सामग्री पर जाएँ

अष्टाङ्गसंग्रहः उत्तरस्थानम् अध्याय २६-३०

विकिस्रोतः तः

अष्टाङ्गसंग्रहः

अथ षट्विंशोऽध्यायः।

अउ26.1
अथातो मुखरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ26.2
स्निग्धस्विन्नस्य खण्डौष्ठस्यौष्ठान्तौ विलिख्य सुश्लिष्टौ क्षौमसूत्रेण सीव्येत्।
शतधौतघृताभ्यक्तां चास्मै कबलिकां व्रणस्योपरि दद्यात्।
प्रक्लिन्नं च व्रणं व्रणचिकित्सया साधयेत्॥

अस26.3। ज्योतिष्मतीलोध्रमधुकपटोलोत्पलकाकमाचीश्रावणीसारिवाभिस्तैलं विपक्वमभ्यञ्जनाच्छोधनरोपणम्।
तथा वातहरमधुरौषधसिद्धं तैलं नस्यम्॥

अउ26.4
वातज औष्ठकोपे देवदारुगुग्गुलुसर्जरसमधूच्छिष्टसिद्धेन महास्नेहेनाभ्यङ्गः।
तेनैव समधुकचूर्णेन प्रतिसारणाम्।
तदभ्यक्तेन पिचुना प्रच्छादनम्।
एरण्डपल्लवैः क्षीरक्वथितैर्नाडीस्वेदः खण्डौष्ठोक्तं नावनं शिरोऽभ्यङ्गश्च॥

अउ26.5
पित्तोत्थेऽभिघातजे च जालौकोभिर्विस्रावणम्।
पत्तङ्गयष्टीछिन्नरुहाविपक्वं सर्पिरभ्यङ्गः।
मधुमधुकलोध्रसर्जरसैः प्रतिसारणम्।
पित्तविद्रधिवच्च चिकित्सा॥

अउ26.6
रक्तजेप्यचिरोत्थिते पैत्तिकवत् प्रतिकुर्यात्।
कफजे जलौकोभिः शाकादिपत्रैर्वा रक्तं विस्राव्य व्योषपाठायवक्षारस्वर्जिकाक्षारैः सक्षौद्रैः प्रतिसारयेत्।
कुष्ठतगरदन्तीश्यामाबिडहरितालविडङ्गैर्वा।
स्वेदनस्यधूमकवलांश्च कफघ्नानवचारयेत्॥

अउ26.7
मेदोजे दन्तच्छदं स्वेदयित्वा वृद्धिपत्रेण विपाट्य शुद्धमेदसमग्निनानुपचरेत्।
कफजोक्तैश्च प्रतिसारणम्।
जलार्बुदोक्तं तैलं रोपणम्॥

अउ26.8
जलार्बुदं भित्वा विशोध्य त्रिकटुकटुकातेजोवतीयवक्षारस्वर्जिकासैन्धवकासीसचूर्णैः सक्षौद्रैः प्रतिसारयेत्।
अवगाढमतिवृद्धं वा क्षारेणाग्निना वा दहेत् हरिद्रालोध्रमधुकमालतीहरेणुतगरैर्विपक्वं तैलं रोपणम्॥

अउ26.9
गण्डालजीमपक्वां शोफवद्विदग्धामुपनाह्य पक्वां विदार्य व्रणवत् साधयेत्॥

अउ26.10
शीतदन्तस्योष्णामुबुस्विन्नस्य व्रीहिमुखेन पालीं लिखित्वा पिचुतैलेन दहेत्।
प्रतिसारयेच्च प्रियङ्गुजम्ब्वस्थिदाडिमत्वक्त्रिफलारसाञ्जनसैन्धवशुण्ठीमुस्तचूर्णैः समधुघृतैः।
क्षीरिवृक्षकषायो गण्डूषः।
अणुतैलं नस्यम्॥

अउ26.11
दन्तहर्षे भेदे च वातहरसिद्धं तैलमेलाकुष्ठपाटलीस्वग्विपक्वो मज्जा वा गण्डूषः।
स्निग्धाश्च नस्यादयः॥

अउ26.12
दन्तचाले दशमूलक्वाथेन तैलसर्पिर्वसाक्षौद्रैश्च कवलः।
पिप्पलीसैन्धवतुत्थलोध्रपतङ्गस्रोतोजमुस्तात्रिफलाः प्रतिसारणम्।
नियतं च स्नैहिकधूमपायी स्निग्धमधुराहारो विस्रावणपरः स्यात्।
चन्दनपद्मकमधुकविदारीकशेरुकनीलोत्पलमृद्वीकाजीवकर्षभकशर्कराणां प्रत्येकं पलेन क्षीरेण च मांसरसद्विगुणेन तैलप्रस्थं विपाचयेत्।
एतन्नस्यगण्डूषप्रयोगात् परं दशननयनश्रवणबलकरम्॥

अउ26.13
अधिदन्तकं क्षारेणालिप्य जर्जरं विज्ञाय कृमिदन्तकविधिनोत्पाड्य तद्वदेवोपचरेत्।
अनवस्थितशोणितं च दग्ध्वा व्रणवदुपक्रमेत॥

अउ26.14
दन्तशर्करां दन्तमूलान्यपीडयन् दन्तलेखनेन विलिख्य क्षारतैलेनावसेचयेत्।
मूषाकूर्पपाटलीत्वक्चूर्णेन प्रतिसारणम्।
सदा च दन्तधावनादीन् सेवेत।
दन्तहर्षोक्तं च कुर्यात्॥

अउ26.15
कपालिकायामेतदेव विशेषतः शीलयेत्॥

अउ26.16
कृमिदन्तके सुषिरं गुडेन मधूच्छिष्टेन सर्पिष वापूरयित्वा तप्तया कुब्जशलाकया दहेत्।
सप्तच्छर्दाकक्षीरं वा पूरणम्।
सर्षपकरञ्जतैलं॥

अउ26.17
हिङ्गुविडङ्गस्वर्जिकाकट्फलकासीसकुष्ठचूर्णस्तान्तवबद्धो दन्तस्योपरि तिष्ठन् रुजमपहरति।
कुन्दुरुष्कचूर्णो वा।
एभिरेव च सिद्धं तैलं गण्डूषः।
दृढगूढमूलमांसे सरुजे विस्रावणम्।
भग्नस्फुटितविवर्णसुप्तचलस्य सरुजस्य च॥

अउ26.18
एवमनुपशमे सन्दंशयन्त्रेण दन्तमायतं गृहीत्वा विचाल्य शस्रेण पार्श्वेभ्यो मोक्षयित्वोद्धरेत्।
दन्तनिर्घातनेनोत्पीड्य मुद्गरेणाश्मना वा निर्घातयेत्।
न तूत्तरं दन्तम्॥

अउ26.19
तस्योद्धरणाच्छोणितात्ययस्ततश्चेन्द्रियभ्रंशो वात व्याधिर्वा॥

अउ26.20
प्रक्षालितमुखश्च समधुकचूर्णं तैलं मधु वा गण्डूषं धारयेत्॥

अउ26.21
विदारीमधुकशृङ्गाटककशेरुकाभिस्तैलं दशगुणे पयसि सिद्धं नस्यम्॥

अउ26.22
उत्तरदन्तोद्धरणेप्ययमेव प्रतीकारः।
शीतोपचारश्च सुतराम्॥

अउ26.23
शीतादे शोणितं विस्राव्य रसाञ्जनमुस्तत्रिफलार्जुनत्वक्प्रियङ्गुमहौषधकषायं गण्डूषं धारयेत्।
एभिरेव च सक्षौद्रैः प्रतिसारणं।
मधुरवर्गसिद्धं तैलं नस्यम्।
तेजोवतीव्योषहरिद्राद्वयकुष्ठपाठाकटुरोहिणीलोध्रसमङ्गामुस्तैः प्रतिसारणं सर्वदन्तमांसामयेषु कण्डूश्वयथुवेदनारक्तस्रुतिहरम्।
तथा व्याषयवक्षारमनश्शिलासैन्धवदार्वीत्वग्भिः एभिरेवाषैर्धगुटिका सर्वमुखरोगहरा॥

अउ26.24
उपकुशे सुखोष्णाम्बुस्विन्नान्युत्सन्नानि दन्तमांसान्यवलिखेन्मण्डलाग्रेण शाकादिपत्रैर्वा।
ततः सुखोष्णो घृतमण्डस्तैलं वा गण्डूषः।
मरिचकुष्ठमधुकप्रियङ्गुलाक्षापतङ्गगैरिकरसाञ्जनशुण्ठीसैन्धवैर्मधुघृतमण्डयुक्तैः प्रतिसारणम्।
पृथक्पर्णीविडङ्गविदारीमधुकपयस्यासुरदारुविपक्वं तैलं गण्डूषो नस्यं च।
मधुरवर्गसिद्धमेव वा सर्पिः पुनः पुनश्च रुधिरावसेकः॥

अउ26.25
दन्तपुप्पुटके स्विन्नछिन्नभिन्नविलिखिते स्वर्जिकामधुकशुण्ठीसैन्धवैः प्रतिसारणम्॥

अउ26.26
दन्तविद्रधौ तिक्तकटुकषायोष्णैः समूत्रैः कबलो लेपश्च।
वृश्चिकालीकुष्ठकटुकायवक्षारैः प्रतिसारणम्।
तं च पाकतो रूक्षशीतैरन्तर्बहिः प्रयुक्तैर्वारयेत्।
पक्वे तु पाटनमवगाढे दाहः।
त्रिफलासुमनोरिष्ठक्वाथो गण्डूषः।
यष्टीमधुकसिद्धः सर्पिर्मण्डो नस्यम्॥

अउ26.27
सुषिरे छिन्नलिखिते लोध्रमुस्तत्रिफलाकिंशुकपतङ्गतार्क्ष्यशैलशतपुष्पाकट्फलैरवघर्षः।
तेषामेव क्वाथो गण्डूषः।
क्षीरिवृक्षकिंशुकामलकानां वा।
गैरिकोत्पलमधूकसारिवाचन्दनप्रपौण्डकशर्करानन्तालोध्रागरुसिद्धं तैलं नावनम्॥

अउ26.28
अधिमांसकमचिरोत्थितं स्रावयेत्।
विवृद्धन्तु बडिशेन मचुट्या वा गृहीत्वा मण्डलाग्रेण छित्वा तीक्ष्णैः प्रतिसारयेत्।
कटुतीक्ष्णैः कवलस्तैलं वा यवक्षारावचूर्णितम्॥

अउ26.29
विदर्भे दन्तमूलानि शस्त्रेण विशोध्य क्षारं प्रयुज्य घृतमण्डं गण्डूषे दद्यात्।
लोध्रपतङ्गमञ्जिष्ठामधुकचूर्णः प्रतिसारणम्।
काकोलीयष्टीमधुशर्कराविपक्वं तैलं नावनम्॥

