष्टश्रुता घ्नन्ति विषं स्थावरजङ्गमम्।
भूतबालग्रहोन्मादान् गेहस्थोपि निवारयेत्॥
अउ47.65
प्रपौण्डरीकसरलदेवदारुकुटन्नटम्।
जटाशताह्वातिविषातिलपर्णीसुगन्धिका॥
अउ47.66
नीलीयिवफलाभार्ङ्गीमधुयष्ट्यैलवालुकम्।
तोयतोयदकालीयतगरध्यामकत्वचः॥
अउ47.67
नखपद्मकपुन्नागपत्रकालानुसारिवाः।
तालीसपत्रं मरिचं जोङ्गकं चन्दनद्वयम्॥
अउ47.68
द्व्येलाद्विसेव्यद्विता द्विनिशा नलदद्वयम्।
लाक्षाशीतशिवव्योषफलिनीधान्यगैरिकम्॥
अउ47.69
शैलेयकशिलापुष्पग्रन्थिला चोरकाभयाः।
अर्कस्थौणेयपृथ्वीका कटुका चन्द्रराजयः॥
अउ47.70
कलिङ्गकः सर्जरसः कुष्ठं लवणपञ्चकम्।
श्रीपर्णिकाश्मरीशेलुशिंशपा सिन्दुवारजः॥
अउ47.71
चम्पकाशोकसुरससुमनस्तिल्वकोद्भवाः।
पाटल्यास्तृणशूल्याश्च प्रसवाः कुमुदोत्पलम्॥
अउ47.72
तिनिशार्जुनशम्याकधवपुष्पं सपङ्कजम्।
पञ्चाशीतेरिदं चूर्णं समूत्रघृतमाक्षिकम्॥
अउ47.73
निधापयेत् गवां शृङ्गे मनुष्यं पुनराहरेत्।(मनुष्यं तेन जीवयेत्)
भग्नस्कन्धं विवृत्ताक्षं मृत्योर्दंष्ट्रान्तरं गतम्॥
अउ47.74
महासुगन्धो नाम्नायमतिवीर्योतितेजसा।
वारयत्यतिदुर्वारं विषाग्निं वासुकेरपि॥
अउ47.75
नृपोनेनानुलिप्ताङ्गो भवेत् सर्वजनप्रियः।
तेजस्वितां च लभते राजकस्यापि मध्यगः॥
अउ47.76
शीतमेव च कुर्वीत विधानं विषरोगिणाम्।
मुक्त्वा कीटविषं तद्धि शीतेनातिप्रबर्द्धते॥
अउ47.77
शालयः षष्टिका जीर्णाः कोरदूषाः प्रियङ्गवः।
मुद्गो हरेणुस्तुवरी पटोलं वेत्रपल्लवाः॥
अउ47.78
तण्डुलीयकजीवन्ती वार्ताकं सुनिषण्णकः।
जाङ्गलं दाडिमं धात्री कपित्थं सैन्धवं सिता॥
अउ47.79
अविदाहियदन्यच्च विज्ञायान्नस्वरूपतः।
तत्तद्दद्याद्विषार्तेभ्यः कार्या व्यञ्जनसंस्कृतिः।
कषायैर्विषहन्तॄणां घृनैः कल्याणकादिभिः॥
अउ47.80
दिव्यसारसकूपोत्थमन्यद्वा शृतशीतलम्।
मध्वामलकयुक्तं वा विषार्त्तः सलिलं पिबेत्।
नदीतटाकजं त्याज्यं विशेषेण घनागमे॥
अउ47.81
शुक्लवस्त्रोदरायातैः सुकृताः सक्तवो यवैः।
तक्रेण सघृताः पीताः परमं विषनाशनाः॥
अउ47.82
तिलमद्यकुलत्थक्षुत्क्रुद्भयायासमैथुनम्।
वर्जयेद्विषमुक्तोपि दिवास्वप्नं विशेषतः॥
अउ47.83
प्रशान्तदोषं प्रकृतिस्थधातु माहारकामं सममूत्रविट्कम्।
प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योवगच्छेदविषं मनुष्यम्॥
॥इति सप्तचत्वारिंशोऽध्यायः॥
अथ अष्टचत्वारिंशोऽध्यायः।
अउ48.1
अथातो विषोपयोगीयं नामाध्यायं व्याख्यास्यामः इति ह स्माहुरात्रेयादयो महर्षयः।
विषे प्रतिविषं योज्यं मन्त्रतन्त्रैरसिध्यति।
अतीते पञ्चमे वेगे सप्तमस्यानतिक्रमे।
प्रभोनिर्वद्ये प्रयतो नैव वाख्याय कस्यचित्॥
अउ48.2
सिद्धमन्त्रधरः कृत्वा धरणीबन्धमादितः।
नहि मन्त्रसहायस्य विषं यात्यविधेयताम्॥
अउ48.3
श्लेष्मतुल्यगुणं प्रायः स्थिरमूर्ध्वगमं विषम्।
प्रायः पित्तगुणैर्युक्तमधोगामि च जङ्गमम्॥
अउ48.4
गुणैरिति विपर्यस्तैर्निहतस्ते परस्परम्।
युञ्ज्यान्मूलविषं तस्माद्दष्टानां पानलेपयोः॥
अउ48.5
विषपीतं च कुशलो दंशयेत् पवनाशिभिः।
न विषप्रतिमं किञ्चिन्निर्विषीकरणं विषे॥
अउ48.6
चतुर्भिः षड्भिरष्टाभिर्हीनमध्योत्तमां यवैः।
मात्रां विषस्य मौलस्य प्रयुञ्जीत यथायथम्॥
अउ48.7
दष्टस्य द्वौ यवौ कीटैस्तिलमात्रं तु वृश्चिकैः।
नैव स्वसृक्स्थे पाने तु लूतादष्टस्य नेष्यते॥
अउ48.8
सविषे युक्तममृतं विषमेवाविषे विषम्।
अबले चातिबलवद्व्यापन्नं च प्रयोगतः॥
अउ48.9
सविषाविषशङ्कायामगदानुपयोजयेत्।
अविरुद्धान् प्रयुक्तो हि निर्विषस्यागदो गदः॥
अउ48.10
तद्वच्च सविषत्यापि क्रियाकालातिपाततः।
जानीयाद्विषसद्भावं भिषक्तस्मात् प्रयत्नतः॥
अउ48.11
साक्तुकं मुस्तकं शृङ्गी वालकं सर्षपाह्वयम्।
वत्स्स्नाभं च कर्मण्यं विषं स्निग्धं घनं गुरु।
नजात्वन्यत् प्रयोक्तव्यं कालकूटं विशेषतः॥
अउ48.12
विषेऽवचारिते तीक्ष्णे पेयं घृतमनन्तरम्।
सभार्ङ्गीदधिधूमोत्थसारिवातण्डुलीयकम्॥
अउ48.13
अगारधूममञ्जिष्ठायष्ट्याह्वैर्वा समन्वितम्।
लिह्याद्वा मधुसर्पिर्भ्यां चूर्णितामर्जुनत्वचम्॥
अउ48.14
क्षीरक्षौद्रघृतैर्युक्तं पीतं हन्ति विषं विषम्।
अउ48.15
ससिन्दुवारतगरं मृतसञ्जीवनं विषम्॥
अउ48.16
शिरीषकुसुमं वक्रं विषमाखुविषापहम्॥
देवदारुनतंमांसी द्रामिलीबाकुचीविषम्।
कुष्ठं च पानलेपाभ्यां समस्तविषशाशनम्॥
अउ48.17
मनश्शिलाज्जनालैला सिन्दुवारामराह्वयम्।
सरक्ताकुंकुमविषं ध्मानं निस्संज्ञबोधनम्॥
अउ48.18
दाहे विषोद्भवे लेपः सक्तुक्षीरघृतैर्हितः॥
अउ48.19
यस्तु संरोषितो भोगी धूमं वक्त्राद्विमुञ्ज्चति।
दण्डाग्रे पिशितं बध्वा बहुशस्तेन दंशयेत्॥
अउ48.20
अशक्यमगदैरन्यैर्विषपीतं चिकित्सकः।
पाययेन्मांसचूर्णं तं ज्ञात्वा विषबलाबलम्॥
अउ48.21
अन्येष्वपि च रोगेषु शेषोपायपरिक्षये।
विषं युञ्जीत नित्यं च रसायनगवेषिणः॥
अउ48.22
घृतोपस्कृतदेहस्य विशुद्धस्य हिताशिनः।
सात्विकस्योदिते भानौ योज्यं शीतवसन्तयोः॥
अउ48.23
ग्रीष्मेप्यात्ययिके व्याधौ न च वर्षासु दुर्दिने॥
अउ48.24
न क्रोधने न पित्तार्ते न क्लीबे राजनि द्विजे।
क्षुत्तृष्णाश्रमघर्माध्वव्याध्यन्तरनिपीडिते।
गर्भिणीबालवृद्धेषु न रूक्षेषु न मर्मसु॥
अउ48.25
अभ्यस्तेपि विषे यत्नाद्वर्जनीयान् विवर्जयेत्।
कट्वम्लतैललवणदिवास्वप्नातपानलान्।
रूक्षमन्नं विशेषेण भयं वाजीर्णतः सदा॥
अउ48.26
दृग्विभ्रमं कर्णरुजामन्यांश्चानिलजान् गदान्।
विषं रूक्षाशिनः कुर्यान्मृत्युमेव त्वजीर्णतः॥
अउ48.27
अलं गोमूत्रसंयुक्तमातपे शोषयेत् त्र्यहम्।
विषं बृंहणमेतद्धि विषस्यादौ प्रशस्यते॥
अउ48.28
तत् पिबेन्मस्तुना वातज्वरे क्षीरेण पैत्तिके।
युक्तं मूत्रेण कफजे सर्वजे त्रिफलाम्भसा॥
अउ48.29
लोध्रचन्दनषड्ग्रन्थाशर्कराघृतमाक्षिकैः।
क्षीरेण च विषं युक्तं जीर्णज्वरहरं परम्॥
अउ48.30
निकुम्भकुम्भत्रिफलासर्पिर्मधुविषैःकृतः।
निहन्ति मोदको जीर्णज्वरमेहत्वगामयान्।
शिखिकर्किरसोपेतं विषमज्वरजिद्विषम्॥
अउ48.31
विषं यष्ट्याह्वयं रास्नासेव्यमुत्पलकन्दकम्।
तण्डुलोदकपीतानि रक्तपित्तस्य भेषजम्॥
अउ48.32
विषं रसाञ्जनं भार्ङ्गी वृश्चिकाली महासहा।
सवेदने सपाके च व्रणे दुष्टे प्रलेपनम्॥
अउ48.33
सिताविषक्षीरतरुप्रवाला मधुना द्रुताः।
श्वासहिध्मापहा लीढाश्छर्दिध्न्यस्तु विषान्विताः।
क्षौद्रोशीरमधुक्षाररजनीकुटजत्वचः॥
अउ48.34
विजयापिप्पलीमूलपिप्पलीद्वयचित्रकैः।
पुष्कराह्वशठीद्राक्षायवानीक्षारदीप्यकैः॥
अउ48.35
सितायष्टीद्विबृहतीसैन्धवैः पालिकैः पचेत्।
सविषार्द्धपलैः प्रस्थं घृतात्तज्जीर्णभुक्पिबेत्॥
अउ48.36
दुर्नाममेहगुल्मार्मतिमिरक्रिमिपाण्डुताः।
गलग्रहग्रहोन्मादकुष्ठानि च नियच्छति॥
अउ48.37
कृच्छ्रघ्ना विषपथ्याग्निदन्तीद्राक्षानिशाविषाः।
शिलाजतु विषं मूत्रमुदावर्ताश्मरीहरम्॥
अउ48.38
गोमूत्रक्षारसिन्धूत्थं विषं पाषाणभेदकम्।
वज्रवद्दारयत्येतदेकतः पीतमश्मरीम्॥
अउ48.39
समूला पिप्पली मूत्रं विषं शूलहरं तथा।
विषद्रवन्तीमधुकद्राक्षारास्नाशठी कणाः॥
अउ48.40
एरण्डतैलं त्रिफला गोमूत्रं चित्रको विषम्।
सर्पिषा सहितं पीतं वाताण्डत्वमपोहति॥
अउ48.41
त्रिफला स्वर्जिकाक्षारो विषं गुल्मप्रभेदनम्।
विषवेल्लमिसिक्षीरं गुल्मप्लीहनिबर्हणम्॥
अउ48.42
प्लीहोदरघ्नं पयसा शताह्वा क्रिमिजिद्विषम्॥
अउ48.43
वायसीमूलनिष्क्काथपीतं कुष्ठहरं विषम्॥
अउ48.44
वायस्याराजवृक्षत्वक्त्रायन्तीबाकुचीफलात्।
प्लीहघ्नेभकणाभ्यां च विषं क्वाथेन कुष्ठजित्॥
अउ48.45
अवल्गुजैडगजयोर्बीजं क्षारद्वयं विषम्।
लेपः ससैन्धवः पिष्टो वारिणा कुष्ठनाशनः॥
अउ48.46
चित्रकार्कजटाहस्तिपिप्पलीबाकुचीविषैः।
गोमूत्रपिष्टैरन्योन्योमनोह्वास्नुक्पयोविषैः॥
अउ48.47
सचन्द्रलेखैडगजकरञ्जफलसैन्धवैः।
सव्योषस्वर्जिकाक्षारयवक्षारनिशाद्वयैः।
अगारधूमसहितैर्बस्तमूत्रेण कल्कितैः।
भल्लातकाग्निशम्याकविषैर्गोमूत्रपेषितैः।
लेपो विचर्चिकाददुशतारुःकिटिभापहः।
शम्याकपत्रत्वङ्मूलं विषं तक्रं च तद्गुणम्॥
अउ48.48
विषभल्लातकद्वीपिगुञ्जानिम्बफलैर्जयेत्।
लेपोम्लपिष्टैः श्वित्राणि पुण्डरीकं च दारुणम्॥
अउ48.49
वक्रकुष्ठरसद्वीपिस्पृक्कापत्रैलवालुकम्।
पिष्टं खदिरतोयेन त्रिरात्रमुषितं पिबेत्॥
अउ48.50
श्वित्री विषेण संसृष्टं ततः स्फोटान् किलासजान्।
कण्टकेन विभिद्यानु लेपैर्लिम्पेत कौष्ठिकैः॥
अउ48.51
अथवा करवीरार्कमूलबाकुचिकाविषैः।
बताम्बुपिष्टैः सद्वीपिद्विपपिप्पल्यरुष्करैः॥
अउ48.52
लाक्षासुराह्वामञ्जिष्ठाकुष्ठपद्मकसारिवाः।
गुञ्जाफलं कुरबको लाङ्गली वज्रकन्दकः॥
अउ48.53
वाराहीकन्दकास्फोता सप्ताह्वगिरिकर्णिकाः।
अर्काश्वमारयोर्मूलं नागपुष्पं नतं निशे॥
अउ48.54
दन्ती विषं सातिविषं पिप्पली मरिचानि च।
तैस्तैलं कटुतैलं वा श्वित्रस्याभ्यञ्जनं पचेत्।
सवर्णीकरणं श्रेष्ठमास्तिकस्य वचो यथा॥
अउ48.55
वीरा लाङ्गलिकी दन्ती विषपाषाणभेदकैः।
प्रयोज्यो मूढगर्भाणां प्रलेपो गर्भमोचनः॥
अउ48.56
स्वरसं बीजपूरस्य वचां ब्राह्मीरसं घृतम्।
बन्ध्या पिबन्ती सविषं सुपुत्रैः परिवार्यते॥
अउ48.57
नष्टशुक्रः पयो द्राक्षाकपिकच्छु वचा विषम्॥
अउ48.58
विषं सर्पिः सिता क्षौद्रं तिमिरापहमञ्जनम्।
विषं चैकमजाक्षीरकल्कितं घृतधूपितम्॥
अउ48.59
विषं धात्रीफलरसैरसकृत् परिभावितम्।
अञ्जनं शङ्खसहितं प्रगाढतिमिरप्रणुत्॥
अउ48.60
विषमिन्द्रायुधं स्तन्ये घृष्टं काचजिदञ्जनम्।
बीजपूररसे घृष्टं विषं तद्वत्सितायुतम्।
विषं मागधिका द्वे च निशे काचघ्रमञ्जनम्॥
अउ48.61
शुक्लार्मजिद्विषं कृष्णायुक्तं गोमूत्रभावितम्॥
अउ48.62
समुद्रफेनस्फटिककुरुविन्दसुधाञ्जनम्।
कूर्मपृष्ठं च तुल्यानि तेभ्योर्द्धांशा मनश्शिला॥
अउ48.63
अर्द्धहीनानि मरिचसैन्धवायोरजांसि च।
अतो यथोत्तरं दद्यादयसा च समं विषम्।
रसक्रियेयं मधुना शुक्लपिल्लार्मकाचहृत्॥
अउ48.64
अभीक्ष्णं शीततोयेन सिञ्ज्चेन्नेत्रे विषाञ्जिते॥
अउ48.65
रसोनकन्दमरिचविषसर्षपसैन्धवैः।
पिल्लेक्षि लिखितं पूर्वं सुरसारसपेषितैः॥
अउ48.66
पूरयेत् सर्पिषा चानु सर्पिरेव च पाययेत्।
मधूकसारमधुकविषक्षीरजलैर्घृतम्।
पक्वं सन्तर्पणं श्रेष्ठं रात्र्यन्धत्वे चिरोत्थिते॥
अउ48.67
नस्यं शिरोरुक्शमनं प्रत्यक्पुष्पी सिता विषम्।
अथवा घृतयष्ट्याह्वशर्करा विषसंयुताः॥
अउ48.68
शुण्ठी पथ्या विषं पाठा द्रवन्ती पूतिनासजित्॥
अउ48.69
कटुतैलं विषं नस्यं पलितारूंषिकापहम्॥
अउ48.70
स्वर्जिकाक्षारसिन्धूत्थशुक्तयुक्तं विषं परम्।
कर्णयोः पूरणं तीव्रकर्णशूलनिबर्हणम्॥
अउ48.71
प्रपौण्डरीकमञ्जिष्ठाविषसिन्धुसमुद्भवैः।
निहन्ति साधितं तैलं गण्डूषेण मुखामयान्॥
अउ48.72
देवदारु विषं सर्पिर्गोमूत्रं कण्टकारिका।
वाचःस्खलनतां हन्ति पीतमित्याह काश्यपः॥
अउ48.73
शत्रुप्रयुक्ताद्विषतो गराद्वा।
लूताभुजङ्गाखुगणाज्जरायाः।
अकालमृत्योर्ग्रहपाप्मतो वा।
विषाशिनो नास्ति भयं नरस्य॥
।इति अष्टचत्वारिंशोऽध्यायः।
॥इति विषतन्त्रंनाम षष्ठमङ्गं सम्पूर्णम्॥
अथ एकोनपञ्चाशोऽध्यायः।
अउ49.1
अथातो रसायनविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
दीर्घमायुः स्मृतिं मेधामारोग्यंअ तरुणं वयः।
प्रभा वर्णस्वरौदार्यं देहेन्द्रियबलोदयम्॥
अउ49.2
वाक्सिद्धिं वृषतां कान्तिमवाप्नोति रसायनात्।
लाभोपायो हि शस्यानां रसादीनां रसायनम्॥
अउ49.3
पूर्वे वयसि मध्ये वा तत्प्रयोज्यं जितात्मनः।
स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च सर्वथा॥
अउ49.4
अविशुद्धे शरीरे हि युक्तो रासायनो विधिः।
न भाति मलसंसृष्टे वस्त्रे राग इवार्पितः॥
अउ49.5
युक्तं संस्कारहीनस्य सम्यगप्यप्रमादिनः।
यथैव पौरुषं तद्वन्नसिध्यति रसायनम्॥
अउ49.6
सर्वे च दोषा भवन्ति ग्राम्यादाहारादम्ललवणकटुकक्षारविरुद्वासात्म्यरूक्षाभिष्यन्दिक्लिन्नगुरुपूतिपुर्युषितनवधान्यशुष्कशाकाममांसतिलकुलत्थदधिशुक्तकाञ्जिकपिष्टान्नविरूढकनिषेविणां दिवास्वप्नस्त्रीमद्यनित्यानां विषमातिमात्रव्यायामायामसङ्क्षोभितवपुषां क्रोधलोभभयशोकायासबहुलाना पापकर्मणामसमञ्जसाहारविहारनिर्हारनिरतानाम्॥
अउ49.7
अतो निमित्तं ह्यविशुद्धः सञ्जायते रसो विदह्यते रक्तं शिथिलीभवन्ति मांसानि विष्यन्दते मेदो दूष्यन्ते दोषा विमुच्यन्ते सन्धयो न सन्धीयन्तेस्थिषु मज्जानो नाप्यायते शुक्रं नौजो न बलं न वीर्यम्॥
अउ49.8
ततः स एवंभूतो ग्लायति सीदति निद्रातन्द्रालस्यसमन्वितः खिद्यते निर्विद्यते निरुत्साहोऽसमर्थः शारीरमानसानां विशिष्टानां चेष्टानां भ्रष्टच्छायो नष्टस्मृतिरल्पबुद्धिरसम्पाद्यमानाभिलषितार्थोऽहर्निशमनिशमनिशं निश्वसन्नधिष्ठानभूतो रोगाणां नोपात्तमपि सर्वमायुरवाप्नोति॥
अउ49.9
