समराङ्गणसूत्रधार अध्याय ६५
अथ भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः।
भूमिजानां विमानानां ब्रूमो लक्ष्म क्रमागतम्।
चतुरश्रीकृतानां च वृत्तानां वृत पूर्वशः ॥१
केषाञ्चिन्निर्गमस्तत्र जायते भागसंख्यया।
केषाञ्चित्पुनरेष स्याद्वृत्तमध्यमधिष्ठितः ॥२
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते।
चतुर्भूमियुतस्याथ लक्ष्म त्संशस्य कथ्यते ॥३
चत्वारश्चतुरश्राः स्युर्निषधो मलयाचलः।
माल्यवान् नवमाली च निषधस्तेषु कथ्यते ॥४
कोणा शंभोतरो द्व्यंशं भार्दशंभोर्धभागिकः।
विस्तारायामतः प्रोक्तो भद्रं पञ्चांशविस्तृतम् ॥५
कार्या पादोनभागेन भद्र स्यैतस्य निर्गमाः।
कार्या पल्लम्बिका तस्य पादभागेन विस्तृता ॥६
भागेन कर्णिका कार्या विस्तृत्या निर्गमेण च।
प्रतिभद्रं च भागार्धनिर्गतं तत्र कल्पयेत् ॥७
पादोनभागद्वितयं प्रतिभद्र स्य विस्तृतिः।
षड्भिर्भागैर्भवेद्गर्भो भित्तिरस्य द्विभागिका ॥८
तलच्छन्दस्य लक्ष्मोक्तमूर्ध्वमानमथोच्यते।
विस्तृतेर्द्विगुणं तच्च चतुर्भागाधिकं भवेत् ॥९
वेदीबन्धो भवेदस्य सार्धभागद्वयोच्छ्रितः।
तत्तु भागद्वयं सार्धं विभजेदर्धपञ्चमैः ॥१०
भागद्वयेन कुम्भः स्यात्कलशो भागिकः स्मृतः।
भागार्धेनान्तरं पत्रं कपोतली तु भागिकी ॥११
उक्तोऽयं वेदिकाबन्धो भागैरित्यर्धपञ्चमैः।
अर्धपञ्चमभागैः स्याज्जङ्घोच्छालकसंयुता ॥१२
त्रिभि --- भूत्सेधः सवरण्डिकः।
द्वितीयास्य भवेद्भूमिरर्धपञ्चमभागिका ॥१३
कुम्भः सोच्छालका --- यापि तावता।
तृतीया स्याद्भूर्विधेया स्यासादा चतुरङ्गिका ॥१४
चतुर्थी चतुरो भागाच्चः समु---।
कुम्भः सोच्छालकः कूटस्योच्छ्रायोऽपि च पूर्ववत् ॥१५
वेदी स्यात्सांशका सार्धपञ्चांशा स्कन्धविस्तृतिः।
--- खेत्सार्ध चतुर्गुणितविस्तरात् ॥१६
तले या कथिता शाला भागपञ्चकविस्तृता।
स्कन्धस्थानं -- भागद्विस्तयविस्तृता ॥१७
रेखावशेन कर्तव्याः प्रवेशाश्च क्रमाद्भुवाम्।
मूलतः स्कन्धपर्यन्तं घण्टायाः पु--- याः ॥१८
भवेत्प्रासादविस्तारः पञ्चमणैव सुन्दरः।
वेदकोऽर्धेतरं यत्स्याच्छालायास्तत्प्रमाणतः ॥१९
--- ये विस्तरः प्रोक्तस्तं --- षड्भिर्विभाजयेत्।
भागेनैकेन कण्ठस्य प्रवेशः परितो भवेत् ॥२०
कण्ठवृत्तं चतुर्भागविस्तृतं परिकल्पयेत्।
घण्टोत्सेधं त्रिभिर्भागैर्विभजेत् तत्र भागिकात् ॥२१
घण्टोत्सेधादतः कार्यं पद्मशीर्षं विपश्चिता।
उत्सेधात्कलशो द्व्यंशः सार्धभागेन विस्तृतः ॥२२
शिखरात्त्र्यंशहीना स्यात्सर्वत्र द्युताशिका।
इति त्र्यंशश्चतुर्भूमिः प्रासादो निषधो मतः ॥२३
सर्वासामेव कर्तव्यो देवतानां विभूषयेत्।
निषधप्रासादः ।।
मलयाद्रे रिदानीं तु लक्षणं सम्प्रचक्ष्महे ॥२४
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते।