अउ26.30
दन्तनाडीमेषयित्वा संवृतां शस्त्रेण विवृतयित्वा तदाश्रितं दन्तमशेषमुद्धृत्य शलाकया दहेत्।
कुब्जामवगाढामनेकगतिं वा गुडमधुसिक्थान्यतमपूर्णाम्।
ततः क्षीरिवृक्षकषायेण गण्डूषं धारयेत्।
तत्सिद्धेन वा तैलेन॥

अउ26.31
दन्तीखदिरसारमदनस्वादुकण्टकक्वाथे लोध्रवालकोशीरदेवदारुमञ्जिष्ठामधुककल्कविपक्वं तैलं सर्षपतैलं वा नाडीशोधनरोपणम्॥

अउ26.32
प्रपौण्डरीकहरिद्राद्वयमधुकमधूच्छिष्टलोध्रकटुकीशर्करापद्मकचन्दनमूर्वोपोदकावास्तुकतण्डुलीयकमञ्जिष्ठाम्लीकाकपित्थपत्रैर्वा॥

अउ26.33
नस्यं च विडङ्गमधुकमुस्तनिर्गुण्डीखदिरमञ्जिष्ठोशीरसुरतरुसिद्धं तैलं।
धूमासृक्स्रावणनावनानि शीलयेत्।
नाडीसाधनं चेक्षेत॥

अउ26.34
वातजेषु जिह्वाकण्टकेषु वातौष्ठकोपोक्तो विधिः।
पित्तजेषु विघृष्टस्रुतरुधिरेषु स्वादुभिर्द्रव्यैरवघर्षणगण्डूषनावनानि कुर्यात्।
तद्वत् कफजेषु तीक्ष्णैः॥

अउ26.35
जिह्वालसे नवोत्थिते तीक्ष्णाः प्रतिसारणादयः।
न चात्र शस्त्रमवचारयेत्।
सिरां तु विध्येत्॥

अउ26.36
अधिजिह्वामुन्नम्य बडिशेन गृहीत्वा मण्डलाग्रेण छिद्यात्।
तीक्ष्णाश्च नस्यादयः।
उपजिह्वां शाकपत्रेणाङ्गुलिशस्त्रेण वा विस्राव्य यवक्षारेण प्रतिसारयेत्॥

अउ26.37
गलशुण्डिकां कफघ्नैरुपाचरेत्।
वृद्धायां तूर्वारुबीजनिभमसिराततमग्रमुपरिजिव्हायानिविष्टं बडिशेन मुचुट्या वा वस्त्रवेष्टिताभ्यां वामाङ्गुष्ठप्रदेशिनीभ्यां गृहीत्वा मण्डलाग्रेण नात्यग्रे नातिमूले छिन्द्यात्।
अग्रच्छेदादनुपशमः शोफो लालादिवृद्धिर्वा।
अतिच्छेदाच्छोणितक्षयेण मरणम्।
सम्यक्च्छिन्नायां पूर्ववत् प्रतिसारणादयः॥

अउ26.38
तालुसङ्घाते पुप्पुटे कच्छपे च नवे विधिरयम्।
शस्त्रकर्मणि तु विशेषः।
अत्र हि विलेखनम्॥

अउ26.39
तालुपाके त्वपक्वस्य श्वय्थोः कासीसरसाञ्जनक्षौद्रैः प्रतिसारणम्।
मधुरकषायैः शीतैर्गण्डूषः।
पक्वस्य मण्डलाग्रेणाष्टापदवत् भेदनम् तीक्ष्णैरवघर्षणम्।
पटोलारिष्टजातीकरवीरगुडूचीवृषकटुकाहरिद्राद्वयवेत्राग्रकण्टकारिकाक्वाथः कवलो मधु तैलं च॥

अउ26.40
तालुशोषे मधुकपिप्पलीनागरसिद्धं सर्पिरुत्तरं भक्तिकं सतृष्णः पिबेत्।
अम्लैश्चास्य गण्डूषः।
पयस्यामधूकमधूलिकाविपक्वं क्षीरसर्पिर्नस्यम्।
स्निग्धो धूमः।
तृष्णाघ्नमन्नपानम्॥

अउ26.41
कण्ठरोगेषु तु ज्वराद्यनुपद्रुतेषु कटुनीक्ष्णैर्नस्यावघर्षणगण्डूषादयः सिराव्यधो रसाञ्जनेन्द्रयवदार्वीनिम्बक्वाथः पानम्।
व्योषयवक्षारदार्वीरसाञ्जनतेजोवतीपाठानिम्बत्वक्त्रिफलाचित्रकैः शुक्तगोमूत्रक्वथितैः कवलो गुटिका वा प्रतिसारणम्।
तालीसपत्रगृहधूमपञ्चकोलकैलामरिचपलाशमुष्ककक्षारयवक्षारैर्यवक्वाथेन गुटिकाः कृताः सर्वकण्ठरोगेष्वमृतोपमाः॥

अउ26.42
अथ वातरोहिणीकामन्तर्बहिः स्विन्नामङ्गुलिशस्त्रकेण मधुलवणगर्भेण वा नखेन विस्राव्य तीक्ष्णैः प्रतिसारयेत्।
महापञ्चमूलक्वाथो गण्डूषः।
एलापुनर्नवसिंहीकपित्थकल्कपयोविपक्वं तैलं गण्डूषो नावनं च॥

अउ26.43
पित्तजामप्येवं विस्राव्य पतङ्गशर्करालोध्रप्रियङ्गुभिः प्रतिसारयेत्।
एषामेव कषायो गण्डूषः।
द्राक्षापरूषकोशीरमधुकचन्दनक्वाथो वा।
त्रिफलातिल्वकश्यामाश्रीपर्णीत्वङ्मधुयष्टिकाभिर्दशगुणे पयसि सिद्धं सर्पिर्नस्यकवलभोजनेषु॥

अउ26.44
रक्तजामप्येवं प्रत्याख्यायोपक्रमेत्॥

अउ26.45
श्लैष्मिकीं स्वेदयित्वा विलिख्य कटुकवर्गेणागारधूमत्रिफलासैन्धवयुक्तेन प्रतिसारयेत्।
तद्विधाश्च गण्डूषाः।
निम्बजात्यपामार्गविडङ्गविपक्वं तैलं नस्यम्॥

अउ26.46
शालूकवृन्दतुण्डिकेरीगिलायुष्वप्येष एव विधिः॥

अउ26.47
गलविद्रधौ विस्रावितायां लोध्रवरारसाञ्जनपतङ्गगैरिकरोचनापिप्पलीसैन्धवचूर्णैरवघर्षणम्।
एभिरेव क्वथितैर्गण्डूषः।
किराततिक्तकलोध्रदार्वी शतपुष्पानिम्बपत्रकुष्ठैलागुडूचीचित्रकतगरमुस्ताक्वाथ कल्कविपक्वं तैलं नावनम्॥

अउ26.48
गलगण्डमनिलजं स्वेदयित्वा विस्रावयेत् रूढव्रण च तिलप्रियाललट्वामूलकशणातसीबीजैरुपनाहयेत्।
तिल्वकाग्निमन्थपुनर्नवकालामृतासौभाञ्जनक गजपिप्पल्येकैषिकार्कमूलकरघाटकपुष्पैः सुराम्लपिष्टैः पुनः पुनर्लेपयेत्।
निम्बगुडूचीकुटजहंसपादीकृष्णाबलाद्वयदेवदारुसिद्धं च तैलं पाययेत्॥

अउ26.49
श्लैष्मिकेप्ययमेव विधिः तीक्ष्णतराश्च स्वेदप्रलेपादयः।
विशल्यातिविषाविषाणिकाशुकनासाजगन्धागुञ्जाफलकटुकालाबुभिः।
पलाशक्षारम्बुपिष्टैः सुखोष्णो लेपः।
वत्सकादिना पञ्चलवणयुक्तेन सिद्धं तैलं पानम्।
तीक्ष्णांश्च वमनादीन् शीलयेत्।
पर्यायतश्च स्वेदं शोणितावसेचनं च।
तथानुपशमे पाचयित्वा व्रणवदुभावप्युपाचरेत्।
यवान्नमुद्गादियूषांच व्योषोत्कटान् पानभोजनयोर्विदध्यात्॥

अउ26.50
मेदाज स्विन्नस्य सिरां विध्येत्।
पूर्वोक्ताः प्रलेपाः प्रातः प्रातश्चासनादिसाररजो गोमूत्रेण पिबेत्।
एवमप्यशान्तौ शस्त्रेण विदार्य मेदो विशोध्य सीव्येत्।
दाहयोग्यं वा वसाघृतक्षौद्रान्यतमेन यथावद्दहेत्।
रोचनाकासीसतुत्थकचूर्णितं तैलं व्रणशोधनरोपणम्।
असनादिसारगोपुरीषभस्मयुक्तं वा॥

अउ26.51
मुखपाकेषु सामान्यतस्त्रिफलाक्वाथो मधुमानन्ये च तिक्तकटुककषाया मुखधावनाः।
मृद्वीकापाठाजातीमातुलुङ्गार्जुनपत्रजीवकपल्लवानामनभ्यवहरता चर्वणम्॥

अउ26.52
दारुहरिद्रार्धतुलां विंशतिगुणेऽम्भसि श्रपयित्वा तं क्वाथं सगैरिकमादर्वीप्रलेपात् साधितं क्षौद्रयुक्तं घृतभाजने निदध्यात्।
एतन्निष्ठीवनं सर्वमुखामयनाडीघ्नम्।
अयमेव च पृथक्कल्पो यष्टीमधुकपटोलीनिम्बाटरूषकजातीलोध्रारिमेदत्रिफलाजम्बूखदिरत्वचाम्॥

अउ26.53
यवक्षारभागाः सप्त सुवर्णगैरिकात् भागद्वयं मूर्वाकटुकातिविषामलकानामेको भागस्तत् सर्वं कुतलक्षारोदकपिष्टं गुटिकाः कृत्वा खादेन्निष्ठीवेच्च॥

अउ26.54
खदिरसारतुलामरिमेदतुलाद्वयं च तोयवहेऽष्टभागावशेषं क्वाथयेदवतारितं परिस्रुतं च पुनराघनीभावात्।
घनीभूते शीते च कार्षिकाणि श्लक्ष्णीकृतानि प्रक्षिपेच्चन्दनपद्मकोशीरवालकमञ्जिष्ठाधातकीमुस्तप्रपौण्डरीकमधुकत्रिफलाचातुर्जातकलाक्षानलदतार्क्ष्यशैललोध्रद्विरजनीसमङ्गापाठाकट्फलैलेयपतङ्गागरुगैरिकाञ्जनानि।
पालिकांश्च जातीफललवङ्गकङ्कोलकेबुकान्।
कर्प्पूरार्द्धकुडवं च।
ता गुटिका वदनस्थाः सर्वान् मुखरोगान् जयन्ति।
सौरभं सौमनस्यं रुचिं च जनयन्ति॥