तस्मात् बुद्धिमानपास्य यथोक्तानाहारादिदोषान् निर्वाह्य च पूर्वोपचितान् रसायनं विधिविहितमुपसेवेत॥
अउ49.10
तत्तु द्विविधं कुटीप्रावेशिकं वातातपिकं च।
तत्र वीर्यप्रभावप्रयोगपरिहारगुरुत्वात् कुटीप्रावेशिकं महाफलतरम्॥
अउ49.11
तस्य विधिः क्षेमसुभिक्षधार्मिकशद्दधानजननृपवैद्यविप्रे सुलभमहौषधिघृतक्षीरपथ्यभोजनोपकरणे ग्रमे नगरे वा पूर्वोत्तरस्यांदिशि प्रागुदक्प्रवणे सुविभक्तविहारोद्देशे देशे दृढघनसुमृष्टभित्तिमुत्सेधविस्तारसम्पन्नां सूक्ष्मलोचनां त्रिगर्भामृतुसुखां निर्वातां प्रवातैकदेशां प्राग्द्वारामुदग्द्वारां वा शमीविल्वक्षीरिवृक्षपरिगृहीतामनिष्टेन्द्रियार्थवातातपरजोधूमस्वेदक्लेददंशमशकसरीसृपव्यालबालस्त्रीदासान्तावसायिनामगम्यां सन्निहितसद्वैद्यपरिचारकोपकरणां कुटीं कारयेत्॥
अउ49.12
तस्यां रसायनार्थी शरदि वसन्ते वा शुक्लपक्षे प्रशस्ते अहनि पूजयित्वा यथार्हं देवगुरुविप्रान् प्रणम्य ब्रह्मदक्षाश्विप्रभृतीन् परिमृश्य सुवर्णघृतमधुसिद्धार्थकप्रियङ्गुरोचनाः प्रदक्षिणीकृत्य गोब्राह्मणाननु प्रविशेत्॥
अउ49.13
तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः।
ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः॥
अउ49.14
दानशीलदयासत्यव्रतधर्मपरायणः।
देवतानुस्मृतौ युक्तो युक्तस्वप्नप्रजागरः।
प्रियौषधः पेशलबागारभेत रसायनम्॥
अउ49.15
हरीतकीमामलकं सैन्धवं नागरं वचाम्।
हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत्।
स्निग्धस्विन्नो नरः पूर्वं तेन साधु विरिच्यते॥
अउ49.16
ततः शुद्धशरीराय कृतसंसर्जनाय च।
त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम्।
दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथवा॥
अउ49.17
इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत्।
यस्य यद्यौगिकं पश्येत् सर्वमालोच्य सात्म्यवित्॥
अउ49.18
हरणात् सर्वरोगाणां यासावुक्ता हरीतकी।
पथ्यत्वात् सर्वधातूनां पथ्या शिवतया शिवा॥
अउ49.19
यस्माद्विजयते व्याधीन् समग्रान्विजया ततः।
अभयं सर्वरोगेभ्यो भवत्यायुश्च शाश्वतम्।
यतः शीलयतामेनां तेनेयमभया स्मृता॥
अउ49.20
नवा वृत्ता घना स्निग्धा गुर्वी मज्जति चाप्सु या।
बालस्य सा प्रयोक्तव्या नवनीतसमन्विता॥
अउ49.21
वाते ससर्पिर्लवणा पित्ते सगुडशर्करा।
कफे सपिप्पलीक्षौद्रा सर्वदा सा प्रशस्यते॥
अउ49.22
अथ हरीतकीनां हिमवच्छैलसम्भवानां कालजातानामापूर्णरसवीर्याणामनामयानां द्विशस्त्रिशो वा शकलितानामनस्थ्नामाढकं चतुर्गुणेन पयसा संस्वेद्य मृदुभूतमवतार्य शीतं सर्पिर्मध्वाढकाभ्यां संसृज्य सुगुप्तं स्थापयेत्।
ततस्त्रिरात्रादूर्ध्वमाहारानुपरोधिनीं मात्रां प्रत्यहमुपयोजयेत् जीएणे शालिषष्टिकं पयसा भुञ्जीत।
प्रयोगान्ते च तावन्तमेव कालम्।
अस्य प्रयोगाद्वर्षशतमजरो निर्वलीखलतिपलितामयः श्रुतिस्मृतिसम्पन्नः समिद्धानलश्च पुरुषो भवति॥
अउ49.23
बृहच्छरीरं गिरिसारसारं स्वरो घनौघस्तनितानुकारी।
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं प्रयत्नात्॥
अउ49.24
पथ्यासहस्त्रं त्रिगुणधात्रीफलसमन्वितम्।
पञ्चानां पञ्चमूलानां सार्द्धं पलशतद्वयम्॥
अउ49.25
जले दशगुणे पक्त्वा दशभागस्थिते रसे।
आपोथ्य कृत्वा व्यस्थीनि विजयामलकान्यथा॥
अउ49.26
विनीय तस्मिन् निर्यूहे योजयेत् कुडवांशकम्।
त्वगेलामुस्तरजनीपिप्पल्यगरुचन्दनम्॥
अउ49.27
मण्डूकपर्णीकनकशङ्खपुष्पीवचाप्लवम्।
यष्ट्याह्वयं विडङ्गं च चूर्णितं तुलयाधिकम्॥
अउ49.28
सितोपलार्द्धभारं च प्रात्राणि त्रीणि सर्पिषः।
द्वे च तैलात् पचेत् सर्वं तदग्नौ लेहतां गतम्॥
अउ49.29
अवतीर्णं हिमं युञ्ज्याद्विंशैः क्षौद्रशतैस्त्रिभिः।
ततः खजेन मथितं निदध्यात् घृतभाजने॥
अउ49.30
एतद्रसायनं ब्राह्मं समं पूर्वेण सर्वथा।
वैखानसा बालखिल्याः प्राश्य प्राप्ता नवं वयः।
आरोग्यममितंचायुर्वीततन्द्राश्रमक्लमाः॥
अउ49.31
अभयामलकविभीतकपञ्चात्मकपञ्चमूलनिर्यूहे।
वल्लीपलाशकरसे द्विगुणे क्षीरेष्टगुणे च विपचेत्॥
अउ49.32
घृतस्यकुम्भं मधुकं मधूकं काकोलियुग्मं च बलां स्वगुप्ताम्।
सक्षीरशुक्लामृषभं सजीवं सुखाम्बुपस्तच्चपिबेत् गुणाढ्यम्॥
अउ49.33
आमलकसहस्त्रं पिष्टस्वेदनविधानेन क्षीरोष्मणा सुस्विन्नमनातपशुष्कमनस्थि चूर्णयेत्।
तदामलकसहस्रस्वरसपरिपीतं स्थिराजीवन्तीपुनर्नवानागबलामण्डूकपर्णीब्रह्मसुवर्चलाभीरुशङ्खपुष्पीवचापिप्पलीविडङ्गस्वगुप्तामृतागरुचन्दनमधुकमधूकपुष्पपद्मोत्पलनवमालिकायुवतियूथिकाचूर्णाष्टभागसम्पृक्तं पुनर्नागबलापलसहस्रस्वरसपरिपीतं छायोपशोषितं द्विगुणितसर्पिषा क्षौद्रेण क्षुद्रगुडाकृति कृत्वा घृतभाजनस्थं भस्मराशेरधः स्थापयेदन्तर्भूमेः पक्षमथर्ववेदवित्कृतरक्षं पक्षात्यये चोद्धृत्य कनकरजतताम्रप्रवालकालायश्चूर्णाष्टभागसंयुक्तमर्द्धकर्षाभिवृद्ध्या यथाग्नि प्रातः प्रयोजयेदिति समानं पूर्वेण॥
अउ49.34
आमलकसहस्रमार्द्रपलाशद्रोण्यां सापिधानायां बाष्पमनुद्वमन्त्यामारण्यगोमयाग्निभिरुपस्वेदयेत्।
तानि सुस्विन्नशीतान्युद्धृत्य निष्कुलीकृतान्यापोथ्य पिप्पली विडङ्गतण्डुलानां पृथगाढकेनाध्यर्द्धेन शर्करायाः षड्भिर्मधुघृततैलानां संयोज्य घृतकुम्भे स्थापयेद्विंशतिरात्रं परं चोपयोजयेदिति समानं पूर्वेण॥
अउ49.35
अभयामलकसहस्रं पिप्पलीसहस्रयुक्तं तरुणपलाशक्षारोदकेनाप्लाव्य शुचौ भाण्डे स्थापयेत्।
ततोनुगतक्षारमनातपशुष्कमास्थिरहितं चूर्णयित्वा सितोपलापादेन चतुर्गुणाभ्यां च मधुघृताभ्यां संयोज्य घृतभाजने षण्मासानन्तर्भूमेः स्थापयित्वा परतो यथाग्निबलमुपयुञ्जीतेति समानं पूर्वेण॥
अउ49.36
आमलकचूर्णाढकमेकविंशतिरात्रमामलकस्वरसभावितं मधुघृताढकाभ्यां पिप्पलीचूर्णाष्टभागेन शर्कराचतुर्भागेन च संसृष्टं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात्।
तच्छरदि चोपयोजयेदिति समानं पूर्वेण॥
अउ49.37
विडङ्गतण्डुलानामाढकमाढकं पिप्पलीतण्डुलानामध्यर्द्धं सितोपलानां मधुघृततैलाढकैः षड्भिरेकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशावितिसमानं पूर्वेण॥
अउ49.38
अभयामलकबिभीतकानां द्विशस्त्रिशो वा संयोजितानां पलाशत्वगवनद्धानां मृदावलिप्तानां कुकूलस्विन्नानां निरस्थीकृतानां पलसहस्त्रमुलूखले सङ्क्षुद्य दधिभधुघृततैलपललशर्करासम्पृक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना प्रयोगान्ते ततो द्विगुणं कालं यवागूयूषक्षीरघृतषष्टिकान्नमाहारोभ्यञ्जनं सर्पिरुद्वर्तनं यवचूर्णमिति समानं पूर्वेणाभ्यधिकफलं वा॥
अउ49.39
दशमूलबलामुस्तजीवकर्षभकोत्पलम्।
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटिः॥
अउ49.40
जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी।
पुनर्नवद्विकाकोली काकनासामृताद्वयम्॥
अउ49.41
विदारी वृषमूलं च तदैकध्यं पलेन्मितम्।
जलद्रोणे पचेत् पञ्च धात्रीफलशतानि च॥
अउ49.42
पादशेषं रसं तस्माद्व्यस्थीन्यामलकानि च।
गृहीत्वा भर्जयेत्तैलघृताद्वादशभिःपलैः॥
अउ49.43
मत्स्यण्डिकातुलार्धेन युक्तं तल्लेहवत् पचेत्।
स्नेहार्द्धं मधुनः शीते तुगाक्षीर्याश्चतुष्पलम्॥
अउ49.44
पिप्पल्या द्वे पले दद्याचतुर्जातं कणार्धिकम्।
अतोवलेहयेन्मात्रां कुटीस्थं पथ्यभोजिनम्॥
अउ49.45
इत्येष च्यवनप्राशो यं प्राश्य चय्वनो मुनिः।
जराजर्जरितोप्यासीन्नारीनयननन्दनः॥
अउ49.46
कासं श्वासं ज्वरं शोषं हृद्रोगं वातशोणितम्।
मूत्रशुक्राश्रयान्तोषान् वैस्वर्यं च व्यपोहति।
बालवृद्धक्षतक्षीणकृशानामङ्गवर्द्धनः॥
अउ49.47
मेधां स्मृतिं कान्तिमनामयत्वमायुःप्रकर्षं पवनानुलोम्यम्।
स्त्रीषु प्रहर्पं बलमिन्द्रियाणामग्नेश्च कुर्याद्विधिनोपयुक्तः॥
अउ49.48
मधुकेन तवक्षीर्या पिपल्या सिन्धुजन्मना।
पृथग्लोहैः सुवर्णेन वचया मधुसर्पिषा॥
अउ49.49
सितया वा समायुक्ता समायुक्ता रसायनम्।
त्रिफला सर्वरोगघ्नी मेधायुःस्मृतिबुद्धिदा॥
अउ49.50
त्रैफलेनायसीं पात्रीं कल्केनालेपयेन्नवाम्।
तमहोरात्रिकं लेपं पिबेत् क्षौद्रोदकाप्लुतम्॥
अउ49.51
प्रभूतस्नेहशमनं जीर्णे तत्र प्रशस्यते।
जीवत्यरुग्जरस्तस्य समाभ्यासात्समाः शतम्॥
अउ49.52
वर्षं खादेत् प्राणदां प्रातरेकामश्नन्नन्नात् पूर्वमक्षद्वयं च।
साज्यक्षौद्रं भोजनान्ते चतुष्कं धात्रीकानां तद्वयःस्थापनेऽलम्॥
अउ49.53
अथायसानि चतुरङ्गुलदीर्घविस्तृतानि तिलोत्सेधानि पत्राणि कारयेत्।
तन्न्यग्निवर्णानि कृत्वामलकस्वरसे निर्वापयेदेकविंशतिकृत्वः।
तेषां तादृशानां पलशतमायस्यां स्थाल्यां प्रक्षिप्यामलकस्वरसोत्तरं कृत्वा सुपिहितं भस्महितं भस्मराशौ निखनेत्।
मासि मासि चोद्दृत्यायसेन दण्डेन घट्टयेत्।
शुष्यत्यामलकस्वरसं पूर्ववदावपेत्।
एवं तानि लोहपत्राणि संवत्सरात् द्रवीभवन्ति।
ततश्चोत्तरकालं कृत्वा वमनविरेचनं स्निग्धतनुरेव केवलं समन्ततोङ्गुष्ठपर्वमात्रमुखेनायसेन स्रुवेणायस एव भाजने तस्मात् कल्कीकृतात् स्रुवमेकं गृहीत्वा मधुधृताभ्यां पृथक् स्रुवेण संयोज्य प्राश्नीयात्।
जीर्णे क्षीररसयूषाणामन्यतमेन सर्पिर्मिश्रं नवं षष्टिकौदनमश्नीयात्।
अनेन विधिना वर्षमुपयुज्य वर्षमेव चान्यदप्युद्दिष्टाहारो यन्त्रितात्मा कुटीं समधिवसेत्।
ततः सर्वोपतापान् जित्वा व्याधिजरामरणशस्त्राग्नितोयविषाणामगम्यः सर्वभावेष्वतीन्दिर्यो वर्षसहस्रद्वयं जीवति॥
अउ49.54
वाजिवेगो गजप्राणो भवेच्च स्मृतिबुद्धिमान्।
वाग्मी वृषः श्रुतधरो महाभोगो महाधनः॥
अउ49.55
ताम्ररूप्यसुवर्णानामयमेव पृथग्विधिः।
द्विगुणं तद्गुणोत्कर्षं जानीयादुत्तरोत्तरम्॥
अउ49.56
हेमधात्रीफलक्षौद्रं गायत्रीपरिमन्त्रितम्।
लिहन्ननुपिबन् क्षीरं दृप्टरिष्टोपि जीवति॥
अउ49.57
सुवर्णं पद्मबीजानि मधु लाजाः प्रियङ्गवः।
क्षीरेण पीतं परममलक्ष्मीविनिवारणम्॥
अउ49.58
सपद्मबीजामलकाभयाक्षं सर्पिर्मधुभ्यां कनकं लिहन्तः।
दीर्घायुषो मन्दजरोपतापाः सरीसृपाणां च भवन्त्यगम्याः॥
अउ49.59
मधुमागधिकाविडङ्गसारत्रिफला हेम घृतं सितां च खादन्।
जरसानवलीढदेहकान्तिः समधातुश्च समाः शतं च जीवेत्॥
अउ49.60
हेमबिल्ववचार्सीपरैकध्यमुपयोजितम्।
मेध्यमायुष्यमारोग्यकान्तिसौभाग्यपुष्टिदम्॥
अउ49.61
शतावरीघृतं लीढं ससुवर्णं समाक्षिकम्।
करोति चिरजीवित्वं राजानं च वशानुगम्॥
अउ49.62
आयुष्कामः शङ्खपुष्प्यासमेतं मेधाकामः काञ्चनं सोग्रगन्धम्।
लक्ष्मीकामः पद्मकिञ्जल्कयुक्तं युक्तं खादेत् कामकामो विदार्या॥
अउ49.63
मण्डूकपर्ण्याः स्वरसं यथाग्नि क्षीरेण यष्टीमधुकस्यचूर्णम्।
रसं गुडूच्याः सहमूलपुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः॥
अउ49.64
आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी॥
अउ49.65
नलदं कटुरोहिणी पयस्या मधुकं चन्दनसारिवोग्रगन्धाः।
त्रिफला कटुकत्रयं हरिद्रे सपटोलं लवणं च तैः सुपिष्टैः॥
अउ49.66
त्रिगुणेन रसेन शङ्खपुष्प्याः सपयस्कं घृतनल्वणं विपक्वम्।
उपयुज्य भवेज्जडोपि वाग्मी श्रुतधारी प्रतिभानवानरोगः॥
अउ49.67
पेष्यैर्मृणालविसकेसरपत्रबीजैः सिद्धं सहेमशकलं पयसा च सर्पिः।
पञ्चारविन्दमिति तत्प्रथितं पृथिव्यां प्रभ्रष्टपौरुषबलप्रतिभैर्निषेव्यम्॥
अउ49.68
यन्नालकन्ददलकेसरवद्विपकं नीलोत्पलस्यतदपि प्रथितं पृथिव्याम्।
सर्पिश्चतुष्कुवलयं सहिरण्यपत्रं मेध्यं गवामपि भवेत् किमुमानुषाणाम्॥
अउ49.69
ब्राह्मीवचासैन्धवशङ्खपुष्पी मत्स्याक्षकब्रह्मसुवर्चलैन्द्रयः।
वैदेहिका च त्रियवाः पृथक्स्युर्यवौ सुवर्णस्य तिलो विषस्य॥
अउ49.70
सर्पिषश्च पलमेकत एत द्योजयेत् परिणते च घृताढ्याम्।
भोजनं समधु वत्सरमेवं शीलयन्नधिकधीस्मृतिमेधाः॥
अउ49.71
अतिक्रान्तजराव्याधितन्द्रालस्यश्रमक्लमः।
जीवत्यब्दशतं पूर्णं श्रीतेजःकान्तिदीप्तिमान्॥
अउ49.72
विशेषतः कुष्ठकिलासगुल्म विषज्वरोन्मादगरोदराणि।
अथर्वमन्त्रादिकृताश्च कृत्याः शाम्यन्त्यनेनातिबलाश्च वाताः॥
अउ49.73
यथोक्तगुणायां भूमौ जातामबालामजीर्णां शीर्णपुराणपर्णामसञ्जातान्यपर्णां तपे तपस्ये वा मासे यथोक्तेन विधिना पुष्ययुक्ते चन्द्रमसि सुमुहुर्ते नागबलां समूलामुद्धरेत्।
तस्या मूलानां त्वक्पिण्डमाम्रमात्रमक्षमात्रं वा श्लक्ष्णपिष्टमवचूर्णितं वा पयसा पिबेन्मधुघृताभ्यां वा लिह्यात्।
जीर्णे क्षीरवृत्तिरेव स्यात्।
क्षीरेणैव वा ससर्षिष्कं शालिषष्टिकमश्नीयात्।
एवं संवत्सरप्रयोगाद्वर्षशतमजर इत्यादि समानं पूर्वेण॥
अउ49.74
बलातिबलाचन्दनागरुधवतिनिशखदिरकदरशाकशिंशपासनसुरसापुनर्नवानन्ताश्च वयःस्थापनोक्ता दशौषधयः सविदारीश्वदंष्ट्राश्वगन्धावाराहीशतावर्यो नागबलया व्याख्याताः॥
अउ49.75
तत्र सारवृक्षाणां सर्वेषां स्वरसार्थी कुष्ठचिकित्सिते खदिरकल्पमीक्षेत।