कर्णा द्विभागिकाः कार्याः समं सलिलवर्त्मभिः ॥२५
शाला स्यात्पञ्चभिर्भागैः सार्धांशस्तु प्रतीरथः।
स शालाकर्णयोर्मध्ये कर्तव्यः सोदकान्तरः ॥२६
प्रतीरथस्य --- श्चार्धभागं विनिर्गमः।
भवेत् पथविकान्यः स विभागोऽन्य --- पूर्ववत् ॥२७
ते च द्वादशभागा ये दशभिस्तान् विभाजयेत्।
गर्भभित्तिं तथोत्सेधं जङ्घायाः प्रथमक्षितेः ॥२८
वेदीबन्धस्य चोत्सेधं पूर्वमानेन कारयेत्।
मध्यं पल्लविकान्तं तु शालयोर्दशभिर्भजेत् ॥२९
क्षितेरारभ्य पूर्वस्याः स्कन्धं यावत्समुच्छ्रिता।
कार्या द्वादशभिर्भागैरनन्तरनिरूपितैः ॥३०
सार्धयैकोनविंशत्या भाजयेद्भूय एव ताम्।
द्वितीयभूमिकोत्सेधस्तैर्भवस्यथ भागिका ॥३१
त्रिस्रोऽन्याः पदपादेन हीनाः कार्या यथाक्रमम्।
भागेन वेदिकोत्सेधः शाला कार्या च नागरः ॥३२
ऊर्ध्वमाद्यं क्षितेः कार्या मालायाः शूरसेनकाः।
कोणप्रतिरथा ये तु पञ्चभागसमुच्छ्रिताः ॥३३
स्तम्भोच्छालकमध्येन तेषु कूटोच्छ्रितास्तथा।
अर्धेन प्रविधातव्या भूष्वन्यास्वप्ययं विधिः ॥३४
स्कन्धविस्ताररेखा भूप्रवेशो घण्टया सह।
कलशः शुकनासस्य चोच्छ्रितिः पूर्ववद्भवेत् ॥३५
मलयाद्रि रयं प्रोक्तः प्रासादः शुभलक्षणः।
य एनं कारयेत्तस्य तुष्यन्ति सकलाः सुराः ॥३६
वर्षकोटिसहस्राणि स्वर्गलोके महीयते।
मलयाद्रि प्रासादः ।।
अथ माल्यवतो लक्ष्म यथावदभिधीयते ॥३७
भजेदर्धयुतैः पञ्चदशभिश्चतुर --- ।
कर्णा द्विभागिकाः कार्या शाला पञ्चांशविस्तृता ॥३८
कर्णाभ्यर्णैऽशयुगलं पादोनाः स्युः प्रतीरथाः।
शालायाः पार्श्वयोः कार्यौ पञ्जरौ सार्धभागिकौ ॥३९
पृथक्पञ्जरशालाया --- र्धभागिका।
शालायाः पल्लवी या च निर्गमश्चार्धभागिकः ॥४०
सार्धपञ्चदशोक्ता ये भागास्ता ---।
गर्भोऽथ भित्तिविस्तारस्तथा खुरवरण्डिका ॥४१
जङ्घाधः क्षितिराद्या च रेखोच्छ्रायश्च पूर्ववत्।
--- भाज्यं पादहीनाष्टयुक्तया ॥४२
पञ्चभागसमुत्सेधा द्वितीया भूमिका भवेत्।
पदपादविहीनाःस्युस्तिस्रोऽन्याभूमयः क्रमात् ॥४३
सार्धांशो वेदिकोच्छ्रायः कर्तव्यो वास्तुवेदिभिः।
स्कन्धस्य विस्तृती रेखा घण्टा च कलशस्तथा ॥४४
--- यांस्तरासमाश्च स्तम्भकूटादिकल्पना।
शुकनासोच्छ्रतिश्चेति इति एतानि पूर्ववत् ॥४५
इत्येवं माल्यवान् नाम प्रासादः परिकीर्तितः।
य एनं कारयेत्तस्य जायन्ते सर्वसिद्धयः ॥४६
शिवलोके निवासोऽस्य भवेत्कल्पायुरप्ययम्।
माल्यवान् ।।
नवमालिकसंज्ञस्य लक्षणं कथ्यतेऽधुना ॥४७
चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः।
कर्णा द्विभागिकाः कार्याः समं सलिलवर्त्मभिः ॥४८
शाला स्यात्पञ्चभिर्भागैः पार्श्वयोर्बालपञ्जरौ।
सपादभागिकौ तौ च कार्यौ स सलिलान्तरौ ॥४९
कर्णाभ्यर्णे प्रतिरथौ पादौ नालद्वयोन्मितौ।
तौ सोदकान्तरौ कार्यौ पञ्जरौ सार्धभागिकौ ॥५०