अउ26.55
एषामेव च कल्ककषायैस्तैलं साधितं कवले नियुञ्ज्यात्॥

अउ26.56
तत्र वातजे मुखपाके दशमूलकाकोलीरास्नामधुकसारिवाक्वाथेन कुष्ठकल्केन च सिद्धं तैलं नस्यं गण्डूषश्च।
स्नैहिको धूमः।
पिप्पल्येलालवणोत्तमैः प्रतिसारयेत्॥

अउ26.57
पैत्तिके क्षीरेक्षुरसद्राक्षाशर्करोदकैर्गण्डूषः।
मधुरद्रव्यसिद्धं पयः पानं कवलो नस्यं च।
पद्मकसमङ्गामञ्जिष्ठालोध्रधातकीविपक्वः सर्पिर्मण्डो नावनम्।
मदयन्तिकापतैर्निष्ठीवनं च॥

अउ26.58
कफजे कटुकक्षारलवणैः प्रतिसारणम्।
स्थिरासु तु पिटकासु प्राक्शाकादिपत्रेण लेखनम्।
मुष्ककपलाशामलकीक्षारगोमूत्रैर्गण्डूषः।
तद्विपक्वं च तैलम्।
निर्गुण्डीफणिज्जकार्जकसुरसपत्रैर्निष्टीवनम्।
देवदारुपाठातिविषादन्तीन्द्रयवकटुकागोमूत्रेण कल्कताः क्वथिता वा पीताः सर्वकफामयान् निघ्नन्ति॥

अउ26.59
रक्तजे पित्तवत् सिद्धिः।
सर्वजे यथादोषोदयम्।
रोचनाकासीससौराष्ट्रिकारसाञ्जनानि मोचरसो मधु चैकतो विपक्वं लोहभाजनस्थं कल्कं विशुष्कं चुर्णीकृतं मधुना व्रणलेपं कुर्यात्॥

अउ26.60
अथ सर्वसरमर्बुदमचिरोत्थितमवृद्धं मण्डलाग्रेण छित्वा मुष्ककभस्मना मधुमिश्रेण प्रतिसारयेत् स्वर्जिकाशुण्ठीचूर्णेन वा।
मधुतैलं निम्बगुडूचीक्वाथश्च गण्डूषः।
यवान्नभोजी तीक्ष्णानि कवलाभ्यङ्गनस्यान्याचरेत्॥

अउ26.61
पूतिमुखं स्निग्धस्विन्नं वामयित्वा शिरोविरेकैरुपाचरेत्।
ततः स्वर्जिकाहिङ्गुगृहधूममनश्शिलैलाशुण्ठीविडङ्गतेजोवतीभिर्गुटिकाः कृत्वा मधुद्रुता मुखपरिशोधनार्थं दद्यात्।
समङ्गाधातकीपद्मलोध्रप्रियङ्गुचूर्णैः सलिलमवचूर्णितं मुखधावनम्।
शीतादोपकुशोक्तं च कुर्यात् नस्यधूमकवलांश्च शीलयेत्।
भवति चात्र॥

अउ26.62
मुखदन्तमूलगलजाः प्रायो रोगाः कफास्रभूयिष्ठाः।
तस्मात्तेषामसकृद्रुधिरं विस्रावयेद्दुष्टम्॥

अउ26.63
कायशिरसोर्विरेको वमनं कवलग्रहाः कटुकतिक्ताः।
प्रायः शस्तं तेषां कफरक्तहरं तथा कर्म॥

अउ26.64
यवतृणधान्यं भक्तं विदलैःक्षारोषितैरपस्नेहाः।
यूषा भक्ष्याश्च हिता यच्चान्यच्छ्लेष्मनाशाय॥

अउ26.65
प्राणानिलपथसंस्थाः श्वसितमपि निरुन्धते प्रमादवतः।
कण्ठामयाश्चिकित्सितमतो द्रुतं तेषु कुर्वीत॥
॥इति षड्विंशोऽध्यायः॥

अथ सप्तविंशोऽध्यायः।

अउ27.1
अथातः शिरोरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ27.2
धूमातपतुषाराम्बुक्रीडातिस्वप्नजागरैः।
उत्स्वेदाधिपुरोवातबाष्पनिग्रहरोदनैः॥

अउ27.3
अत्यम्बुमद्यपानेन कृमिभिर्वेगधारणैः।
उपधानमृजाभ्यङ्गद्वेषाधः प्रततेक्षणैः॥

अउ27.4
असात्म्यगन्धदुष्टामभाष्याद्यैश्च शिरोगताः।
जनयन्त्यामयान् दोषाः #

अउ27.5
तत्र मारुतकोपतः॥
निस्तुद्येते भृशं शङ्खौ घाटा सम्भिद्यते तथा।
भ्रुवोर्मध्यं ललाटं च पततीवातिवेदनम्॥

अउ27.6
बाध्येते स्वनतः श्रोत्रे निष्कृष्येत इवाक्षिणी।
घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते॥

अउ27.7
स्फुरत्यति सिराजालं कन्धराहनुसङ्ग्रहः।
प्रकाशासहता घ्राणस्रावोऽकस्माद्व्यथाशमौ॥

अउ27.8
मार्दवं मर्दनस्नेहस्वेदबन्धैश्च जायते।
शिरस्तापोऽयम् #

अउ27.9
अर्धे तु मूर्ध्नः सोऽर्धावभेदकः।
पक्षात् कुप्यति मासाद्वा स्वयमेवोपशाम्यति।
अतिवृद्धस्तु नयनं श्रवणं वा विनाशयेत्॥

अउ27.10
शिरोभितापे पित्तोत्थे शिरोधूमायनं ज्वरः।
स्वेदोऽक्षिदहनं मूर्च्छा निशि शीतैश्च मार्दवम्॥

अउ27.11
अरुचिः कफजे मूर्ध्नो गुरुस्तिमितशीतता।
सिरानिष्पन्दतालस्यं रुङ्मन्दाह्न्यधिका निशि।
तन्द्रा शूनाक्षिकूटत्वं कर्णकण्डूयनं वमिः॥

अउ27.12
रक्तात्पित्ताधिकरुजः सर्वैः स्यात् सर्वलक्षणः।
सङ्कीर्णैर्भोजनैर्मूर्ध्नि क्लेदिते रुधिरामिषे।
कोपिते सन्निपाते च जायन्ते मूर्ध्नि जन्तवः॥

अउ27.13
शिरसस्ते पिबन्तोऽस्रं घोराः कुर्वन्ति वेदनाः।
चित्तविभ्रंशजननीर्ज्वरः कासो बलक्षयः॥

अउ27.14
रौक्ष्यशोफव्यथच्छेददाहस्फुरणपूतिताः।
कपाले तालुशिरसोः कण्डूः शोफः प्रमीलकः।
ताम्राच्छसिङ्घाणकता कर्णनादश्च जन्तुजे॥

अउ27.15
वातोल्बणाः शिरःकम्पं तत्संज्ञं कुर्वते मलाः॥

अउ27.16
पित्तप्रधानैर्वाताद्यैः शङ्खे शोफः सशोणितैः।
तीव्रदाहरुजारागप्रलापज्वरतृङ्भ्रमाः॥

अउ27.17
तिक्तास्यः पीतवदनः क्षिप्रकारी स शङ्खकः।
त्रिरात्राज्जीवितं हन्ति सिध्यत्यप्याशु साधितः॥

अउ27.18
पित्तानुबन्धः शङ्खाक्षिभ्रूललाटेषु मारुतः।
रुजां सस्पन्दनां कुर्यादनुसूर्योदयोदयाम्॥

अउ27.19
आमाध्याह्नं विवर्द्धिष्णुः क्षुद्वतः सा विशेषतः।
अव्यवस्थितशीतोष्णसुखा शाम्यत्यतः प्रम।
सूर्यावर्तः सः #

अउ27.20
इत्युक्ता दश रोगाः शिरोगताः॥

अउ27.21
शिरस्येव च वक्ष्यन्ते कपाले व्याधयो नव॥

अउ27.22
कपाले पवने दुष्टे गर्भस्थस्यापि जायते।
सवर्णो नीरुजः शोफस्तं विद्यादुपशीर्षकम्॥

अउ27.23
यथादोषोदयं ब्रूयात् पिटकार्बुदविद्रधीन्॥

अउ27.24
कपाले क्लेदबहुलाः पित्तासृक्श्लेष्मजन्तुभिः।
कङ्गुसिद्धार्थकनिभाः पिटकाः स्युररूंषिकाः॥

अउ27.25
कण्डूकेशच्युतिस्वापरौक्ष्यकृत् स्फुटनं त्वचः।
सुसूक्ष्मं कफवाताभ्यां विद्याद्दारणकं तु तत्॥

अउ27.26
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्।
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः॥

अउ27.27
रोमकूपान् रुणध्द्यस्य तेनान्येषामसम्भवः।
तदिन्द्रलुप्तं रुज्जा च प्राहुश्चाचेति चापरे॥

अउ27.28
खलतेरपि जन्मैवं शातनं तत्र तु क्रमात्॥

अउ27.29
सा वातादग्निदग्धाभा पित्तात्स्वेदसिरावृता।
कफात् घनत्वग्वर्णांश्च यथास्वं निर्दिशेत्त्वचि॥

अउ27.30
दोषैः सर्वाकृतिः सर्वैरसाध्या सा नखप्रभा।
दग्धाग्निनेव निर्लोमा सदाहा या च जायते॥

अउ27.31
शोकश्रमक्रोधकृतः शरीरोष्मा शिरोगतः।
केशान् सदोषः पचति पालितं सम्भवत्यतः॥

अउ27.32
तद्वातात् स्फुटितं श्यावं खरं रूक्षं ज्वलत्प्रभम्।
पित्तात् सदाहं पीताभं कफात्स्निग्धं विवृद्धिमत्॥

अउ27.33
स्थूलं सुशुक्लं सर्वेस्तु विद्याद्व्यामिश्रलक्षणम्।
शिरोरुजोद्भवं चान्यद्विवर्णं स्पर्शनासहम्॥

अउ27.34
असाध्या सन्निपातेन खलतिः पलितानि च।
शरीरपरिणामोत्थान्यपेक्षन्ते रसायनम्॥
॥इति सप्तविंशोऽध्यायः॥