आर्द्रवृक्षासम्भवे तु सारशकलानिद्व्यङ्गुलत्र्यङ्गुलानि तनूनि चतुर्गुणेम्भ्स्या प्लाव्यातपे त्रिरात्रं स्थापयेत्।
ततस्तान्युद्धृत्यान्यानि तत्र क्षिपेत्।
त्रिरात्राच्च पुनरन्यान्येवं नवरात्रेण त्रिःप्रक्षेपणोद्धारेण च स्वरसः परिकल्पितो भवति॥
अउ49.76
फलानां पुनर्वीरुदौषधीनां च यन्त्रेणोलूखलेन वा सङ्क्षुद्य निष्पीड्य स्वरसं गृह्णीयात्॥
अउ49.77
परिशुष्काणां तु चूर्णिकृतानामाढकमाढकमुदकस्याहोरात्रस्थितं विमृदितपूतं स्वरसवत् प्रयोज्यम्।
तुवरकभल्लातकादीनां पुनः पृथगेवोपदेशः॥
अउ49.78
वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः।
वीचीतरङ्गविक्षोभमारुतोद्धूतपल्लवाः॥
अउ49.79
तेभ्यः फलान्याददीत सुपक्वान्यम्बुदागमे।
मज्ञः फलेम्यश्चादाय शोषयित्वावचूर्ण्यं च॥
अउ49.80
तिलवत्पीडयेद्रोण्यां क्वाथयेद्वा कुसुम्भवत्।
तत्तैलं सम्भृतं भूयः पचेदासलिलक्षयात्॥
अउ49.81
अवतार्य करीषे च पक्षमात्रं निधापयेत्।
स्निग्धस्वैन्नो हृतमलः पक्षादुद्धृत्य यत्नवान्॥
अउ49.82
चतुर्थभक्तान्तरितः प्रातः पाणितलं पिबेत्।
मन्त्रेणानेन एतस्य तैलस्य दिवसे शुभे॥
अउ49.83
मज्जसार महावीर्य सर्वान् धातून् विशोधय।
शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः॥
अउ49.84
तेनास्योर्ध्वमधस्ताच्च दोषा यान्त्यसकृत्ततः।
सायमस्नेहलवणां यवागूं शीतलां पिबेत्॥
अउ49.85
पञ्चाहानि पिबेत्तैलमित्थं वर्ज्यानि वर्जयेत्।
पक्षं मुद्गरसान्नाशी सर्वकुष्ठैर्विमुच्यते॥
अउ49.86
तदेवखदिरक्वाथे त्रिगुणे साधु साधितम्।
निहितं पूर्ववत् पक्षं पिबेन्मासं सुयन्त्रितः॥
अउ49.87
तेनाभ्यक्तशरीरश्च कुर्वन्नाहारमीरितम्।
भिन्नस्वरं रक्तनेत्रं शीर्णाङ्गं कृमिभक्षितम्।
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम्॥
अउ49.88
सर्पिर्मधुयुतं पीतं तदेव खदिराद्विना।
पक्षं मांसरसाहारं करोति द्विशतायुषम्॥
अउ49.89
तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्।
वलीपलितनिर्मुक्तस्थिरस्मृतिकचद्विजम्॥
अउ49.90
वपुष्मन्तं श्रुतधरं करोति त्रिशतायुषम्।
अन्त्र्धूमं तस्य मज्जा सुदग्धः क्षिप्तस्तैले सैन्धवं चाग्निवर्णम्।
तुल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन॥
अउ49.91
एकान्तरं तौवरकञ्च तैलं पिबेद्धिताशी नियमेन मासम्।
प्रभिन्नकोष्ठो गलिताङ्गदेशस्त्वचं त्यजेत् सर्पैवाशु जीर्णम्॥
अउ49.92
साधयेत् षोडशगुणे सलिले तुवराढकम्।
अष्टांशशेषे विस्राव्य सङ्क्षुद्योलूखले ततः॥
अउ49.93
शुष्कारग्वधवल्कपादरजसा व्यामिश्रित कल्कितं।
तस्य क्वाथजलैरुदुम्बरसमान् छायाविशुष्कान् गुडान्॥
अउ49.94
कुर्यादेकतमं च सार्द्धमथवा गोवारिणालोडितं।
कुष्ठी तद्दिवसास्थितो निरशनः सूर्ये गतेऽस्तं पिबेत्॥
अउ49.95
तावदेव च तथैव च भूयः पाययेत्तमरुणोदयकाले।
अप्यजीर्णमविचिन्त्य वमिं वा भेषजं पुरुषदोषबलज्ञः॥
अउ49.96
मध्याह्नेऽद्यात् भूरिनिष्पावतैलं कङ्गूकूरं शिग्रुकन्दोपदंशम्।
दध्नायुक्तं स्वल्पसिन्धूत्थचूर्णं गव्येनानु स्तोकतक्राम्बुपायी॥
अउ49.97
तैलाक्तगात्रो दिवसान्तरं च कङ्ग्विष्टिकाचूर्णकृतप्रघर्षः।
स्नायात् सुखाम्भोभिरमद्यमांस स्त्रीसङ्गतिः स्यात्त्रिगुणं च योगात्॥
अउ49.98
उपयुज्य योगमखिलं प्रतिदिनमेव द्विकालमभियुक्तः।
कुष्ठी कुष्ठमपोहति विशीर्णकर्णौष्ठनासमपि॥
अउ49.99
अथ भल्लातकान्यनुपहतान्यनामयान्यापूर्णरसप्र्पमाणवीर्याणि पक्रजाम्बवप्रकाशानि शुचौ शुक्रे वा मासे सङ्गृह्य यवपल्ले माषपल्ले वा निधापयेत्।
तानि चतुर्मासस्थितानि सहे सहस्ये वा मासे प्रयोक्तुमारभेत।
शीतस्निग्धमधुरोपस्कृतशरीरः पूर्वं दशभल्लातकान्यापोथ्याष्टगुणेनाम्भसा साधु साधयेत्।
तेषां रसमष्टभागावशिष्टमनुष्णं सपयस्कं सर्पिर्गण्डूषाभ्यक्तोष्ठतालुजिह्वः प्रातः पिबेत्।
एवमेतानी दशभल्लातकान्येकैकोत्कर्षापकर्षेण त्रिंशत्प्रयोज्यानि।
विधिनानेन सहस्रप्रयोगस्त्रिगुणश्च कालो घृतक्षीराभ्यां शालिषष्टिकमशनमेवं विशेषाद्विगतकुष्ठदुर्नामकृमिप्रमेहमेदोदोषो वर्षशतमजर इत्यादि समानं पूर्वेण॥
अउ49.100
पूर्वमेकैकभल्लातकक्वाथं सपयस्कं पिबेदेकैकं च भल्लातकमभिवर्द्धयेद्यावत् पञ्च।
ततः पञ्च पञ्चवर्धयेद्यावत् सप्ततिः।
प्राप्य च सप्ततिमपकर्षयेत् भूयः पञ्च पञ्च यावत् पञ्च।
पञ्चभ्यश्चैकैकं यावदेकम्।
विधिनानेनसहस्रं प्रयोग इत्यादि समानं पूर्वेण॥
अउ49.101
सप्ततिवच्च शतमुपयुञ्जीत।
तथा च सहस्रद्वयन्।
प्रयोग इत्यादि समानं पूर्वेण।
द्विगुणस्त्वायुषः कालः॥
अउ49.102
भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकाण्ठनिखातस्य स्नेहभावितस्य दृढस्योपरिकुम्भस्यारोप्योडुपेनापिधायकृष्णभृदावलिप्तं गोमयाग्निनोपस्वेदयेत्।
तेषां यः स्वरसः कुम्भं प्रपद्यते तमष्टभागमधुसंयुक्तं द्विगुणितघृतमद्यात्।
त्रिगुणश्च कालो घृतक्षीराभ्यामित्यादि समानं पूर्वेण॥
अउ49.103
अनेनैव विधिना भल्लातकस्य रसं गृहीत्वा केवलमेव मासमेकं प्रयुञ्जीत।
त्रिगुणश्च काल इत्यादि समानं पूर्वेण।
मासि मासि वर्षशतमायुषोभिवृद्धिः।
एवं दशमासानुपयुज्य वर्षसहस्रमायुर्भवति॥
अउ49.104
भल्लातकतैलपात्रं सपयस्कं मधुकाक्षमात्रेण शतपाकमुपयुञ्जीत।
त्रिगुणश्चकाल इत्यादि समानं पूर्वेण॥
अउ49.105
भल्लातकतैलं कृष्णतिलतैलं सर्पिरामलकरसोऽसनादिसारकषाय इत्येषां द्रोणं द्रोणं त्रिफलात्रिकटुकविडङ्गसारचित्रकहरिद्राद्वयत्रिवृद्दन्तीन्द्रयवयष्टीमधुकविषातिविषारसाञ्जनप्रियङ्गूनां पालिकाभागास्तदैकध्यं स्नेहपाकविधिना विपाच्यावतार्य परिपूयचानुगुप्तं निदध्यात्।
तत उपस्कृतशरीरः प्रातः प्रातः पाणिशुक्तिमात्रं क्षौद्रेण प्रतिसंसृज्योपयुञ्जीत।
जीर्णे मुद्वामलकयूषेणालवणेन सर्पिष्मता खदिरोदकसिद्धं मृदुमोदनमश्नीयात्।
खदिरोदकेनोदककार्याणीत्येवमतो द्रोणमुपयुज्य विगतकुष्ठदुर्नामेत्यादि समानं पूर्वेण॥
अउ49.106
पुष्टानि पाकेनपरिच्युतानि भल्लातकान्याढकसम्मितानि।
घृष्ट्वेष्टिकाचूर्णकणैर्जलेन प्रक्षाल्य संशोष्य च मारुतेन॥
अउ49.107
जर्जराणि विपचेज्जलकुम्भे पादशेषधृतगालितशीतम्।
तद्रसं पुनरपि श्रपयेत क्षीरकुम्भसहितं चरणस्थे॥
अउ49.108
सर्पिः पक्वं तेन तुल्यप्रमाणं युञ्ज्यात् स्वेच्छं शर्कराया रजोभिः।
एकीभूतं तत्खजक्षोभणेन स्थाप्यं धान्ये सप्तरात्रं सुगुप्तम्॥
अउ49.109
तममृतरसपाकं यः प्रगे प्राशमश्नन्ननु पिबति यथेष्टं वारि दुग्धं रसं वा।
स्मृतिमतिबलमेधासत्वसारैरुपेतः कनकनिकषगौरः सोश्नुते दीर्घमायुः॥
अउ49.110
द्रोणेऽम्भसो व्रणकृतां त्रिशताद्विपक्वात् क्वाथाढके पलसमैस्तिलतैलपात्रम्।
तिक्ताविषाद्वयवरा गिरिजन्मतार्क्ष्यैः सिद्धं परं निखिलकुष्ठनिषूदनाय॥
अउ49.111
सहामलकशुक्तिभिर्दधिसरेण तैलेन वा।
गुडेन पयसा घृतेन यवसक्तुभिर्वा सह।
तिलेन सह माक्षिकेण पललेन सूपेन वा।
वपुष्करमरुष्करं परममेध्यमायुष्करम्॥
अउ49.112
भल्लातकानि तीक्ष्ष्णानि पाकीन्यग्निसमानि च।
भवन्य्तमृतकल्पानि प्रयुक्तानि यथाविधि॥
अउ49.113
कफजो न स रोगास्ति न विबन्धोस्तिकश्चन।
यं न भल्लातकं हन्याच्छीघ्रमग्निबलप्रदम्॥
अउ49.114
वातातपविधानेपि विशेषेण विवर्जयेत्।
कुलत्थदधिशुक्तानि तैलाभ्यङ्गाग्निसेवनम्॥
अउ49.115
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा।
रसायनगुणान्वेषी समामेकां प्रयोजयेत्॥
अउ49.116
तिस्रस्तिस्रस्तु पूर्वाह्ने भुक्त्वाग्रे भोजनस्य च।
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः।
प्रयोज्या मधुसम्मिश्रा रसायनगुणौषिणा॥
अउ49.117
क्रमवृध्या दशाहानि दशपैप्पलिकं दिनम्।
वर्धयेत् पयसा सार्द्धं तथैवापनयेत् पुनः॥
अउ49.118
जीर्णौषधश्च भुञ्जीत षष्टिकं क्षीरसर्पिषा।
पिप्पलीनां सहस्रस्य प्रयोगोयं रसायनम्॥
अउ49.119
पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः।
शीतीकृता द्रस्वबलैर्योज्या दोषामयान् प्रति॥
अउ49.120
तद्वच छागदुग्धेन द्वे सहस्रे प्रयोजयेत्॥
अउ49.121
एभिः प्रयोगैः पिप्पल्यः कासश्वासगलग्रहान्।
यक्ष्ममेहग्रहण्यर्शः पाण्डुत्वविषमज्वरान्।
घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वातशोणितम्॥
अउ49.122
विडङ्गचूर्णं यष्टीमधुकचूर्णयुक्तं शीततोयेन समाशमुपयुञ्जीत।
जीर्णे मुद्गयूषेणालवणेन सघृतमोदनमश्नीयात्।
तेन विशेषाद्विगतकृमिदुर्नामकुष्ठप्रमेहमेदोदोषो वर्षशतमजर इत्यादि समानं पूर्वेण।
विडङ्गचूर्णं क्षौद्रभल्लातकक्वाथाभ्यां मध्वामलकरसाभ्यां गुडूचीक्वाथेन च एतांश्चतुरो योगान् मासमुपयुञ्जीतेति समानं पूर्वेण।
सर्वेषु च मासिमासि वर्षशतमायुषोऽभिवृद्धिः॥
अउ49.123
अलम्बुषां स्वेन रसेन भावितां पृथग्घृतक्षीरमधूष्णवारिभिः।
पिबेत्तथा काञ्जिकतक्रमस्तुभिर्भगन्दरोरुग्रहगुल्मकासवान्॥
अउ49.124
उष्णा विपाके कटुका कषायमधुरा रसे।
अत्यन्तदीपनी मेध्या वातश्लेष्महरा च सा॥
अउ49.125
वर्षोपयोगात् कुरुते नरं वर्षशतायुषम्।
दृढेन्द्रियानलबलं निर्वलीपलितामयम्॥
अउ49.126
श्वेतावल्गुजफलान्यातपशुष्काणी चूर्णयित्वा तत्तुल्यगुडेन सङ्क्षुद्य घृतकुम्भे धान्यराशौ सप्त्परात्रं निदध्यात्।
ततोऽनुदिते भास्वति यथाबलं मात्रां सुखोदकानुपानामुपयोजयेत्।
जीर्णे सुखाम्बुपरिषितः शालिषष्टिकौदनं सशर्करेण पयसाश्नीयात्।
तस्य मासप्रयोगाद्विशेषेण विगतकुष्ठो ग्रहणधारणवान् वर्षशतमजर इत्यादि समानं पूर्वेण।
प्रयोगतश्चोर्ध्वं द्विगुणं परिहारः॥
अउ49.127
वाकुचिकाकर्षचूर्णं सुखाम्बुना पिबेत्।
पीत्वा चातपे निर्वातोष्णे वा गर्भगृहे तिष्ठेदपराह्णे तद्वदेव स्रानमशनं च।
यूषरसाभ्यां वा।
तस्य त्रिसप्तरात्रप्रयोगाद्विगतकुष्ठ इत्यादि समानं पूर्वेण॥
अउ49.128
त्वग्रोमकेशदशनान् नखांश्चमुक्त्वा पुनर्नवान् लभते।
स्वरवर्णबलोत्साहं नवं वयो नष्टपलितं च॥
अउ49.129
पलानि दश बाकुच्या दशैव च फलत्रयात्।
सप्त क्रिमिघ्नादयसस्त्रीणि द्वे गिरिसम्भवात्॥
अउ49.130
पुरपुष्करमूलाभ्यामाहरेत पलं पलम्।
सूक्ष्मैलार्धपलं व्योषघनकेसरकुङ्कुमम्॥
अउ49.131
लोध्रत्वक्पत्रयष्ट्याह्वचित्रकं कार्षिकं पृथक्।
शतंभल्लातकानां च सर्वं खण्डसमांसकम्॥
अउ49.132
चूर्णयेदथ तन्मात्रां भक्षयेत् पालिकीं पराम्।
यथेष्टचेष्टो लभते वर्षाद्रासायनान् गुणान्॥
अउ49.133
सर्वरोगान् विजयते त्वग्विकारान् विशेषतः।
अर्शोभगन्दरश्वासकासपाण्ड्वामयक्रिमीन्॥
अउ49.134
गुल्मप्लीहाश्मरीवर्धमप्रमेहारुचिपीनसान्।
मन्दानलत्वं कृशतां शोफग्रन्थ्यर्बुदानपि॥
अउ49.135
वाकुचिकाफलानि गोमूत्रे सप्तरात्रं वासयेत्।
ततो निस्तुषीकृत्य छायायां विशोषयित्वा सुसूक्ष्मं च सञ्चूर्ण्य त्र्यहं त्र्यहं क्रमशो भावयेत्त्रिफलाक्वथेन कारवल्लीवासाब्राह्मीगुडूचीभृङ्गराजस्वरसैः पृथक्पृथक् खदिरासनराजवृक्षपिचुमन्दक्वाथैः॥
अउ49.136
तस्य पीतः प्रतिदिनं धात्रीफलरसाप्लुतः।
कर्षः सर्वामयान् हन्ति त्वग्विकारान्विशेषतः॥
अउ49.137
असनखदिरयूषैर्भावितां सोमराजीं।
मधुघृतशिखिपथ्यालोहचूर्णैरुपेताम्।
शरदमवलिहानः पारिणामान् विकारां।
स्त्यजति मितहिताशी तद्वदाहारजातान्॥
अउ49.138
तीव्रेण कुष्ठेन परीतमूर्त्तिर्यःसोमराजीं नियमेन खादेत्।
संवत्सरं कृष्णतिलद्वितीयां ससोमराजीं वपुषातिशेते॥
अउ49.139
ये सोमराज्या वितुषीकृतायाश्चूर्णैरुपेतात् पयसः सुजातात्।
उद्धृत्य सारं मधुना लिहन्ति तक्रं तदेवानु पिबन्ति चान्ते॥
अउ49.140
ते कुष्ठिनः पक्ष्मदरिद्रनेत्रा।
विशीर्णकर्णाङ्गुलिनासिका वा।
विहायवैरूप्यमपास्य रूपं।
पुनः प्ररूढा इव भान्ति वृक्षाः॥
अउ49.141
खदिराम्भसा पिबेद्वा रविसेवी तां तया यवागूं वा।
गायत्रीजलसिद्धां कुष्ठी तत्तोयकार्यकरः॥
अउ49.142
गजलिण्डक्षारयुता तत्क्षारपायिनो विलेपिभुजः।
श्वित्राणि सोमराजी प्रसह्य हन्यात् प्रलेपाच्च॥
अउ49.143
गोमूत्रे सप्तरात्रं शशिशकलफलं वासितं लोलयित्वा।
कुर्याच्छायाविशुष्कं पृथगिति च फलं प्रापुनाटं च शुष्कम्॥
अउ49.144
अंशस्ताभ्यां तथांशः कृमिरिपुदहन स्फोटकृद्भ्यः स चूर्णो गोमूत्रेणोपयुक्तः प्रमितहितभुजः श्चित्रमाश्वेव हन्ति॥
अउ49.145
इक्षुरगोक्षुरसिंही व्याघ्री पञ्चांगुलाम्बुना पीता।
उपलमघनं घनं वा रसाशिनां हन्ति बाकुचिका॥
अउ49.146
उष्णोदकेन पिष्टा पीता च घृतान्विता जयेत् गुल्मम् लघुपञ्चमूलसिद्धां पेयामुपयोजयेज्जीर्णे॥
अउ49.147
कट्वङ्गकुटजयूषैरर्शींसि भगन्दरं च नाशयति।
मेहान् मद्यैर्निगदैर्निषोविता बाकुची प्रबलान्॥
अउ49.148
विष्किररसेन पीता दशमूलरसेन वा गुडूच्या वा।
अपतन्त्रकं निहन्यादायामं वा रसान्नभुजः॥
अउ49.149
जठरेषु पिबेन्मूत्रैर्जलोदरे त्रैवृतेन यूषेण।
शोफे पाण्डुव्याधाववल्गुजं शीघ्वरिष्टाभ्याम्॥
अउ49.150
इक्षुरकादिक्वाथैर्वर्ध्मनि मूत्रेण वा गवां शस्तः।