द्वौ बालपञ्जरकस्यैतौ मध्ये प्रतिरथस्य च।
प्रतीरथः पञ्जो वा बालपञ्जरकस्तथा ॥५१
शालापल्लविकां यावदेतानि तु पृथक्पृथक्।
भागार्धनिर्गमानि स्युर्भागा येऽष्टादशोदिताः ॥५२
विभाजयेत्तान् दशभिर्विभागैर्वास्तुतत्त्ववित्।
गर्भो भित्तिः समुच्छ्रायो वेदिकाजङ्घयोरपि ॥५३
आद्यभूम्युच्छ्रितिस्तद्वदुच्छ्रायः शिखरस्य च।
प्रासादेऽस्मिन्निदं सर्वं पूर्ववत् कथितं बुधैः ॥५४
तत्पञ्चत्रिंशता भागैः पादोनैः शिखरं भवेत्।
द्वितीया भूमिका कार्या ततः पञ्चपदोच्छ्रिता ॥५५
पदपादविहीनास्तु शेषाः स्युः सप्त भूमयः।
पादोनभागद्वितयं वेदिकायाः समुच्छ्रितिः ॥५६
स्कन्धस्य विस्तृती रेखा घण्टाथ कलशस्तथा।
शालायां शूरसेनाश्च स्तम्भकूटादिकल्पना ॥५७
शुकनासोच्छ्रितिर्भूमिप्रवेशश्चेह पूर्ववत्।
य इमं कारयेद्भक्त्या प्रासादं नवमालिकम् ॥५८
तुष्यन्ति देवतास्तस्य भवन्ति च समृद्धयः।
नवमालिकः ।।
इदानीमभिधीयन्ते प्रासादा वृक्षजातयः ॥५९
वल्लभाः सर्वदेवानां भूमिजाः पुरभूषणम्।
आश्रयः श्रेयसामेको यशसामपि राशयः ॥६०
भुक्तिमुक्तिप्रदातारः समागते कृता नृणाम्।
तत्राद्यः कुमुदो नाम कमलः कमलोद्भवः ॥६१
किरणः शतशृङ्गश्च निरवद्यस्तथापरः।
सर्वाङ्गसुन्दरश्चेति प्रासादा वृक्षजातयः ॥६२
न विस्तरान्न संक्षेपाल्लक्ष्मैषामथ कीर्त्यते।
तत्राद्यः कुमुदो नाम सर्वानन्दकृदुच्यते ॥६३
चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे।
विभक्ते दशभिर्भागैर्भवेद्गर्भस्त्रिषट्पदः ॥६४
तत्र शेषेण कुर्वीत --- चतुष्टयम्।
--- ततः कर्णसूत्रेण तत्र वृत्तं समालिखेत् ॥६५
दिग्विदिक्ष्वष्ट कर्णाः स्युः सलिलान्तरभूषिताः।
समन्त भूमिपर्यन्तं दशभिः स्यादयं पदैः ॥६६
वेदीबन्धो विधातव्यः सार्धांशस्य पदद्वयम्।
--- सार्धचतुर्भिर्विभजेत्पदैः ॥६७
कुम्भकं द्वि ---।
भागार्धेनान्तरं पत्रं कपोताली च भागिका ॥६८
वेदीबन्धोऽयमित्युक्तो जङ्घोत्सेध ---।
स्यादर्धपञ्चमैर्भागैः सोच्छालस्तलकुम्भकः ॥६९
आद्यभूमौ भवेत्कूटं भागत्रितयलक्षितम्।
प्रासादे पञ्चदशभिर्विभजेत समुच्छ्रयम् ॥७०
द्वितीया भूमिका तत्र कार्या पञ्चांशकोच्छ्रिताः।
अर्धेनोच्छालकस्तम्भैः कूटोच्छ्रायस्तथोर्ध्वतः ॥७१
पादोनैः पञ्चभिर्भूमिं तृतीयां परिकल्पयेत्।
चतुर्थीं रचयेद्भागैर्भूमिकामर्धपञ्चमैः ॥७२
द्वितीयभूमिकावत्स्यात्कूटस्तम्भादिकल्पना।
वेदिकाभागोच्छ्रिता कार्या षट्पदा स्कन्धविस्तृतिः ॥७३
षड्गुणेन च सूत्रेण वेणुकोशं समालिखेत्।
प्रासादपञ्चमांशेन कार्या घण्टासमुच्छ्रितिः ॥७४
घण्टोत्सेधं ततस्तस्य त्रिभिर्भागैर्विभाजयेत्।
कण्ठग्रीवाण्डकान्यस्य भागेन नैकेन कारयेत् ॥७५
षड्भागभक्तघण्टायाः समन्ताद्भागविच्युतेः।
भागैश्चतुर्भिः कर्तव्ये घण्टे कण्ठस्य विस्तरम् ॥७६
घण्टोत्सेधार्धतः कुर्याद्घण्टार्धे पद्मशीर्षकम्।
