सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः १।]
१२१
मदनमझुकालम्बकः ६ ।

यावत्प्राप्ततथाभूततद्रः स मुरारिणा । देवेन वैरिणा संख्ये लूनवाहुवन्नः कृतः ॥ १४३
तस्मात्त्वयापि कर्तव्यो नासंतोषो युधं विना । काङ्कणीयो न चानिष्टो विपक्षेऽपि कदाचन ॥ १४४
शत्रशिक्षा स्ववीर्यं च दर्शनीयं तवेह चेत् । योग्यभूमावटव्यां तन्मृगयायां च दर्शय ॥ १४५
राज्ञां चाखेटकमपि व्यायामादिकृते मतम् । युद्धध्वनि न शस्यन्ते राजानो ह्यकृतश्रमाः ॥ १४६
आरण्याश्च मृगा दुष्टः शून्यामिच्छन्ति मेदिनीम्। तेन ते नृपतेर्वध्या इत्यप्याटमिष्यते ॥ १४७
न चाति ते निषेव्यन्ते तसेवाव्यसनेन हि । गता नृपतयः पूर्वमपि पाण्ड्यादयः क्षयम् ॥ १४८
इत्युक्तोऽमरगुप्तेन मन्त्रिण। स सुमेधसा । राजा विक्रमसिंहोऽत्र तथेति तदमन्यत ॥ १४९
अन्येद्युश्चाश्वपादातसारमेयमयीं भुवम् । विचित्रवागुरोच्छ्यमयीश्च सकला दिशः ॥ १५०
सहर्षमृगयुग्रामनिनादमयमम्बरम् । कुर्वन्स मृगयाहेतोर्नेगर्या निर्ययौ नृपः ॥ १५१
च्छन्गजपृष्ठस्थो बाढ शुन्ये सुरालये । पुरुषौ द्वावपश्यच्च विजने सहितस्थितौ ॥ १५२
स्वैरं मत्रयमाणौ च मिथः किमपि तावुभौ । दूरात्स तर्कयन्राजा जगाम मृगयावनम् ॥ १५३
तत्र प्रोत्खातखनेषु वृद्धव्यास्त्रेषु च व्यधात् । तोषं स सिंहनादेषु भूभागेषु नगेषु च ॥ १५४
तां स विक्रमबीजालैर्महीं तस्तार मौक्तिकैः । सिंहानां इस्तिर्हतृणां निहतानां नखच्युतैः ॥ १५५
तिर्यञ्चस्तिर्यगेवास्य पेतुर्वक्रमुत मृगाः । लघु निर्भिद्य तान्पूर्वं हर्षे प्रापदवक्रगः ॥ १५६
कृताखेटश्च सुचिरं राजासौ श्रान्तसेवकः । आगाच्छिथिलितज्येन चापेनोजयिनीं पुनः ॥ १५७
तस्यां देवकुले तस्मिंस्तावत्कालं तथैव तौ । स्थितौ ददर्श पुरुषौ निर्गच्छन्यौ स दृष्टवान् ॥ १५८
कावेतौ सत्रयेते च किंस्विदेवमियश्चिरम् । नूनं चाराविमौ दीर्घरहस्यालापसेविनौ ॥ १५९
इत्यालोच्य प्रतीहारं विसृज्यानाययत्स तौ । पुरुषौ द्वाववष्टभ्य राजा बद्धौ चकार च ॥ १६०
द्वितीयेऽहनि च स्थानं तावानाय्य स पृष्टवान् । कौ युवां सुचिरं कश्च मन्त्रस्तचन्स वामिति ॥ १६१
ततस्तयोः स्वयं राज्ञा तत्र पर्यनुयुक्तयोः। याचिताभययोरेको युवा वक्तुं प्रचक्रमे ॥ १६२
भूयतां वर्णयम्येतद्यथावदधुना प्रभो । अभूकरभको नाम विनोऽस्यामेव वः पुरि ॥ १६३
तस्य प्रवीरपुत्रेच्छाकृतार्याराधनोद्भवः अहमेष महाराज वेदविद्याविदः सुतः ॥ १६४
तस्मिंश्च भार्यानुगते पितरि स्वर्गते शिशुः । अधीतविद्योऽप्यानाथ्यात्स्वमार्गत्यक्तवानहम् ॥ १६५
प्रवृत्तश्चाभवं तं शस्त्रविद्यश्च सेवितुम् । कस्य नोच्छुट्टी बाल्यं गुरुशासनजितम् ॥ १६६
तेन क्रमेण चोत्तीर्ण शैशवे जातदोर्मदः । अटवीमेक बाणानहं क्षेत्रं गतोऽभवम् ॥ १६७
तावत्तेन पथा चैका नगर्या निर्गता वधूः । आगात्कर्णरथारूढा जन्यैर्बहुभिरन्विता ॥१६८
अकस्माच्च तदैवात्र करी बोटितष्ठद्दलः। कुतोऽयागत्य तामेव वधूमभ्यापतन्मदात् ॥ १६९
तद्भयेन च सर्वेऽपि त्यक्त्वा तामनुयायिनः। तद्भर्वापि सह हीचाः पलाय्येतस्ततो गताः ॥ १७०
तदृष्ट्वा सहसैवाहं ससंभ्रममचिन्तयम् । हा कथं कातरैरेभिस्य नैकेयं तपस्विनी ॥ १७१
तदहं वारणादस्माद्रक्षाम्यशरणामिमम् । आपन्नत्राणविकलैः किं प्राणैः पौरुषेण वां ॥ १७२
इत्यहं मुक्तनादस्तं गजेन्द्रं प्रति धावितः । गजोऽपि तां स्त्रियं हित्वा स मामेवाभ्यदुद्रुवत् ॥ १७३
ततोऽहं भीतया नार्या वीक्ष्यमाणस्तया नदन्। पलायमानश्च गजं तं दूरमपकृष्टवान् ॥ १७४
क्रमात्पत्रघनां भग्नां प्राप्य शाखां महातरोः । अत्मानं च तयाच्छाद्य तरुमध्यमगामहम् ॥ १७५
तत्राग्रे स्थापयित्वा तां शाखां तिर्यक्सुलाघवात् । पलायितोऽहं हस्ती च स तां शाखामचूर्णयत् ॥ १७६
ततोऽहं योषितस्तस्याः समीपमगमं द्रुतम् । शरीरकुशलं चैतामपृच्छमिह भीषिताम् ॥ १७७
सापि मां वीक्ष्य दुःखार्ता सहषी चावदत्तदा । किं मे कुशलमेतस्मै दत्त कापुरुषाय या ॥ १७८
दृशे संकटे यो मां त्यक्त्वा कापि गतः प्रभो । एतत्तु कुशलं यत्त्वमक्षतः पुनरीक्षितः ॥ १७९
तन्मे स कतमो भर्ता त्वमिदानीं पतिर्मम । येनामनिरपेक्षे हृता मृत्युमुखादहम् ॥ १८०
स चैष दृश्यते भृत्यैः सहागच्छन्पतिर्मम । अतः स्वैरं त्वमस्माकं पश्चादागच्छ सांप्रतम् ॥ १८१