अष्टाविंशोऽध्यायः।

अउ28.1
अथातः शिरोरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ28.2
वातजे शिरोभितापे वातव्याधिविहितं कुर्यात्।
निवातस्थं च नक्तमभ्यक्तशिरसं सर्पिः पयोनुपानं तैलं वा पाययेत्।
माषान् वा ससर्पिष्कानुष्णपयोनुपानान् भक्षयेत्।
तद्वद्वा मुद्गान्॥

अउ28.3
आनूपपिशितवेशवारेण यवतिलमुद्गमाषकुलत्थकुष्ठदारुहरिद्रातसीसैन्धवर्वा महास्नेहवतीमुत्कारिकां दत्वा शिरो वेष्टयेत्।
ततः प्रत्यूषे दशमूलसिद्धेन पयसा कवोष्णेन परिषेकं कुर्यात्।
तत्सिद्धैश्च पायसैः पिण्डस्वेदं लेपं वा॥

अउ28.4
कूर्ममहिषवराहकुक्कुटशल्लकीनां वसा ससैन्धवा नस्यं शिरःकर्णपूरणं च।
तथैव च पञ्चमूलबलासारिवाद्वयक्वाथे मधुकजीवकर्षभकपुनर्नवगर्भं सपयः सर्पिस्तैलं चैकतो विपक्वम्॥

अउ28.5
कार्पासमज्जत्वङ्मुस्तासुमनःकोरकाण्युष्णाम्बुपिष्टानि नावनं सर्वशिरोरुजाघ्नम्।
तद्वत् त्वक्पत्रशर्कराशिग्रुकरञ्जबीजानि।
तथा चन्दनोत्पलतगरकुष्ठैः सघृतैर्लेपः।
देवदारुकुष्ठचोरकयष्टीमधुककमलनीलोत्पलैलाप्रपौण्डरीकैश्च॥

अउ28.6
कुङ्कुमशर्करासंस्कृतमाज्यं रक्तपित्तानुबन्धे मर्शः।
न चात्र रक्तमवसेचयेद्वातोद्रेकभयात्।
स्नैहिकं धूमं पिबेत्।
शिरोबस्तिं च शीलयेत्।
बस्तिकर्म चाचरेत्॥

अउ28.7
एवमसिद्धौ वातजे श्लेष्मजे च यथोक्तो दाहः॥

अउ28.8
अर्धावभेदकेप्ययमेव विधिः।
निर्गुण्डीपत्ररसश्च सघृतमण्डसैन्धवो नस्यम्।
शिरीषमूलफलानि वा।
सारिवोत्पलकुष्ठवचामधुकपिप्पलीभिः सतैलाम्लो लेपः।
अशाम्यति दोषानुबन्धमवेक्ष्य प्रतिकुर्वीत॥

अउ28.9
सूर्यावर्तेत्वयमेव विधिः विशेषतस्तु सिरामोक्षः॥

अउ28.10
पित्तजे रक्तजे च शिरोभितापे स्निग्धस्य सिरां विध्येत्।
कायं च विरेचयेत्।
सुशीतैः शतधौतघृतान्वितैः शिरो वक्त्रं सिञ्चेत् प्रदिह्याच्च॥

अउ28.11
चन्दनसारिवामधुकदूर्वोत्पलप्रपौण्डरीकमञ्जिष्ठाविदारीभिः सक्षीरं सर्पिर्विपाचितं नावनं शिरोबस्तिश्च।
जीवनीयविपक्वात् पयसो नवनीतमुद्धृत्य जीवनीयक्वाथकल्काभ्यां पाचितं पानभोजननस्याभ्यङ्गबस्तिषु प्रणीतं पित्तरक्तजान् सर्वान्विकारान् साधयति।
जीवनीयगर्भं षोडशगुणे पयसि सिद्धमाज्यं वा॥

अउ28.12
क्षीरेक्षुजाङ्गलरसखर्जूरद्राक्षाकशेरुकमृणालसिद्धः सर्पिर्मण्डोऽनुवासनम्।
अञ्जनादिवर्गशृतं क्षीरमास्थापनम्॥

अउ28.13
शङ्खकं प्रत्याख्यायैवमेवोपचरेत्।
विसर्पवच्च।
विशेषतस्तु कृष्णतिलशतावरीनीलोत्पलमूर्वापुनर्नवैर्लेपः॥

अउ28.14
कफजे शिरोभितापे लङ्घयेत्।
पुराणसर्पिस्निग्धं वा वामयेत्।
स्वेदः पिण्डेन रूक्षेण।
शिग्रुनिम्बैरण्डक्वाथेन वा नाडीस्वेदः॥

अउ28.15
देवकाष्ठकुष्ठशार्ङ्गेष्टासरलरोहिषैः सलवणैः सुखोष्णैरालेपः।
यवचूर्णमधुकचन्दनहरिद्राकुष्ठप्रियङ्गुशतपुष्पासुरदारुभिस्तैलाजक्षीरयुक्तैः ससैन्धवैरुपनाहः॥

अउ28.16
विडङ्गतैलं नस्यं सार्षपं वा तदेव वा व्योषसिद्धम् मधूकसारकल्को वा मधुयुतस्त्वग्वा मेषशृङ्ग्या इङ्गुदस्य वा।
एभिरेव च धूमवर्तिः॥

अउ28.17
शिरोविरेचनद्रव्यैर्वा सूत्रस्थानौक्तैः प्रधमनम्।
तैरेव च पक्वं तैलं मर्शः प्रतिमर्शो वा॥

अउ28.18
शिरोविरेचनान्ते कर्णनादोक्तं स्नेहनस्यम्।
तीक्ष्णाः कवलाः मनश्शिलानलदतुत्थकासीसचूर्णः ससर्पिष्को धूमः।
नलदचूर्णस्य च मुहुर्मुहुराघ्राणनम्॥

अउ28.19
सन्निपाते व्यामिश्रो विधिः॥

अउ28.20
कृमिजे दुरालभासुरदारुरोहिषपूतीकत्रिफलाकट्फलवचात्रिकटुकैरजामूत्र्युक्तं सर्पिः पक्वं पानम्।
उपस्निग्धस्विन्नस्य देवदारुपूतीककटभीसर्षपविडङ्गतिलकण्टकविपक्वेन तैलेन शिरः कर्णौ चाभ्यज्य स्वेदयेत्॥

अउ28.21
ततः कृमिमूर्च्छनार्थमसृङ्नस्तोवसेचयेत्।
ततो रुधिरगन्धमदेन प्राविसृताः सप्तच्छदस्य त्वग्रसेन पुष्परसेन वानन्तरनिषिक्तेन कृमयः पतन्ति॥

अउ28.22
सरलदेवदारुकट्फलसर्षपापामार्गक्षवककटुकालाबुसुरसबीजपिप्पलीतण्डुलचूर्णंस्तत्पक्वं वा तैलं सद्यः कृमीन् निरस्यति।
विडङ्गतण्डुला वाजिमूत्रपिष्टाः शिरीषबीजानि वा छागमूत्रपिष्टानि।
पुष्करमध्यबीजानि वा॥

अउ28.23
गोमांसेन छागमांसेन वा वसापिष्टेन यवागूं कृत्वा शिरो विलेपयेत्।
ततो निम्बार्कवंशसुरसकुटजकरञ्जकरवीरपत्रक्वाथेन सेचयेत्।
अजामूत्रेण वा कवोष्णेन।
पूतिमत्स्ययुताश्च धूमाः॥

अउ28.24
एवं कृमिष्वपगतेषु तेजोवतीपूतीकबिम्बीसुरसनक्तमालविडङ्गहरीतकीसर्षपार्ककरवीरमूलमालतीदेवदारुक्षवकमुस्तफणिज्जकपिप्पलीशतपुष्पामधूकशणनिम्बसारकल्कैरजामूत्रयुतैः सार्षपं तैलमैङ्गुदं पैलुकं वा विपक्वं युक्त्या नावनम्॥

अउ28.25
न तु जातुरुधिरमवसेचयेत्।
जन्तुभिः पीतशोणिते हि शिरसि पुनरस्रावसेकादकाण्डे मृत्युः स्यात्।
कृमिचिकित्सितं चेक्षेत्॥

अउ28.26
शिरः कम्पमक्षीणस्यान्यव्याध्यनुपद्रुतस्य दाहवर्ज्यं मारुतविधानेनोपक्रमेत॥

अउ28.27
उपशीर्षके जन्मोत्तरकालजाते नवोत्थिते वातव्याधिविहितान् स्नेहान् पाननावनाभ्यञ्जनेषु योजयेत्।
अभ्यक्तं च स्वेदयित्वोपनाहयेद्यथा विदाहो न भवति।
विदाहे विद्रधिवत् कर्म॥

अउ28.28
पिटकार्बुदविद्रधिषु यथास्वमाचरेत्।
व्रणीभूतासु पिटकासु निम्बनिशामधुकधात्रीफलैर्विपक्वं तैलं शोधनरोपणम्॥

अउ28.29
मूर्वाचन्दनसारिवाधातकीकान्तालोध्रमधुकसमङ्गापद्मकेसरशतपर्वकंमूलैर्विद्रधिषु।
एभिरेव च सिद्धं सर्पिर्नस्यम्।
रूढं तु विद्रधौ यदि त्वक् सुप्तेव भवति ततो वामयेत्।
उपस्निग्धं च विरेचयेत्॥

अउ28.30
अरूंषिकासु जलौकोपहृतशोणितं शिरः क्षुरामृष्टं वा निम्बोदकेन परिषिच्याश्वशकृद्रसेन लवणप्रगाढेन लेपयेत्।
किञ्चित् कालं स्थितं चोष्णोदकाम्लकाञ्जिकान्यतरधौतं विडङ्गव्योषलाक्षागारधूममनोह्वालवचारसाञ्जनहरिद्राद्वयैरालिम्पेत्।
तिलमष्या वा स्नुहीक्षीरयुक्तया।
मधुकोत्पलतिलैरण्डमार्कवपत्रैर्वा।
शिग्रुमूलकसर्षपबीजैर्वा गोमूत्रपिष्टैः।
वालकामलकनागरमूलकसर्षपबीजैर्वा क्षीरपिष्टैः।
शिरीषत्वग्यष्टीमधुकाभ्यां वा।
पुराणपिण्याककुक्कुटपुरीषाभ्यां वा॥

अउ28.31
कपालभृष्टकुष्ठचूर्णं तैलयुक्तं कण्डूक्लेददाहस्वेदवेदनाघ्नम्।
तथा चाचोक्तं चित्रकादितैलमभ्यञ्जनम्। दन्तीपाठाकोशातकीचित्रकातिविषामहालाङ्गलकीसिद्धं तैलं व्रणाभ्यङ्गः॥