घण्टोत्सेधसमा कुम्भे बीजपूरवितो समुच्छ्रितिः ॥७७
चतुरश्रांजितोच्छ्रायो विस्तारः कलशः स्मृताः।
य इमं कारयेत्प्रीत्या प्रासादं कुमुदाभिधम् ॥७८
स मोदते जगद्भर्तुः शिवस्य भवने शुभे।
कुमुदप्रासादः ।।
अथातः सम्प्रवक्ष्यामः प्रासादं कमलाभिधम् ॥७९
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते।
ततः कर्णार्धसूत्रेण वृत्तं तत्र समालिखेत् ॥८०
विस्तीर्णं पञ्चभिर्भागैः कुर्याद्भद्र चतुष्टयम्।
सुरेन्द्र समतायसकुबेराशास्वनुक्रमात् ॥८१
भवेत्पल्लविकायास्तु विस्तारो भागपादिकः।
भागेन कार्या भद्रा णां निर्गमा वृत्तबाह्यतः ॥८२
शालायाः प्रतिभद्रं स्यात्कर्णिकाधेन निर्गता।
पादोनभागत्रितयात्कार्या वृत्तस्य विस्तृतिः ॥८३
द्विभागविस्तरायामौ रशुकं द्वयमतोध्यगौ।
परिवर्तनया कार्यौ द्वौ कोणौ सोदकान्तरौ ॥८४
पूर्वप्रासादवद्गर्भो विधेयो भित्तयोऽपि च।
वेदीबन्धादिकुम्भान्तं सर्वमेतस्य पूर्ववत् ॥८५
द्वितीयभूमिपर्यन्तमूर्ध्वं प्रथमभूमितः।
शूरसेनं विधातव्यं शालासु श्लिष्टमुत्तमम् ॥८६
कूटस्तम्भादिकन्यासाः कोणप्रतिरथादिषु।
शाला स्याम्रागरास्तले पञ्चांशा द्व्यंशकोपरि ॥८७
शिखरस्य त्रिभागोना शुकाघ्रायाः समुच्छ्रितिः।
य एनं कमलं नाम प्रासादं कारयेन्नृपः ॥८८
त्रैलोक्ये कमलाधीशविजये स भवेन्नृपः।
कमलप्रासादः ।।
अथातः कथ्यते सम्यक्प्रासादः कमलोद्भवः ॥८९
सदा लक्ष्मीपतिर्यत्र देवो विश्राम्यति स्वयम्।
चतुरश्रीकृते क्षेत्रे चतुर्दशभिरंशिते ॥९०
---स्तारो भद्रं पञ्चपदं भवेत्।
द्विभागायामविस्तारौ कार्याः प्रतिरथास्तथा ॥९१
कोण ---।
कार्या पल्लविकायाश्च निर्गमो वृत्तमध्यतः ॥९२
शालाविभक्तिश्चैतस्य कर्त ---।
--- न्तरेषु स्याज्जलान्तरम् ॥९३
द्व्यङ्गुलं त्र्यङ्गुलं वापि तद्विधेयं विपश्चिता।
भागा --- ल्पयेत् ॥९४
प्रासादस्यास्य --- भाजयेद्दशभिः पदैः।
गर्भश्च पूर्ववत्कार्यः पूर्ववद्भित्तयोऽपि च ॥९५
प्राग्वत्खुरवरण्डी स्याज्जङ्घाकूटाद्यभूमिका।
शिखरस्योच्छ्रितिः प्राग्वत्तां सार्धैकानुविंशतिम् ॥९६
भागान्कुर्यात्ततः कार्या भूर्द्वितीयांशपञ्चकम्।
कार्यास्तिस्रो भुवः शेषाः पादपादपरिच्युताः ॥९७
भागं वेदी भूप्रवेशः कार्यो रेखावशादितः।
पूर्ववच्चार्थ विस्तारः स्याद्घण्टाकलशादि वा ॥९८
कूटस्तम्भादिकं प्राग्वच्छुकनासोच्छ्रयोऽपि च।
य इमं कारयेत्कान्तं प्रासादं कमलोद्भवम् ॥९९
स समस्तजगन्नाथः प्रतिजन्म प्रजायते।
कमलोद्भवप्रासादः ।।
लक्षणं किरणस्याथ ब्रूमः सम्यक्क्रमागतम् ॥१००
चतुरश्रीकृते क्षेत्रे भक्ते ---।
--- पञ्चदशांशा ये तान् भजेद्दशभिः पुनः ॥१०१
गर्भोऽत्र पूर्ववत्कार्यः पूर्ववद्भित्तयोऽपि च।
प्राग्वत्खुरवरण्डी स्याज्जङ्घाकूटोच्छ्रितिस्तथा ॥१०२