धारोष्णेन तु पयसा युक्तः शोफज्वरौ हन्ति॥
अउ49.151
उष्णाम्बुना प्रयोज्यो लूताकीटाखुसर्पदष्टेषु।
कृमिहरचतुरङ्गुलयोः क्वाथः कोष्णः कृमिणकोष्हेषु॥
अउ49.152
लेखामिन्दोः सघृतां सुखाम्बुना पुत्रिणी भवति पीत्वा पुष्षोदयेश्वगन्धाशृतेन पयसा च भुञ्जाना॥
अउ49.153
वन्ध्यापि सप्ताहमिमंप्रयोगं करोति या हर्षयती सुगन्धिः।
प्रियंवदा सद्व्रतशौचयुक्ता सूते सुतान् सा नियमात् गुणाढ्यान्॥
अउ49.154
स्निग्धैरुष्णैर्मधुरैर्हरति गदान्वातजान् युता पैत्तान्।
तिक्तकमधुरकषायैः कफजांस्त्रिफलारसमधुभ्यां च॥
अउ49.155
इति शमनी धन्येयं विषगरभूतोपसर्गपाप्मघ्नी।
गेहे स्थितापि रेखा चान्द्रमसी किमुत कोष्ठस्था॥
अउ49.156
मनुष्यमप्यागतमृत्युशासनं प्रणष्टबुद्धीन्द्रियमल्पचेतसम्।
अवल्गुजो मोक्षयते महाभयाच्छ्रियं च मेधां च ददाति पुप्कलाम्॥
अउ49.157
हैमवत्या वचायाः पिण्डमामलकमात्रं पयसालोड्य पिबेज्जीर्णे पयस्सर्पिरोदन इत्याहारः।
एवं सप्तरात्रेण मेधावी भवति।
सप्तभिः सप्तरात्रैः श्रुतधरो वर्षशतमजर इत्यादि समानं पूर्वेण॥
अउ49.158
इतरस्या अपि वचाया द्विपलक्वाथं पिबेत् जीर्णे पयः सर्पिरित्यादि समानं पूर्वेण।
तच्चूर्णं वा क्षौद्रसर्पिभ्यां यथाबलमवलिह्यात्।
जीर्णे पयः सर्पिरित्यादि समानं पूर्वेण॥
अउ49.159
वचाकल्कशतपाकं घृतद्रोणमुपयुज्य विशेषात् ग्रहोन्मादापस्मारगलगण्डगण्डमालाश्लीपदस्वरभेदविमुक्तः सर्वार्थेषु सिद्धिमान् वर्षशतायुर्भवति॥
अउ49.160
शीतवातहिमदग्धतनूनां स्तब्धभग्रकुटिलव्यधितास्थ्नाम्।
भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य॥
अउ49.161
राहोरमृतचौर्येण लूनाद्ये पतिता गलात्।
अमृतस्य कणा भूमौ ते रसोनत्वमागताः॥
अउ49.162
द्विजानाश्नन्ति तमतो दैत्यदेहसुमुद्भवम्।
साक्षादमृतसम्भूतेर्ग्रामणीः स रसायनम्॥
अउ49.163
शीलयेल्लशुनं शीते वसन्ते च कफोल्बणः।
घनोदयेपि वातार्त्तः सदा वा ग्रीष्मलीलया।
रक्तपित्तभवारोगा जायन्ते रक्तपित्तिनः॥
अउ49.164
मासः परोस्य रसकल्कनिषेवणाय स्वच्छन्दमप्युपदिशन्ति विमर्दकैस्तु।
षण्मासमन्यविधिना न तु शस्तमाहुः पक्षप्रयोगमपि हीनतरं रसोने॥
अउ49.165
स्रिग्धशुद्धतनु शीतमधुरोपस्कृताशयः।
तदुत्तंसावतंसाभ्यां चर्चितानुचराजिरः॥
अउ49.166
तस्य कन्दान् वसन्तान्ते हिमवच्छकदेशजान्।
अपनीतत्वचो रात्रौ निमयेन्मदिरादिभिः॥
अउ49.167
तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम्।
मदिरायाः सुरूढायास्त्रिभागेन समन्वितम्॥
अउ49.168
मद्यस्यान्यस्य तक्रस्य मस्तुनः कञ्जिकस्य वा।
तत्काल एव वा युक्तं युक्तमालोच्य मात्रया॥
अउ49.169
तैलसर्पिर्वसामज्जक्षीरमासरसैः पृथक्।
क्वाथेन वा यथाव्याधि रसं केवलमेव वा॥
अउ49.170
पिबेत् गण्डूषमात्र प्राक्कण्ठनाडीविशुद्धये।
प्रततं स्वेदनंचानु वेदनायां प्रशस्यते॥
अउ49.171
शीताम्बुसेकः सहसा वमिमूर्च्छाययोर्मुखे।
शेषं पिबेत् क्लमापाये स्थिरतां गत ओजसि॥
अउ49.172
विदाहपरिहाराय परं शीतानुलेपनः।
धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः॥
अउ49.173
सहिमसलिलगर्भाश्चन्द्रशुभ्रामृणालीः कुवलयदलमाला हारयष्टीश्च लोलाः।
स्तनतटविनिविष्टाश्चारुगात्र्यो दधानास्तनुसरसविलिता गाढमेनं स्वजेरन्॥
अउ49.174
नलिनीदलतालवृन्तवातैः प्रगलद्वारिलवैर्जलार्द्रया च।
दयिताकरपल्लवैश्च शीतैर् शुनस्वेदकृतं क्लमं हरेयुः॥
अउ49.175
कुडवोस्यपरा मात्रा तदर्द्धं केवलस्य तु।
पलं पिष्टस्य तन्मज्ज्ञः सभक्तं प्राक्च शीलयेत्॥
अउ49.176
रसोग्निकल्पो मृदुनौजसा हि।
संयुज्यमानः सहसैव तस्य।
दाहातिसारारतिचित्तनाशान्।
कुर्यादतस्तं त्वरितो न युञ्ज्यात्॥
अउ49.177
जीर्णशाल्योद्दनं जीर्णे शङ्खकृन्देन्दुपाण्डुरम्।
भुञ्जीत यूषैः पयसा रसैर्वा धन्वचारिणाम्॥
अउ49.178
दीप्ताग्निर्मण्डकान् खादेत् सर्पिप्र्मण्डोपसेचनान्।
अखण्डमण्डलेन्द्वाभानिण्डरीखण्डमण्डितान्॥
अउ49.179
राजिकाशुक्तसम्पर्कविनिवर्तितगौरवैः।
पिष्टकाचूर्णधवलैर्वध्रैः सौकरकैर्युतान्॥
अउ49.180
मद्यमेकं पिबेत्तत्तु तृट्प्रबन्धे जलान्वितम्।
गन्धमत्तक्वणदलि प्रियावक्त्रेन्दुबोधितम्॥
अउ49.181
अमद्यपो यस्तु फलाम्बुतुक्रमवन्तिसोमं च सुगन्धि शीतम्।
सौवीरकं जाङ्गलजं रसं वा तुषोदक्वं वा परिसिक्थिकां वा॥
अउ49.182
तत्कल्कं वा समघृतं घृतपात्रे खजाहतम्।
स्थितं दशाहादश्नीयात्तद्वद्वा वसया समम्॥
अउ49.183
सद्यः पिष्टं सर्पिषा संयुतं वा निर्यासेन स्वेन युक्तं च कामम्।
युञ्जीतैनं पूर्वकैरेव पानैः कोष्णाम्भोभिर्वैष कल्पोतिवीर्यः॥
अउ49.184
रसोनकल्कः सदृशाजसर्पिः षण्मासमुर्व्यामुषितो निहन्ति।
अभ्यङ्गपानाञ्जननस्ययुक्तो मनोविकारान् विषमज्वरं च॥
अउ49.185
समतैलं सशुक्तं वा यवराशौ समास्थितम्।
वातरोगान् जयेत् खादन् घृतमांसोत्तराशनः॥
अउ49.186
तैलसर्पिर्गुडसिताः पृथक्कुर्यात्तुलान्मिताः।
द्वे तुले लशुनाच्छ्रुद्धात् त्र्यूषणात् कुडयत्रयम्॥
अउ49.187
पलं त्वचश्च तच्श्लक्ष्णं निहितं घृतभाजने।
द्वे समे यवमध्यस्थं पूर्वस्मादधिकं गुणैः॥
अउ49.188
क्षुण्णां क्षिपेत् कन्दतुलां तक्रस्य पलविंशतौ।
गते च सप्तरात्रे तु तुलार्द्धमसितात्तिलात्॥
अउ49.189
धौतक्षुण्णात् पृथक्क्षौद्रघृतशुण्ठीचतुष्पलम्।
अजाजीचव्यधान्याग्निद्विकृष्णाग्रन्थिदीप्यकान्॥
अउ49.190
पलोन्मितांश्चतुर्जातात् पलमेकं सुचूर्णितम्।
पृथक्पलाष्टकं तैलात्घृतात्क्षुण्णाच्चसर्षपात्॥
अउ49.191
पटूनि पञ्च क्षारौ द्वौ दद्यात्तत्राक्षमानतः।
एकादशाहं तद्धान्ये स्थितमश्नन् प्रगे प्रगे।
गुणान्रासायनान्सर्वान् स प्राप्नोति निरामयः॥
अउ49.192
द्विपश्चमूलनिष्क्वाथे नल्वणे लशुनाढकम्।
पिष्टं पर्युषितं वर्षं हन्ति वातकफामयान्॥
अउ49.193
तत्कन्दकल्कस्वरसे घृततैलं पृथक्पचेत्।
शीलयेच्च यथासात्म्यं दारुणानलपीडितः॥
अउ49.194
नवनीतसमांशं वा खोदत्तत्कल्कमर्दिती॥
अउ49.195
विकञ्चुकप्राज्यरसोनगर्भान् सशूल्यमांसान् विविधोपदंशान्।
निमर्दकान् वा घृतशुक्तयुक्तान् प्रकाममद्याल्लघुतुच्छमश्नन्॥
अउ49.196
कुस्तुम्बरी जीरकभृष्टमुद्गसौवर्चलश्लक्ष्णरजोवकीर्णैः।
रसोनकन्दाङ्कुरपत्रचित्रैः सव्यञ्जनैर्नैकरसानुयातैः॥
अउ49.197
तत्कन्दसिद्धान् क्रमशो यूषक्षीररसान् पिबेत्।
कफपित्तानिलाशङ्की यथास्वौषधसंस्कृतान्॥
अउ49.198
कृशोश्वगन्धोद्भवचूर्णकीर्णं सन्नस्वरो यष्टिमधूपधानम्।
तैलेन गुल्मी खदिरेण कुष्ठी खादेत् कृमिघ्नैः कृमिमान् रसोनम्॥
अउ49.199
मांसादमांसैर्यक्ष्माणमर्शांसि कुटजत्वचा।
हन्ति स श्रेष्ठया मेहकासश्वासविलम्बिकाः॥
अउ49.200
अन्नस्वरूपविज्ञानात् स्वरूपमुपलभ्य च।
यथायथं प्रयोगोस्य कार्यस्तं तं गदं प्रति॥
अउ49.201
लशुनस्वरसात् प्रस्थान्द्वात्रिंशत्तिलतैलतः।
द्वावपेतमलात् किण्वादष्टौपिष्टाच्चषड्यवात्॥
अउ49.202
मेषशृङ्गीभवात् क्वाथाद्रोणं पूताच्च शीतलात्।
स्नेहपात्रे तदैकध्यं निदध्याच्च शुचौ दृढे॥
अउ49.203
क्रमात्तत्र पुनर्दद्यात् पिष्टं प्रस्थचतुष्टयम्।
पक्षात्परमियं पेया सुरा वातविकारिभिः॥
अउ49.204
त्रिरात्रमुषितां धेनुं लशुनं खादयेत्ततः।
क्षीरदध्याज्यमथितं ब्राह्मणस्यापि शस्यते॥
अउ49.205
पित्तरक्तविनिर्मुक्तसमस्तावरणावृते।
शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात्परम्॥
अउ49.206
सुखात्मनां विशेषेण प्रयोज्यो लशुनासवः।
नारदेनोद्धवस्यैष वातभग्नस्य कल्पितः॥
अउ49.207
आमाम्बुपानेक्षुविकारमत्स्ययानाध्ववातातपभाष्यचिन्ताः।
स्वप्नं दिवा जागरणं निशासु पिष्टं व्यवायं दधि चात्र नेच्छेत्॥
अउ49.208
स्नेहकल्पविधानेन स्नेहयुक्तं प्रयोजयेत्।
लशुनं स्नेहसंयोगात् गरीयान् जायते हि सः॥
अउ49.209
पित्तकोपभयादन्ते युञ्ज्यान्मृदुविएचनम्।
रसायनगुणानेवं परिपूर्णान् समश्नुते॥
अउ49.210
प्रियाम्बुगुडदुग्धस्य मांसमद्याम्लविद्विषः।
अतितिक्षोरजीर्णं च रसोनो व्यापदे ध्रुवम्॥
अउ49.211
पाण्डूदरोरक्षतशोफतृष्णापानात्ययच्छर्दिविषव्रणेषु।
पैत्ते विकारेक्षिगदेतिसारे क्षामे शरीरे च स वर्जनीयः॥
अउ49.212
शीलित एष करोति दुरापं वह्निशरीरबलं सममेव।
वङ्मतिरूपगुणाढ्यसुतेप्सोः स्त्रीपुरुषस्य च बीजविशुद्धिम्॥
अउ49.213
अमृतकणसमुत्थं यो रसोनं रसोनं विधियुतमितिखादेच्छीतकाले सदैव।
स नयति शतजीवी स्त्रीसहायो जरान्तं कनकरुचिरवर्णो नीरुजस्तुष्टिजुष्टः॥
अउ49.214
रसोनानन्तरं वायोः पलाण्डुः परमौषधम्।
साक्षादिवस्थितं यत्र शकाधिपतिजीवितम्॥
अउ49.215
यस्योपयोगेन शकाङ्गनानां लावण्यसारादिविनिर्मितानाम्।
कपोलकान्त्या विजितः शशाङ्को रसातलं गच्छति निर्विदेव॥
अउ49.216
स्निग्धाङ्गत्वं गौरता कान्तिमत्ता वनेर्दीप्तिर्वर्ष्मपुष्टिर्वृषत्वम्।
सम्प्राप्यन्ते यन्त्रणोद्वेगमुक्तैः र्यस्याभ्यासाद्धारि दीर्घं सुखं च॥
अउ49.217
अप्याहारे शीलितो दीर्घारात्रं बल्यश्चक्षुष्यस्तर्पणः स्थैर्यकारी।
तैस्तैर्योगैर्योजितोयं पलाण्डुस्तांस्तानातङ्कान् मेहिनामुच्छिनत्ति॥
अउ49.218
रसं रसोनवत्तस्य पीत्वाश्नीयात्तथैव च।
सबीजपूरस्वरसमदिरामधुशीधुपः॥
अउ49.219
मरकतमणिनीलं नालमस्यातिबालं परिणतशशिगौरं यच्च बीजं सुपिष्टम्।
ससुरससुमुखाभ्यां प्राज्यमांसं सशुक्तं मृदुधवलसुवृत्तैर्मण्डकैरात्तमूर्तिम्॥
अउ49.220
वहुशःशोभितं शुभ्रैः शशाङ्कशकलोपमैः।
घारिकेण्डरिकावल्लैः क्षीरोदावयवैरिव॥
अउ49.221
यवमुद्गमाषगोधूम बहुविध विकारकल्पितान् भक्ष्यान्।
काम्बलिकरागषाडवसट्टकखलकान् सफलसारान्॥
अउ49.222
पटुसुरभिमधुरगन्धान् धवलाक्षकधवलबहुलरसान्।
खर्जूरदाडिमसिताद्राक्षापानानुपोभ्यस्येत्॥
अउ49.223
लभते बलवर्णौजोवीर्यस्वरसौमनस्यतेजांसि।
क्षीणशकृद्रुधिरोपि च रसोनवत्तद्रसं पीत्वा॥
अउ49.224
सुरासुरैःक्षीरसमुद्रमन्थे गतास्तटान् येऽमृतविप्रुषः पुरा।
बबूव तेभ्यः किल कुक्कुटी यया व्रजन्ति देवत्वमिवाद्य मानुषाः॥
अउ49.225
कुक्कुटाण्डनिभैः कन्दैः किञ्चित् कटुकपिच्छिलैः।
स्निग्धैर्मरकतच्छायैः खर्जूरसदृशैच्छदैः॥
अउ49.226
निस्विलरोगहरापि विशेषतो जयति दारुणमप्यनिलामयम्।
गुदजगुल्मतमोविषनाशिनी जनयति स्थिरतां वपुषः पराम्॥
अउ49.227
कुटीं प्रविश्यतत्कन्दान् भक्षयेत्घृतभर्जितान्।
पयोनुपानं धारोष्णं तत्रेष्टमसनाम्बु वा॥
अउ49.228
तन्मात्रवृत्तिस्तुभवेद्दशाहं विंशत्यहं स्वादुभुगप्रमादी।
जत्रूर्ध्वकोष्ठत्रिकसन्धिवातपाण्डवामयार्शस्तिमिराणि जित्वा॥
अउ49.229
वलीपलितनिर्मुक्तः स्थिरकेशद्विजश्रुतिः।
मेधामतिस्मृतियुतो जीवेद्वर्षशतद्वयम्॥
अउ49.230
आपूर्यमाणचन्द्रप्रतिपदमारभ्यवर्धयेत्कन्दम्।
एकैकं घृतभृष्टं प्राग्भक्तं पथ्यभुक्खादेत्॥
अउ49.231
भुञ्जीताल्पतरं दिनार्दितमृषिः पक्षक्षये भक्षयन् क्षीरं बीजकवारि तक्रमथवा पीत्वा स्थितिं कल्पयेत्।
मांसं प्राश्य तथा नखद्विजकचः शीर्णोत्थितैः कान्तिमान् जीवत्यब्दशतत्रयं धृतिमतिस्मृत्यादिभिर्भूषितः॥
अउ49.232
क्षीरेण कन्दचूर्णं पिबन्यवागूं च परिणते मासम्।
लवणस्नेहविनां दृढदृग्जीवेच्छरद्द्विशतम्॥
अउ49.233
तिमिरं क्षौद्रघृताभ्यां पथ्यभुजस्तद्रजो जयेन्मासात्।
कन्दत्रयं च भृष्टं घृतेश्नतो भक्षितं वातान्॥
अउ49.234
तत्कन्दसूक्ष्मरजसा त्रिभागगोधूमचूर्णमिश्रेण।
पयसा पक्त्वा खादेत् घृतपूरानान्त्रवृद्धिहरान्॥
अउ49.235
त्रीन् कन्दकांश्च निशि भक्षयताज्यभृष्टान् धात्रीफलाम्बु ससितं चह्गलीपयो वा।
पेयं दृगामयजयाय निषेवितव्या कामं च रोगशममात्रफलार्थिभिः सा॥
अउ49.236
क्षीरान्विता मूलकतुल्यकन्दा सप्ताष्टपत्रासितरक्तकाण्डा।
विभर्त्ति या पल्लवमब्दशब्दात् सा कञ्चुकी श्वेतवपुर्वरेण्या॥
अउ49.237
आषाढे कार्तिके वात्तं तत्कन्दं शीतलं स्थितम्।
अङ्गुष्ठपर्वद्वयसं पिष्टं क्षीरपलाष्टके॥
अउ49.238
कुटीप्रवेशस्तं पीत्वा क्षीरमेव पिबेदनु।
क्षीरमेव च जीर्णेपि पेयां वा स्नेहभर्जिताम्॥
अउ49.239
किञ्चिदुष्णामलवणां स्पृशेदुष्णाम्बु नो हिमम्।
एकेन सप्तरात्रेण कुष्ठान्येवं नियच्छति॥
अउ49.240
सर्वव्याधीन् द्वितीयेन तृतीयेन तु सर्पवत्।
त्यक्त्वा त्वचं ततो जीर्णां केशदन्तनखानपि।
धीमेधारूपवान् जीवेत् पञ्चवर्षशतानि च॥
अउ49.241
कञ्चुकीकन्दचूर्णं वा स्वेन क्षीरेण भावितम्।
गोक्षीरकुडवे न्यतं कर्षं खण्डपलान्वितम्।
पीतं सर्वाभयान् हन्ति नखकेशस्थितानपि॥
अउ49.242
पीततत्स्वरसं चूर्णं तस्या मधुघृतान्वितम्।
खादन्हिताशी सप्ताहं त्वग्दोषांस्तिमिरं जयेत्॥
अउ49.243
विडङ्गताप्यत्रिफलालोहकञ्चुकिजं रजः।
सप्तरात्रत्रयं लिह्यान्मधुना संयतेन्द्रियः॥
अउ49.244
क्षीरेण भोजनं जीर्णे शालेर्लाबरसेन वा।
तथास्य काचत्यिमिरे सुकृच्छ्राः शिरसो गदाः॥
अउ49.245