अउ28.32
मनश्शिलैलाहरितालपिप्पलीकुष्ठकासीसहरिद्राकरञ्जमुस्तातगरविडङ्गंचित्रकसिद्धार्थककरवीरमूलचूर्णगर्भं तैलमादित्यपाकं व्रणरोपणम्।
एवमनुपशमे वमनधूमकायशिरोविरेकान् कुर्यात्॥

अउ28.33
दारणके ललाटे सिरां विध्येत्।
अभ्यङ्गस्नाननावनानि च शीलयेत् प्रियालबीजमधुककुष्ठमाषसर्षपैः सक्षौद्रैर्लेपः।
कोद्रवतृणक्षाराम्भः प्रक्षालनम्॥

अउ28.34
इन्द्रलुप्ते यथासन्नं सिरां विध्वा तुत्थकासीसमनश्शिलामरिचैर्लेपयेत्।
भद्रदारुकुटन्नटाभ्यां वा चित्रककरवीरनक्तमालमालतीसिद्धेन वा तैलेनाभ्यज्यात्॥

अउ28.35
अवगाढपदं वा सूचीकूर्चकेन प्रच्छाय भूयोभूयः प्रदिह्यात् कपोतपङ्कामूलेन लाङ्गीलकामूलेन वा महिषीक्षीरपिष्टेन॥

अउ28.36
घृष्टलिप्तमेरण्डपत्रावच्छादितं रात्रिमुषितं माहिषनवनीतेन लिम्पेत्।
मार्कवपत्रसहचरपुष्पपक्वं वा।
वार्ताकफलैस्तैलं पक्वं क्षौद्राञ्जनयुक्तमालेपः।
सक्षौद्रो वा क्षुद्रवार्ताकरसः।
जलशूलो वा पलाशक्षारसान्द्रः॥

अउ28.37
गोशकृता वा घृष्टमिन्द्रलुप्तमरुष्कररसेनावलिप्यान्तर्धूमदग्धकूर्ममष्यावचूर्णयेत्।
कूर्मकपालभस्मना वा सुरसारसाक्तेन प्रदिह्यात्।
हस्तिदन्तमष्या वा तैलान्वितया।
पूतीकरञ्जप्रत्राणि वा ससैन्धवानि लेपः।
पिप्पल्यञ्जनरसाञ्जनबाकुचिकाफललोहरजांसि वा गोमूत्रपिष्टानि।
खलतिविहितानि चाचरेत्।
सलिलसेकमारोमोद्गमात् परिहरेत्॥

अउ28.38
खलताविन्द्रलुप्तोक्तः क्रमो यथादोषं च संशुद्धिः॥

अउ28.39
त्रिफलार्जुनसैर्यकत्वक्पुष्पकृष्णपिण्डीतकफलमूलनीलोत्पललोहचूर्णकासीसजम्वूमार्कवमञ्जिष्ठामेषशृङ्गीखदिररजः सकर्दममर्दितोक्ताणुतैलयुक्तमसन सारसमुद्गके न्यस्तं कर्दमे मासं निखातं स्थितमुद्धृतं सूचीकूर्चप्रच्छितायाः खलतेर्लेपः परं रोमसञ्जननः॥

अउ28.40
रक्ताग्निमन्थपुष्पकिंशुकनलदमूलमधुकहस्तिदन्तभस्मान्यविक्षीरपिष्टानि लेपः॥

अउ28.41
जम्बूद्वयत्वक्पत्रमधुकभृङ्गरजास्त्रिफलाश्लेष्मातकमञ्जिष्ठाफणिज्जकबलाद्राक्षाजशृङ्गीचपलातिविषाकट्फलकल्केन क्षीरिवृक्षक्काथेन च तिलतैलमक्षतैलं चैकध्यं साधयेत् तन्नस्येऽभ्यङ्गे च नियुञ्ज्यात्।
एवमेव मधुरवर्गकल्केन॥

अउ28.42
खलतिपलितयोश्च प्रयोगान् परस्परं विदध्यात्।

अउ28.43
अकालपलितेषु वातादीनवेक्ष्य स्नेहस्वेदसंशो धनास्रविस्रावणानि कुर्यात्।
ततोस्यार्दितप्रोक्तमणुतैलं नस्यमभ्यञ्जनं च॥

अउ28.44
मधुकामलकमाक्षिकैः केशमूलानि लिम्पेत्।
तिलामलकक्षौद्रतैलैर्वा।
तुत्थकाम्रजम्ब्वस्थिकासीसकिट्टशर्कराभिर्वा।
सैर्यकपुष्पनीलिनीत्रिफलाभृङ्गरजोभिर्वा कृष्णाजमूत्रपिष्टैः॥

अउ28.45
असनपुष्पपत्रमये पात्रे बहिरामलकीकल्कप्रदिग्धे निहितमक्षतैलं षण्मासं व्रीहिपल्ले स्थितमभ्यङ्गान्नावनाच्च पलितं जयति।
अयमेव कल्पः सैरीयकेपि॥

अउ28.46
कपिकच्छूफलमूलगर्भमक्षतैलं सिद्धमयःपात्रे पूर्ववत् स्थितं समानं पूर्वेण॥

अउ28.47
रामतरणीमूलपलद्वयं यष्टीमधुकपलं सारिवार्धपलमेकत्रजर्जरीकृतमक्षतैलपलैर्दशभिराप्लुतं लोहभाजने दशाहं दिवसकरकरप्रतप्तं नावनात् पलितघ्नं सर्वेन्द्रियदार्ढ्यावहं च॥

अउ28.48
कृष्णातिलतिलपर्णीत्रिफलामधुककासीसपद्मककर्दममांसीमार्कवमसनपत्रस्वरसपिष्टं त्रिरात्रमयः पात्रे स्थापयेत्।
ततः पूर्वोक्तरसद्रुतेन पद्मिनीकर्दमप्रलिप्तप्तधौतान् केशान् कपालं च लेपयेत्।
ततः पद्मिनीकर्दमैः प्रच्छाद्य कौशेयेन वेष्टयेत्।
तृतीये चाह्नि प्रक्षाल्यैवमेव कुर्यात्।
एवमलिकुलनीलाः केशाः शिरो विभूषयन्ति।
भवति चात्र॥

अउ28.49
खलतौ पलिते वल्यां हरिल्लोम्नि च शोधितम्।
नस्यवक्त्रशिरोभ्यङ्गप्रदेहैः समुपाचरेत्॥

अउ28.50
सिद्धं तैले बृहत्याद्यैर्जीवनीयैश्च नावनम्॥

अउ28.51
क्षीरात्साहचरात् भृङ्गरजसः सौरसाद्रसात्।
प्रस्थस्तैलस्य कुडवो यष्टीमधुपलान्वितः॥

अउ28.52
सिद्धश्शैलासने भाण्डे शृङ्गे मेषस्य वा स्थितः।
नस्यं स्यात् #

अउ28.53
क्षीरपिष्टौ वा दुग्धिकाकरवीरकौ।
उत्पाट्य पलितं देयावाशये पलितापहौ॥

अउ28.54
आदित्यवल्या मूलानि कृष्णसैरेयकस्य च।
फलं कृष्णशणात्पत्रं सुरसाद्यष्टिमार्कवम्॥

अउ28.55
सुराह्वं काकमाची च पृथग्दशपलांशिकम्।
प्रपौण्डरीकमञ्जिष्ठालोध्रकृष्णागरूत्पलम्॥

अउ28.56
आम्रास्थिकर्दमःकृष्णो मृणाली रक्तचन्दनम्।
नीलीभल्लातकास्थीनि काससिं मदयन्तिका॥

अउ28.57
सोमराज्यसनं शस्त्रं कृष्णं पिण्डीतचित्रकौ।
पुष्पाण्यर्जुनकाश्मर्या आमजम्बूफलाज्जनम्॥

अउ28.58
प्रत्येकं पञ्चपलिकं पिष्टं सत्रिफलाकणम्।
अक्षतैलाढकं तेन पचेद्धात्रीरसार्मणे॥

अउ28.59
कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः।
लोहपात्रे ततः पूतं महानीलं प्रयोजितम्॥

अउ28.60
तत्पाने नावनेऽभ्यङ्गे शुद्धस्य नियतात्मनः।
सर्वजत्रूर्ध्वरोगघ्नं पलितघ्नं विशेषतः।
एभिरेव च भैषज्यैः शिरो वक्त्रं च लेपयेत्॥

अउ28.61
क्षीरं प्रियालं यष्ट्याह्वं जीवनीयो गणस्तिलाः।
कृष्णाः प्रलेपो वक्त्रस्य हरिल्लोमवलीहितः॥

अउ28.62
तिलाः सामलकाः पद्मकिञ्जिल्को मधुकं मधु।
बृंहयेद्रञ्जयेच्चैतत् केशान् मूर्ध्नः प्रलेपनात्॥

अउ28.63
पचेत् सैन्धवशुक्ताम्लैरयश्चूर्णं सतण्डुलम्।
तेनालिप्तं शिरः शुद्धमस्निग्धमुषितं निशाम्।
तत्प्रातस्त्रिफलौधातं स्यात्कृष्णस्निग्धमूर्द्धजम्॥

अउ28.64
अयश्चूर्णोऽम्लपिष्टश्च रागः सत्रिफलो वरः॥

अउ28.65
कन्यायास्तिलनिम्बवीजमधुकश्रेष्ठावचामार्कवात्।
चूर्णछागलगव्यमाहिषपलस्नेहेन सम्प्लावितम्।
पात्रे स्थापितमायसे क्षितितले मासं निधायोद्धृतं।
पालित्यं खलतिं च दर्पणनिभां हन्त्येतदभ्यञ्जनात्॥

अउ28.66
बीजैःश्लेष्मातकस्य व्यपगमिततुषैःकाञ्जिकश्लक्ष्णपिष्टैर्यल्लिप्ताल्लोहदण्डाद्दिनकरकिरणैस्तापितात् प्रच्यवेत।
तत्तैलं केशकार्ष्ण्यं जनयति परमं नावनाभ्यञ्जनाभ्यां मूर्द्धघ्राणाक्षिदन्तश्रवणगलरुजं हन्ति निश्शेषतश्च॥

अउ28.67
बलामधूकमधुकविदारीचन्दनोत्पलैः।
जीवकर्षभकद्राक्षाशर्कराभिश्च साधितः॥

अउ28.68
प्रस्थस्तैलस्य सक्षीरो जाङ्गलार्धतुलारसे।
नस्यं सर्वोर्ध्वजत्रूत्थवातपित्तामयापहम्॥

अउ28.69
मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम्।
दशमूलबलारास्नामधुकैस्त्रिफलैर्युतम्॥