पूर्ववच्छिखरोत्सेधस्तं भजेत्पादहीनया।
चतुरुत्तरविंशत्या भागानां तत्र भूमिका ॥१०३
द्वितीया पञ्चभिर्भागैश्चतस्रस्त्वपराः पुनः।
पादोनपदहीनाः स्युः क्रमशश्चास्य भूमिकाः ॥१०४
वेदिका चास्य कर्तव्या सपादांशसमुच्छ्रिता।
शुकनासोच्छ्रितिः शालास्तम्भकूटविभक्तयः ॥१०५
रेखा स्तम्भस्य विस्तारो घण्टाकुम्भादि पूर्ववत्।
कूटा द्रा विडकाः कार्याः प्रतिभूम्यथ भौमज ॥१०६
हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा।
एषामेव विधेयोऽसौ नान्येषां तु कदाचन ॥१०७
अमुं यः कारयेद्रा जा प्रासादं किरणाभिधम्।
स दुःसहप्रतापः स्यात्सहस्रकरवद्भुवि ॥१०८
किरणप्रासादः ।।
कथ्यते शशशृङ्गोऽथ प्रासादः शुभलक्षणः।
वल्लभः सर्वदेवानां शिवस्य तु विशेषतः ॥१०९
चतुरश्रीकृते क्षेत्रे विंशत्यैकोन यान्तिभे।
कर्णार्धसूत्रेण ततो वृत्तमत्र प्रकल्पयेत् ॥११०
कर्णा द्विभागिकाः कार्याः शाला स्यात्पञ्चभागिका।
शालापल्लविका चास्य निर्गता वृत्तमध्यतः ॥१११
द्वौ द्वौ प्रतिरथौ कार्यौ द्विभागायामविस्तृतौ।
परं वर्तनतो वृत्तमध्यता कोणशालयोः ॥११२
शालाकोणप्रतिरथान्तरेषु स्याज्जलान्तरम्।
एकोनविंशतिं भागांस्तान् भजेद्दशभिः पुनः ॥११३
गर्भः प्राग्वत्तथा भित्तिः प्राग्वत्खुरवरण्डिका।
जङ्घोत्सेधो भूत्सेधः पूर्ववच्छिखरोच्छ्रितिः ॥११४
अथाभिस्ते मेरारभ्य पट्ट्यन्तं शिखरोच्छ्रितिः।
भागानामष्टविंशत्या विभजेत्पादहीनया ॥११५
द्वितीयभूमिका तस्य कार्या पञ्चपदोच्छ्रिता।
रेखास्तु पञ्च कर्तव्याः पदपादोच्छ्रिता भुवः ॥११६
सार्धभागोच्छ्रिता वेदी प्रविधेयास्य तद्विदा।
शालास्यस्तम्भक्तयदिविभक्तयदिविभक्तिः शुकनासिका ॥११७
रेखाद्यं चकंभस्य प्राग्वत्स्यात्सर्वमप्यदः।
शतशृङ्गमिमं कुर्याद्यः प्रासादं मनोरमम् ॥११८
तस्यैकविंशतिकुला ---।
कर्ता कारयिता चेति द्वावेतौ जगतां प्रभोः ॥११९
त्रिपुरद्वेषिणः स्यातां नियतं गणनायकौ।
शतशृङ्गप्रासादः ।।
--- यामो निरवद्यस्य लक्षणम् ॥१२०
स स्याज्ज्येष्ठोऽथ मध्यश्च कनीयानिति च त्रिधा।
चत्वारिंशत्करो ज्येष्ठोऽपि मध्यः त्रिंशत्करो भवेत् ॥१२१
विंशत्या च करैरेष कनीयान् समुदाहृतः।
चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥१२२
ततः कर्णद्विसूत्रेण वृत्तमत्र प्रकल्पयेत्।
कार्या तैः पञ्चभिः शालापल्लवी वृत्तध्यतः ॥१२३
शालाविभक्तिः प्राग्वत्स्याच्छालयोरेतयोः पुनः।
कोणे कोणे च षट्कर्णा --- भागायामविस्तृताः ॥१२४
परिवर्तनया कार्या वृत्तान्तः सोदकान्तराः।
ता तागा त्रिभागैर्विभजेद्दशभिस्ततः ॥१२५
विमुच्य भूमिकाभागाञ्छेषं गर्भगृहादि यत्।
तत्पूर्ववद्विधातव्यं तद्वच्च शिखरोच्छ्रितिः ॥१२६
तामेकत्रिंशता भागैः सार्धैश्च विभजेत्पुनः।
द्वितीयभूमिका कार्या पदैः पञ्चभिरुच्छ्रिता ॥१२७