मेधाविनः प्रणश्यन्ति गात्रं सुप्तं च बुध्यते।
एष सप्तामृतश्चूर्णः सर्वव्याधिषु पूजितः॥
अउ49.246
पलं चूर्णस्य कञ्चुक्याः क्षीरप्रस्थे समावपेत्।
स्नेहं दध्नस्ततो लिह्याज्जितात्मा ससितामधु॥
अउ49.247
शालेरन्नं पयः पानं मासमेवं प्रयोजयेत्।
चतुर्गुणः परीहारः शोषशाब्दसमद्युतिः।
शतानि पञ्च वर्षाणां जीवेद्देव इवोर्जितः॥
अउ49.248
पचेत् पलानि द्रोणेपां कञ्चुक्याः पञ्चविंशतिः।
अष्टांशशिष्टे तु घृतात् प्रस्थं क्षीरसमं पचेत्॥
अउ49.249
शङ्खपुष्पीवचाकुष्ठत्रिवृतामरदारुभिः।
वरायष्टीसिताद्राक्षामहिषाक्षैः पलांशिकैः॥
अउ49.250
युक्तैः कमलकिञ्जल्कत्रिपलेन हिमेऽत्र च।
क्षौद्राच्चतुष्पलं दद्यादेतन्मर्त्यामृताह्वयम्।
चक्षुष्यं बृंहणं मेध्यं वर्ण्यं वर्षशतप्रदम्॥
अउ49.251
पचेत्पलानि कञ्चुक्यास्त्रीणि लोहात्सुचूर्णितात्।
पलाशबीजाच्चत्वारि दश द्वे च फलत्रयात्॥
अउ49.252
अष्टादश शतावर्या बीजकस्यैकाविंशतिः।
जीवन्त्याः षोडशैकध्यं पौर्णमास्यां विपाचयेत्॥
अउ49.253
वहेऽपां पादशेषे च पृथगर्द्धाढकेन च।
पचेत् काञ्जिकमस्तुभ्यां घृतप्रस्थं पिचून्मितैः॥
अउ49.254
शताह्वारुष्करवचाकुष्ठैलाबिडहिङ्गुभिः।
सौवर्चलान्वितैः पद्मकेसराच्च त्रिभिः पलैः॥
अउ49.255
पञ्चभिः पद्मबीजानां पद्मद्वादशकेन च।
एतत् सोमामृतं पीत्वा यस्सोमोऽद्यापि राजते॥
अउ49.256
इदमुपयुज्य सर्पिरतिवीर्यमुदारगुणं भवति सुवाक्सुधीः सुदृढसुबलः सुभगः।
ग्रहमरकोपसर्गविषभीतिभिरधृष्यवपुर्विजितजराज्वरो नयति वर्षशतद्वितयम्॥
अउ49.257
दानवेन्द्र विजितान् पुरा सुरान् भ्रष्टकान्तिधृतिधर्यतेजसः।
वीक्ष्य विष्णुरमृतं किलासृजत् गुग्गुलुं बलवपुर्जयप्रदम्॥
अउ49.258
अद्याप्यतः सुरगणाः किल धूपमुख्यान् हित्वा वरागरुतुरुष्कहिमेन्दुदर्पान्।
निर्दह्यमानवपुष्षोऽपि शिखां पिबन्तो गन्धेन यस्य मुदिता दधति प्रसादम्॥
अउ49.259
स योगवाही स शिवः स सार्वः सर्वर्तुसेव्यः सुखशीलनीयः।
हन्ता जरापाप्ममलामयानां कर्ताग्निमेधास्मृतिपाटवानाम्॥
अउ49.260
गन्धोत्कटः स दाहे स्निग्धद्रवपिच्छिलो विगतशल्यः।
महिषाक्षः पुष्पराग स्फटिकासितनीरदच्छायः॥
अउ49.261
यः पद्मरागरागो यः कनकच्छेदपाटलो यो वा।
जयतीन्द्रनीलममलं भग्नोप्यन्तिकान्तिमत्वेन॥
अउ49.262
आत्रेयमुनिगीतश्च मन्त्रोयं कर्मसिद्धिकृत्।
भगवान् पुण्डरीकाक्षो देवाश्च सपुरन्दराः॥
अउ49.263
जरामरणदुःखेभ्यो यथा तेग्युत्थिताः सुराः।
उपयोक्तुस्तथैवास्य भव त्वं हि महाबल॥
अउ49.264
पञ्चमूलस्य महतः क्वाथेन हितभोजिना।
गुग्गुलुः शीलितो हन्ति सर्वान् वातकफामयान्॥
अउ49.265
लघीयसोपि तद्वच्च सुखोष्णेन जलेन वा।
मस्तुधान्याम्लमद्यैर्वा वचादेः सलिलेन वा॥
अउ49.266
वरणादेस्तु बाधिर्यदन्तकर्णशिरोरुजः।
स्वरभेदोदरश्वासवर्ध्मान्तर्गुल्मविद्रधीन्॥
अउ49.267
वातपित्तास्ररोगेषु बृंहणार्थिनि चेष्यते।
क्वाथेन वाजिगन्धाया जीवनीयगणस्य वा॥
अउ49.268
क्वाथेनोत्पलमृद्वीकारक्तचन्दनजन्मना।
वातपित्तं निहन्त्येष पद्मकादिगणस्य वा॥
अउ49.269
चव्यकुष्ठविडङ्गानां यान्या नागरस्य वा।
प्रसारिण्याश्च तोयेन गुग्गुलुः कफवातजित्॥
अउ49.270
त्र्यूषणाग्निघनवेल्लवराभिर्भक्षयन् समघृतं महिषाक्षम्।
आशु हन्ति कफमारुतमेदोदोषजान् बलवतोपि विकारान्॥
अउ49.271
पटोलनिम्बत्रिफलागुडूची गायत्रिरात्रिद्वयबीजकानाम्।
क्वाथैः पृथक्पथ्यपरस्य हन्ति मासेन घोरान् कफपित्तरोगान्॥
अउ49.272
विशेषाच्छोफवीसर्पदुष्टव्रणभगन्दरान्।
शुक्रार्तवमनोदोषप्रमेहश्वित्रपाण्डुताः॥
अउ49.273
पटोलारिष्टीर्नयूहपिष्टस्तुल्यरसाञ्जनः।
गलगोगापचीव्यङ्गग्रन्थिस्थौल्यकृमिप्रणुत्॥
अउ49.274
शिलाजतुसमःपीतः पयसा वातशोणितम्।
निवर्तयत्यतिबलं क्षीरमांसघृताशिनः॥
अउ49.275
रसेन पयसा मूत्रैर्वातपित्तकफापहः।
ब्राह्मीमण्डूकशङ्खानां पृथङ्मेधादिकृद्रसैः॥
अउ49.276
मागधिकाग्निकलिङ्गबिडगैर्बिल्वधृतैः सवरापलषट्कैः।
गुग्गुलुना सदृशेन समेतैः क्षौद्रयुतैः सकलामयनाशः॥
अउ49.277
पिबेत् पलशतं योस्य विधिना नियतो यतिः।
नाकालमृत्योर्न व्याधेर्न तस्य जरसो भयम्॥
अउ49.278
कल्पयेदौषधैः स्वै स्वैर्व्याधिषु व्याधिनाशनैः॥
अउ49.279
शिलाजतुविधानं च गुग्गुलोः सर्वमिष्यते॥
अउ49.280
गुणनिधिरपिकुर्यात् सोतिमात्रोपयुक्तस्तिमिरवदनशोषक्लबिताकार्श्यमोहान्।
शमलशिथिलभावं देहरौक्ष्यं च तस्माद्रजनिचरनिषेवीस्य्यान्न रोगेष्वमीषु॥
अउ49.281
ग्रीष्मेर्कतप्ता गिरयो जतुतुल्यं वमन्ति यत्।
हेमादिषट्धातुरसं प्रोच्यते तच्छिलाजतु॥
अउ49.282
सर्वदोषप्रशमनं सर्वरोगविनाशनम्।
शिलाभ्यो यस्य यज्जातं धातोस्तत्तद्गुणं वदेत्॥
अउ49.283
सर्वं च तिक्तकटुकं नात्युष्णं कटु पाकतः।
छेदनं च विशेषेण लौहं तत्र प्रशस्यते॥
अउ49.284
गोमूत्रगन्धि कृष्णं गुग्गुल्वाभं विशर्करं मृत्स्नम्।
स्निग्धमनम्लकषायं म्दृउ गुरु च शिलाजतु श्रेष्ठम्॥
अउ49.285
रास्नादशमूलबला पुनर्नवैरण्डशुण्ठिमधुकानाम्।
क्वाथेन भावितं तद्विशेषतो वातरोगघ्नम्॥
अउ49.286
द्राक्षाभीरुपटोलत्रायन्तिगुडूचिजीवनीयानाम्।
निर्यूहेण सुभिन्नं शस्तं पित्तामये सुतराम्॥
अउ49.287
क्रिमिजिद्वचाफलत्रय करञ्जघनमुख्यपञ्चमूलानाम्।
सहपञ्चकोलकानां क्वाथेन कफामये भाव्यम्॥
अउ49.288
लघुपञ्चमूलशुण्ठी द्राक्षाकाश्मर्यवाजिगन्धानाम्।
सगुडूचिशरबलानां रसेन पित्तानिलगदेषु॥
अउ49.289
घनकुष्ठवचात्रिफला सुरदारुविडङ्गपञ्चकोलानाम्।
रजनीमरिचातिविषा युक्तानां वातकफजेषु॥
अउ49.290
पाठापटोलनिम्बत्रिफलाघनकुटजसप्तपर्णानाम्।
त्रायन्त्यमृतातिविषासहितानां पित्तकफजेषु॥
अउ49.291
निचयेऽपिदोषबलतो योगानेतान् विकल्प्य युज्जीत।
विविधगणसङ्ग्रहोक्तैस्तैस्तैश्च गणैर्गिरेस्सारम्॥
अउ49.292
व्याधिव्याधितसात्म्यं समनुसरन् भावयेदयः पात्रे।
प्राक्केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम्॥
अउ49.293
समगिरिजमष्टगुणिते निष्क्काथ्यं भावनौषधं तोये।
तन्निर्यूहेऽष्टांशे पूतोष्णे प्रक्षिपेत् गिरिजम्॥
अउ49.294
तत् समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः।
स्वैस्वैरेवं क्वाथैर्भाव्यं वारान् भवेत् सप्त॥
अउ49.295
अथ स्निग्धस्य शुद्धस्य घृतं तिक्तकसाधितम्।
त्र्यहं युञ्जीत गिरिजमेकैकेन तथा त्र्यहम्॥
अउ49.296
फलत्रयस्य यूषेण पटोल्या मधुकस्य च।
योगयोग्यं ततस्तस्य कालापेक्षं प्रयोजयेत्॥
अउ49.297
शिलाजमेवं देहस्य भवत्यत्युपकारकम्।
गुणान् समग्रान् कुरुते सहसा व्यापदश्च न॥
अउ49.298
एकत्रिसप्तसप्ताहं कर्षमर्द्धपलं पलम्।
हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः॥
अउ49.299
संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम्।
युक्तं व्यस्तैः समस्तैर्वा ताम्रायोरूप्यहेमभिः॥
अउ49.300
क्षीरेणालोडितं कुर्याच्छीघ्रं रासायनं फलम्।
हन्याद्रोगानशेषांश्च जीर्णे हितमिताशिनः॥
अउ49.301
व्यायामातपमारुतचेतःसन्तापगुरुविदाह्यादि।
उपयोगादपि परतो द्विगुणं परिवर्जयेत् कालम्॥
अउ49.302
कुलत्थान् काकमाचीं च कपोतांश्च सदा त्यजेत्।
पिबेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा॥
अउ49.303
ज्वरी ज्वरघ्नाम्बुदपर्पटादेः क्वाथेन रक्ती मधुयष्टिकायाः।
शोषी सरैः क्रव्यभुगामिषोत्थैर्मायुरमांसैः पयसा च कार्श्ये॥
अउ49.304
मध्वम्बुना मेदसि सम्प्रवृद्धे क्षीरेण पयाकुलबुद्धिसत्वः।
पाण्ड्वामयार्त्तावुदरे सशोफे पिबेच्छिलाजं महिषीजलेन॥
अउ49.305
अश्म वीरतराद्येन कुष्ठं खदिरवारिणा।
विषं विषघ्नैरगदैर्हन्त्येवं तद्यथामयम्॥
अउ49.306
शैलजत्रिकटुक्षौद्रक्षौद्रधातून् निषेवते।
क्षीरौदनाशी यो जीर्णे यक्ष्मणा न स बाध्यते॥
अस49.307। सुभावितात्सारगणैस्तुलां पीत्वा शिलोद्भवात्।
सारांबुनैव भुञ्जानः शालिं जाङ्गलजै रसैः॥
अउ49.308
व्यपोह्य मधुमेहाख्यमन्तकं रोगसङ्करम्।
वपुर्वर्णबलोपेतः शतं जीवत्यनामयः॥
अउ49.309
शिलाह्वात् षोडशपलं त्रिस्त्रिरेकत्र भावयेत्।
वराया दशमूलस्य गुडूच्याः कर्कशस्य च॥
अउ49.310
बलाया मधुयष्ट्याश्च रसे गव्ये च वारिणि।
क्षीरे सकृत्क्रमेणैवं सप्तकृत्वस्तथा पुनः॥
अउ49.311
काकोलियुग्मघनपुष्करवह्निरास्ना मेदायुगर्द्धिचविकागजपिप्पलीनाम्।
पाठाद्विजीवकनिकुम्भविदारियुग्म वीरावरीमधुफलांशुमतीद्वयानाम्॥
अउ49.312
पलिकानामब्द्रोणे सिद्धानां पादशेषिते क्वाथे।
भावितमित्थं गिरिजं द्विपलैश्चूर्णीकृतैर्युञ्ज्यात्॥
अउ49.313
कर्कटशृङ्गीधात्रीव्योषैस्तालीसपत्रकुडबेन।
चूर्णपलेन विदार्यास्त्वक्षीर्याः कर्षयुग्मेन॥
अउ49.314
द्विपलेन चतुर्जातात्तैल घृतक्षौद्रशर्कराभिश्च।
द्विपलाद्द्विगुणाभिः कार्या गुटिकास्ततोक्षसमाः॥
अउ49.315
ताः शुष्का नवकुम्भे जातीपुष्पाधिवासिते स्थाप्याः।
तासामेकां खादेत् प्रतिदिनमनुपानमत्रेष्टम्॥
अउ49.316
क्षीररसदाडिमाम्भो मार्द्वीकसुरासवान्यतमम्।
जीर्णेन्नं लघु भोज्यं यूषपयःपिशितनिर्यूहैः॥
अउ49.317
सप्ताहमात्रमेवं सर्वान्नीनः क्रमात् भवेत् परतः।
भक्तस्यान्ते प्राग्वा गुटिका न विरुध्यते सैषा॥
अउ49.318
निरपाया भूरिफला परिहारसुखोपयोजिता जयति।
प्रबलमपि वातशोणितमूरुस्तम्भं ज्वरं दीर्घम्॥
अउ49.319
भगमूत्रशुक्रदोषप्लीहयकृद्रक्तपाण्डुहृद्रोगान्।
वर्ध्मवमिगुल्मपीनसहिध्माकासारुचिश्वासान्॥
अउ49.320
विद्रधिमुदरं कुष्ठं श्वित्रं जाड्यं क्षयं मदं मूर्च्छाम्।
उन्मादमपस्मारं मुखनेत्रशिरोगदांस्तांतान्॥
अउ49.321
आनाहमतीसारं हलीमकं कामलाग्रहणिरोगान्।
ग्रन्थ्यर्बुदान् सपिटकान् भगन्दरं गण्डमालां च॥
अउ49.322
अतिकार्श्यमतिस्थौल्यं स्वेदमथश्लीपदं गुदे कीलान्।
दंष्ट्राविषं समूलं गरप्रयोगान् सुघोरांश्च॥
अउ49.323
अभिचारमरातिकृतं दुःस्वप्नं भौतिकीं तथा बाधाम्।
पाप्मालक्ष्मीं चेयं गुटिका शमयेच्छिवा नाम्ना॥
अउ49.324
वृष्यायुष्या धन्या कान्तियशःश्रीविबोधिनी मेध्या।
कुरुते नृपवल्लभतां जयं विवादे च वक्त्रस्था॥
अउ49.325
जितखलतिवलीपलिता जीवयति सुखं शतद्वयं शरदाम्।
वर्षद्वयप्रयोगाद्वर्षशतचतुष्टयं जीवेत्॥
अउ49.326
न सोस्तिरोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत् प्रसह्य।
तत्कालयोगैर्विधिवत्प्रयुक्तैः स्वस्थस्य चोर्जां विपुलां दधाति॥
अउ49.327
अमरमन्दिरमन्दरसम्भवाच्छतपलं गिरिजादुपयोजय।
यदि जरामयदुःखविवर्जितां सुचिरमिच्छसि जीवितसन्ततिम्॥
अउ49.328
दशगुणमुपयुङ्क्ते यः शतं शैलजाताल्लघुहितमितभोजी वर्जयन् वर्जनीयान्।
सततसमनुषक्तान् वर्जितान् वैद्यवृन्दैर्विधमति सगदौघान् नेक्षते चायुषोन्तम्॥
अउ49.329
समुद्वभूवामृतमन्थनोत्थः स्वेदः शिलाभ्योऽमृतवान् गिरेः प्राक्।
यो मन्दरस्यात्मभुवा हिताय न्यस्तः स शैलेषु शिलाजरूपी॥
अउ49.330
सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः।
तापी किरातचीनेषु यवनेषु च निर्मितः॥
अउ49.331
ताप्यां सूर्यांशुसन्तप्तो माधवे मासि दृश्यते।
मधुरः काञ्चनाभासः साम्लो रजतसन्निभः॥
अउ49.332
किंचित् कषाय उभयः शीतः पाके कटुर्लघुः।
शिलानिर्यासवच्चात्र कुलत्थादीन् परित्यजेत्॥
अउ49.333
न तन्निषेवी जरसाभिभृयते न पन्नगैर्नापि गरैर्न वृश्चिकैः।
न पाण्डुमेहज्वरशोफयक्ष्मभिर्न कण्ठनेत्रश्रवणत्वगामयैः॥
अउ49.334
सोदश्वित्को माक्षिकधातुः सघृतो वा सक्षौद्रो वा क्षौद्रघृताभ्यां सहितो वा।
साम्भस्को वा तैलयुतो वा विनिहन्ता त्वग्दोषाणां सर्वविषाणां सगराणाम्॥
अउ49.335
अक्षद्राक्षायोमलमुस्तामलकानां सव्योषाणां पर्वतनिर्यासयुतानाम्।
दत्वा तुल्यं माक्षिकधातुं मधुमिश्रं लिह्यात्पाण्डुव्याध्यभिभूतः शिवमिच्छन्॥
अउ49.336
अंशः शुण्ठ्या लोहमलांशो बदरांशः पिप्पल्यंशो माक्षिकधातुर्द्विगुणांशः।
क्षौद्रं कामं कृष्णतिलानामपि चांशः श्रेष्ठा पिण्डी पाण्डुविकारश्वयथुघ्नी॥
अउ49.337
सायश्चूर्णं माक्षिकधातुं मधुमिश्रं व्योषोपेतं पर्वतनिर्याससमेतम्।
क्षीराहारो योऽवलिहानः प्रयतात्मा कृत्युद्वारं शोषमपोहत्यचिरेण॥
अउ49.338
लोहं सर्पिर्माक्षिकधातुर्मधुमात्रा धात्रीचूर्णं के सरमम्बुप्रभवानाम्।
योगः कुर्यादेष सिताभागविमिश्रश्चक्षुर्घ्राणश्रोत्ररसज्ञानविबोधम्॥
अउ49.339
कृत्यैकस्थं माक्षिकधातुं त्रिफलां च भ्राष्ट्रे पक्त्वा ये सहविष्कं विलिहन्ति।
पथ्यादास्तान् वार्धकदोषा न भजन्ते मातुर्दोषाः स्तन्यनिवृत्तानिव वालान्॥
अउ49.340
समश्नतो माक्षिकधातुचूर्णं सर्पिर्मधुभ्यां त्रिफलारजश्च।
शनैः शनैर्याति जरा विनाशं प्रत्यन्तवासादिव लोकयात्रा॥
अउ49.341
त्रिकोणकाण्डा सुबहुप्रताना फलेषु पीता कुसुमेषु रक्ता।
पत्रैःसदुग्धैर्मृदुरोमवद्भिस्ताम्बूलतुल्यैर्घनकन्दमूला॥
अउ49.342
पवनविवस्वदंशुवनितादिषुकामचरा विविधमनःशरीरगदवृन्दनिवृत्तिकरी।