अउ28.70
जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत्।
कल्कितैर्मधुरद्रव्यैः सर्वजत्रूर्ध्वरोगनित्।
तदभ्यासीकृतं पानबस्त्यभ्यञ्जननावनैः॥

अउ28.71
एतेनैवकषायेण घृतप्रस्थं विपाचयेत्।
चतुर्गुणेनपयसा कल्कैरेभिश्च कार्षिकैः॥

अउ28.72
जीवन्तीत्रिफलामेदामृद्वीकर्द्धिपरूपकैः।
समङ्गाचविकाभार्ङ्गीकाश्मरीकर्कटाह्वयैः॥

अउ28.73
आत्मगुप्तामहामेदातालखर्जूरमस्तकैः।
मृणालबिसखर्जूरयष्टीमधुकजीवकैः॥

अउ28.74
शतावरीविदारीक्षुबृहतीसारिबायुगैः।
मूर्वाश्वदंष्ट्रर्षभकशृङ्गाटककशेरुकैः॥

अउ28.75
रास्नास्थिरातामलकीसूक्ष्मैलाशठिपौष्करैः।
पुनर्नवातवक्षीरीकाकोलीधन्वयासकैः॥

अउ28.76
मधुकाक्षोडवाताममुञ्जाताभिषुकैरपि।
महामाधूरमित्येतन्मायूरादधिकं गुणैः॥

अउ28.77
धात्विन्द्रियस्वरभ्रंशश्वासकासार्दितापहम्।
योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम्॥

अउ28.78
आखुभिः कुक्कुटैर्हंसैः शशैश्चेति प्रकल्पयेत्॥

अउ28.79
जत्रूर्ध्वजानां व्याधीनामेकत्रिंशच्छतद्वयम्।
परस्परमसङ्कीर्णं विस्तरेण प्रकाशितम्॥

अउ28.80
ऊर्ध्वमूलमधःशाखमृषयः पुरुषं विदुः।
मूलप्रहारिणस्तस्माद्रोगान् शीघ्रतरं जयेत्॥

अउ28.81
सर्वेन्द्रियाणि येनास्मिन् प्राणा येन च संश्रिताः।
तेन तस्योत्तमाग्गस्य रक्षायामादृतो भवेत्॥
॥इति अष्टाविंशोऽध्यायः॥

अथ एकोनत्रिंशोऽध्यायः।

अउ29.1
अथातो व्रणविभक्तिपरिज्ञानीयं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्त्रेयादयो महर्षयः॥

अउ29.2
यावदायुर्वृणीते विवृणोति वा शरीरमितिव्रणः॥

अउ29.3
स च द्विविधो निज आगन्तुश्च।
तत्र निजो दोषसमुत्थः।
आगन्तुः शस्त्रानुशस्त्रोपललगुडनखदशनविषाणविषारुष्करादिनिमित्तः।
सोऽपि पुनर्वातादिभिरधिष्ठितो निजतां लभते॥

अउ29.4
पुनश्च द्वेधा व्रणो दुष्टः शुद्धश्च।
तत्रदोषदूषितो दुष्टः॥

अउ29.5
तस्य सामान्यलिङ्गमतिसंवृतविवृतत्वमतिमृदुकठिनतात्युत्सादावसादावतिशीतोष्णभावोतिरक्तकृष्णपाण्डुता पूतीमांससिरास्नायुप्रतिच्छन्नत्वं पुतीपूयास्रावः सोत्सङ्गिता दाहपाककण्डूश्वयथुवेदनासंरम्भपिटकोपद्रवोपद्रुतत्वं दीर्घकालानुबन्धश्च॥

अउ29.6
विशेषतस्तु पञ्चदशधा भिद्यते॥

अउ29.7
तत्र श्यावोऽरुणः कृष्णो भस्मास्थिकपोतगलान्यतमवर्णो वा दधिमस्तुक्षाराम्बुमांसधावनपुलाकोदकनिभाल्पस्रावो रूक्षश्चटचटायमानशीलोऽकस्माद्विविधशूलस्फुरणायामतोदभेदस्वापबहुलो निर्मांसश्च वातात्॥

अउ29.8
क्षिप्रजः पीतनीलहरितकृष्णकपिलपिङ्गलो गोमूत्रभस्मशङ्खकिंशुकोदकमार्द्वीकतैलाभोष्णभूरिक्लेदो दाहोषाज्वररागपाकावदरणधूमायनान्वितः क्षारोक्षितक्षतोपमवेदनः पिटकाजुष्टश्च पित्तात्॥

अउ29.9
स्निग्धः स्थूलौष्ठाः पाण्डुश्चण्डकण्डूर्नवनीतवसामज्जपिष्टतिलनारिकेलाम्बुसदृशश्वेतशीतबहलपिच्छिलक्लेदः स्वापस्तम्भस्तैमित्यगौरवोपदेहयुक्तः सिरास्नायुजालावततो मन्दवेदनः कठिनश्च कफात्॥

अउ29.10
प्रवालरक्तः कृष्णस्फोटपिटकाजालोपचितो वाजिस्थानगान्धिः।
सरक्तपूयस्रावी पित्तलिङ्गश्च रक्तात्॥

अउ29.11
यथास्वलिङ्गसङ्करे द्वाभ्यां त्रिभिः सर्वैश्च दुष्टं विद्यात्।
अपि च।
घृतमण्डाभो मत्स्यधावनगन्धिर्मुदुर्विंसर्पी कृष्णपूयश्च पित्तरक्ताभ्याम्॥

अउ29.12
वातादिभिरेव च व्रणस्यानधिष्ठानं शुद्धिः।
तत्र यथोक्तदुष्टलिङ्गाभावात् संरम्भरहितत्वं जिह्वावर्णता श्लक्ष्णत्वं नीरुजत्वं निरास्रावता श्यावपर्यन्तत्वं समौष्ठमध्यता किञ्चिदुन्नतमध्यता वा॥

अउ29.13
त्वङ्मांससिरास्नायुसन्ध्यस्थिकोष्ठमर्माण्यष्टौ व्रणाशयाः।
आशयविशेषाच्चास्रावविशेषः॥

अउ29.14
तत्र घृष्टासु वा त्वक्षु स्फोटेषु वा भिन्नेषु सलिलप्रकाशो भवत्यास्रावः।
किञ्चिद्विस्रः पीतावभासश्च॥

अउ29.15
मांसगतः सर्पिःप्रकाशो बहलः पिच्छिलश्च॥

अउ29.16
सिरागतस्तु सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः।
पक्वासु च तोयनाडीभिरिवाम्भसः पूयस्यागमनम्।
स च तनुर्विच्छिन्नः पिच्छिलोऽवलम्बी श्यावश्च॥

अउ29.17
स्नावगतः स्निघ्दो घनः सिङ्घाणकप्रतिमः सरक्तश्च॥

अउ29.18
सन्धिगतः समन्तात् प्रपीड्यमानो न प्रवर्तते तथाकुञ्चनप्रसारणोन्नमननमनप्रवाहणेषु स्रवति पिच्छिलोऽवलम्बी स फेनरुधिरोन्मिश्रश्च॥

अउ29.19
अस्थि त्वभिहतं स्फुटितं भिन्नं दोषावदारितं वा दोषभक्षितत्वान्निस्सारं भवति।
आस्रावश्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च॥

अउ29.20
कोष्ठश्रितस्तु व्रणो मूत्र्पुरीषरुधिरपूयोदकानि स्रवति॥

अउ29.21
मर्मगतस्तु नोच्यते त्वगादिष्वेवावरुद्धत्वात्॥

अउ29.22
तेषु यथापूर्वं सुखसाध्यत्वम्।
तथायतश्चतुरस्रो वृत्तस्त्रिपुटकश्च व्रणः।
शोषास्तु विकृताकृतयो दुरुपचाराः।
ते च प्रायशो भवन्त्यागन्तवः।
स्वयं विदीर्णाश्च दोषजा न तु वैद्यकृताः॥

अउ29.23
वयस्थानां दृढानां प्राणवतां सत्ववतामात्मवतां दीप्ताग्नीनां च व्रणाः सुचिकित्स्याः॥

अउ29.24
तत्र वयस्थानां प्रत्यग्रधातुत्वादाशुव्रणसंरोहो भवति।
दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादीन् न प्राप्नोति।
प्राणवतां वेदनाहारविहारयन्त्रणादिभिर्न ग्लानिः।
सत्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति।
आत्मवतां सुनियमिताहारविहारादिभिरुपदेशैर्नान्यथा भवति दीप्ताग्नीनाम् प्रक्लिन्नदेहत्वात्।
प्रकृतितश्चाप्रक्लेदिशरीराणां तद्वधयोश्च देशकालयोरास्रावदैर्गन्ध्याभावादाशु विशुद्धेन मांसेनानुपद्रवमापूरणम्॥

अउ29.25
एत एव गुणा वृद्धकृशाल्पप्राणभीरुमन्दाग्निप्रक्लेदिदेहदेशकालेषु विपरीताः शिष्योपनयनीयं चेक्षेत॥

अउ29.26
तथा स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोशोदरजत्रुमुखाभ्यन्तरस्थाः सुखरोपणीयाः।
विपरीतास्त्त्वक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्तनसन्धिभागगताः। सफेनपूयरक्तानिलवाहिनोन्तःशल्याश्चाधोभागाच्चोर्ध्वभागनिर्वमना रोमान्तोपनखमर्मजङ्घास्थिघ्राणाश्रिताश्च।
भग्न्दरश्चान्तर्मुखः सेवनीकट्यस्थिसंश्रितः।
अपि च॥

अउ29.27
कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम्।
व्रणाः कृच्छ्रेण सिध्यन्ति येषां च स्युर्व्रणे व्रणाः॥

अउ29.28
याप्यास्त्ववपाटिका निरुद्धमणिरुद्धगुदव्रणग्रन्थिप्रभृतयः सर्वास्थिक्षतं च॥

अउ29.29
असाध्याः पुनर्मांसपिण्डवदुद्गताः प्रसेकिनोन्तःपूया वेदनावन्तश्च पायुवदुद्वृत्तौष्ठाः कठिना गोशृङ्गवदुन्नतमांसप्ररोहा दुष्टशोणितास्राविणस्तनुपिच्छिलास्रावस्राविणो वा मध्योन्नताः समवसन्नसुषिरपर्यन्ताः शणतूलवत्स्नायुजालवन्तो दुर्दर्शना मेदोमज्जवसामस्तुलुङ्गस्राविणश्च दोषसमुत्थाः पीतासितामूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः रक्तशयजाश्च क्षारोदकसमास्रावाः पक्वाशयजाश्च पुलाकोदकमिव स्रवन्तः क्षीणमांसानां च सर्वतोगतयस्त्वणुमुखमांसबुद्बुदवन्तः सशब्दवातवाहिनश्च शिरःकठस्था विसर्पज्वरपिपासारोचकाविपाककासश्वासातीसारच्छर्दियुक्ताः भिन्नो च शिरःकपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुभावो वा स्यादिति।
भवति चात्र॥