पदपादेन हीनाः स्युः शेषा षड्भासभूमिकाः।
वेदी पश्चयं कार्या पादोनमिह शिल्पिना ॥१२८
स्तम्भकूटादि शालानां विन्यासः शूरसेनकाः।
शुकनासोच्छ्रितिर्घण्टा कलशादि च पूर्ववत् ॥१२९
य इमं निरवद्याख्यं प्रासादं कारयेत्सुधीः।
स प्राप्नोति परं स्थानं ब्रह्मादीनां सुदुर्लभम् ॥१३०
निरवद्यप्रासादः ।।
सर्वाङ्गसुन्दरं ब्रूमः प्रासादमथ सुन्दरम्।
भुक्तिमुक्तिप्रदातारं वरवालय मण्डनम् ॥१३१
चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते।
कर्णा द्विभागविस्ताराः शाला स्यात्पञ्चभागिका ॥१३२
वृत्तान्तः पल्लवी कार्या शेषाः शालासु पूर्ववत्।
त्रयस्त्रयः प्रतिरथा मध्ये स्युः कर्णशालयोः ॥१३३
परिवृत्यं वृत्तमध्ये द्विभागायामविस्तृताः।
शालाकर्णप्रतिरथप्रान्तेषु स्याज्जलान्तरे ॥१३४
त्रिचतुर्विंशतिर्भागा व् इभाज्याः शिल्पिभिः पुनः।
विधेयं गर्भभित्त्यादि प्राग्वत्स्याच्च वरण्डिका ॥१३५
जङ्घादिभूमिकोच्छ्रायः प्राग्वद्वा शिखरोच्छ्रितिः।
तं पञ्चत्रिंशता भागैर्विभजेच्छ्रिखरोच्छ्रयम् ॥१३६
द्वितीया भूमिका चास्य कार्या पञ्चपदोच्छ्रिता।
पदपादविहीनाः स्युः शेषाः सप्तास्य भूमिकाः ॥१३७
द्विभागो वेदिकोच्छ्रायो भूमिकानां प्रवेशनम्।
रेखावशेन कर्तव्यं शेषमेतस्य यत्पुनः ॥१३८
तत्पूर्ववद्विधाटव्यं स्तम्भकूटादि तद्विदा।
सर्वाङ्गसुन्दरं योऽत्र प्रासादं कारयेदमुम् ॥१३९
स स्वर्गसुन्दरीभोगानाप्नोति विपुलान् दिवि।
सर्वाङ्गसुन्दरः प्रासादः ।।
अथाष्टशालान्वक्ष्यामो --- भूमिजातिषु ॥१४०
तेष्वाद्यः स्वस्तिकोऽन्यश्च वज्रस्वरितकसंज्ञितः।
तृतीयो हर्म्यतलकश्चतुर्थ उदयाचलः ॥१४१
गन्धमादनसंज्ञश्च पञ्चमः परिकीर्तितः।
अथाभिधीयते तेषु --- स्वलक्षणः ॥१४२
चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे।
कर्णार्धसूत्रपातेन वृत्तमस्य समं लिखेत् ॥१४३
वर्तुलं भाजयेत्क्षेत्रं षड्गुणैरष्टभिः पदैः।
अष्टौ शाला विधातव्या विस्तारेण चतुष्पदाः ॥१४४
पल्लवी वृत्तसूत्रेण ---।
--- कर्णिका ज्ञेया मानमूर्ध्वमथोच्यते ॥१४५
वेदिबन्धो विधातव्यो भागद्वितयमुच्छ्रितः।
तं भजेत्पञ्चभिर्भागैः --- तत्र कुम्भकः ॥१४६
पादयुक्तेन भागेन कर्तव्यस्तु मसूरकः।
अर्धांशेनोत्तरं पत्रं कपोताली ततो भवेत् ॥१४७
सपादेनास्य भागेन जङ्घां भागचतुष्टयात्।
तलकुम्भोच्छालकाभ्यां संयुक्ता शुभलक्षणा ॥१४८
भागद्वितयमाद्य भूः कर्तव्या सवरण्डिक।
व्यासं दशपदं कृत्वा तैर्द्वादशभिरुच्छ्रितिः ॥१४९
स्कन्धश्च षट्पदस्तत्र विधातव्यो विजानता।
षड्गुणेनैव सूत्रेण वेणुकोशं समालिखेत् ॥१५०
द्वादशांशो य उत्सेधो भागानां सम ---।
तं कृत्वा पञ्चभिर्भागैस्ते द्विस्तैर्द्वितीया भवेन्मही ॥१५१
पदपादोच्छ्रिताः कार्यास्ततस्तिस्रोऽपरा भुवः।