भुवि परमौषधिर्महिषवल्लरीति प्रथिता क्वचिदपि वृद्धदारक इयत्वपि वेल्लरिका॥
अउ49.343
वसन्ते सङ्गृहीतानां शोषितानामनातपे।
वृद्धदारकमूलानां तुलां संचूर्ण्यं सर्पिषा॥
अउ49.344
आप्लाव्य घृतपात्रस्थां धान्ये पक्षमुपेक्षिताम्।
लिह्यादनु पिवेत्क्षीरं जीर्णे क्षीरघृताशनः॥
अउ49.345
तत्प्रयोगाज्जराजीणा वृद्धा दारकतामियात्।
भग्नास्थिर्गद्गदः पङ्गुः कृशो ह्रस्वोन्यरूपताम्॥
अउ49.346
निरस्ताशेषदोषोत्थनखभेदाद्युपद्रवः।
अपस्मारग्रहोन्मादपाप्मालक्ष्मीविवर्जितः।
दीप्ताग्निर्बलवान् वाग्मी जीवेद्वर्षशतानि षट्॥
अउ49.347
चूर्णितैरश्वगन्धायाः संयुतं त्रिंशता पलैः।
तत्तुल्यं दारकं प्राश्य पयसा सर्पिषाथवा॥
अउ49.348
जीर्णो पूर्ववदश्नीयाद्यो जीवेत् स समाः शतम्।
वाजिवेगो गजप्राणः सुरूपो भास्करद्युतिः॥
अउ49.349
अश्वगन्धेन संयोज्यौ वरीगोक्षुरकौ पृथक्॥
अउ49.350
यो लिह्यात् सर्पिषा चूर्णं वृद्धदारकमूलजम्।
सप्ताहं यूषभक्ताशी स्यात् स किन्नरतुल्यवाक्॥
अउ49.351
स्वरसेन शतावर्या सप्ताहं भावितं च तत्।
लिहानः पूर्ववन्मासं शतं जीवेन्महामतिः॥
अउ49.352
लिह्याद्वा मधुसर्पिर्भ्यां धात्रीस्वरसभावितम्।
क्षीरेण वा पिबन्मासं शतं जीवेदरुक्सुधीः॥
अउ49.353
वृद्धदारकमूलानां रसं क्षीरेण यः पिबेत्।
तत्कल्कसिद्धं सर्पिर्वा सजीवेन्नीरुजः शतम्॥
अउ49.354
पीतं वेल्लरिकामूलं गोमूत्रेण सहोषितम्।
कुष्ठगुल्मोदरगरश्लीपदार्शोपचीर्जयेत्॥
अउ49.355
पिप्पली त्रिफला दार्वी महौषधपुनर्नवाः।
पृथग्दशपलाः सर्वैस्तुल्यांशो वृद्धदारकः॥
अउ49.356
धान्याम्लपीतस्तच्चूर्णो जीर्णे स्वच्छन्दभोजनः।
श्लीपदाममरुद्वर्ध्मगुल्मोदरगरान् हरेत्॥
अउ49.357
शौण्डी विश्ववराद्वीपिवेल्लमुस्ताः समांशकाः।
तुल्यवेल्लरिकामूलाः साज्यक्षौद्रास्तथागुणाः॥
अउ49.358
तत्फलात् स्वरसं कर्षं लिहंस्तुल्याज्यमाक्षिकम्।
गव्यं पिबेदनु पयो माहिषं वा यथेष्टभुक्॥
अउ49.359
पञ्चाहेन जयेत् कासान् सप्ताहेन त्वगामयान्।
महाकुष्ठानि मासेन भवेन्मासद्वयेन तु।
पञ्चवर्षशतायुष्को धीमेधाबलरूपवान्॥
अउ49.360
वेल्लरीफलमूलानां पिप्पल्याश्च समं रजः।
वेल्लरीफलमूलोत्थस्वरसेनैव भावयेत्॥
अउ49.361
अमृताया रसेनानु ततः शुष्कं घृताप्लुतम्।
निखनेत् घृतकुम्भस्थं करीषे बहुसञ्चये॥
अउ49.362
मासादुद्धृत्य तं लेहं यो वर्षमुपयोजयेत्।
सहस्रायुः स जरसा सहसा नाभिभूयते॥
अउ49.363
कुष्ठचूर्णतुलां क्षौद्रघृतस्य द्वितुलान्विताम्।
धान्यराशौ दिनशतं निहितामुपयोजयेत्॥
अउ49.364
सुगन्धिकायो दृक्श्रोत्रस्वरवर्णेष्वतीन्द्रियः।
गतव्याधिजरो जीवेत् सप्तवर्षशतानि ना॥
अउ49.365
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः।
अतोन्यथा तु ये तेषां सौर्यमारुतिको विधिः॥
अउ49.366
वातातपसहा योगा वक्ष्यन्तेऽतो विशेषतः।
सुखोपचारा भ्रंशेऽपि ये न देहस्य बाधकाः॥
अउ49.367
शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः।
त्रिशः समस्तमथवा प्राक्पीतं स्थापयेद्वयः॥
अउ49.368
हरीतकीमागधिकाक्षधात्रीश्चूर्णीकृता लोहरजोविमिश्राः।
सर्पिर्मधुभ्यामदतः शरीरं कालाग्रदूती न जरा दुनोति॥
अउ49.369
हरीतकीमागधिकाविडङ्गशशाङ्कलेखामलकच्छवीनाम्।
सितोपलौतपघृतान्वितानां रोगा न लेढारमभिद्रवन्ति॥
अउ49.370
त्रिफलामसनोदकेन पिष्टां रजनीं पर्युषितामयः कपाले।
मधुना मधुरां लिहन् हिनस्ति स्थविमानं जरसं गदांश्च सर्वान्॥
अउ49.371
खदिरासनयूषभावितायास्त्रिफलाया घृतमाक्षिकप्लुतायाः।
नियमेन नरा निषेवितारो यदि जीवन्त्यजराः किमत्र चित्रम्॥
अउ49.372
असनस्वरसेन भावितानामभयानां सविडङ्गतण्डुलानाम्।
मधुलोहरजोघृताप्लुतानां न हि लेढारमभिद्रवन्ति रोगाः॥
अउ49.373
बीजकम्य रसमङ्गुलिहार्यं शर्करामधुघृतं त्रिफलां च।
शीलयत्सु पुरुषेषु जरत्तास्वागतापि विनिवर्त्तत एव॥
अउ49.374
दर्वीप्रलेपास्रिफलाकषायः सितोपला तैलमधुप्रगाढः।
सपिप्पलीनागरलोहरेणुस्तनोः सपत्नीं जरसं निहन्ति॥
अउ49.375
फलत्रयत्र्यूषणचूर्णयुक्तां द्राक्षां ससर्पिर्मधुशर्करां च।
क्षीरानुपानं पुरुषा लिहन्तो जीवन्ति निर्धूतजराविकाराः॥
अउ49.376
हरीतकीं सर्पिषि सम्प्रताप्य समश्नतस्तत् पिबतो घृतं च।
भवेच्चिरस्थायि बलं शरीरे सक्द्त्कृतं साधु यथा कृतज्ञे॥
अउ49.377
आराच्चितानां कलशं पुराणं धात्रीफलानां मधुनश्च पूर्णम्।
संवत्सरार्द्धं निहितं यवेषु निषेवमाणो जरसं निहन्ति॥
अउ49.378
धात्रीकृमिघ्नासनसारचूर्णं सतैलसर्पिर्मधुलोहरेणु।
निषेवमाणस्य भवेन्नरस्य तारुण्यलावण्यमपि प्रणष्टम्॥
अउ49.379
नवामलकशुक्तयो मधु घृतं रजश्चायसं चतुष्टयमयोघटस्थमिति चूर्णितं वत्सरम्॥
अउ49.380
क्रमेण लिहतः पयोनुपिबतश्च पथ्याशिनश्चिरं भवति जीवितं क्षयमुपैति पृथवीजरा॥
अउ49.381
चूर्णं श्वदंष्ट्रामलकामृतानां लिहन् ससर्पिर्मधुभागयुक्तम्।
वृषस्थिरःशान्तविकारदुःखः समाः शतं जीवति कृष्णकेशः॥
अउ49.382
विडङ्गसारं मधुकं च पिष्टं भल्लातकक्वाथमधुप्रगाढम्।
अर्शांसि जन्तूंश्च जयत्युदीर्णान् वह्निं च सन्धुक्षयति क्षणेन॥
अउ49.383
विडङ्गभल्लातकचित्रकाणां गुडोत्तराणामभयान्वितानाम्।
तैलेन चूर्णानि निषेवमाणान् शरीरिणो नोपतपन्ति रोगाः॥
अउ49.384
विडङ्गभल्लातकनागराणि येऽश्नन्ति सर्पिर्मधुसंयुतानि।
जरानदीं रोगतरङ्गिणीं ते लावण्ययुक्ताः पुरुषास्तरन्ति॥
अउ49.385
विडङ्गकल्कं स्वरसेन धात्र्याः क्षौद्रेण युक्तं च पिबेन्नरो यः।
द्राक्षारसक्षौद्रपरिप्लुतं वा विजित्य रोगान् स भवेच्छतायुः॥
अउ49.386
चूर्णं समं मागधिकाकणानां विडङ्गचूर्णेन सचित्रकेण।
निषेवमाणो मधुतैलमिश्रं वयःपरीणामजले न मज्जेत्॥
अउ49.387
पुनर्नवस्यार्द्धपलं पलं वा पिष्टं पिबेद्यः पयसार्द्धामासम्।
मासद्वयं तत्त्रिगुणं समां वा जीर्णोपि भूयः सपुनर्नवः स्यात्॥
अउ49.388
मूर्वाबृहत्यंशुमतीबलानामुशीरपाठासनसारिवाणाम्।
कालानुसार्यागरुचन्दनानां वदन्ति पौनर्नवमेव कल्पम्॥
अउ49.389
शतवरीकल्ककषायसिद्धं ये सर्पिरश्नन्ति सिताद्वितीयम्।
तान् जीविताध्वानमभिप्रपन्नान् न विप्रलुम्पन्ति विकारचोराः॥
अउ49.390
पीताश्वगन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा।
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथा सुवृष्टिः॥
अउ49.391
दिने दिने कृष्णतिलप्रकुञ्चं समश्नतः शीतजलानुपानम्।
पोषः शरीरस्य भवत्यनल्पो दृढीभवन्त्यामरणाच्च दन्ताः॥
अउ49.392
शिलाजतुक्षौद्रविडङ्गसर्पिर्लोहाभयापारदताप्यभक्षः।
आपूर्यते दुर्बलदेहधातुस्त्रिपञ्चरात्रेण यथा शशाङ्कः॥
अउ49.393
मधु मधुरसा लाजा भार्ङ्गी मधूकशतावरी।
कमलकुसुमत्वक्षीरीभिः समं जतु पार्वतम्।
प्रचुरहविषा लेहं लीढ्वा समृद्धसितोपलं।
शिथिलजरसो मन्दातका भवन्ति चिरायुषः॥
अउ49.394
गायत्रीशिखिशिंशपासनशिवा वेल्लाक्षकारुष्करान् पिष्ट्वाष्टौ दशषट्गुणेम्भसि दृतान् खण्डैः सहायोमयैः।
पात्रे लोहकृते त्र्यहं रविकरैरालोडयन् पाचयेदग्नौ चानु मृदौ सलोहशकलं पादस्थितं तत् पचेत्॥
अउ49.395
पूतस्यांशः क्षीरतोंशस्तथांशौ भार्ङ्गान्निर्यासात् पिबर्यास्त्रयोंशाः।
अंशाश्चत्वारस्तत्र हय्यङ्गवीनादेकीकृत्यैतत् साधयेत् कृष्णलौहे॥
अउ49.396
विमलया सितया मधुनाथवा युतमयुक्तमिदं यदि वा घृतम्।
स्वरुचिभोजनपानविचेष्टितो भवति ना पलशः परिशीलयन्॥
अउ49.397
श्रीमान् निर्धूतपाप्मा वनमहिषबलो वाजिवेगः स्थिराङ्गो केशैर्भृङ्गाङ्गनीलैर्मधुसुरभिमुखो नैकयोषिन्निषेवी।
वाङ्मेधाधीसमृद्धः सुपटुहुतवहो मासमात्रोपयोगाद्धत्तेसौ नारसिंहं वपुरनलशिखातप्तचामीकराभम्॥
अउ49.398
हविरिदमतिप्रभावं स्वमिव वपुर्निर्मितं नृसिंहेन।
नश्यन्ति यतो भीता व्याध्याधिजरासुरा दूरात्॥
अउ49.399
भृङ्गप्रवालानमुनैवभृष्टान् घृतेन यः खादति यन्त्रितात्मा।
विशुद्धकोष्ठोऽसनसारासिद्धदुग्धानुपस्तत्कृतभोजनार्थः॥
अउ49.400
मासोपयोगात् स सुखी जीवत्यब्दशत त्रयम्।
गृह्णाति सकृदप्युक्तमविलुप्तस्मृतीन्दिर्यः॥
अउ49.401
अनेनैव च कल्पेन यस्तैलमुपयोजयेत्।
तानेवाप्नोति स गुणान् कृष्णकेशश्च जायते॥
अउ49.402
काश्मर्याणां तुलां मासं स्थितां मधुघृतोक्षिताम्।
उपयुज्य पयोन्नाशी चिरं जीवति कान्तिमान्॥
अउ49.403
उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि।
महानुशंसान्यपि चापराणि प्राप्त्यादिकष्टानि न कीर्त्तितानि॥
अउ49.404
अमानुषाणामतिविस्मयानां सत्कर्मणां यद्यपि तानि हेतुः।
समूलकाषं तु कषन्ति देहं भ्रंशाद्विधेस्तेन विवर्जितानि॥
अउ49.405
युगस्वभावाद्यदि चौषधीनां क्रियासु शक्तिः परिकल्प्यतेऽल्पा।
आयुर्बलादिष्वपि सा तथेति यत्नान्निषेव्याणि रसायनानि॥
अउ49.406
न चौषधीनामपि सर्वथैव प्रभावहानिः परिकल्पनीया।
फलं प्रयात्यूर्ध्वमधस्त्रिवृत्तु प्रत्यक्षतः कस्य न सिद्धमेतत्॥
अउ49.407
अदेशकालोपहितान्यसात्म्यान्यत्युष्णतीक्ष्णानि यथौषधानि।
नाशं नयन्ते सहसैव देहं सम्यक्प्रयुक्तानि तथैव वृद्धिम्॥
अउ49.408
जित्वा तस्मादिन्द्रियादीन् सुदुष्टान् कालोपेतः श्वद्दधानो यथावत्।
आयुःप्रज्ञातेजसां यद्विवृध्यै वीर्योपेतं शीलयेदौषधं तत्॥
अउ49.409
उत्साहवीरैरपि सर्वकालं नरैरगम्यानि तपोदरिद्रैः।
महार्णवानामिव दुस्तराणां पाराण्यपाराणि रसायनानाम्॥
अउ49.410
रसायनानामुपयोगसम्पदा कृतप्रसादैर्मलदोषधातुभिः।
स्थिरं शरीरं क्रियते शरीरिणां कुलं यथा सत्पुरुषैरधिष्ठितम्॥
अउ49.411
दान्तेन्द्रियेण शास्त्रार्थं यथावदनुतिष्ठाता।
कियद्वा दीर्घदर्शित्वं नेन्द्रत्वमपि दुर्लभम्॥
अउ49.412
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि।
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्॥
अउ49.413
अध्याक्रान्ता येऽम्लपटुक्षारकटूष्णैर्द्रव्यैस्तीक्ष्णैः सन्निहिता तेषु जरत्ता।
सन्धुक्ष्योग्निस्तैरुपजाते च विवर्ज्या योगास्तेग्नौ धातुसमृद्धेः स हि मूलम्॥
अउ49.414
आयुर्योगाः साध्वपि युक्ता मृदुवह्नौ नैरर्थक्यं यान्ति कृतघ्नेऽप्युपकाराः।
दीप्ते वह्नौ ते तु गुणौघैरपि तुच्छा विस्तीर्यन्ते पात्रनिसृष्टा इव भोगाः॥
अउ49.415
सत्यवादिनमक्रोधमध्यात्मप्रवणेन्द्रियम्।
शान्तं सद्वृत्तनिरतं विद्यान्नित्यरसायनम्॥
अउ49.416
गुणैरोभिः समुदितः सेवते यो रसायनम्।
सनिर्वृतात्मा दीर्घायुः परत्रेह च मोदते॥
अउ49.417
शास्त्रानुसारिणी चर्या चित्तज्ञाः पार्श्ववर्त्तिनः।
बुद्धिरस्खलितार्थेषु परिपूर्णं रसायनम्॥
अउ49.418
गवामृजुत्वेन कृतानुकारैरनन्यवागाशयदेहचेष्टैः।
स्थिरेन्द्रियायुर्ज्वलनैः सुशीलैः सुवृद्ध गोपैः समधिष्ठितेषु॥
अउ49.419
प्राज्याज्यदुग्धौषधिपादपेषु हुम्भारवैर्वल्गितवत्सकेषु।
मठप्रवेशेन विनापि सिद्धिं व्रजन्ति गोष्ठेषु रसायनानि॥
॥इति एकोनपच्चाशोध्यायः॥
॥इति सप्तमं रसायनाख्यमङ्गं सम्पूर्णम्॥
॥अथ पञ्चशोऽध्यायः॥
अउ50.1
अथातो वाजीकरणविधिं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहु रात्रेयादयो महर्षयः॥
अउ50.2
वाजीकरणमन्विच्छेत् सततं विषयी पुमान्।
तुष्टिः पुष्टिरपत्यं च गुणवत्तत्र संश्रितम्।
अपत्यसन्तानकरं यत्सद्यः सम्प्रहर्षणम्॥
अउ50.3
वाजीवातिबलो येन यात्यप्रतिहतोऽङ्गनाः।
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते।
तद्वाजीकरणं तद्धि देहस्यौजस्करं परम्॥
अउ50.4
सारो हि जीवलोकस्य स्त्री स्त्रीगुणसमन्विता।
स्त्रियः साद्ध्व्यः प्रसुवते नरान् गुणमयानिव॥
अउ50.5
गोत्रवृद्धिकराह्येता गृहिण्यो गृहदेवताः।
गृहं हि जीनमेताभिर्न श्रीमदपि शोभते॥
अउ50.6
न तु ता अपि शोभन्ते जरसानुगता इव।
पुंयोगेन विना स्त्रीणां स हि संवननं परम्॥
अउ50.7
वाजीकरणनित्यस्य कामं कामं सिषेविषोः।
न शरीरमवाप्नोति न वा रतिरतिः क्षयम्॥
अउ50.8
अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः।
यथैकश्चैकशाखश्च निरपत्यस्तथा नरः॥
अउ50.9
अदृष्टपुत्रपौत्रस्य कुलतन्त्वन्तवर्त्तिनः।
संसारसुखबाह्यस्य कीदृशं नाम जीवितम्॥
अउ50.10
असम्बन्धोह्यपुत्रस्य नित्यमेव परः परः।
सीदत्यस्यावसाने च गृहं सुस्थेप्यनायकम्।
अतो वाजीकरा योगा निषेव्याः शुक्रवर्द्धनाः॥
अउ50.11
कल्यस्योदग्रवयसो वाजीकरणसेविनः।
सर्वेष्वृतुष्वहरहर्व्यवायो न निवार्यते॥
अउ50.12
चिन्ताजराभ्यां शुक्रं तु व्याधिभिः कर्मकर्शनात्।
क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिषेवणात्॥
अउ50.13
शुक्रक्षयात् भयाच्छोकादविस्रम्भादसेवनात्।
अतिहर्षादतिस्थौल्यान्मलोपचयतः श्रमात्॥
अउ50.14
स्त्रीणामकौशलाद्दोषदर्शनादभिचारतः।
मेढ्रामयात् सुमहतः क्रोधतोऽधर्मकीर्त्तनात्।
तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते॥
अउ50.15
नहि जातबलाः सर्वे नराश्चापत्यभागिनः।