अउ29.30
स्नायुक्लेदात् सिराच्छेदात् गाम्भीर्यात् कृमिभक्षणात्।
अस्थिभेदात् सशल्यत्वात् सविषत्वादतर्किंतात्॥

अउ29.31
मिथ्याबन्धादतिस्नेहाद्रौक्ष्याद्रोमादिघट्टनात्।
क्षोभादशुद्धकोष्ठत्वात् सौहित्यादतिकर्शनात्॥

अउ29.32
मद्यपानाद्दिवास्वप्नाद्व्यायामाद्रात्रिजागरात्।
व्रणो मिथ्योपचाराच्च नैव साध्योपि सिध्यति॥

अउ29.33
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः।
स्थिराश्च पिटकावन्तो रोहतीति तमादिशेत्॥
॥इति एकोनत्रिंशोऽध्यायः॥

अथ त्रिंशोऽध्यायः।

अउ30.1
अथातो व्रणप्रतिषेधं नामाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः॥

अउ30.2
व्रणस्य शोफावस्थायां शस्त्रकर्मविधौ श्वयथुचिकित्सिते च साधनमुद्दिष्टम्।
तत्रापतर्पणमेवादौ प्रधानतमम्।
अपि च॥

अउ30.3
दोषोच्छ्रायोपशान्त्यर्थमुपदिष्टं यथायथम्।
अवेक्ष्य देहप्राणादीन् कर्तव्यमपतर्पणम्॥

अउ30.4
रागसंरम्भरहिताः परिम्लाना हृताश्रयाः।
सद्यः शाम्यन्ति शुद्धानां व्रणाः शोफाश्च देहिनाम्॥

अउ30.5
लेपाभ्यङ्गपरीषेकान् यथोक्तांश्च प्रयोजयेत्।
यथाम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति।
दोषाग्निरेवं सहसा प्रलेपाद्यैः प्रयोजितैः॥

अउ30.6
प्रतिलोममेव चानुलिपेन्नानुलोमम्।
तथाह्यौषधं सम्यगवतिष्ठते।
अनुप्रविशति च रोमकूपान्।
न तु शुष्यदुपेक्षितव्यमन्यत्रपीडयितव्यात्।
शुष्कं हि दाहोषारागश्यावत्वशूलानि वर्धयति॥

अउ30.7
यस्तु शीतस्तनुर्मुहुर्मुहुश्च प्रयुज्यते स प्रदेहो रक्तपित्तत्वचां प्रसादकृत्।
प्रलेपस्तूष्णः शीतो वा बहलश्च तथा वातश्लेष्मप्रशमनस्तस्योपयोगः क्षताक्षतेषु।
यस्तु क्षतेषूपयुज्यते स भूयः कल्क इति संज्ञां लभते॥

अउ30.8
दशविधश्च समासादालेपः।
तद्यथा।
स्नैहिको निर्वापणः प्रसादनः स्तम्भनो विलायनः पाचनः पीडनः शोधनो रोपणः सवर्णीकरणश्च॥

अउ30.9
तत्र वाते स्निग्धद्रव्यैः स्नेहाढ्यैः स्नेहेनैव वा स्नैहिकः।
पित्ते पित्तप्राये च शोफे विषाग्निक्षारदग्धे च शीतैर्निर्वापणः।
स एव चान्तर्दुष्टे रक्ते प्रसादनः।
स एव च पुनरस्रातिप्रवृत्तौ स्तम्भनसंज्ञः।
श्लेष्ममेदोभूयिष्ठे शीतैश्चाविदग्धे पिष्टलब्धे ग्रथिते वा रूक्षैर्विलायनः।
तैरेव च विदग्धे पाचनः।
सूक्ष्मास्ये व्रणे रूक्षैः पिच्छिलैश्च पीडनः।
अशुद्धे यथास्वमुपदिष्टैः शोधनः।
शुद्धे रोपणः।
रूढे च सवर्णीकरणः।
नामभिरेवचैषां स्वरूपमाख्यातम्॥

अउ30.10
न च प्रदेहं रात्रौ प्रयुञ्जीत।
माभूच्छैत्यपिहितस्योष्मणो बहिरनिस्सरणाद्विकारपरिवृद्धिः॥

अउ30.11
पुष्कलावतस्तु पठति॥

अउ30.12
तमसा पिहितोह्यूष्मा रोमकूपैरनावृतैः।
लेपांद्विनैव निर्याति रात्रौ नालेपयेदतः॥

अउ30.13
न च पर्युषितं लेपं दद्यात् भूयस्तमेव वा।
व्यम्लः पर्युषितो हि स्यात् भ्रष्टवीर्यस्तथेतरः॥

अउ30.14
शोफे व्रणे च कठिने विवर्णे वेदनान्विते।
सविषे च विशेषेण जलजाद्यैर्हरेदसृक्।
वेदनायाःप्रशान्त्यर्थं पाकस्याप्राप्तयेपि च॥

अउ30.15
निर्वापणान् पुनश्चात्र न्यग्रोधाद्यैः सुशीतलान्।
कुर्यात् प्रदेहसेकादीन् सघृतक्षीरशर्करान्॥

अउ30.16
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः।
प्रदेहो भूरिसर्पिर्भिः शोफनिर्वापणः परम्।
प्रदेहः ससितस्तद्वत् सक्तवो मधुकं घृतम्॥

अउ30.17
वातोल्बणानां स्तब्धानां कठिनानां महारुजाम्।
स्रुतासृजां च शोफानां व्रणानामपि चेदृशाम्॥

अउ30.18
ग्राम्यानूपौदकामिषवेशवारकृसरापायसोत्कारिकाभिः स्वेदो योज्यः॥

अउ30.19
सदाहशूलांस्तु तिलानतसीश्च भृष्ट्वा पयसि निर्वाप्य तेनैव क्षीरेण पिष्ट्वा प्रलेपयेत्॥

अउ30.20
बलामधुकपृश्निपर्णीच्छिन्नरुहाभीरुजीवन्तीशर्करामदनक्षीरमहास्नेहसिद्धोत्कारिका कवोष्णा शूलदाहहरा॥

अउ30.21
तद्वन्मधुकयवचूर्णतैलसर्पिर्भिः कोष्ण आलेपः।
तथा सतिलो मुद्गपायसमुपनाहः॥

अउ30.22
दशमूलसिद्धेन सुखोष्णेनाम्भसा पयसा वा घृततैलाभ्यां वा परिषेकः शोफे व्रणे वा दाहशूलघ्नः॥

अउ30.23
स्थिराणां मन्दवेदनानां शोफानां विम्लापनं कार्यम्॥

अउ30.24
अभ्यज्य स्वेदयित्वा च वेणुनाड्या ततः शनैः।
विम्लापनार्थं मृद्गीयात्तलेनाङ्गुष्ठकेन वा॥

अउ30.25
तथास्फोतपत्रमसूरकल्केनालेपः।
सुसिद्धपिष्टैः सघृतैर्मुद्गयवगोधूमैर्वा॥

अउ30.26
विलीयते स चेन्नैवं ततस्तमुपनाहयेत्।
आवदग्धस्तथा शान्तिं विदग्धः पाकमश्नुते॥

अउ30.27
शिग्रुशणफलचित्रककिण्वनिष्पावसर्षपतिलातसीसक्तुकोलगृहधूमैरम्लपिष्टैः सुखोष्णैः स्निग्धैः सलवणैरुत्कारिकां कृत्वा तथा प्रलिप्यैरण्डपत्रेणावच्छाद्यबध्नीयात्॥

अउ30.28
पाकाभिमुखे च शोफे यथेष्टमातुरं भोजयेत् पाचनार्थं पाकवेदनाशस्त्रकर्मसहनार्थं च॥

अउ30.29
पक्वे तु यथोक्तेन विधिना शस्त्रमवचारयेत्।
सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते।
दारणं दारणाअर्हस्य दोषपाकोद्धते हितम्॥

अस30.30। चित्रकचिरबिल्वदन्तीकरवीरमूलकपोतपङ्कगृध्रपुरीषैर्गुग्गुल्वतसीस्नुहीक्षीरपलाशक्षारसुवर्णक्षीरीदक्षशकृन्मुकूलकैर्वा क्षारौषधैर्वा क्षारेण वा॥

अउ30.31
पूयगर्भानणुद्वारान् सोत्सङ्गान् मर्मगानपि।
निःस्रेहैः पीडनद्रव्यैः समन्तात्प्रतिपीडयेत्॥

अउ30.32
शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति।
न मुखे चैनमालिम्पेत्तथा दोषः प्रसिच्यते॥

अउ30.33
कलाययवगोधूममुद्गमाषहरेणवः।
द्रव्याणां पिच्छिलानां च त्वङ्मूलानि प्रपीडने॥

अउ30.34
विवर्णान् पिच्छिलान् पूतिगन्धीन् क्लेदरुजावतः।
व्रणानशुद्धान् विज्ञाय शोधनैरोभिराचरेत्॥

अउ30.35
शङ्खिन्यङ्कोलसुमनःकरवीरसुवर्चलाः।
त्रिफला खदिरो दार्वी कोलपत्रं पलङ्कषा।
प्रक्षालने कषायाणि वर्गश्चारग्वधादिकः॥

अउ30.36
पटोलीतिलयष्ट्याह्वत्रिवृद्दन्तीनिशाद्वयम्।
निम्बपत्राणि चालेपः सपटुर्व्रणशोधनः॥

अउ30.37
अजगन्धाजशृङ्गी च गवाक्षी लाङ्गली निशा।
पूतीकश्चित्रकः पाठा पटोलीवेल्लरेणुकाः॥

अउ30.38
कटुत्रयं यवक्षारो लवणानि सुराष्ट्रजा।
निकुम्भकुम्भकासीसहरितालमनश्शिलाः।
कल्काज्यतैलरसजाचूर्णवर्तिषु भेषजम्॥

अउ30.39
तत्र गम्भीरेषु पित्तात्मकेषु दाहपाकवत्सु व्रणेष्वतीक्ष्णोष्णैरेभिः कार्पासीफलमिश्रं कल्कं घृतं च साधयित्वा योजयेत्॥

अउ30.40
उत्सन्नमांसेष्वल्पस्रावेषु रूक्षेषु तिलापामार्गबृहतीद्वययुक्तैः पूर्वोक्तैः पूतीकादिभिः सर्षपं तैलं च॥