गर्भा गर्भं विधातव्यं भूमिकानां प्रवेशनम् ॥१५२
वेदिका च ततः कार्या सार्धभागसमुच्छिता।
पादोनद्विपदा घण्टा विभजेत्तां त्रिभिः पदैः ॥१५३
पदं स्यात्कण्ठकोत्सेधो ग्रीवा भागसमुच्छ्रिता।
अण्डकं भागिकं तस्यां कर्तव्यं सुमनोरमम् ॥१५४
कर्परं सार्धभागेन कुर्यात्सामलसारकम्।
सीस्तन चाभागायाः सार्धभागचतुष्टयात् ॥१५५
घण्टाया विस्तरः कार्यस्तं भजेत्षड्भिरंशकैः।
चतुर्भिः कन्दविस्तारात् --- ॥१५६
सार्धभागः समुत्सेधः कलशस्य तदर्धतः।
शिखरस्य त्रिभागेन शुकनासा विधीयते ॥१५७
विस्ताराद् गर्भमानेन हीना वाष्टांशतो भवेत्।
विस्ताराथ सपादेन शूरसेनस्तदूर्ध्वतः ॥१५८
द्वितीयभूमिकातुल्य आद्यभूमेः स ऊर्ध्वतः।
शालाविस्तारतुल्यास्तु शूरसेनास्त्रयो मताः ॥१५९
शाला नागरिकाश्चाष्टौ ग्राहग्रासविराजिताः।
य इमं कारयेद्धन्यः प्रासादं स्वस्तिकं शुभम् ॥१६०
तस्यानुजन्म शातानां स्वस्तिश्रीभाजनं भवेत्।
स्वस्तिकप्रासादः ।।
अतः परं प्रवक्ष्यामो वज्रस्वस्तिकसंज्ञितम् ॥१६१
प्रासादं लक्षणोपेतं शक्रादिसुरवल्लभम्।
पूर्वोक्तलक्षणोपेते स्वस्तिके दवमध्यदे ॥१६२
भद्रे शृङ्गं प्रदातव्यं तीक्ष्णाग्रं सुमनोरमम्।
पुरस्तान्मण्डपं कुर्यात्सर्वलक्षणसंयुतम् ॥१६३
इत्येष कथितः सम्यग्वज्रस्वस्तिकसंज्ञितः।
य इमं कारयेद्धन्यः प्रासादं सर्वकामदम् ॥१६४
स स्याद्भोग्यः सुरस्त्रीणामैन्द्रं च पदमश्नुते।
वज्रस्वस्तिकप्रासादः ।।
अथ हर्म्यतलं ब्रूमः प्रासादं मण्डनं भुवः ॥१६५
चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे।
कर्णार्धसूत्रपातेन तस्मिन् वृत्तं समालिखेत् ॥१६६
तद्वृत्तं विभजेत्क्षेत्रं चतुःषष्ट्या पदैस्ततः।
कर्तव्या विस्तरेणास्मिन्नष्टौ शालाश्चतुष्पदाः ॥१६७
पल्लवी वृत्तसूत्रेण बाह्यतो भद्र कर्णिके।
कर्णौ द्वौ द्वौ विधातव्यौ शालाद्वितयमध्यतः ॥१६८
विभागायामविस्तारौ सलिलान्तरभूषितौ।
परिवर्तनतोऽन्योन्यं कोणान् कुर्वीत षोडश ॥१६९
अष्टास्वपि च दिक्ष्वेवं माना कर्मभिरन्विता।
गर्भो भित्तिश्च वेदी च जङ्घाप्रथमभूमिकाः ॥१७०
कर्तव्याः पूर्वमानेन स्वस्तिकोक्तेन तद्विदा।
द्वादशांशो य उत्सेधो विंशत्या तत्र भाजितः ॥१७१
सोऽत्राष्टाविंशतिविधः कर्तव्य सूत्र भूमिका।
द्वितीया पञ्चभिर्भागैः पदपादोज्झिताः पृथक् ॥१७२
अन्याः स्युर्भूमयः पञ्च वेदी व्यंद्भिः द्विभागिकाः।
चतस्रो मञ्जरीः कुर्यान्नागरैः कर्मर्यिउ!ताः ॥१७३
चतस्रः पुनरन्याश्च युक्ता द्र विडकर्मभिः।
घण्टा स्कन्धस्य विस्तारो वेदिकाकलशोच्छ्रयौ ॥१७४
शूरसेनः शुकाघ्रा च स्तम्भिकाकूटभक्तयः।
रेखाश्च पूर्ववत्कार्याः प्रासादस्यास्य जानता ॥१७५
प्रासादस्यास्य कर्ता यस्तथा कारयिता च यः।
प्राप्नुतामिव लोकं तौ नित्यानन्दसुखोदयम् ॥१७६
हर्म्यतलकप्रासादः ।।
