तन्त्रालोकः एकान्नविंशमाह्निकम्
अथ श्रीतन्त्रालोके एकान्नविंशमाह्निकम्
अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते ।
तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत् ।
इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना ॥१॥
देहपाते समीपस्थे शक्तिपातस्फुटत्वतः ।
आसाद्य शांकरीं दीक्षां तस्माद्दीक्षाक्षणात्परम् ॥२॥
शिवं व्रजेदित्यर्थोऽत्र पूर्वापरविवेचनात् ।
व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना ॥३॥
यदा ह्यासन्नमरणे शक्तिपातः प्रजायते ।
तत्र मन्देऽथ गुर्वादिसेवयायुः क्षयं व्रजेत् ॥४॥
अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत् ।
पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् ॥५॥
आप्तदीक्षोऽपि वा प्राणाञ्जिहासुः क्लेशवर्जितम् ।
अन्त्यान्गुरुस्तदा कुर्यात्सद्य+उत्क्रान्तिदीक्षणम् ॥६॥
नत्वपक्वमले नापि शेषकार्मिकविग्रहे ।
कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम् ॥७॥
दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् ।
उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥८॥
विशेषणविशेष्यत्वे कामचारविधानतः ।
पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् ॥९॥
विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः ।
क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् ॥१०॥
कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम् ।
संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु ॥११॥
आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् ।
पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम् ॥१२॥
तमुत्कृष्य ततोऽङ्गुष्ठादूर्ध्वान्तं वक्ष्यमाणया ।
कृन्तेन्मर्माणि रन्ध्रान्तात् कालरात्र्या विसर्जयेत् ॥१३॥
अनेन क्रमयोगेन योजितो हुतिवर्जितः ।
समय्यप्येति तां दीक्षामिति श्रीमालिनीमते ॥१४॥
षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात् ।
क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत् ॥१५॥
प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात् ।
पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् ॥१६॥
ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम् ।
चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् ॥१७॥
दीपनं ताडनं तोदं चलनं च पुनः पुनः ।
कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे ॥१८॥
द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् ।
निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः ॥१९॥
न तस्य कुर्यात्संस्कारं कंचिदित्याह गह्वरे ।
देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः ॥२०॥
श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः ।
हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः ॥२१॥
शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत् ।
उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् ॥२२॥
एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते ।
इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः ॥२३॥
अनभ्यस्तप्राणचारः कथमेनां करिष्यति ।
वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् ॥२४॥
कर्णेऽस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत् ।
स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः ॥२५॥
मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे ।
योगाभ्यासमकृत्वापि सद्य-उत्क्रान्तिदां गुरुः ॥२६॥
ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः ।
अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् ॥२७॥
कालस्योल्लङ्घ्य भोगो हि क्षणिकोऽस्यास्तु किं ततः ।
सद्य उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा ॥२८॥
दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः ।
विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः ॥२९॥
कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः ।
निःसारयन्यथाभीष्टे सकले निष्कले द्वये ॥३०॥
तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् ।
समयी पुत्रको वापि पठेद्विद्यामिमां तथा ॥३१॥
तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते ।
एतौ जपे चाध्ययने यस्मादधिकृतावुभौ ॥३२॥
नाध्यापनोपदेशे वा स एषोऽध्ययनादृते ।
पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः ॥३३॥
यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम् ।
आविष्टेऽपि क्वचिन्नैति लोपं कर्तृत्ववर्जनात् ॥३४॥
यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि ।
न लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः ॥३५॥
तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः ।
तस्मिन्मुक्ते न लुप्येत यतो किंचित्करोऽत्र सः ॥३६॥
ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम् ॥३७॥
हन्त कुड्याग्रतोऽप्यस्य निषेधस्त्वथ कथ्यते ।
पर्युदासेन यः श्रोतुमवधारयितुं क्षमः ॥३८॥
स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः ।
तर्हि पाषाणतुल्योऽसौ विलीनेन्द्रियवृत्तिकः ॥३९॥
तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम् ।
स तु वस्तुस्वभावेन गलिताक्षोऽपि बुध्यते ॥४०॥
अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया ।
प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान् ॥४१॥
मध्ये प्रबोधकबलात् प्रतिबुध्येत् पुद्गलः ।
मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् ॥४२॥
अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः ।
तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् ॥४३॥
स्वचित्समानजातीयमन्त्रामर्शनसंनिधेः ।
यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः ॥४४॥
जवी तथात्मा संसुप्तामर्शोऽप्येवं प्रबुध्यते ।
प्रबुद्धः स च संजातो न चादीक्षित उच्यते ॥४५॥
दीक्षा हि नाम संस्कारो न त्वन्यत्सोऽस्ति चास्य हि ।
अत एव निजं शास्त्रं पठति क्वापि सामये ॥४६॥
तच्छ्रुत्वा कोऽपि धन्यश्चेन्मुच्यते नास्य सा क्षतिः ।
शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम् ॥४७॥
इत्येवंपरमेतन्नादीक्षिताग्रे पठेदिति ।
यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् ॥४८॥
कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि ।
यतोऽस्य प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा ॥४९॥
प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः ।
साधकस्तु सदा साध्ये फले नियतियन्त्रणात् ॥५०॥
मक्षिकाश्रुतमन्त्रोऽपि प्रायश्चित्तौचितीं चरेत् ।
इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः ॥५१॥
समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये ।
स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः ॥५२॥
अकृताधिकृतिर्वापि गुरुः समयशुद्धये ।
अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः ॥५३॥
इतीयं सद्य उत्क्रान्तिः सूचिता मालिनीमते ।
स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना ॥५४॥
सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि ।
तदा तेन क्रमेणाशु योजितः समयी शिवः ॥५५॥
उक्तेयं सद्य-उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः ॥५६॥