बृहच्छरीरा बलिनः केचिन्नारीषु दुर्बलाः॥
अउ50.16
सन्ति चाल्पाश्रयाः स्त्रीषु बलवन्तो बहुप्रजाः।
नराश्चटकवत्केचिद्व्रजन्ति बहुशः स्त्रियः॥
अउ50.17
गजवच्चप्रसिञ्चन्ति केचिन्न बहुगामिनः।
केचित्प्रयत्नैर्वाह्यन्ते वृषाः केचित्स्वभावतः॥
अउ50.18
तस्मात्प्रयोगान् वक्ष्यामि दुर्बलानां बलप्रदान्।
सुखोपभोगान् बलिनां भूयश्च बलवर्द्धनान्॥
अउ50.19
अथ स्निग्धविशुद्धानां निरूहान् सानुवासनान्।
घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान्॥
अउ50.20
योगविद्योजयेत् पूर्वं क्षीरमांसरसाशिनाम्।
ततो वाजीकरान्योगान् शुक्रापत्यबलप्रदान्॥
अउ50.21
शरेक्षुकुशकाशानां विदार्या वीरणस्य च।
मूलानि कण्टकार्याश्च जीवकर्षभकौ बलाम्॥
अउ50.22
मेदे द्वे द्वे च काकोल्यौ सूप्यपर्ण्यौ शतावरीम्।
अश्वगन्धामतिबलामात्मगुप्तां पुनर्नवाम्॥
अउ50.23
वीरां पयस्यां जीवन्तीमृद्धिं रास्नां त्रिकण्टकम्।
मधुकं शालिपर्णीं च भागांस्त्रिपलिकान् पृथक्॥
अउ50.24
माषाणामाढकं चैतत् द्विद्रोणे साधयेदपाम्।
रसेनाढकशेषेण पचेत्तेन घृताढकम्॥
अउ50.25
दत्वा विदारीधात्रीक्षुरसानामाढकाढकम्।
घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत्॥
अउ50.26
वीरां स्वगुप्तां काकोल्यौ यष्टीं फल्गु द्विपिप्पलीम्।
द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम्॥
अउ50.27
तत्सिद्धपूतं चूर्णस्य पृथक्प्रस्थेन योजयेत्।
शर्करायास्तुगायाश्च पिप्पल्याः कुडवेन च॥
अउ50.28
मरिचस्य प्रकुञ्चेन पृथगर्द्धपलोन्मितैः।
त्वगेलाकेसरैः श्लक्ष्णैः क्षौद्रद्विकुडवेन च॥
अउ50.29
पलमात्रं ततः खादेत् प्रत्यहं रसदुग्धमुक्।
तेनारोहति वाजीव कुलिङ्गैव हृष्यति॥
अउ50.30
माषात्मगुप्ताबीजानामाढकं प्रसृतोन्मितम्।
मेदाश्वगन्धर्द्धिवरी वीरा यष्टी द्विजीवकम्॥
अउ50.31
शूर्पेऽपां विपचेत्तेन पादशेषेण पाचयेत्।
विदारीक्षुरसप्रस्थद्वयेन सदृशेन च॥
अउ50.32
सर्वैः क्षीरेण हविषो नवात् प्रस्थं शृतेऽत्र च।
सिताक्षौद्रसिताख्यानां पृथग्दद्याच्चतुष्पलम्॥
अउ50.33
पलं कणात् पुरोभक्तं लिहंस्तत्पलपूर्वकम्।
तरुणीष्ववतृप्तासु प्रसभं रासभायते॥
अउ50.34
मेदादिभिश्च कर्षांशैः शृतं बाष्कयणं पयः।
सशर्कराक्षौद्रघृतं शुक्रवृद्धिकरं परम्॥
अउ50.35
पयसा पायसस्तेन माषकण्डूकरीफलैः।
वृष्यो वेगकरः सिद्धः सघृतक्षौद्रशर्करः॥
अउ50.36
श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे।
घृताढ्यः साधितो वृष्यो माषषष्टिकपायसः॥
अउ50.37
मधूलिका माषपर्णी सिता शृङ्गाटकं यवाः।
स्वगुप्तामूलयष्ट्याह्वविदारीक्षुरकाः समाः॥
अउ50.38
सप्रियालाः कृतं चूर्णं पृथङ्मध्वाज्यषड्गुणम्।
पादाभ्यामस्पृशन्भूमिं लिहन्काल्यमतः पिचुम्।
लभते वलमुत्साहं स्त्रीश्च याति कुलिङ्गवत्॥
अउ50.39
स्वगुप्ता क्षीरकाकोली विदारी जीवकद्वयम्।
तिलाः सलुञ्चिता भृष्टाः शर्कराज्यमधुप्लुतम्।
तच्चूर्णं प्रसृतं लीढ्वा गच्छति प्रमदाशतम्॥
अउ50.40
प्रसृतं माषचूर्णस्य धात्रीस्वरसभावितम्।
विदारीरजसो वापि लिहन् मधुघृतद्रुतम्।
क्षीरानुपश्चटकवद्दशकृत्वो व्रजेत् स्त्रियः॥
अउ50.41
चूर्ण विदार्या बहुशः स्वरसेनैव भावितम्।
क्षौद्रसर्पिर्युतं लीढ्वा प्रमदा दश गच्छति॥
अउ50.42
कृष्णा धात्रीफलरजः स्वरसेनैवभावितम्।
शर्करामधुसर्पिर्भिर्लीढ्वा योऽनु पयः पिबेत्।
स नरोऽशीतिवर्षोपि युवेव परिहृष्यति॥
अउ50.43
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम्।
पयोनुपानं यो लिह्यान्नित्यवेगः स ना भवेत्॥
अउ50.44
कुलीरशृङ्ग्या यः कल्कमालोड्य पयसा पिबेत्।
सिताघृतपयोन्नाशी स नारीषु वृषायते॥
अउ50.45
धान्यमाषरसः क्षीरं क्षौद्रमिक्षुरसो घृतम्।
द्विमेदाजीवकयुगक्वाथश्चैकत्र योजितः।
पीतः करोति पुरुषं प्रमदाशतगामिनम्॥
अउ50.46
भल्लातकैश्चतुर्भिस्तु दुग्धस्यार्द्धाढकं पचेत्।
पीतं करोति वृषतां सुजीर्णस्यापि देहिनः॥
अउ50.47
स्वयङ्गुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम्।
धारोष्णेन नरः पीत्वा पयसा रासभायते।
उच्चटाचूर्णमप्येवं शतावर्याश्च योजयेत्॥
अउ50.48
सूप्यपर्णी द्विकाकोली जीवकर्षभकैः शृतम्।
लघुना पञ्चमूलेन द्विकाकोलीयुतेन वा।
पयोऽतिवृष्यमभ्यस्य वृद्धोऽपि तरुणायते॥
अउ50.49
क्षीरिणी च श्वदंष्ट्रा च फाणितं शर्करा मधु।
गृष्टिक्षीरं नवं सर्पिरेतत् पुंसवनं परम्॥
अउ50.50
अश्वत्थफलमूलत्वक्शृङ्गसिद्धं पयो नरः।
पीत्वा सशर्करं शीतं कुलिङ्ग इव हृष्यति॥
अउ50.51
पयः पयस्यया सिद्धं शुक्रकृत्साज्यमाक्षिकम्॥
अउ50.52
शतावरीकत्करसे पयो दशगुणं घृतम्।
शृतं सपिप्पलीक्षौद्रशर्करं वृष्यमुत्तमम्॥
अउ50.53
शतावरीरसप्रस्थं क्षीरप्रस्थचतुष्टयम्।
प्रस्थं घृतस्य शुक्त्यंशं द्राक्षामांसीपरूषकम्॥
अउ50.54
जीवकर्षभयष्ट्याह्वबलामेदाकशेरुकम्।
प्रियालबीजं काकोलीयुग्मं चैकत्र पाचयेत्॥
अउ50.55
पक्वपूते क्षिपेच्चास्मिन् कुडवांशां सितोपलाम्।
गृष्टिक्षीरानुपः प्राश्य तन्नारीषु वृषायते।
विजयेत च वातास्रं पित्तास्रोरःक्षतक्षयान्॥
अउ50.56
जीवकक्षीरकाकोलीस्थिराहंसपदीघनः।
शठीक्षुगण्डिकायष्टीमृणालैः कर्षिकैः पचेत्॥
अउ50.57
घृतप्रस्थं दशगुणे क्षीरे तत् बलपुष्टिकृत्।
वन्ध्यानां पुत्रजननं शुक्रवर्द्धनशोधनम्॥
अउ50.58
जलाढके स्वयंगुप्तामूलात् पञ्चपलं पचेत्।
पादशेषे च संचूर्ण्य कुडवांशाः पृथक् क्षिपेत्॥
अउ50.59
स्वगुप्तामूलगोधूममाषेक्षुरकपिप्पलीः।
सप्रियालफलक्षौद्राः प्रस्थार्द्धं नवसर्पिषः॥
अउ50.60
सितोपलातुलापादं कुर्यात्तान् मोदकांस्ततः।
मोदकं भक्षयित्वैकं षष्टिं व्रजति योषिताम्॥
अउ50.61
पलांशान् बृहतीव्याघ्रीपृश्निपर्णीत्रिकण्टकान्।
द्व्याढकेनाम्भसा पक्त्वा पादशेषे रसे स्थिते॥
अउ50.62
पलानि क्षीरकाकोल्याः पञ्च मागधिकापलम्।
स्वगुप्ताफलमूलानां माषाणामिक्षुरस्य च॥
अउ50.63
विदार्या मधुनश्चात्र कुडवं कुडवं क्षिपेत्।
पृथक् द्वौ मुद्गतिलयोर्घृते शष्कुलिकास्ततः।
पचेदेकां ततः प्राश्य शतं व्रजति योषिताम्॥
अउ50.64
स्वगुप्तामूलचूर्णेन द्रुतेन पयसा कृताः।
घृते सशर्कराक्षौद्रा भक्ष्या वेगशतप्रदाः॥
अउ50.65
माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकान्।
शर्कराया विदार्याश्च चूर्णानीक्षुरकस्य च॥
अउ50.66
संयोज्य क्षीरसर्पिर्भ्यां घृते पूपलिकाः पचेत्।
पयोनुपानास्ताः शीघ्रं कुर्वन्ति वृषतां परम्॥
अउ50.67
चूर्णं माषात्तिलाच्छालेर्विदार्याश्च ससैन्धवम्।
रसेन पुण्ड्रकस्येक्षोः प्लुतं वाराहमेदसि।
पक्त्वा शष्कुलिक्राः खादन्नारोहेत् षष्टिमङ्गनाः॥
अउ50.68
मुखप्रियाणां स्निग्धानां फलानां मधुरात्मनाम्।
फलानामात्मगुप्तायाः शालेर्माषात्तिलात् घृतात्॥
अउ50.69
मुद्गात् गोधूमतश्चापि कुडवं कुडवं पृथक्।
चूर्णितैर्निस्तुषैस्तैस्तु क्षीरेणालोड्य मर्दितैः।
पक्वां पूपलिकां खादन् स्त्रीषु हृष्यति वाजिवत्॥
अउ50.70
शर्करामाषगोधूमतुगाक्षीरीपयोघृतैः।
पक्वामुत्कारिकां खादेत् कृकवाकुरसानुपः॥
अउ50.71
मायुरं तैत्तिरं हांसमेवमेव रसं पिबेत्।
अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्॥
अउ50.72
पिष्ट्वा वराहमांसानि दत्वा मरिचसैन्धवे।
कोलवद्गुटिकाः कृत्वा तप्ते सर्पिषि वर्त्तयेत्॥
अउ50.73
वर्त्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौक्कुटे रसे।
घृताढ्ये गन्धपिशुने दधिदाडिमसारिके॥
अउ50.74
यथा न भिन्द्याद्गुटिकास्तथा तं साधयेद्रसम्।
तं पिबन्भक्षयंस्ताश्च बली बालेयवद्व्रजेत्।
मांसानि बलयुक्तानि तथान्यान्यपि कल्पयेत्॥
अउ50.75
माषानंकुरितान्शुद्धान् निस्तुषान्साजहाफलान्।
घृताढ्ये माहिषरसे दधिदाडिमसारिके॥
अउ50.76
प्रक्षिप्य साधयेद्युक्त्या धान्यजीरकनागरैः।
पीतो भुक्तश्च स रसः कुरुते शुक्रमक्षयम्॥
अउ50.77
हंसबर्हिणदक्षाण्डान् भृष्टांस्तप्तेन सर्पिषा।
सुरानुपानान् यः खादेत् स तृप्तस्तर्प्पयेत्स्त्रियः॥
अउ50.78
आर्द्राणि मत्स्यमांसानिशफरीर्वा सुभर्जिताः।
तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम्॥
अउ50.79
घृतभृष्टान् रसे छागे रोहितान् फलसारिके।
अनुपीतरसान् सिद्धानपत्यार्थी प्रयोजयेत्॥
अउ50.80
घृतं माषान् सबस्ताण्डान् फलाम्ले माहिषे रसे।
स्वादौ वा साधयेत् पूतं तद्रसं भर्जयेत् घृते॥
अउ50.81
ईषल्लवणितं युक्तं धान्यजीरकनागरैः।
पीतः स वृष्यो बल्यश्च बृंहणश्च परं रसः॥
अउ50.82
चटकांस्तैत्तिरे तद्वत्तित्तिरीन् कौक्कुटे रसे।
कल्पयेच्छिखिनो हांसे हंसान् वा शिखिजे रसे॥
अउ50.83
तृप्तिं चटकमांसानां गत्वा योनु पयः पिबेत्।
प्रभूतकालसंरुद्धाः सन्तर्पयति योषितः॥
अउ50.84
घृताढ्यं कुक्वुटं शूल्यं शीतं खादेत् समाक्षिकम्।
पिबेच्चानन्तरं क्षीरं य इच्छेच्छुक्रमक्षयम्॥
अउ50.85
पिप्पलीलवणैर्युक्तौ बस्ताण्डौ क्षीरसर्पिषा।
साधितौ भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम्॥
अउ50.86
बस्ताण्डसिद्धे गोदुग्धे भावितानसकृत्तिलान्।
यः खादेत्ससितान् गच्छेत् स स्त्राशतमपूववत्॥
अउ50.87
भुक्त्वा यो माषसूपेन घृताड्यं षष्टिकौदनम्।
पयः पिबति जागर्ति कृत्स्नां रात्रिं स वेगवान्॥
अउ50.88
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम्।
शृङ्गाटकानि मृद्वीका पचेत्तत् प्रसृतोन्मितम्॥
अउ50.89
क्षीरप्रस्थं जलप्रस्थमेतत् क्षीरावशेषितम्।
शुचिना वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः॥
अउ50.90
शर्करायास्तुगाक्षीर्याः सर्पिषोऽभिनवस्य च।
तत्पिबेत् क्षौद्रसंयुक्तं भुञ्जानः षष्टिकौदनम्।
तथा जरापरीतोपि पुत्रैः स परिवार्यते॥
अउ50.91
द्राक्षाखर्जरखर्जूरीमस्तकान्यजहाफलम्।
पयस्याभीरुमाषांश्च मधुकानि च साधयेत्॥
अउ50.92
तोयाढके पलांशानि पादशेषेण तेन च।
क्षीरप्रस्थं पचेत् क्षीरशेषेणाद्यात् घृतान्वितम्।
षष्टिकान्नं सिताज्येन योगोऽयं शुक्रकृत् परम्॥
अउ50.93
जीवकर्षभकौ मेदा जीवन्ती श्रावणीद्वयम्।
खर्जूरं मधुकं द्राक्षां विदारीं विश्वभेषजम्॥
अउ50.94
शृङ्गाटकानि चपला नवं सर्पिःपयो जलम्।
घृतावशेषितं सिद्धं शर्करामाक्षिकान्वितम्॥
अउ50.95
षष्टिकौदनसंयुक्तमुपयोज्यं यथाबलम्।
तद्वृष्यं बलकृद्वर्ण्यं कण्ठ्यं देहस्य बृंहणम्॥
अउ50.96
गृष्टिर्बष्कयणी नीरुगूर्ध्वशृङ्गी चतुःस्तनी।
सान्द्रस्वादुबहुक्षीरा रूपशीलसमन्विता॥
अउ50.97
इक्षुभिर्माषपर्णेन या सुपुष्टार्जुनेन वा।
तत्क्षीरं ससिताक्षौद्रघृतं पुत्र्यं रतिप्रदम्॥
अउ50.98
शुक्रलैर्जीवनीयाख्यैर्बृंहणैर्बलवर्द्धनैः।
वयसः स्थापनैश्चेतत् पयः सिद्धं पृथक्पृथक्॥
अउ50.99
युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम्।
पर्यायेणोपयोक्तव्यमिच्छता शुक्रमक्षयम्॥
अउ50.100
मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्।
माषान् श्वदंष्ट्रां क्षीरीकां गोधूमान् शालिषष्टिकान्॥
अउ50.101
तत्क्षीरेर्द्धोदके सिद्धान् कार्षिकानाढकोन्मिते।
विसर्जयेत्पयश्शेषं तत्पूतं क्षौद्रसर्पिषा।
सितया च युतं पीत्वा वृद्धोपि तरुणायते॥
अउ50.102
मण्डलैर्जातरूपस्य सुतप्तैस्तत्पयः शृतम्।
सिद्धं पुंसवनं वृष्यं ससिताघृतमाक्षिकम्।
रूप्यायस्ताम्नसीसानामयमेव पृथग्विधिः॥
अउ50.103
चूर्णिताः पिप्पलीस्त्रिंशत् प्रकुञ्चे तैलसर्पिषोः।
भृष्टाः सशर्कराक्षौद्राः क्षीरेणालोडिताः पिबेत्।
अश्नंश्च षष्टिकं क्षीरसर्पिर्भ्यां वाजिवद्भवेत्॥
अउ50.104
चन्द्रांशुशुभ्रं पयसा घृताढ्यं षष्टिकौदनम्।
शर्करामधुसंयुक्तं भुञ्जानो ना वृषायते॥
अउ50.105
दध्नः सरेण सघृतो भक्षितः षष्टिकौदनः।
सैलातुगोषणक्षौद्रः शर्कराढ्येन शुक्रकृत्॥
अउ50.106
अध्यण्डामार्षभींचैव स्वयड्गुप्ताफलानि च।
पादलेपं नरः कृत्वा निशि वेगैर्न हीयते॥
अउ50.107
वर्षाभूमूलमृद्वीकास्वयङ्गुप्ताफलानि च।
सिद्धश्चरणलेपोयं भुवं पद्भ्यां तु न स्पृशेत्॥
अउ50.108
घृतक्षीराशनो नित्यं निर्व्याधिर्नित्यगो युवा।
सङ्कल्पप्रवणो इत्यं नरः स्त्रीषु वृषायते॥
अउ50.109
आत्मगुप्ताफलं माषा गोधूमः शालिषष्टिकम्।
इक्षुरिक्षुरकः क्षीरं क्षौद्रं द्राक्षा सितोपला॥
अउ50.110
उच्चटा शरमूलानि विदारी सशतावरी।
जीवनीयानि स्वर्जूरं मोचचोचफलानि च॥
अउ50.111
एभिर्भक्ष्याणि पेयानि लेह्यानि च घृतानि च।
नित्यमासेवमानस्य स्त्रीषु हर्षो विवर्द्धते॥
अउ50.112
जीवनीयघृतक्षीरमधुतैलसितारसैः।
रसक्षीराशिनः क्षिप्रं वृषं कुर्वन्ति बस्तयः॥
अउ50.113
सिद्धबस्तिविकल्पोक्तान् बलशुक्रसुतप्रदान्।
युञ्जीत बस्तीन् पुत्रार्थी पुत्रकामोदितं च यत्॥
अउ50.114
यत्किञ्चिन्मधुरं स्निग्धं बृंहणं बलवर्द्धनम्।
मनसो हर्षणं यच्च तत्सव वृष्यमुच्यते॥
अउ50.115
द्रव्यैरेवंविधैस्तस्मात् भावितः प्रमदां व्रजेत्।