अथातः सम्प्रवक्ष्यामि प्रासादमुदयाचलम्।
चतुरश्रीकृते क्षेत्रे भुजाकर्णसमे शुभे ॥१७७
ततः कर्णार्धसूत्रेण तस्मिन् वृत्तं समालिखेत्।
वर्तुलं कारयेत्क्षेत्रमशीतिपदभाजितम् ॥१७८
शालाश्चाष्टौ विधातव्याः पूर्वदिक्षु चतुष्पदाः।
पल्लवी वृत्तसूत्रेण बाह्यतो भद्र कर्णिके ॥१७९
कुर्याच्छालाद्वयस्यान्तः कोणानां च त्रयं त्रयम्।
द्विभागायामविस्तारसलिलान्तरभूषिताः ॥१८०
एवं कोणा विधातव्या विंशतिश्चतुरुत्तरा।
परिवर्तनमन्योन्यमेषां कुर्याद्यथाक्रमम् ॥१८१
एतत्सामप्रमाणेन गर्भं भित्तिं च वेदिकाम्।
जङ्घां च भूमिशिखरं पूर्ववत्परिकल्पयेत् ॥१८२
अष्टौ च मञ्जरीः कुर्याद्युक्ता नागरकर्मणा।
रुद्रे श्वरसमायुक्ता नीरधारोपशोभिताः ॥१८३
घण्टाकूटाश्च रेखा च स्तम्भिकाः शूरसेनकः।
शुकाघ्रास्कन्धविस्तारकलशेन समन्वित ॥१८४
स्वस्तिकोक्तविधानेन विदध्यादुदयाचलम्।
द्वादशांशो य उत्सेधो विंशत्या तत्र भाजितः ॥१८५
स्यात्पञ्चत्रिंशता भाज्यो --- तत्र भूमिका।
पञ्चभागोच्छ्रिता कार्या ततोऽन्याः सप्त भूमयः ॥१८६
पदपादोच्छ्रिता भागद्वयो यो तु वेदिका।
--- सर्वलक्षणसंयुता ॥१८७
प्रासादं यस्त्विमं सम्यग्भक्तिमान् कारयेन्नरः।
शाश्वतं पदमाप्नोति स दुष्प्रापं सुरैरपि ॥१८८
उदयाचलप्रासादः ।।
इदानीं प्रक्रमायातः कथ्यते गन्धमादनः।
स्वलक्षणप्रमाणाढ्यक्षितिस्मिन्नुदयाचले ॥१८९
कुर्वीत मञ्जरीरष्टौ युक्ता द्रा विडकर्मभिः।
कूटाश्च मणिकाः कार्या नानाकर्मभिरन्विताः ॥१९०
स्थानेषु शूरशेना --- पुरोरेखात्रयं भवेत्।
शुकनासां च घण्टां च स्कन्धं शिखरमेव च ॥१९१
कूटा --- स्तम्भिका कुम्भं पूर्ववत् परिकल्पयेत्।
य इमं कारयेद्धन्यः प्रासादं मण्डनं भुवः ॥१९२
विद्याधराधिपः श्रीमान्स भवेन्नात्र संशयः।
भुङ्क्ते च विविधान् भोगान् सुरस्त्रीभिश्च सेव्यते ॥१९३
गन्धमादनप्रासादः ।।
उदयस्य विभेदेन रेखा याः पञ्चविंशतिः।
लतिनागरभौमानां ताः कथ्यन्ते यथागमम् ॥१९४
लतिनां स्याद्वारंगतो नागराणां तु कूटकः।
भूमिजानां विधातव्या माथायाः पुरतो भुवः ॥१९५
शिखरं व्यासकर्णाभ्यां तुल्यं स्यादधमोत्तमम्।
भाजनीयचतुर्युक्तविंशस्यादनन्तरम् ॥१९६
--- भागरेखास्तावत्य ईरिताः।
संख्या सा शोभना भद्रा सुरूपा सुमनोरमा ॥१९७
शुभा चैव तथा शान्ता कावेरी च सरस्वती।
लोका च करवीरा च कुमुदा पद्मिनी तथा ॥१९८
कनका विकटा देवरम्या च रमणी तथा।
वसुन्धरा तथा हंसी विशाखा नन्दिनीति च ॥१९९
जया च विजया चैव सुमुखा च प्रियानता।
इत्येताः कीर्तिता रेखाः --- या पञ्चविंशतिः ॥२००
रेखा एताः ।।
एताः शुभफलाः सर्वाः कर्तुः कारयितुस्तथा।
चतुरश्रचतुष्कमेवमुक्तं वृत्ताः सप्त च भूमिजा इमे ॥२०१
इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे भूमिजप्रासादाध्यायो नाम पञ्चषष्टितमोऽध्यायः।