अउ30.41
प्रचलप्रदेशजेषु क्लेदबहुलेषूत्सन्नस्थिरमांसेषु तैलेन चासिध्यत्सु रसक्रियां कुर्यात्।
यथोक्तानां संशोधनौषधानां कषाये पुनः परिस्राव्याधिशृते मनश्शिलातुवरीकासीसचूर्णप्रतीवापसिद्धां च मातुलुङ्गरसोपेतां सक्षौद्रां युञ्जीत॥

अउ30.42
मेदोयुक्तेषु गम्भीरेषु क्लेदिषु कल्कैश्चासिध्यस्सु॥

अउ30.43
वचायां सैन्धवे किण्वे कासीसे रजनीद्वये।
शोधनाग्र्येषु चान्येषु चूर्णं कुर्वीत शोधनम्॥

अउ30.44
अन्तःशल्यानणुद्वारान् गम्भीरान् मांससंश्रितान्।
सन्धिमर्मनिविष्टांश्च शोधयेद्वर्तिभिर्व्रणान्॥

अउ30.45
वाताभिभूतान् सास्रावान् धूपयेदुग्रवेदनान्।
श्रीवेष्टकसर्जरससालदेववारुशिंशपाखदिरासनकैडर्यसारयवमधूच्छिष्टभूर्जपत्रपक्षौमसर्पिर्भिः॥

अउ30.46
निर्वापयेत् भृशं शीतैः पित्तरक्तविषोल्बणान्॥

अउ30.47
शुष्काल्पमांसे गम्भीरे व्रण उत्सादनं हितम्॥

अउ30.48
अश्वगन्धापामार्गतालपत्रीसुवर्चलाबलातिबलानन्ताधातकीकुसुमसमङ्गाभिः पद्मकादिवर्गेण न्यग्रोधादिना च कल्कस्तथा सर्पींष्यभ्यञ्जनार्थे॥

अउ30.49
अद्यान्मांसादमांसानि विधिनोपहितानि च।
मांसं मांसादमांसेन वर्धते शुद्धचेतसः॥

अउ30.50
उत्सन्नमृदुमांसानां व्रणानामवसादनम्॥

अउ30.51
मन्थदन्तीशिरीषकरञ्जफलभूर्जग्रन्थिकुक्कुटाण्ड्Aत्वक्कपोतकलविङ्कपुरीषनेपालीहरितालचूर्णानि सक्षौद्राणि॥

अउ30.52
सरुजे कठिने स्तब्धे रूक्षे शुष्यति च व्रणे॥

अउ30.53
मार्दवजननार्थं व्रणाविरोधि वातघ्नसिद्धस्य सर्पिषः पानम्।
तद्विधैरेव च सिद्धं तैलमभ्यङ्गः।
पूर्वोक्ताश्च स्वेदाः।
तथा सर्पिर्मज्जवसाभिर्धूपाः सुस्निग्धसक्तुसैन्धवकिण्वतिलपिष्टकृसरपायसानूपवेशवाराःकिञ्चिदुष्णा बहुशः प्रलेपाः॥

अउ30.54
पित्तविद्रधिवीसर्पशोफकुष्ठघृतानि च।
सर्वव्रणेषु योज्यानि पानसेकप्रलेपने॥

अउ30.55
अतिमृदुमांसेषु व्रणेषु दारुणीकरणार्थं त्रिफलालोध्राम्रसर्जजम्बूप्रियङ्ग्वशोकवल्कलानि।
सौराष्ट्रीकासीसरोचनावचूर्णनम्।
सारैर्गन्धैश्च धूपः॥

अउ30.56
उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान्।
व्रणान् सुदुःखशोध्यांश्च शोधयेत् क्षारकर्मणा॥

अउ30.57
स्रवन्तोऽश्मरिजा मूत्रं चान्ये रक्तवाहिनः।
छिन्नाश्च सन्धयो येषां यथोक्तैर्ये च साधनैः।
साध्यमाना न सिध्यन्ति शोध्याःस्युस्तेऽग्निकर्मणा॥

अउ30.58
व्रणानामथ शुद्धानां रोपणानि प्रयोजयेत्।
असनादिन्यग्रोधादिवर्गधवसल्लकीकुटजत्वचो मञ्जिष्ठासमङ्गामृताश्वगन्धारग्वधधातकीपुष्पाणि पद्मकादिश्च प्रक्षालनादिषु सप्तसु प्रयोज्या इति।
भवन्ति चात्र॥

अउ30.59
उत्सन्नदुष्टपिशिते सङ्क्लिष्टध्यामशोणिते।
व्रणे प्रच्छर्दनं शस्तं कफदुष्टे विशेषतः॥

अउ30.60
विरेचनं पित्तदुष्टे दीर्घकालानुबन्धिनि।
रूक्षे सवेदने बस्तिरधःकाये विशेषतः॥

अउ30.61
जत्रूर्ध्वजे च श्वयथौ कण्ड्वाढ्ये तीक्ष्णनावनम्।
तज्ज एवानिलाढ्ये तु श्वयथौ स्नेहनावनम्॥

अउ30.62
तथा सशोफरुक्स्रावे धूमो वातकफोल्बणे।
रुजादिमति वक्त्रस्थे यथास्वं कवलो हितः॥

अउ30.63
द्वावाद्यौ पञ्चमूलाख्यौ गणो यश्चानिलापहः।
ते व्रणे वातिके योज्याः कषायादिषु सप्प्तसु॥

अउ30.64
न्यग्रोधपद्मकाद्यौ तु पैत्ते वर्गश्च पित्तजित्।
आरग्वधादिः श्लेष्मघ्रः कफे मिश्रास्तु मिश्रजे॥

अउ30.65
पिष्टोम्लैर्वातिके लेपस्तैलसर्पिर्वसायुतः।
घनः कोष्णश्च पैत्ते तु पयःपिष्टो घृतान्वितः॥

अउ30.66
तनुवस्त्रान्तरः शश्वदुष्णो गोमूत्रपेषितः।
रूक्षस्तैलेन वा स्निग्धो बहलः कफजे हितः॥

अउ30.67
अपेतपूतिमांसानां मांसस्थानामरोहताम्।
कल्कं संरोहणं कुर्यात्तिलानां मधुकान्वितम्।
स्निग्धोष्णतिक्तमधुरकषायत्वैः स सर्वजित्॥

अउ30.68
स क्षौद्रनिम्बपत्राभ्यां युक्तः संशोधनः परम्।
पूर्वाभ्यां सर्पिषा चासौ युक्तः स्यादाशु रोपणः।
तिलवद्यवकल्कं तु केचिदिच्छन्ति तद्विदः॥

अउ30.69
सास्रपित्तविषागन्तुगम्भीरान् सोष्मणो व्रणान्।
क्षीररोपणभैषज्यशृतेनाज्येन रोपयेत्।
रोपणौषधसिद्धेन तैलेन कफवातजान्॥

अउ30.70
अबध्यानां चलस्थानां शुद्धानां वा प्रदुष्यताम्।
यथास्वं रोपणैः कुर्याद्रसजां सनिशाद्वयैः॥

अउ30.71
समानां स्थिरमांसानां त्वक्स्थानां चूर्ण इष्यते।
नीरुजामवगाढानां शुद्धानां वर्तयो हिताः॥

अउ30.72
समङ्गामोचसरलसोमवल्काः सचन्दनाः।
पद्मकादिश्च कल्कोयं परमं रोपणोऽथवा।
पुण्ड्राह्वतिलजीवन्तीगोजिह्वाधातकीबलाः॥

अउ30.73
प्रप्रौण्डरीकमधुककाकोलीद्वयचन्दनःइ।
साधितं तैलमाज्यं वा तद्वत् कम्पिल्लकेन वा।
दूर्वारसेन वा दार्व्यास्त्वचा वा व्रणरोपणम्॥

अउ30.74
पटोलनिम्बपत्राणि लोध्रमुस्ताप्रियङ्गवः। सूक्ष्मैलाधातकीसर्ज्जखदिरागरुचन्दनम्॥

अउ30.75
कम्पिल्लकं विडङ्गानि वत्सकं त्रिफला बला।
कल्कैरेभिर्घृतं सिद्धं तैलं वा रोपणं परम्॥

अउ30.76
पद्मकं पद्मकिञ्जल्कं दार्वी मूर्वा तिलोत्पलम्।
मेदा समङ्गा यष्ट्याह्वं प्रलेपो वर्णसाधनः॥

अउ30.77
ककुभोदुम्बराश्वत्थजम्बूकट्फललोध्रजैः।
त्वचमाशु निगृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः॥

अउ30.78
लाक्षामनोह्वामञ्जिष्ठाहरितालनिशाद्वयैः।
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परम्॥

अउ30.79
ध्यामकाश्वत्थनिचुलमूलं लाक्षालगैरिकम्।
सहेमश्चामृतासङ्गःकासीसं चेति वर्णकृत्॥

अउ30.80
कालेयकलताम्रास्थिहेमकालारसोत्तमैः।
लेपः सगोमयरसः सवर्णकरणः परम्॥

अउ30.81
अयोरजःसकासीसं त्रिफलाकुसुमानि च।
प्रलेपः कुरुते कार्ष्ण्यं सद्य एव नवत्वचि॥

अउ30.82
दग्धयानूपसत्वानां श्लक्ष्णचूर्णितया त्वचा।
भल्लाततैलप्लुतया शुक्लमालेपयेद्व्रणम्॥

अउ30.83
सप्तरात्रिस्थतं क्षीरे छागले रोहिणीफलम्।
तैनेव पिष्ट्वा सुश्लक्ष्णं कृष्णमालेपयेद्व्रणम्॥

अउ30.84
नवं कपालिकामूलं वैदुलं सस्थिराह्वयम्।
कासीसं मधुकं लेपो व्रणे कृष्णे मधुद्रुतः॥

अउ30.85
कपित्थान्मांसमुध्दृत्य मूत्रस्याज्यस्य पूरणम्।
क्षिपेच्चात्र मनोह्वालवंशनिर्लेखरोचनाः॥

अउ30.86
कासीसं प्रपुनाटञ्च मासं न्यस्तं ततो भुवि।
अधोऽर्जुनस्य तच्छुक्लव्रणालेपः सवर्णकृत्॥

अउ30.87
दग्धो वारणदन्तोऽन्तर्धूमं तैलं रसाञ्जनम्।
रोमसञ्जननो लेपस्तद्वत्तैलपरिप्लुता।
चतुष्पान्नखरोमास्थित्वक्शृङ्गखुरजा मषी॥

अउ30.88
जीर्णशाल्योदनं स्निग्धमल्पमुष्णोदकोत्तरम्।
भुञ्जानो जाङ्गलैर्मांसैः शीघ्रं व्रणमपोहति॥

॥इति त्रिंशोऽध्यायः॥