आत्मवेगेन चोदीर्णः स्रीगुणैश्च प्रहर्षितः॥
अउ50.116
इष्टाह्येकैकशोप्यर्था हर्षप्रीतिकराः परम्।
किं पुनः स्त्रीशरीरे ये सङ्घघातेन प्रतिष्ठिताः॥
अउ50.117
रुचिभेदेन लोकस्य दैवयोगाञ्च योषिताम्।
तं तं प्राप्य विवर्द्धन्ते नरं रूपादयो गुणाः॥
अउ50.118
तस्माद्या यस्य हृदयं विशतीव वराङ्गना।
तुल्यस्वभावा या हारिमृजारूपगुणान्विता॥
अउ50.119
पाशभूतैर्वहन्त्यङ्गैर्लावण्यमिव मूर्तिमत्।
आलपन्त्यमृतेनेव या गात्राणि निषिञ्चति॥
अउ50.120
पिबन्तीव च पश्यन्ती स्पृशन्ती लिम्पतीव या।
नित्यमुत्सवभूता या या समानमनःशया॥
अउ50.121
नयत्युत्सुकतां चेतो नित्यं सन्निहितापि या।
यया वियुक्तो निःस्त्रीकमरतिर्मन्यते जगत्॥
अउ50.122
प्रगल्भा रीतसङ्ग्रामे स्वस्था लज्जामयी च या।
बहुशोपि च यां गत्वा तत्पूर्वमिव गच्छति॥
अउ50.123
चरितैर्निर्विकारा या विकारैरिव निर्मिता।
कान्तानुवृत्तिपरमा सा स्त्री वृष्ट्यतमा मता॥
अउ50.124
अभ्यञ्जनोद्वर्तनसेकगन्धस्रक्चित्रवस्त्राभरणप्रकाराः।
सुगन्धिपुष्पोत्कररेणुकीर्णा मृदुर्मनोज्ञा विपुला च शय्या॥
अउ50.125
प्राज्ञाः कलाज्ञा वशगा विनीताः प्रियंवदाः प्रीतिकरा वयस्याः।
विस्रम्भसत्वप्रकृतिक्रियैक्याच्छरीरमात्रेण पृथक्त्वभूताः॥
अउ50.126
कान्ता वनान्ताः परपुष्टघुष्टा रम्याः स्रवन्त्यः सततं स्रवन्त्यः।
मद्यं मदामोदकरं विशेषाध्दृद्या प्रसन्ना सुरभिः प्रसन्ना॥
अउ50.127
शकाङ्गनागण्डतलाभिपाण्डुताम्बुलपत्रं परिवारशोभि।
प्रसाधनं स्त्रीमुखपङ्कजानां यदायुधं मूर्तमिवात्मजस्य॥
अउ50.128
हिमाचलोद्धूनितदुग्धसिन्धुसमुद्भवत्फेनचयावदातम्।
सौधं सुधाशुभ्रतराः कराश्च चन्द्रस्य कुर्वन्ति परं वृषत्वम्॥
अउ50.129
बन्धेन पूर्वोपहितेन पुंसः खिन्नस्य वृत्तिः करणान्तरेण।
संवाहनं स्पर्शसुखैः करैश्च करोत्यपूर्वामिव मन्मथेच्छाम्॥
अउ50.130
प्रायोगिकाधिकरणोदिताचित्रचेष्टासंशीलनोद्भवदनल्परसार्द्रचित्तः।
वृष्योपयोगपरिबृंहितदेहधातुर्नारीमनांसि वशमानयति प्रसह्य॥
अउ50.131
तस्मान्नित्यं स्त्रीषु वाञ्छन् प्रियत्वं वृष्यैर्योगैर्जातकामोऽपि कामी।
सत्वंअ सात्म्यं देशकालौ च बुध्वा चातुष्षष्टे चेष्टिते व्याप्रियेत॥
अउ50.132
वलयस्वनसङ्कुलमुष्टिरवद्विगुणीकृतमेखलिकानिनदः।
चलनूपुरशब्दयुतोऽपि मुहुः शममावहते न रतातिशयः॥
अउ50.133
सर्वार्थसिद्धिः प्रथमोनुरागः शृङ्गारगान्धर्वकथाविशेषाः।
सीत्कारगर्भं हसितं सहावं छिन्नाक्षरं विभ्रमवच्च गीतम्॥
अउ50.134
सव्याजसन्दीर्शतचारुगात्रं वृत्तं प्रियाणामवलोकितं च।
चूताङ्कुरं पुष्पफलं यथर्तु विद्युत्वदुद्योतितगर्जितानि॥
अउ50.135
विहङ्गभृङ्गस्तनितानुयातं स्त्रीकूजितं भूषणशिञ्जितानि।
काले यथास्वं वपुषश्च शुद्धिः सङ्कल्पयोनेर्धुरमुद्वहन्ति॥
अउ50.136
स्रोतस्सु शुद्वेष्वमले शरीरे वृष्यं यदाद्यं मितमत्ति काले।
वृषायते तेन परं मनुष्यस्तद्बृंहणं देहबलप्रदं च॥
अउ50.137
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न च वृष्ययोगाः।
सिध्यन्ति देहे कलुषे प्रयुक्ताः क्लिष्टे यथा वाससि रागयोगाः॥
अउ50.138
उपदिष्टे विचित्रेऽस्मिन् वक्तव्यार्थानुरोधतः।
कर्तव्यमेवकर्तव्यं प्राणाबाधेऽपि नेतरत्॥
अउ50.139
एतत् स्वरूपं शास्त्रस्य यद्व्यापित्वेन वर्ण्यते।
स्पृशति न्यूनतादोषो महानव्यापिनि ध्रुवम्॥
अउ50.140
वीर्यहीनैरसम्पूर्णैः प्रयोगैरपि भूषितम्।
अर्थानतन्त्रयत्तन्त्रं तन्त्रतामाप्नुयात् कथम्॥
अउ50.141
हंसबर्हिणदक्षाण्डा यद्यप्यत्यर्थशुक्रलाः।
मुनयः सदया ब्रूयुस्तान्योगेष्वन्यथा कथम्॥
अउ50.142
कथं वा सर्वएवैते योगा रागाग्निदीपनाः।
क्लिष्टसङ्कल्पजननाः प्रोक्ताः संसारवर्द्धनाः॥
अउ50.143
त्रिकालदर्शिभिर्दिव्यैः सत्वदोषषिवर्जितैः।
पूर्वाचार्यैः कृतं वर्त्म को लङ्घयित्मुमर्हति॥
अउ50.144
प्रक्रान्ते सर्वथा सर्वमुक्तं भवति सूदितम्।
नाहि लेशाभिधानेन लभ्यः सर्वार्थसङ्ग्रहः॥
अउ50.145
तथा च गर्दभीक्षीरं मांसमश्वस्य हस्तिनाम्।
मद्दासागरतोयं च प्रोक्तं निरुपयोग्यपि॥
अउ50.146
अद्यत्वेऽपि विशेषेण भूरितन्त्रार्थसङ्ग्रहात्।
सङ्ग्रहाद्यन्नबुध्येत तज्ज्ञानमतिदुर्लभम्॥
अउ50.147
यथा प्रतिज्ञातमिति क्रमेण वेदोयमष्टाङ्गनिधेर्निबद्धः।
अभ्यस्यतो मार्गमिवार्यसत्यं सञ्जायते स्वार्थपरार्थसिद्धिः॥
अउ50.148
पितामहमुखोद्गीर्णमित्यायुर्वेदवाङ्मयम्।
जीवितारोग्यधर्मार्थसुखगौरवकीर्त्तिकृत्॥
अउ50.149
अलङ्कृतं युक्तिपदैः सद्रत्नैरिव काञ्चनम्।
षट्त्रिंशतार्थदुर्गेषु भिषजां सङ्क्रमैरिव॥
अउ50.150
तत्राधिकरणं योगो हेत्वर्थोर्थः पदस्य च।
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्॥
अउ50.151
उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः।
प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः॥
अउ50.152
पूर्वपक्षविधानानुमतव्याख्यानसंशयाः।
अतीतानागतापेक्षा स्वसंज्ञोह्य समुच्चयाः॥
अउ50.153
निदर्शनं निर्वचनं नियोगोऽथ विकल्पनम्।
प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः॥
अउ50.154
सरसः सुप्तपद्मस्य रविदीधितयो यथा।
यथा गृहस्य दीपाभास्तथा तन्त्रस्य युक्तयः॥
अउ50.155
अधीयानोऽपि तन्त्राणि तन्त्रयुक्त्यविचक्षणः।
नाधिगच्छति तन्त्रार्थमर्थं भाग्यक्षये यथा॥
अउ50.156
वाक्यार्थयोजनोदता युक्तयस्त्विष्टसिद्धिदाः।
असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधकाः॥
अउ50.157
लीनव्यत्यासलेशोक्तिगदितानां प्रकाशकाः।
वाक्यन्यायोदधेः सारं गृहीत्वैवं व्यवस्थिताः॥
अउ50.158
एतदागमसिद्धत्वात् प्रत्यक्षफलदर्शनात्।
प्रयोज्यं मन्त्रवत्तन्त्रं तन्त्रज्ञानविशारदैः॥
अउ50.159
पित्तामहेन लोकस्य स्मृत्वा तदिदमव्ययम्।
अकालमृत्युरक्षार्थमलौहं वर्म निर्मितम्॥
अउ50.160
सुज्ञातमेतदमृतं स्वस्थास्वस्थसुखास्पदम्।
यथेप्सितफलाशेषपुरुषार्थप्रसाधनम्॥
अउ50.161
इदं शास्त्रमदृष्टीनामेवमालोककार्यपि।
मण्डलं भास्करस्येव न प्रकाशाय जायते॥
अउ50.162
ध्रुवं वैद्येषु कल्याणमायुर्वेदानुसारिषु।
इतरेष्वितरच्छत्रविषज्वलनकर्मसु॥
अउ50.163
कुर्यात् प्रयुक्तं शस्त्रादि सशेषमपि रोगिणम्।
न त्वेवं भेषजं मोहादनालोचितयोजितम्॥
अउ50.164
सदा दोषौषधादीनि वीक्ष्य द्वादश तत्वतः।
कुर्याच्चिकित्सितं प्राज्ञो न योगैरेव केवलैः॥
अउ50.165
मात्रादि सम्यगज्ञात्वा यदृच्छाप्रतिपादितः।
हिनस्ति व्याधितं योगो घृतमाक्षिकयोरिव॥
अउ50.166
दृष्ट्वा विषेष्यमृततां घृतादौ मारणात्मताम्।
शास्त्रतत्वं न विज्ञाय स दुरात्मा चिकित्सति॥
अउ50.167
सुगीतश्चैष कस्यापि महाश्लोको महात्मनः।
वैद्याश्चाश्रुतशास्त्रार्था मूर्खाश्च प्रभाविष्णवः।
अकालमृत्यवो ह्येते विचरन्ति महीतले॥
अउ50.168
लोभयन्त्यातुरं मूढा ये चित्रैः कर्मकौशलैः।
तेभ्यो रक्षेत्सदात्मानमात्मा यस्मात् सुदुर्लभः॥
अउ50.169
ते ध्रुणाक्षरवत्कञ्चिदुत्तार्य नियतायुषम्।
घ्नन्ति वैद्याभिमानेन शतान्यनियतायुषाम्॥
अउ50.170
रोगार्तस्य विषण्णस्य यत्नलभ्यसुखायुषः।
अवैद्यो निर्घृणःक्रूरो यः करोति भिषग्जितम्॥
अउ50.171
पापस्य मृत्युदूतस्य दुर्मतेस्त्यक्तधर्मणः।
नरो नरकपाती स्यात्तस्य सम्भाषणादपि॥
अउ50.172
अतन्त्रीकृततन्त्रार्थः शास्त्रमात्रोपजीविनः।
राज्ञां प्रमादाद्राष्ट्राणि चरन्ति व्याधवृत्तयः॥
अउ50.173
तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान्।
सेवेत शमविज्ञानज्ञानपूर्णान् भिषक्तमान्॥
अउ50.174
अन्नपानानि पथ्यानि व्याधिनिर्घातमौषधम्।
रसायनानि वृष्याणि प्राप्यन्ते वैद्यसंश्रयात्॥
अउ50.175
अराजका यथा देशा भर्तृहीना यथा गृहाः।
आतुराद्यास्तथा पादाः शोच्या वैद्यानधिष्ठिताः॥
अउ50.176
प्राणाचार्यं बुधस्तस्माद्दयालुं विजितेन्द्रियम्।
अश्विनाविव देवेन्द्रः पूजयेदादृतः सदा॥
अउ50.177
यज्ञस्य हि शिरश्छिन्नमश्विभ्यां सन्धितं पुनः।
पातिता दशनाः पूष्णो भगस्य च विलोचने॥
अउ50.178
राजयक्ष्मार्दितश्चन्द्रस्ताभ्यामेव चिकित्सितः।
सोमान्निपतितो वज्री भुजस्तम्भे च दारुणे॥
अउ50.179
भार्गवश्चवनः कामी वृद्धः सन् विकृतिं गतः।
वीर्यवर्णबलोपेतः कृतस्ताभ्यां पुनर्युवा॥
अउ50.180
एभिश्चान्यैश्च बहुभिः कर्माभीर्भिषगुत्तमौ।
बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनाम्॥
अउ50.181
अश्विभ्यां सहितः सोमं प्रातः पिबति वासवः।
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते॥
अउ50.182
अश्विनोः कल्प्यते भागो यज्ञेषु ब्राह्मणैरपि।
अश्विनावग्निरिन्द्रश्च वेदेषु सुतरां स्तुताः॥
अउ50.183
वैद्यवित्यश्विनौ तस्मात् पूज्येते विबुधैरपि।
अजरैरमरैर्नित्यं सुखितैरेवमादृतैः॥
अउ50.184
व्याधिमृत्युजराग्रस्तैर्दुःखप्रायैः सुखार्थिभिः।
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः॥
अउ50.185
शीलवान् मतिमान् युक्तो द्विजातिर्वेदपारगः।
प्राणिभिः पितृवत्पूज्यः प्राणाचार्यः स हि स्मृतः॥
अउ50.186
विद्यासमाप्तौ भिषजां द्वितीया जातिरुच्यते।
न वैद्यो वैद्यशब्दं हि लभते पूर्वजन्मना॥
अउ50.187
विद्यासमाप्तावाष वा ब्रह्मं वा भिषजं ध्रुवम्।
तस्वमाविशति ज्ञानात्तेन वैद्यो द्विजः स्मृतः॥
अउ50.188
नावध्यायेन्न चाक्रोशेदहितं न समाचरेत्।
प्राणाचार्यं बुधः कच्छिदिच्छन्नायुरनश्वरम्॥
अउ50.189
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्।
आबाधेभ्योऽभिसंरक्षेत् ज्ञानं धर्मनुस्मरन्॥
अउ50.190
कुर्वते ये तु वृत्यर्थं चिकित्सापण्यविक्रयम्।
ते हित्वा काञ्चनं राशिं पांसुराशिमुपासते॥
अउ50.191
रोगाख्यान्दारुणान्पाशानन्तकान्तिककर्षिणः।
यश्छित्वा यच्छति प्राणान्दाता नास्त्येव तत्समः॥
अउ50.192
न जीवितप्रदानाद्धि दानमन्यद्विशिष्यते।
तस्मादुपाचरेत् स्वेन स्वेन निःस्वतपस्विनः॥
अउ50.193
सत्वार्थमीहमानस्य वैद्यस्यैवं महामतेः।
वर्तन्ते सन्निधानेन नियतं सिद्धिदेवताः॥
अउ50.194
क्वचिद्धर्मः क्वचिन्मित्रं क्वचिदर्थः क्वचिद्यशः।
कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला॥
अउ50.195
नित्यमादरवान् वैद्यस्तस्मादार्तानुपाचरेत्।
प्राणान्सहात्मनः कीर्त्या निहन्त्येषामनादरात॥
अउ50.196
सर्वत्र मैत्री करुणातुरेषु निरामदेहेषु नृषु प्रमोदः।
मनस्युपेक्षापकृतिं व्रजत्सु वैद्यस्य सद्वृत्तमलं तनोति॥
अउ50.197
सामिषेणापि चित्तेन जीवितोच्छेदकारिणः।
यो निहन्त्यामयान् वैद्यः सोपि केनोपमीयताम्॥
अउ50.198
किमुत निरामिषेण मनसा करुणामृदुना कृपणविशिष्टयोः सदृशमादरमुद्वहता।
अतिगुरु बोधिसत्वचरितं सततं विदधच्छमयति रोगजालमपि योतिविरोधि मिथः॥
अउ50.199
दाहः शूलं तृडाध्मानं क्षुत्क्षामत्वमरोचकम्।
कः प्राकृतो जयेद्रोगान् नित्यमन्योन्यरोधिनः॥
अउ50.200
मारुतामग्रहोन्भादमदान् सुसदृशाकृतीन्।
को जानीयाच्चिकित्सेद्वादूरभित्नक्रियाक्रमान्॥
अउ50.201
प्राणाचार्थं वेदपारं प्रयातं बुध्या युक्तं पूजयेन्नित्यमस्मात्।
यस्मिन्यस्य प्राणयात्रा निबद्धा तस्मै यच्छन् को धनानां धनायेत्॥
अउ50.202
आयुर्वेदं श्लोकलक्षेण पूव ब्रह्माम्नासीदग्निवेशादयस्तु।
कृत्स्नज्ञेयप्राप्तसाराः स्वतन्त्रास्तस्यैकैकं नैकधाङ्गं वितेनुः॥
अउ50.203
भिषग्वरो वाग्भट इत्यभून्मे पितामहो नामधरोऽस्मि यस्य।
सुतोभवत्तस्य च सिंहगुप्तस्तस्याप्यहं सिन्धुषु लब्धजन्मा॥
अउ50.204
समधिगम्य गुरोरवलोकितात् गुरुतराच्च पितुः प्रतिभा मया।
सुबहुभेषजशास्त्रविलोचनात् सुविहितोऽङ्गविभागविनिर्णयः॥
अउ50.205
पूर्वोक्तमेव वदता किमिवोदितं स्याच्छ्रद्धालुतुष्टिजननं न भवत्यपूर्वम्।
सङ्क्षिप्तसंशयितविस्तृतविप्रकीर्णः कृत्स्नोर्थराशिरिति साधु स एव दृष्टः॥
अउ50.206
आयुर्वेदोदधेः पारमपारस्य प्रयाति कः।
विश्वव्याध्यौषधिज्ञानसारस्त्वेष समुच्चितः॥
अउ50.207
स्मृत्वेदमुदितं पूर्वं श्रुत्वेदानीं द्वयोः पुनः।
स्मर्त्तुः श्रोतुश्च सुतरां श्रद्धातुं कस्य युज्यते॥
अउ50.208
अथवा श्रुतमप्येतत् स्मर्तुरेव क्रमागतम्।
अभिधातृविशेषेण किं तथापि प्रयोजनम्॥
अउ50.209
ऊर्ध्वमेति मदनं त्रिवृताधो वस्तुमात्रक इति प्रतिपाद्ये।
मद्विधो यदि वदेदथवात्रिः कथ्यतां क इव कर्मणि भेदः॥
अउ50.210
साध्वसाध्विति विवेकवियुक्तो लोकपङ्क्तिकृतभक्तिविशेषः।
बालिशो भवति नो खलु विद्वान् सूक्त एव रमते मतिरस्य॥
अउ50.211
इति मुनिवचनानां जीवितोपाश्रयाणामभिलषितसमृद्धौ कल्पवृक्षोपमानाम्।
यदुदितमिह पुण्यं कुर्वतो मेनुवादं भवतु विगतरोगो निर्वृतस्तेन लोकः॥
॥इति पञ्चशोऽध्यायः समाप्तः॥
॥इति श्रीसिंहगुप्तसूनुश्रीमद्वाग्भटाचार्यविरचिताष्टाङ्गसङ्ग्रहे षष्ठमुत्तरस्थानं सम्पूर्णम्॥