सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२४
[ आदितंस्तरङ्गः
कथासरित्सागरंः ।

ददर्शादयनं तं च वत्सराजं समत्रिकम् । देवीभिश्चात्र सहितं यथाईविहिताद्वरम् ॥
उपविश्याथ पुष्ट च कुशठं तं जगाद सः । नृपं विद्याधरपतिर्दष्टः सर्वैः सकौतुकम् ॥
नरवाहनदत्तस्ते सूनुराध्य शंकरम् । साक्षात्कृत्य च तं विद्याः सर्वाः प्राप्यारिदुर्जयाः ॥
इत्वा मानसवेगं च गौरिमुण्डं च दक्षिणे । जित्वा मन्दरदेवं च वेद्यर्धपतिमुत्तरे ॥
आसाद्योभयवेद्यर्धविद्याधरमहीभुजाम् । सर्वेषां शासनभृतां चक्रवर्तिपदं महत् ॥
सहाभिषेकमृषभे संप्राप्तः पर्वतेऽधुना । राजन्मरति सोत्कस्त्वां सदेवीसचिखादिकम् ॥
अहं च तेन प्रहितो द्रुतमागम्यतामितः। पुण्यवन्तो हि संतानं पश्यन्युचैः कृतान्वयम् ॥
इति वायुपथाच्छुत्वा भृशोत्कुण्ठो बभार सः । वत्सराजोऽम्बुदारावहृष्यद्वह्णिविभ्रमम् ॥
प्रतिपद्य च तद्वाक्यं समं तेनैव तत्क्षणम् । आरुह्य शिबिकां व्योम्ना तद्विद्यानां प्रभावतः ॥
कलिङ्गसेनानुगतः स भार्यासचिवान्वितः । गत्वा संप्राप तं दिव्यमृषभाख्यं महगिरिम् ॥
तत्रापर्धयच तं पुत्रं दिव्यसिंहासनस्थितम् । विद्याधरेन्द्रमध्यस्थं बहुभार्यासमन्वितम् ॥
पूर्वोद्रिमस्तकासीनं ग्रहप्तामपरिष्कृतम् । शशाङ्कमनुकुर्वन्तं भूरितारावीवृतम् ॥
तद्दर्शनसुधासारसिक्तः प्रोल्लासिताशयः। कांचिच्चन्द्रोदयाम्भोधिभङ्गीं भेजे स भूपतिः ॥
नरवाहनदत्तोऽपि दृष्ट्वा तं जनकं चिरात् । उत्थाय संभ्रमास्सोकः सोऽभ्यगात्सपरिञ्छः ॥
आलिङ्गितश्च तेनाथ पित्राङ्कमधिरोप्य सः। भूयोऽप्यानन्दबाष्पाम्बुपूरेणेवाभ्यषिच्यत ॥
देवी वासवदत्ता च चिरमाश्लिष्य तं सुतम् । तदालोकस्तुतस्तन्यैरसिचत्स्मृतशैशवम् ॥
पंयावती च यौगन्धरायणाद्याश्च सत्रिणः । पैतृका मातुलश्चैव दृष्ट्वा गोपाळकश्चिरात् ॥
पृथुः संतृष्णुया दृष्ट्या तस्यामृतमयं वपुः। चकोरा इव सम्राजो यथार्हकृतसत्कृतेः ॥
कुंलिङ्गसेना तं दृष्ट्वा जामातरमथात्मजाम् । त्रैलोक्येऽपि न माति स्म खेष्वजेषु तु का कथा ॥
यौगन्धरायणाद्याश्च मरुभूतिमुखान्सुतान् । दृष्ट्वा प्रभुप्रसादाप्तदिव्यत्वानभ्यनन्दिषुः ॥
आमुक्तदिव्याभरणा देवी मदनमञ्चका । रत्नप्रभाष्यलंकारवती ललितलोचना ॥
कपॅरिका 7 शक्तियश भगीरथयशा अपि। तथा रुचिरदेवस्य भगिनी दिव्यरूपधृत् ॥
वेगवत्यजिनावयौ तथा गन्धर्वदत्तया । प्रभावती चात्मनिका वायुवेगयशास्तथा ॥
तत्सख्यः कालिकाद्याश्च चतस्त्रोऽथ सुलोचना । किं च मन्दरदेव्याद्याः पञ्चान्याश्च वराङ्गनाः ॥
नरवाहनदत्तस्य महिष्यश्चक्रवर्तिनः । प्रणेमुः श्वशुरस्यात्र पादौ वत्सेश्वरस्य ताः ॥
तद्वद्वासवदत्तायाः पद्मावत्यास्तथैव च । ते च हर्षाद्यथौचित्यमाशीर्भिस्ता अवर्धयन् ॥
अथोचितासनासीने वसेशेऽन्तःपुरान्विते । नरवाहनदत्तः स्वमारुरोह महसनम् ॥
देवी वासवदत्ता च नास्तास्तास्तदा स्नुषाः । पश्यन्ती मुमुदे तासां पृच्छन्ती कुलनामनी ॥
नरवाहनदत्तस्य तां ते वत्सेश्वरादयः । दिव्यां विभूतिं पश्यन्तः कृतार्थं जन्म मेनिरे ॥
अथ प्रवृत्ते तत्रैव बन्धुसङ्गमहोत्सवे । प्रतीहारोऽब्रवीद्धीरो रुचिदेवः प्रविश्य सः ॥
आपानभूमिः सज्जेयं तत्रागम्यतामिति । तच्छुत्वा ते ययुः सर्वे तामापानभुवं शुभाम् ॥
विचित्ररत्नचषकप्रफुल्लविविधाम्बुजाम् । विकीर्णानेककुसुममुद्याननलिनीमिव ॥
व्याप्तां मत्तासवापूर्णकलशीभिः पुरंध्रिभिः। तन्वतीभिः सुधाहर्तुबाहूरपन्नामृतभ्रमम् ॥ (१)
पपुस्तत्रावरोधस्त्रीलजानिगडभेदि ते । स्मरजीवितसर्वस्वं विळाससचिवं मधु ॥
मुखानि मधुना तेषामुत्फुल्लान्यरुणानि च । बालातपेन सरसां सरोजानीव रेजिरे ॥
देखीवृन्दाधरजितैर्भातैस्तत्संगमादिव । चक्रेऽञ्जरागचषकैः स्वरुचा शीधुनिह्नवः ॥
आसन्नकोपकालेऽपि सभ्रूभङ्गारुणेक्षणाः। नरवाहनदत्तस्य तदा देव्यो मदस्पृशः ॥
ततो भोजनभूमिं ते क्रमेणात्र समासदन् । विद्याविभवसंभूतविविधाहारहारिणीम् ॥



१ आसन्-अकोषकाले’ इति च्छेदः, पुस्तकान्तरे त्वस्माच्छोकादने एकलोकस्य त्रुटिचिहमस्ति.